ऋग्वेदः सूक्तं ४.३८

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ४.३७ ऋग्वेदः - मण्डल ४
सूक्तं ४.३८
वामदेवो गौतमः ।
सूक्तं ४.३९ →
दे. दधिक्रा, १ द्यावापृथिवी। त्रिष्टुप्


उतो हि वां दात्रा सन्ति पूर्वा या पूरुभ्यस्त्रसदस्युर्नितोशे ।
क्षेत्रासां ददथुरुर्वरासां घनं दस्युभ्यो अभिभूतिमुग्रम् ॥१॥
उत वाजिनं पुरुनिष्षिध्वानं दधिक्रामु ददथुर्विश्वकृष्टिम् ।
ऋजिप्यं श्येनं प्रुषितप्सुमाशुं चर्कृत्यमर्यो नृपतिं न शूरम् ॥२॥
यं सीमनु प्रवतेव द्रवन्तं विश्वः पूरुर्मदति हर्षमाणः ।
पड्भिर्गृध्यन्तं मेधयुं न शूरं रथतुरं वातमिव ध्रजन्तम् ॥३॥
यः स्मारुन्धानो गध्या समत्सु सनुतरश्चरति गोषु गच्छन् ।
आविरृजीको विदथा निचिक्यत्तिरो अरतिं पर्याप आयोः ॥४॥
उत स्मैनं वस्त्रमथिं न तायुमनु क्रोशन्ति क्षितयो भरेषु ।
नीचायमानं जसुरिं न श्येनं श्रवश्चाच्छा पशुमच्च यूथम् ॥५॥
उत स्मासु प्रथमः सरिष्यन्नि वेवेति श्रेणिभी रथानाम् ।
स्रजं कृण्वानो जन्यो न शुभ्वा रेणुं रेरिहत्किरणं ददश्वान् ॥६॥
उत स्य वाजी सहुरिरृतावा शुश्रूषमाणस्तन्वा समर्ये ।
तुरं यतीषु तुरयन्नृजिप्योऽधि भ्रुवोः किरते रेणुमृञ्जन् ॥७॥
उत स्मास्य तन्यतोरिव द्योरृघायतो अभियुजो भयन्ते ।
यदा सहस्रमभि षीमयोधीद्दुर्वर्तुः स्मा भवति भीम ऋञ्जन् ॥८॥
उत स्मास्य पनयन्ति जना जूतिं कृष्टिप्रो अभिभूतिमाशोः ।
उतैनमाहुः समिथे वियन्तः परा दधिक्रा असरत्सहस्रैः ॥९॥
आ दधिक्राः शवसा पञ्च कृष्टीः सूर्य इव ज्योतिषापस्ततान ।
सहस्रसाः शतसा वाज्यर्वा पृणक्तु मध्वा समिमा वचांसि ॥१०॥


सायणभाष्यम्

‘ उतो हि वाम्' इति दशर्चं षष्ठं सूक्तम् । वामदेव ऋषिः । त्रिष्टुप् छन्दः । दधिक्रा देवता । आद्या द्यावापृथिव्या। अत्रानुक्रमणिका – उतो हि दश दाधिक्रं हि द्यावापृथिव्याद्या ' इति । विनियोगो लैङ्गिकः ॥


उ॒तो हि वां॑ दा॒त्रा सन्ति॒ पूर्वा॒ या पू॒रुभ्य॑स्त्र॒सद॑स्युर्नितो॒शे ।

क्षे॒त्रा॒सां द॑दथुरुर्वरा॒सां घ॒नं दस्यु॑भ्यो अ॒भिभू॑तिमु॒ग्रम् ॥१

उ॒तो इति॑ । हि । वा॒म् । दा॒त्रा । सन्ति॑ । पूर्वा॑ । या । पू॒रुऽभ्यः॑ । त्र॒सद॑स्युः । नि॒ऽतो॒शे ।

क्षे॒त्र॒ऽसाम् । द॒द॒थुः॒ । उ॒र्व॒रा॒ऽसाम् । घ॒नम् । दस्यु॑ऽभ्यः । अ॒भिऽभू॑तिम् । उ॒ग्रम् ॥१

उतो इति । हि । वाम् । दात्रा । सन्ति । पूर्वा । या । पूरुऽभ्यः । त्रसदस्युः । निऽतोशे ।

