सामग्री पर जाएँ

वायुपुराणम्/उत्तरार्धम्/अध्यायः ५०

विकिस्रोतः तः


← उत्तरार्धम्, अध्यायः ४९ वायुपुराणम्
अध्यायः ५०
वेदव्यासः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०


         ।।सनत्कुमार उवाच।।
यज्ञञ्चक्रे गयो राजा बह्वन्नं बहुदक्षिणम्।
यत्र द्रव्यसमूहानां संख्या कर्त्तुं न शक्यते ।। ५०.१ ।।

स्थिता गयायामन्नादिपर्व्वताः पञ्चविंशतिः।
प्रशंसन्ति द्विजास्तत्र देशे देशे सुपूजिताः ।। ५०.२ ।।

नैव पूर्व्वं केप्यकुर्व्वन्न करिष्यन्ति चापरे।
सिकता वा यथा लोके यथा च दिवि तारकाः ।। ५०.३ ।।

तथा बहुसुवर्णाद्यैरसङ्ख्यातास्तु दक्षिणाः ।
नैवेह पूर्वे ये केचिन्न करिष्यन्ति चापरे ।। ५०.४ ।।

प्रशंसन्ति द्विजास्तृप्ता देशे देशे सुपूजिताः।
गयं विष्ण्वादयस्तुष्टा वरं ब्रूहीति चाब्रुवन् ।। ५०.५ ।।

गयस्तान्प्रार्थयामास ह्यभिशप्ताश्च चे पुरा।
ब्रह्मणा ते द्विजाः पूता भवन्तु क्रतुपूजिताः ।। ५०.६ ।।

गयाश्राद्धविधानाय द्विजा मूर्त्ताश्चदुर्द्दश।
तेषां वाक्यं प्रकुर्व्वीत यदि ब्रह्मा स्वयं भवेत् ।। ५०.७ ।।

गौतमं काश्यपं कौत्सं कौशिकं कण्वमेव च।
भारद्वाजं ह्यौशनसं वात्स्यं पाराशरं तथा ।। ५०.८ ।।

हरित्कुमारमाण्डव्यं लोकाक्षिं लोकसंमहत्।
वासिष्ठञ्च तथात्रेयं गोत्राण्येषां चतुर्द्दश ।। ५०.९ ।।

गयापुरीति मन्नाम्ना ख्याता ब्रह्म पुरी यथा।
एवमस्तु वरं दत्त्वा तथा चान्तर्दधुः सुराः ।। ५०.१० ।।

गयश्च भोगान्सम्भुज्य विष्णुलोकं परं ययौ।
विशालायां विशालोऽभूद्राजाऽपुत्रो ऽब्रवीद्द्विजान् ।। ५०.११ ।।

कथं पुत्रादयो मे स्युर्विशालं चाब्रुवन्द्विजाः।
गयायां पिण्डदानेन तव सर्व्वं भविष्यति ।। ५०.१२ ।।

विशालोऽपि गयाशीर्ष पिण्डदः पुत्रवानभूत्।
दृष्ट्वाकाशे सितं रक्तं कृष्णं पुरुषमब्रवीत् ।। ५०.१३ ।।

के यूयं तेषु चैवैकः सितः प्रोचे विशालकम्।
अहं सितस्ते जनक इन्द्रलोकादिहागतः ।। ५०.१४ ।।

मम पुत्र पिता रक्तो ब्रह्महा पापकृत्तमः ।
अयं पितामहः कृष्ण ऋषयो येन घातिताः ।। ५०.१५ ।।

अवीचिनरकं प्राप्तौ मुक्तौ त्वत्पिण्डदानतः।
पितॄन्पितामहांश्चैव तथैव प्रपितामहान् ।। ५०.१६ ।।

प्रीणयामीति यत्तोयं त्वया दत्तमरिन्दम।
तेनास्मद्युगपद्योगो जातो वाक्येन सत्तम ।। ५०.१७ ।।

मुक्तिः कृता त्वया पुत्र व्रजामः स्वर्गमुत्तमम्।
एवं पुत्रैः पितॄणां च कर्तव्या मुक्तिरुत्तमा ।। ५०.१८ ।।

त्वञ्च राज्यं चिरं कृत्वा भुक्त्वा भोगांश्च दुर्ल्लभान्।
यज्ञान्सदक्षिणान्कृत्वा यायाद्विष्णुपुरं ततः ।। ५०.१९ ।।

