ऋग्वेदः सूक्तं ४.४३
← सूक्तं ४.४२ | ऋग्वेदः - मण्डल ४ सूक्तं ४.४३ पुरुमीळहाजमीळ्हौ सौहोत्रौ |
सूक्तं ४.४४ → |
दे. अश्विनौ। त्रिष्टुप् |
क उ श्रवत्कतमो यज्ञियानां वन्दारु देवः कतमो जुषाते ।
कस्येमां देवीममृतेषु प्रेष्ठां हृदि श्रेषाम सुष्टुतिं सुहव्याम् ॥१॥
को मृळाति कतम आगमिष्ठो देवानामु कतमः शम्भविष्ठः ।
रथं कमाहुर्द्रवदश्वमाशुं यं सूर्यस्य दुहितावृणीत ॥२॥
मक्षू हि ष्मा गच्छथ ईवतो द्यूनिन्द्रो न शक्तिं परितक्म्यायाम् ।
दिव आजाता दिव्या सुपर्णा कया शचीनां भवथः शचिष्ठा ॥३॥
का वां भूदुपमातिः कया न आश्विना गमथो हूयमाना ।
को वां महश्चित्त्यजसो अभीक उरुष्यतं माध्वी दस्रा न ऊती ॥४॥
उरु वां रथः परि नक्षति द्यामा यत्समुद्रादभि वर्तते वाम् ।
मध्वा माध्वी मधु वां प्रुषायन्यत्सीं वां पृक्षो भुरजन्त पक्वाः ॥५॥
सिन्धुर्ह वां रसया सिञ्चदश्वान्घृणा वयोऽरुषासः परि ग्मन् ।
तदू षु वामजिरं चेति यानं येन पती भवथः सूर्यायाः ॥६॥
इहेह यद्वां समना पपृक्षे सेयमस्मे सुमतिर्वाजरत्ना ।
उरुष्यतं जरितारं युवं ह श्रितः कामो नासत्या युवद्रिक् ॥७॥
सायणभाष्यम्
‘क उ श्रवत्' इति सप्तर्चमेकादशं सूक्तम् । सुहोत्रपुत्रौ पुस्मीळ्हाजमीळ्हावृषी । त्रिष्टुप् छन्दः । अश्विनौ देवता । अत्रानुक्रमणिका- क उ श्रवत्सप्त पुरुमीळहाजमीळ्हौ सौहोत्रौ त्वाश्विनं हि ' इति । प्रातरनुवाकाश्विनशस्त्रयोराश्विने क्रतौ त्रैष्टुभे छन्दसीदमादिके द्वे सूक्ते । “धेनुः प्रत्नस्य क उ श्रवत् ' ( आश्व. श्रौ. ४. १५) इति सूत्रितत्वात् ।।
क उ॑ श्रवत्कत॒मो य॒ज्ञिया॑नां वं॒दारु॑ दे॒वः क॑त॒मो जु॑षाते ।
कस्ये॒मां दे॒वीम॒मृते॑षु॒ प्रेष्ठां॑ हृ॒दि श्रे॑षाम सुष्टु॒तिं सु॑ह॒व्यां ॥१
कः । ऊं॒ इति॑ । श्र॒व॒त् । क॒त॒मः । य॒ज्ञिया॑नाम् । व॒न्दारु॑ । दे॒वः । क॒त॒मः । जु॒षा॒ते॒ ।
कस्य॑ । इ॒माम् । दे॒वीम् । अ॒मृते॑षु । प्रेष्ठा॑म् । हृ॒दि । श्रे॒षा॒म॒ । सु॒ऽस्तु॒तिम् । सु॒ऽह॒व्याम् ॥१
कः । ऊं इति । श्रवत् । कतमः । यज्ञियानाम् । वन्दारु । देवः । कतमः । जुषाते ।
कस्य । इमाम् । देवीम् । अमृतेषु । प्रेष्ठाम् । हृदि । श्रेषाम । सुऽस्तुतिम् । सुऽहव्याम् ॥१