क्षेत्रऽसाम् । ददथुः । उर्वराऽसाम् । घनम् । दस्युऽभ्यः । अभिऽभूतिम् । उग्रम् ॥१

“उतो इति पूरणः । अस्या द्यावापृथिव्यत्वादत्र तद्वाचकशब्दाभावेऽपि ते एव संबोद्धव्ये । हे द्यावापृथिव्यौ “वां युवाभ्यां सकाशात् “दात्रा दानकर्त्रा पौरुकुत्सेन त्रसदस्युना लब्धानि “पूर्वा पूर्वाणि पुरातनानि पूरकाणि वा धनानि “सन्ति । “या यानि धनानि “पूरुभ्यः अर्थिभ्यो मनुष्येभ्यः “त्रसदस्युः राजा “नितोशे न्यतोशत दत्तवान् । “क्षेत्रसाम् । क्षेत्राणि सर्वा भूमीः सनोतीति क्षेत्रसाः अश्वः । तं “ददथुः । तथा “उर्वरासाम् । उर्वरा सर्वसस्याढ्या भूः । तां सनोतीत्युर्वरासाः पुत्रः । तं ददथुः। “घनं हननार्हम् आयुधं “दस्युभ्यः दस्यूनां वधार्थं च ददथुः । कीदृशमायुधम् । “अभिभूतिम् अभिभवितारम् “उग्रम् उद्गूर्णबलम् । यद्वा । उत्तरार्धमेकं वाक्यम् । दातव्यानि धनान्युक्तलक्षणं पुत्रं च ददथुः । दत्तवत्यौ स्थः । तानि मह्यमपि ददाथाम् इत्यर्थः ।।


उ॒त वा॒जिनं॑ पुरुनि॒ष्षिध्वा॑नं दधि॒क्रामु॑ ददथुर्वि॒श्वकृ॑ष्टिम् ।

ऋ॒जि॒प्यं श्ये॒नं प्रु॑षि॒तप्सु॑मा॒शुं च॒र्कृत्य॑म॒र्यो नृ॒पतिं॒ न शूर॑म् ॥२

उ॒त । वा॒जिन॑म् । पु॒रु॒निः॒ऽसिध्वा॑नम् । द॒धि॒ऽक्राम् । ऊं॒ इति॑ । द॒द॒थुः॒ । वि॒श्वऽकृ॑ष्टिम् ।

ऋ॒जि॒प्यम् । श्ये॒नम् । प्रु॒षि॒तऽप्सु॑म् । आ॒शुम् । च॒र्कृत्य॑म् । अ॒र्यः । नृ॒ऽपति॑म् । न । शूर॑म् ॥२

उत । वाजिनम् । पुरुनिःऽसिध्वानम् । दधिऽक्राम् । ऊं इति । ददथुः । विश्वऽकृष्टिम् ।

ऋजिप्यम् । श्येनम् । प्रुषितऽप्सुम् । आशुम् । चर्कृत्यम् । अर्यः । नृऽपतिम् । न । शूरम् ॥२

“उत अपि च “वाजिनं गमनवन्तम् । अश्वरूपं वा देवं अग्नेरश्वरूपस्यैव दधिक्राख्यत्वात्। अग्नेस्तद्रूपत्वं ब्राह्मणे समाम्नातं - तानग्निरश्वो भूत्वाभ्यद्रवत् ' इति । “पुरुनिष्षिध्वानं पुरूणां बहूनां शत्रूणां निष्षेद्धारं “दधिक्राम् । दधदन्यं धारयन् क्रामतीति दधिक्राः। तमेतन्नामकं देवम् । उः पूरणः । “विश्वकृष्टिम् । विश्वाः कृष्टयो रक्षणीयाः सेवका वा मनुष्या यस्य तम् । “ऋजिप्यम् । ऋज्वाप्नोति गच्छतीत्यृजिप्यः । तं “श्येनं शंसनीयगमनं “प्रुषितप्सुं दीप्तरूपम् “आशुं व्याप्तं शीघ्रगमनं वा “अर्यः अरेः “चर्कृत्यं कर्तनशीलं "शूरं “नृपतिं “न राजानमिव स्थितं देवं द्यावापृथिव्यौ "ददथुः धारयतः ॥


यं सी॒मनु॑ प्र॒वते॑व॒ द्रव॑न्तं॒ विश्वः॑ पू॒रुर्मद॑ति॒ हर्ष॑माणः ।

प॒ड्भिर्गृध्य॑न्तं मेध॒युं न शूरं॑ रथ॒तुरं॒ वात॑मिव॒ ध्रज॑न्तम् ॥३

यम् । सी॒म् । अनु॑ । प्र॒वता॑ऽइव । द्रव॑न्तम् । विश्वः॑ । पू॒रुः । मद॑ति । हर्ष॑माणः ।