एवं लब्धवरो राजा राज्यं कृत्वा दिवंगतः।
प्रेतराजः सह प्रेतैर्गयाश्राद्धाद्दिवं गतः ।। ५०.२० ।।

प्रेतः कश्चिद्विमुक्त्यर्थं वणिजं कञ्चिदब्रवीत्।
मम नाम्ना गयाशीर्षे पिण्डनिर्व्वापणं कुरु ।। ५०.२१ ।।

प्रेतभावविमुक्त्यर्थं त्वं गृहाण धनं मम।
तद्वनं सर्व्वमादाय गयाश्राद्धव्ययं कुरु ।। ५०.२२ ।।

षोडशपञ्चभागांश्च तुभ्यं वै दत्तवानहम्।
स्वनामानि यथान्यायं सम्यगाख्यातवानहम् ।। ५०.२३ ।।

गत्वा गयां गयाशीर्ष प्रेतराजाय पिण्डकम्।
समदाद्बन्धुभिः सार्द्धं स्वपितृभ्यस्ततो ददौ ।। ५०.२४ ।।

प्रेतः प्रेतत्वनिर्म्मुक्तो वणिक् स्वगृहमागतः ।
एवं गयस्य शम्भोश्च क्षेत्रं विष्णो रवेस्तथा ।। ५०.२५ ।।

उपोषितोऽथ गायत्रीतीर्थे महानदीस्थिते।
गायत्र्याः पुरतः स्नात्वा प्रातःसन्ध्यामुपासयेत् ।। ५०.२६ ।।

श्राद्धं सपिण्डकं कृत्वानयेद्ब्रह्मण्यतां कुलम्।
तीर्थे समुदिते स्नात्वा सावित्र्याः पुरतो नरः ।। ५०.२७ ।।

सन्ध्यामुपास्य मध्याह्ने नयेत्कुलशतन्दिवम्।
पिण्डदानं ततः कुर्य्यात्पितॄणां मुक्तिकाम्यया ।। ५०.२८ ।।

प्राचीसरस्वतीतीर्थे स्नात्वा चापि यथाविधि।
सन्ध्यामुपास्य सायाह्ने विष्णुलोकं नयेत्पितॄन् ।। ५०.२९ ।।

बहुजन्मकृतात्सन्ध्यालोपान्मुक्तस्त्रिसन्ध्य कृत्।
विशालायां लेलिहाने तीर्थे च भरताश्रमे ।। ५०.३० ।।

पादाङ्किते मुण्डपृष्ठे गदाधरसमीपतः।
तीर्थे चाकाशगङ्गायां गिरिकर्णमुखेषु च ।। ५०.३१ ।।

स्नातोऽथ पिण्डदो ब्रह्मलोकं कुलशतं नयेत्।
देवनद्यां वैतरण्यां स्नातः स्वर्गं नयेत्पितॄन् ।। ५०.३२ ।।

स्नातो गोदो वैतरण्यां त्रिःसप्तकुलमुद्धरेत्।
सत्यं सत्यं पुनः सत्यं वैतरण्यां तु नारद ।। ५०.३३ ।।

एकविंशतिकुलान्याहुस्तारयेन्नात्र संशयः।
या सा वैतरणी नाम नदी त्रैलोक्यविश्रुता ।। ५०.३४ ।।

सावतीर्णा गयाक्षेत्रे पितॄणां तरणाय वै।
गोदावर्य्यां वैतरण्यां यमुनायां तथैव च ।। ५०.३५ ।।

देवनद्यां गोप्रचारे श्राद्धदः स्वर्नयेत्पितॄन्।
पुष्करिण्यां घृतकुल्यां मधुकुल्यां तथैव च ।। ५०.३६ ।।

कोटितीर्थे रुक्मिणीये पिण्डदः स्वर्नयेत्पितॄन्।
त्रिरात्रोपोषणेनैव तीर्थाभिगमनेन च ।। ५०.३७ ।।

अदत्त्वा काञ्चनङ्गाश्च दरिद्रो जायते नरः।
घृतकुल्या मधुकुल्या देविका च महानदी ।। ५०.३८ ।।

शिलायाः सङ्गमो यत्र मधुस्रवा प्रकीर्तिता।
अयुतं चाश्वमेधानां स्नानकृल्लभते नरः ।। ५०.३९ ।।

श्राद्धं सपिण्डकं कृत्वा पिण्डदानं तथैव च।
कुलानां शतमुद्धृत्य विष्णुलोकं नयेन्नरः ।। ५०.४० ।।