"यज्ञियानां यज्ञार्हाणां देवानां मध्ये "क "उ देवः "श्रवत् शृणुयात् स्तुतिम् । "कतमः देवः “वन्दारु वन्दनशीलं स्तोत्रम् । "कतमः "देवः "जुषाते सेवते । "कस्य "हृदि “इमां “प्रेष्ठां प्रियतरां "देवीं द्योतमानां "सुहव्यां शोभनान्नोपेतां शोभनैर्हविभिर्युक्तां वा "सुष्टुतिं शोभनां स्तुतिम् "अमृतेषु मध्ये "श्रेषाम श्लेषयेम श्राययेम वा । अश्विनावन्तरेण स्तुतेः को देवः स्वामी भवेदिति ।।
को मृ॑ळाति कत॒म आग॑मिष्ठो दे॒वाना॑मु कत॒मः शंभ॑विष्ठः ।
रथं॒ कमा॑हुर्द्र॒वद॑श्वमा॒शुं यं सूर्य॑स्य दुहि॒तावृ॑णीत ॥२
कः । मृ॒ळा॒ति॒ । क॒त॒मः । आऽग॑मिष्ठः । दे॒वाना॑म् । ऊं॒ इति॑ । क॒त॒मः । शम्ऽभ॑विष्ठः ।
रथ॑म् । कम् । आ॒हुः॒ । द्र॒वत्ऽअ॑श्वम् । आ॒शुम् । यम् । सूर्य॑स्य । दु॒हि॒ता । अवृ॑णीत ॥२
कः । मृळाति । कतमः । आऽगमिष्ठः । देवानाम् । ऊं इति । कतमः । शम्ऽभविष्ठः ।
रथम् । कम् । आहुः । द्रवत्ऽअश्वम् । आशुम् । यम् । सूर्यस्य । दुहिता । अवृणीत ॥२
“को "मृळाति को देवो मृडाति सुखयेत् अस्मान् । "कतमः देवः "आगमिष्ठः आगन्तृतमः अस्मद्यज्ञं प्रति । "देवानामु देवानां मध्ये "कतमः देवः "शंभविष्ठः सुखस्य भावयितृतमः। एवमुक्तगुणविशिष्टः को भवेत् अश्विनावन्तरेणेति भावः । "कं "रथं "द्रवदश्वमाशुम्” "आहुः ब्रुवते। "यं रथं "सूर्यस्य “दुहिता सूर्यस्य पत्नी "अवृणीत समभजत् । तं कं रथं वेगवन्तमाहुः ॥
म॒क्षू हि ष्मा॒ गच्छ॑थ॒ ईव॑तो॒ द्यूनिंद्रो॒ न श॒क्तिं परि॑तक्म्यायां ।
दि॒व आजा॑ता दि॒व्या सु॑प॒र्णा कया॒ शची॑नां भवथः॒ शचि॑ष्ठा ॥३
म॒क्षु । हि । स्म॒ । गच्छ॑थः । ईव॑तः । द्यून् । इन्द्रः॑ । न । श॒क्तिम् । परि॑ऽतक्म्यायाम् ।
दि॒वः । आऽजा॑ता । दि॒व्या । सु॒ऽप॒र्णा । कया॑ । शची॑नाम् । भ॒व॒थः॒ । शचि॑ष्ठा ॥३
मक्षु । हि । स्म । गच्छथः । ईवतः । द्यून् । इन्द्रः । न । शक्तिम् । परिऽतक्म्यायाम् ।
दिवः । आऽजाता । दिव्या । सुऽपर्णा । कया । शचीनाम् । भवथः । शचिष्ठा ॥३
“मक्षु शीघ्रम् । "हि “स्म इति पूरणौ । “ईवतः गमनवत आगामिनः “द्यून् दिवसान् सुत्यासंबन्धिनः प्रति “गच्छथः। “इन्द्रः “शक्तिं “न स्वकीयां शक्तिं यथा “परितक्म्यायां रात्रावतीतायाम् । प्रदर्शयतीति शेषः । सुत्याहन्युषःकाले इन्द्रो यथा गच्छति तद्वत् युवामपि गच्छतमित्यर्थः । दिवः द्युलोकात् “आजाता आगतौ “दिव्या दिवि भवौ "सुपर्णा शोभनगमनौ युवां “शचीनां युष्मदसंबन्धिनां कर्मणां शक्तीनां वा मध्ये "कया शच्या “शचिष्ठा शक्तिमत्तरौ शोभनकर्मवन्तौ वा “भवथः ।।