प॒ट्ऽभिः । गृध्य॑न्तम् । मे॒ध॒ऽयुम् । न । शूर॑म् । र॒थ॒ऽतुर॑म् । वात॑म्ऽइव । ध्रज॑न्तम् ॥३

यम् । सीम् । अनु । प्रवताऽइव । द्रवन्तम् । विश्वः । पूरुः । मदति । हर्षमाणः ।

पट्ऽभिः । गृध्यन्तम् । मेधऽयुम् । न । शूरम् । रथऽतुरम् । वातम्ऽइव । ध्रजन्तम् ॥३

“यं दधिक्रां “विश्वः “पूरुः सर्वोऽपि मनुष्यः "हर्षमाणः हृष्यन् हर्षयन् वा मदति स्तौति । ते देवं द्यावापृथिव्यौ ददथुरिति संबन्धः । स देवो विशेष्यते । “सीं सर्वतः प्रवतेव प्रवणवता निम्नेन मार्गेणोदकमिवानुक्रमेण “द्रवन्तं गच्छतं पड्भिः पादैः “गृध्यन्तम् अभिकाङ्क्षन्तं दिशो लङ्घितुम् । तत्र दृष्टान्तः । “मेधयुं “न “शूरं । संग्रामेच्छुं शूरमिव । यद्वा । यज्ञक्रमणेच्छुमध्वर्य्वादिकमिव । “रथतुरं रथेन गच्छन्तं “वातमिव “ध्रजन्तं शीघ्रगं वायुमिव । उक्तविशेषविशिष्टान् उदकशूरवायून् यथा सर्वो जनः स्तौति तथा यं देवं स्तौति तं ददथुरित्यर्थः ।।


यः स्मा॑रुन्धा॒नो गध्या॑ स॒मत्सु॒ सनु॑तर॒श्चर॑ति॒ गोषु॒ गच्छ॑न् ।

आ॒विरृ॑जीको वि॒दथा॑ नि॒चिक्य॑त्ति॒रो अ॑र॒तिं पर्याप॑ आ॒योः ॥४

यः । स्म॒ । आ॒ऽरु॒न्धा॒नः । गध्या॑ । स॒मत्ऽसु॑ । सनु॑ऽतरः । चर॑ति । गोषु॑ । गच्छ॑न् ।

आ॒विःऽऋ॑जीकः । वि॒दथा॑ । नि॒ऽचिक्य॑त् । ति॒रः । अ॒र॒तिम् । परि॑ । आपः॑ । आ॒योः ॥४

यः । स्म । आऽरुन्धानः । गध्या । समत्ऽसु । सनुऽतरः । चरति । गोषु । गच्छन् ।

आविःऽऋजीकः । विदथा । निऽचिक्यत् । तिरः । अरतिम् । परि । आपः । आयोः ॥४

“यः “स्म यः खलु देवः “गध्या गध्यानि ।' गध्यतिर्मिश्रीभावकर्मा ' ( निरु. ५. १५ ) इति निरुक्तम् । मिश्रयितव्यानि फलानि “समत्सु संग्रामेषु “आरुन्धानः सर्वतो निरोधयन् “सनुतरः संभक्तृतरः “गोषु सर्वासु दिक्षु गोषु वा निमित्तभूतेषु “गच्छन् “आविर्ऋजीकः आविर्भूतसाधन: आविर्भूतमुष्को वा “विदथा विदथानि ज्ञातव्यानि “निचिक्यत् । पश्यतिकर्मैतत् । जानन् “अरतिम् अरमणं दुःखमभिगन्तारम् अरिं वा "परि सर्वतः “तिरः “चरति तिरस्करोति । कस्यारतिमिति । “आपः व्याप्तत्य स्तोतुः “आयोः मनुष्यस्य यजमानस्य ॥


उ॒त स्मै॑नं वस्त्र॒मथिं॒ न ता॒युमनु॑ क्रोशन्ति क्षि॒तयो॒ भरे॑षु ।

नी॒चाय॑मानं॒ जसु॑रिं॒ न श्ये॒नं श्रव॒श्चाच्छा॑ पशु॒मच्च॑ यू॒थम् ॥५

उ॒त । स्म॒ । ए॒न॒म् । व॒स्त्र॒ऽमथि॑म् । न । ता॒युम् । अनु॑ । क्रो॒श॒न्ति॒ । क्षि॒तयः॑ । भरे॑षु ।