दशाश्च मेधिके हंसतीर्थे चामरकङ्कटे।
कोटितीर्थे रुक्मकुण्डे पिण्डदः स्वर्नयेत्पितॄन् ।। ५०.४१ ।।

वैतरण्यां घृतकुल्यां मधुकुल्यां तथैव च।
कोटितीर्थे नरः स्नात्वा दृष्ट्वा कोटीश्वरञ्च यः ।। ५०.४२ ।।

कोटिजन्म भवेद्विप्रो धनाढ्यो वेदपारगः ।
मार्कण्डेयेशकोचीशौ नत्वा स्यात्पितृतारकः ।। ५०.४३ ।।

रुक्म पारिजातवने पार्व्वत्या सह शङ्करः।
रहस्ये संस्थितो रेमे युगानामयुतं पुरा ।। ५०.४४ ।।

मरीचिः फलपुष्पार्थं पारिजातवनं गतः।
दृष्ट्वा शप्तो महेशेन यस्मात्सुखविघातकः ।। ५०.४५ ।।

दुःखी भवेति तद्भीतो मरिचिस्तुष्टुवे शिवम्।
तुष्टः प्रोवाच तं शम्भुर्वृणीष्व वरमुत्तमम् ।। ५०.४६ ।।

शापाद् भवतु मुक्तिर्म्मे मरीचिः प्राह शङ्करम्।
भवेद्गयायां मुक्तिस्ते शिवोक्तः प्रययौ गयाम् ।। ५०.४७ ।।

शिलास्थितस्तपस्तेपे सर्व्वेषां दुष्करञ्च यत्।
मरीचिरीश्वराच्छप्तः कृष्णत्वमगमत्पुरा ।। ५०.४८ ।।

तपसा दारुणेनेह स विप्रः शुक्लतां गतः ।
हरिरूचे मरीचिञ्च वरं वृणुहि पुत्रक ।। ५०.४९ ।।

किमलभ्यं त्वयि तुष्टे मरीचिः प्राह माधवम्।
हरशापाद्विमुक्तोऽहं शिला भवतु पावनी ।। ५०.५० ।।

पितृमुक्तिकरी च स्यात्तथेत्युक्त्वा दिवं गतः।
दिवौकसां पुष्करिणीं समासाद्य नरः शुचिः ।। ५०.५१ ।।

यत्र दत्तं पितृभ्यस्तु भवत्यक्षयमित्युत।
तत्र स्नातो दिवं याति स्वशरीरेण मानवः ।। ५०.५२ ।।

पाप्मानं प्रजहात्येष जीर्णत्वचमिवोरगः।
तत्पङ्गजवनं पुण्यं पुण्यकृद्भिर्निषेवितम् ।। ५०.५३ ।।

पाण्डुशिला वै तत्रास्ते श्राद्धं यत्राक्षयं भवेत्।
युधिष्ठिरस्तु तस्यां हि श्राद्धं कर्त्तुं ययौ मुने ।। ५०.५४ ।।

तत्र काले पाण्डुनोक्तं मद्धस्ते देहि पिण्डकम्।
हस्तं त्यक्त्वा शिलायाञ्च पिण्डदानञ्चकार सः ।। ५०.५५ ।।

शिलायां पिण्डदानेन प्रहृष्टो व्यासनन्दनः।
वरं ददौ स्वपुत्राय राज्यं कुरु महीतले ।। ५०.५६ ।।

अकण्टकन्तु सम्पूर्णं त्वं मे त्राता हि पुत्रक।
स्वर्गं व्रज शरीरेण भ्रातृभिः परिवारितः ।। ५०.५७ ।।

दृष्टिमात्रेण सम्पूतान्नरकस्थान्दिवं नय।
इत्युक्त्वा प्रययौ पाण्डुः शाश्वतं पदमव्ययम् ।। ५०.५८ ।।

उद्भिज्जाः स्वेदजा वापि ह्यण्डजा ये जरायुजाः।
मधुस्रवां समासाद्य मृताः स्वर्गपुरं ययुः ।। ५०.५९ ।।

दशाश्वमेधिके हंसतीर्थे श्राद्धाद्दिवं व्रजेत्।
दशाश्वमेधहंसौ च नत्वा शिवपुरं व्रजेत् ।। ५०.६० ।।

भरतस्याश्रमे श्राद्धान्नयेद्ब्रह्मालयं पितॄन्।
मतङ्गस्य पदे श्राद्धी ब्रह्मलोकं नयेत्पितॄन् ।। ५०.६१ ।।