का वां॑ भू॒दुप॑मातिः॒ कया॑ न॒ आश्वि॑ना गमथो हू॒यमा॑ना ।
को वां॑ म॒हश्चि॒त्त्यज॑सो अ॒भीक॑ उरु॒ष्यतं॑ माध्वी दस्रा न ऊ॒ती ॥४
का । वा॒म् । भू॒त् । उप॑ऽमातिः । कया॑ । नः॒ । आ । अ॒श्वि॒ना॒ । ग॒म॒थः॒ । हू॒यमा॑ना ।
कः । वा॒म् । म॒हः । चि॒त् । त्यज॑सः । अ॒भीके॑ । उ॒रु॒ष्यत॑म् । मा॒ध्वी॒ इति॑ । द॒स्रा॒ । नः॒ । ऊ॒ती ॥४
का । वाम् । भूत् । उपऽमातिः । कया । नः । आ । अश्विना । गमथः । हूयमाना ।
कः । वाम् । महः । चित् । त्यजसः । अभीके । उरुष्यतम् । माध्वी इति । दस्रा । नः । ऊती ॥४
“वां युवयोः "का “उपमातिः । उप समीपे मातिर्मानं गुणानां परिच्छित्तिर्यस्यां सा स्तुतिः का “भूत् भवेत् । “कया स्तुत्या “हूयमाना आहूयमानौ सन्तौ “नः अस्मान् “आ "गमथः आगच्छथः । “वां युवयोः "अभीके आसन्नप्रदेशे "महश्चित् महत: “त्यजसः । त्यज्यते परित्यज्यते सर्वैरिति त्यजः क्रोधः । तस्य सोढा "कः भवेत् । हे “माध्वी मधुररसस्योदकस्य स्रष्टारौ हे “दस्रा शत्रूणामुपक्षपयितारौ अश्विनौ "नः अस्मान् “ऊती ऊत्या रक्षया “उरुष्यतम् । रक्षाकर्मैतत् । रक्षतम् ॥
उ॒रु वां॒ रथः॒ परि॑ नक्षति॒ द्यामा यत्स॑मु॒द्राद॒भि वर्त॑ते वां ।
मध्वा॑ माध्वी॒ मधु॑ वां प्रुषाय॒न्यत्सीं॑ वां॒ पृक्षो॑ भु॒रजं॑त प॒क्वाः ॥५
उ॒रु । वा॒म् । रथः॑ । परि॑ । न॒क्ष॒ति॒ । द्याम् । आ । यत् । स॒मु॒द्रात् । अ॒भि । वर्त॑ते । वा॒म् ।
मध्वा॑ । मा॒ध्वी॒ इति॑ । मधु॑ । वा॒म् । प्रु॒षा॒य॒न् । यत् । सी॒म् । वा॒म् । पृक्षः॑ । भु॒रज॑न्त । प॒क्वाः ॥५
उरु । वाम् । रथः । परि । नक्षति । द्याम् । आ । यत् । समुद्रात् । अभि । वर्तते । वाम् ।
मध्वा । माध्वी इति । मधु । वाम् । प्रुषायन् । यत् । सीम् । वाम् । पृक्षः । भुरजन्त । पक्वाः ॥५
हे अश्विनौ “वां “रथः “द्यां “परि द्युलोकस्य परितः “उरु प्रभूतं “नक्षति गच्छति । “यत् यस्मात् “आ अर्वाक् “समुद्रात् समुद्द्रवणसाधनादन्तरिक्षात् “वां प्रति “अभि “वर्तते आभिमुख्येन गच्छति । हे “माध्वी उक्तलक्षणौ “मध्वा मधुरेण पयसा “मधु मधुरं सोमरसं “प्रुषायन् सिञ्चन्त्यध्वर्यवः ।। “यत् यस्मात् "सीं सर्वतः “वां “पृक्षः युवयोः सोमं “पक्वाः पक्का यवाः “भुरजन्त प्राप्नुवन्ति । तस्मादभिवर्तते वामिति ॥