नी॒चा । अय॑मानम् । जसु॑रिम् । न । श्ये॒नम् । श्रवः॑ । च॒ । अच्छ॑ । प॒शु॒ऽमत् । च॒ । यू॒थम् ॥५

उत । स्म । एनम् । वस्त्रऽमथिम् । न । तायुम् । अनु । क्रोशन्ति । क्षितयः । भरेषु ।

नीचा । अयमानम् । जसुरिम् । न । श्येनम् । श्रवः । च । अच्छ । पशुऽमत् । च । यूथम् ॥५

"उत “स्म अपि खलु “एनं दधिक्रां “भरेषु संग्रामेषु “वस्त्रमथिं "तायुं “न वस्त्रमाथिनं तस्करमिव । तं दृष्ट्वा “क्षितयः मनुष्या यथा “अनु क्रोशन्ति तद्वद्वैरिणः अनुक्रोशन्ति। किंच “नीचा नीचैः "अयमानं गच्छन्तं “जसुरिं “न “श्येनं क्षुधितं श्येनं पक्षिणमिव । तं यथा दृष्ट्वा पक्षिणः पलायन्ते तद्वत् । “श्रवः अन्नं कीर्तिं वा “पशुमत् “यूथं “च "अच्छ अभिलक्ष्य गच्छन्तमेनमनुक्रोशन्तीति संबन्धः । ‘अपि स्मैनं वस्त्रमथिमिव वस्त्रमाथिनम् ' (निरु. ४. २४ ) इत्यादिनिरुक्तमत्रानुसंधेयम् ॥ ॥ ११ ॥


उ॒त स्मा॑सु प्रथ॒मः स॑रि॒ष्यन्नि वे॑वेति॒ श्रेणि॑भी॒ रथा॑नाम् ।

स्रजं॑ कृण्वा॒नो जन्यो॒ न शुभ्वा॑ रे॒णुं रेरि॑हत्कि॒रणं॑ दद॒श्वान् ॥६

उ॒त । स्म॒ । आ॒सु॒ । प्र॒थ॒मः । स॒रि॒ष्यन् । नि । वे॒वे॒ति॒ । श्रेणि॑ऽभिः । रथा॑नाम् ।

स्रज॑म् । कृ॒ण्वा॒नः । जन्यः॑ । न । शुभ्वा॑ । रे॒णुम् । रेरि॑हत् । कि॒रण॑म् । द॒द॒श्वान् ॥६

उत । स्म । आसु । प्रथमः । सरिष्यन् । नि । वेवेति । श्रेणिऽभिः । रथानाम् ।

स्रजम् । कृण्वानः । जन्यः । न । शुभ्वा । रेणुम् । रेरिहत् । किरणम् । ददश्वान् ॥६

"उत "स्म अपि च खलु "आसु असुरसेनासु “सरिष्यन् सर्तुमिच्छन् "प्रथमः प्रतमः उत्कृष्टतमो मुख्यः सन् “रथानां "श्रेणिभिः राजिभिर्युक्तः सन् "नि "वेवेति नितरां गच्छति । इतस्ततो धावति । क इवेति । उच्यते । "स्रजम् । सृज्यते उत्पाद्यते रूपमनयेति स्रगलंकृतिः । तां "कृण्वानः कुर्वाणः “जन्यो "न जनेभ्यो हितोऽश्व इव सुभ्वा । सुष्ठु भवतीति सुभ्वा शोभमानः ।। “किरणम् आस्यगतं खलीनं "ददश्वान् दशन् "रेणुं स्वपादघातजनितं "रेरिहत् भृशं लेढि ॥


उ॒त स्य वा॒जी सहु॑रिरृ॒तावा॒ शुश्रू॑षमाणस्त॒न्वा॑ सम॒र्ये ।

तुरं॑ य॒तीषु॑ तु॒रय॑न्नृजि॒प्योऽधि॑ भ्रु॒वोः कि॑रते रे॒णुमृ॒ञ्जन् ॥७

उ॒त । स्यः । वा॒जी । सहु॑रिः । ऋ॒तऽवा॑ । शुश्रू॑षमाणः । त॒न्वा॑ । स॒ऽम॒र्ये ।

तुर॑म् । य॒तीषु॑ । तु॒रय॑न् । ऋ॒जि॒प्यः । अधि॑ । भ्रु॒वोः । कि॒र॒ते॒ । रे॒णुम् । ऋ॒ञ्जन् ॥७