निर्म्मथ्याग्निं शमीगर्भे विधिर्विष्ण्वादिभिः सह।
लेभे तीर्थन्तु यज्ञार्थं त्रिषु लोकेषु विश्रुतम् ।। ५०.६२ ।।

मखसंज्ञन्तु तत्तीर्थं पितॄणां मुक्ति दायकम्।
स्नात्वा च तर्पणं कृत्वा पिण्डदो मुक्तिमाप्नुयात् ।। ५०.६३ ।।

पितॄन्स्वर्गं नयेन्नत्वा सङ्गमेऽङ्गारकेश्वरौ।
गयाकूटे पिण्डदानादश्वमेधफलं लभेत् ।। ५०.६४ ।।

भस्मकूटे भस्मनाथं नत्वा च तारयेत्पितॄन् ।
त्यक्तपापो भवेन्मुक्तः सङ्गमे स्नानमाचरेत् ।। ५०.६५ ।।

इष्टिं चक्रेऽश्वमेधाख्यं वसिष्ठो मुनिसत्तमः।
इष्टितो निर्गतः शम्भुर्वरं वृणु वसिष्ठकम् ।। ५०.६६ ।।

प्राहेति तं वसिष्ठोऽपि शिव तुष्ठोऽसि मे यदि।
वस्तव्यं चात्र देवेश तथेत्युक्त्वा शिवः स्थितः ।। ५०.६७ ।।

पिण्डदो धेनुकारण्ये कामधेनुपदेषु च।
स्नात्वा नत्वाथ सम्पूज्य ब्रह्मलोकं नयेत्पितॄन् ।। ५०.६८ ।।

कर्द्दमाले गयानाभौ मुण्डपृष्ठसमीपतः।
स्नात्वा श्राद्धादिकं कृत्वा पितॄणामनृणो भवेत् ।। ५०.६९ ।।

फल्गुचण्डीश्मशानाक्षीमङ्गलाद्याः समर्च्चयेत्।
गयायाञ्च वृषोत्सर्गात्रिः सप्तकुलमुद्धरेत् ।। ५०.७० ।।

यत्र तत्र स्थिता देवा ऋषयोऽपि जितेन्द्रियाः ।
आद्यं गदाधरं ध्यायञ्छ्राद्धपिण्डादिदानतः ।। ५०.७१ ।।

कुलानां शतमुद्धृत्य ब्रह्मलोकं नयेत् पितॄन्।
गया गयो गया दित्यो गायत्री च गदाधरः ।। ५०.७२ ।।

गया गयासुरश्चैव षङ्गया मुक्तिदायकाः।
गयाख्यानमिदं पुण्यं यः पठेत्सततं नरः ।। ५०.७३ ।।

श्रृणुयाच्छ्रद्धया यस्तु स याति परमां गतिम्।
पाठयेद्वा गयाख्यानं विप्रेभ्यः पुण्यकृन्नरः ।। ५०.७४ ।।

गयाश्राद्धं कृतं तेन कृतं तेन सुनिश्चितम्।
गयाया महिमानञ्च ह्यभ्यसेद्यः समाहितः ।। ५०.७५ ।।

तेनेष्टं राजसूयेन अश्वमेधेन नारद।
लिखेद्वा लेखयेद्वापि पूजयेद्वापि पुस्तकम् ।। ५०.७६ ।।

तस्य गेहे स्थिरा लक्ष्मीः सुप्रसन्ना भविष्यति।
उपाख्यानमिदं पुण्यं गृहे तिष्ठति पुस्तकम् ।। ५०.७७ ।।

सर्पाग्निचौरजनितं भयं तत्र न विद्यते।
श्राद्धकाले पठेद्यस्तु गयामाहात्म्यमुत्तमम् ।। ५०.७८ ।।

विधिहीनन्तु तत्सर्वं पितॄणान्तु गयासमम्।
यानि तीर्थानि त्रैलोक्ये तानि दृष्टानि तत्र वै।
येन ज्ञातं गयाख्यानं श्रुतं वा पठितं मुने ।। ५०.७९ ।।

           ।।सूत उवाच।।
सनत्कुमारो मुनिपुङ्गवाय पुण्यां कथाञ्चाथ निवेद्य भक्त्या।
स्वमाश्रमं पुण्यवनैरुपेतं विसृज्य संगीतगुरुं जगाम ।। ५०.८० ।।

इति श्रीमहापुराणे वायुप्रोक्ते गयामहात्म्यं नाम पञ्चाशत्तमोऽध्यायः ।। ५० ।। समाप्तमिदं वायुपुराणम् ।। * ।।