सिंधु॑र्ह वां र॒सया॑ सिंच॒दश्वा॑न्घृ॒णा वयो॑ऽरु॒षासः॒ परि॑ ग्मन् ।
तदू॒ षु वा॑मजि॒रं चे॑ति॒ यानं॒ येन॒ पती॒ भव॑थः सू॒र्यायाः॑ ॥६
सिन्धुः॑ । ह॒ । वा॒म् । र॒सया॑ । सि॒ञ्च॒त् । अश्वा॑न् । घृ॒णा । वयः॑ । अ॒रु॒षासः॑ । परि॑ । ग्म॒न् ।
तत् । ऊं॒ इति॑ । सु । वा॒म् । अ॒जि॒रम् । चे॒ति॒ । यान॑म् । येन॑ । पती॒ इति॑ । भव॑थः । सू॒र्यायाः॑ ॥६
सिन्धुः । ह । वाम् । रसया । सिञ्चत् । अश्वान् । घृणा । वयः । अरुषासः । परि । ग्मन् ।
तत् । ऊं इति । सु । वाम् । अजिरम् । चेति । यानम् । येन । पती इति । भवथः । सूर्यायाः ॥६
“वां युवयोः “अश्वान् “सिन्धुः स्यन्दमानो मेघ उदकं वा “रसया रसेन “सिञ्चत् असेचयत् । “घृणा दीप्त्या “वयः पक्षिसदृशा वेतारः वा अश्वाः "अरुषासः आरोचमानाः सन्तः “परि परितः “ग्मन् गच्छन्ति । “वां “यानं गमनसाधनं प्रसिद्धो रथः “अजिरम् । क्षिप्रनामैतत् । सु सुष्ठु “चेति ज्ञायते । “येन रथेन “सूर्यायाः “पती पालयितारौ वोढारौ "भवथः सः रथश्चेतीति ।
इ॒हेह॒ यद्वां॑ सम॒ना प॑पृ॒क्षे सेयम॒स्मे सु॑म॒तिर्वा॑जरत्ना ।
उ॒रु॒ष्यतं॑ जरि॒तारं॑ यु॒वं ह॑ श्रि॒तः कामो॑ नासत्या युव॒द्रिक् ॥७
इ॒हऽइ॑ह । यत् । वा॒म् । स॒म॒ना । प॒पृ॒क्षे । सा । इ॒यम् । अ॒स्मे इति॑ । सु॒ऽम॒तिः । वा॒ज॒ऽर॒त्ना॒ ।
उ॒रु॒ष्यत॑म् । ज॒रि॒तार॑म् । यु॒वम् । ह॒ । श्रि॒तः । कामः॑ । ना॒स॒त्या॒ । यु॒व॒द्रिक् ॥७
इहऽइह । यत् । वाम् । समना । पपृक्षे । सा । इयम् । अस्मे इति । सुऽमतिः । वाजऽरत्ना ।
उरुष्यतम् । जरितारम् । युवम् । ह । श्रितः । कामः । नासत्या । युवद्रिक् ॥७
हे अश्विनौ “यत् यस्मात् । यया वा सुमत्या । “इहेह अस्मिन्नेव यज्ञे “समना समानमनस्कौ । सदृशावित्यर्थः । तौ वां युवां सुमत्या पपृक्षे स्तुत्या संयोजयामि । “सेयम् इदानीं क्रियमाणा “सुमतिः शोभनस्तुति: “अस्मे अस्माकमेव फलवती भवत्विति शेषः । हे “वाजरत्ना रमणीयान्नौ । ‘अन्नं वै वाजः ' ( श. बा. ९. ३. ४. १ ) इति श्रुतेः । “युवं युवां “जरितारं गरितारं स्तोतारं माम् “उरुष्यतं रक्षतम् । हे "नासत्या अश्विनौ “कामः अस्मदीयः "युवद्रिक् “ह युवामेव गच्छन् “श्रितः प्राप्तः ॥ ॥ १९ ॥
मण्डल ४ | |
---|---|
|