उत । स्यः । वाजी । सहुरिः । ऋतऽवा । शुश्रूषमाणः । तन्वा । सऽमर्ये ।

तुरम् । यतीषु । तुरयन् । ऋजिप्यः । अधि । भ्रुवोः । किरते । रेणुम् । ऋञ्जन् ॥७

“उत अपि च "स्यः सः उक्तलक्षणः “वाजी वेजनवान् गमनवान् "समर्ये समरणे “सहुरिः सहनशीलः शत्रूणाम् “ऋतावा अन्नवान् "तन्वा स्वावयवेन खुरादिना स्वतनुं "शुश्रूषमाणः "तुरं "यतीषु त्वरगामिनीष्वसुरसेनासु “तुरयन् त्वरयन् “ऋजिप्यः ऋजुगामी "रेणुं धूलिम् “ऋञ्जन् प्रसाधयंस्तमेव रेणुं “भ्रुवोः "अधि उपरि "किरते विक्षिपति ।


उ॒त स्मा॑स्य तन्य॒तोरि॑व॒ द्योरृ॑घाय॒तो अ॑भि॒युजो॑ भयन्ते ।

य॒दा स॒हस्र॑म॒भि षी॒मयो॑धीद्दु॒र्वर्तुः॑ स्मा भवति भी॒म ऋ॒ञ्जन् ॥८

उ॒त । स्म॒ । अ॒स्य॒ । त॒न्य॒तोःऽइ॑व । द्योः । ऋ॒घा॒य॒तः । अ॒भि॒ऽयुजः॑ । भ॒य॒न्ते॒ ।

य॒दा । स॒हस्र॑म् । अ॒भि । सी॒म् । अयो॑धीत् । दुः॒ऽवर्तुः॑ । स्म॒ । भ॒व॒ति॒ । भी॒मः । ऋ॒ञ्जन् ॥८

उत । स्म । अस्य । तन्यतोःऽइव । द्योः । ऋघायतः । अभिऽयुजः । भयन्ते ।

यदा । सहस्रम् । अभि । सीम् । अयोधीत् । दुःऽवर्तुः । स्म । भवति । भीमः । ऋञ्जन् ॥८

“उत "स्म अपि च खलु “द्योः दीप्यमानात् "तन्यतोः शब्दयितुरशनेः “इव “ऋघायतः हिंसतः "अस्य अस्मात् दधिक्रावाख्यात् देवात् "अभियुजः अभियोक्तारोऽसुराः “भयन्ते बिभ्यति । किंचायं यदा "सीं सर्वतः "सहस्रम् “अभि "अयोधीत् संप्रहरेत् । तदा “ऋञ्जन प्रसाधयन्नात्मानं “भीमः भयहेतुः "दुर्वर्तुः दुर्वारश्च "भवति ॥


उ॒त स्मा॑स्य पनयन्ति॒ जना॑ जू॒तिं कृ॑ष्टि॒प्रो अ॒भिभू॑तिमा॒शोः ।

उ॒तैन॑माहुः समि॒थे वि॒यन्त॒ः परा॑ दधि॒क्रा अ॑सरत्स॒हस्रैः॑ ॥९

उ॒त । स्म॒ । अ॒स्य॒ । प॒न॒य॒न्ति॒ । जनाः॑ । जू॒तिम् । कृ॒ष्टि॒ऽप्रः । अ॒भिऽभू॑तिम् । आ॒शोः ।

उ॒त । ए॒न॒म् । आ॒हुः॒ । स॒म्ऽइ॒थे । वि॒ऽयन्तः॑ । परा॑ । द॒धि॒ऽक्राः । अ॒स॒र॒त् । स॒हस्रैः॑ ॥९

उत । स्म । अस्य । पनयन्ति । जनाः । जूतिम् । कृष्टिऽप्रः । अभिऽभूतिम् । आशोः ।

उत । एनम् । आहुः । सम्ऽइथे । विऽयन्तः । परा । दधिऽक्राः । असरत् । सहस्रैः ॥९

“उत "स्म अपि च खलु “अस्य दधिक्राव्णः "अभिभूतिम् अभिभवित्रीं "जूतिं पराभिभूतिं चेत्युभयं वा जनाः "पनयन्ति स्तुवन्ति । कीदृशस्यास्य । "कृष्टिप्रः । कृष्टयो मनुष्याः । तेषां पूरकस्य "आशोः व्याप्तस्य वेगवतो वा । "उत अपि च “एनं "समिथे संग्रामे “वियन्तः विविधं गच्छन्तो जना अयं "दधिक्राः देवः "सहस्रैः अनुचरैः परिवृतः “परा "असरत् इति अस्मान् विहायान्यान् हन्तुं गत इति “आहुः । यद्वा । एनमेवमाहुः । वियन्तः शत्रवः परा । भवन्तीति शेषः । दधिक्राः सहस्रैरसरत् गच्छतीति ॥


पवित्रेष्टौ ‘आ दधिक्राः' इति दधिक्राव्णो याज्या । तथा च सूत्रितं - दधिक्राव्णो अकारिषमा दधिक्राः शवसा पञ्च कृष्टीः ' ( आश्व. श्रौ. २. १२ ) इति ॥

आ द॑धि॒क्राः शव॑सा॒ पञ्च॑ कृ॒ष्टीः सूर्य॑ इव॒ ज्योति॑षा॒पस्त॑तान ।

स॒ह॒स्र॒साः श॑त॒सा वा॒ज्यर्वा॑ पृ॒णक्तु॒ मध्वा॒ समि॒मा वचां॑सि ॥१०

आ । द॒धि॒ऽक्राः । शव॑सा । पञ्च॑ । कृ॒ष्टीः । सूर्यः॑ऽइव । ज्योति॑षा । अ॒पः । त॒ता॒न॒ ।

स॒ह॒स्र॒ऽसाः । श॒त॒ऽसाः । वा॒जी । अर्वा॑ । पृ॒णक्तु॑ । मध्वा॑ । सम् । इ॒मा । वचां॑सि ॥१०

आ । दधिऽक्राः । शवसा । पञ्च । कृष्टीः । सूर्यःऽइव । ज्योतिषा । अपः । ततान ।

सहस्रऽसाः । शतऽसाः । वाजी । अर्वा । पृणक्तु । मध्वा । सम् । इमा । वचांसि ॥१०

यः "दधिक्राः देवः "शवसा बलेन "पञ्च “कृष्टीः पञ्च जनान् देवमनुष्यासुररक्षः पितृसंज्ञकान् निषादपञ्चमान् चतुरो वर्णान् वा "सूर्यः ”ज्योतिषा तेजसा यथा जगदावृणोति तद्वत् "अपः उदकानि “आ “ततान आतनोति । "सहस्रसाः “शतसाः शतानां सहस्राणां च दाता “वाजी वेजनवान् "अर्वा अरणकुशलः स देवः "मध्वा मधुना मधुरेण फलेन “इमा इमान्युक्तानि स्तुतिवचांसि “सं “पृणक्तु संयोजयतु ॥ ॥ १२ ॥


मण्डल ४

सूक्तं ४.१

सूक्तं ४.२

सूक्तं ४.३

सूक्तं ४.४

सूक्तं ४.५

सूक्तं ४.६

सूक्तं ४.७

सूक्तं ४.८

सूक्तं ४.९

सूक्तं ४.१०

सूक्तं ४.११

सूक्तं ४.१२

सूक्तं ४.१३

सूक्तं ४.१४

सूक्तं ४.१५

सूक्तं ४.१६

सूक्तं ४.१७

सूक्तं ४.१८

सूक्तं ४.१९

सूक्तं ४.२०

सूक्तं ४.२१

सूक्तं ४.२२

सूक्तं ४.२३

सूक्तं ४.२४

सूक्तं ४.२५

सूक्तं ४.२६

सूक्तं ४.२७

सूक्तं ४.२८

सूक्तं ४.२९

सूक्तं ४.३०

सूक्तं ४.३१

सूक्तं ४.३२

सूक्तं ४.३३

सूक्तं ४.३४

सूक्तं ४.३५

सूक्तं ४.३६

सूक्तं ४.३७

सूक्तं ४.३८

सूक्तं ४.३९

सूक्तं ४.४०

सूक्तं ४.४१

सूक्तं ४.४२

सूक्तं ४.४३

सूक्तं ४.४४

सूक्तं ४.४५

सूक्तं ४.४६

सूक्तं ४.४७

सूक्तं ४.४८

सूक्तं ४.४९

सूक्तं ४.५०

सूक्तं ४.५१

सूक्तं ४.५२

सूक्तं ४.५३

सूक्तं ४.५४

सूक्तं ४.५५

सूक्तं ४.५६

सूक्तं ४.५७

सूक्तं ४.५८



"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.३८&oldid=198669" इत्यस्माद् पुनः प्राप्तिः