सामग्री पर जाएँ

ऋग्वेदः सूक्तं ४.५३

विकिस्रोतः तः
← सूक्तं ४.५२ ऋग्वेदः - मण्डल ४
सूक्तं ४.५३
वामदेवो गौतमः
सूक्तं ४.५४ →
दे. सविता। जगती।


तद्देवस्य सवितुर्वार्यं महद्वृणीमहे असुरस्य प्रचेतसः ।
छर्दिर्येन दाशुषे यच्छति त्मना तन्नो महाँ उदयान्देवो अक्तुभिः ॥१॥
दिवो धर्ता भुवनस्य प्रजापतिः पिशङ्गं द्रापिं प्रति मुञ्चते कविः ।
विचक्षणः प्रथयन्नापृणन्नुर्वजीजनत्सविता सुम्नमुक्थ्यम् ॥२॥
आप्रा रजांसि दिव्यानि पार्थिवा श्लोकं देवः कृणुते स्वाय धर्मणे ।
प्र बाहू अस्राक्सविता सवीमनि निवेशयन्प्रसुवन्नक्तुभिर्जगत् ॥३॥
अदाभ्यो भुवनानि प्रचाकशद्व्रतानि देवः सविताभि रक्षते ।
प्रास्राग्बाहू भुवनस्य प्रजाभ्यो धृतव्रतो महो अज्मस्य राजति ॥४॥
त्रिरन्तरिक्षं सविता महित्वना त्री रजांसि परिभुस्त्रीणि रोचना ।
तिस्रो दिवः पृथिवीस्तिस्र इन्वति त्रिभिर्व्रतैरभि नो रक्षति त्मना ॥५॥
बृहत्सुम्नः प्रसवीता निवेशनो जगत स्थातुरुभयस्य यो वशी ।
स नो देवः सविता शर्म यच्छत्वस्मे क्षयाय त्रिवरूथमंहसः ॥६॥
आगन्देव ऋतुभिर्वर्धतु क्षयं दधातु नः सविता सुप्रजामिषम् ।
स नः क्षपाभिरहभिश्च जिन्वतु प्रजावन्तं रयिमस्मे समिन्वतु ॥७॥


सायणभाष्यम्

‘तद्देवस्य ' इति सप्तर्चमष्टमं सूक्तं वामदेवस्यार्षं जागतं सावित्रम् । तथा चानुक्रम्यते ‘ तद्देवस्य सावित्रं तु जागतम्' इति । आभिप्लविके तृतीयेऽहनि वैश्वदेवशस्त्रे सावित्रनिविद्धानमिदम् । तथा च सूत्रितं- तद्देवस्य घृतेन द्यावापृथिवी इति तिस्रः' ( आश्व. श्रौ. ७. ७) इति ॥


तद्दे॒वस्य॑ सवि॒तुर्वार्यं॑ म॒हद्वृ॑णी॒महे॒ असु॑रस्य॒ प्रचे॑तसः ।

छ॒र्दिर्येन॑ दा॒शुषे॒ यच्छ॑ति॒ त्मना॒ तन्नो॑ म॒हाँ उद॑यान्दे॒वो अ॒क्तुभि॑ः ॥१

तत् । दे॒वस्य॑ । स॒वि॒तुः । वार्य॑म् । म॒हत् । वृ॒णी॒महे॑ । असु॑रस्य । प्रऽचे॑तसः ।

छ॒र्दिः । येन॑ । दा॒शुषे॑ । यच्छ॑ति । त्मना॑ । तत् । नः॒ । म॒हान् । उत् । अ॒या॒न् । दे॒वः । अ॒क्तुऽभिः॑ ॥१

तत् । देवस्य । सवितुः । वार्यम् । महत् । वृणीमहे । असुरस्य । प्रऽचेतसः ।

छर्दिः । येन । दाशुषे । यच्छति । त्मना । तत् । नः । महान् । उत् । अयान् । देवः । अक्तुऽभिः ॥१

“सवितुः प्रेरकस्य “देवस्य "वार्यं वरणीयं “महत् पूज्यं “तत् धनं “वृणीमहे प्रार्थयामः । "असुरस्य । असुर्बलम् । तद्वतः “प्रचेतसः प्रकृष्टमतेः । देवस्येति संबन्धः । “येन धनेन युक्तः सन् “छर्दिः । गृहनामैतत् । गृहोपलक्षितं धनजातं “दाशुषे हविर्दत्तवते यजमानाय “त्मना आत्मनैव "यच्छति “तत् "छर्दिः “महान् “देवः सविता "अक्तुभिः रात्रिभिः । एतदह्नामप्युपलक्षणम् । सर्वैः दिवसैः सर्वेषु दिवसेषु “नः अस्माकम् "उदयान् उद्यच्छतु करोत्वित्यर्थः । यद्वा । छर्दिरिति तेजोनाम। तत्तेज उद्यच्छत्विति ॥


दि॒वो ध॒र्ता भुव॑नस्य प्र॒जाप॑तिः पि॒शङ्गं॑ द्रा॒पिं प्रति॑ मुञ्चते क॒विः ।

वि॒च॒क्ष॒णः प्र॒थय॑न्नापृ॒णन्नु॒र्वजी॑जनत्सवि॒ता सु॒म्नमु॒क्थ्य॑म् ॥२

दि॒वः । ध॒र्ता । भुव॑नस्य । प्र॒जाऽप॑तिः । पि॒शङ्ग॑म् । द्रा॒पिम् । प्रति॑ । मु॒ञ्च॒ते॒ । क॒विः ।

वि॒ऽच॒क्ष॒णः । प्र॒थय॑न् । आ॒ऽपृ॒णन् । उ॒रु । अजी॑जनत् । स॒वि॒ता । सु॒म्नम् । उ॒क्थ्य॑म् ॥२

दिवः । धर्ता । भुवनस्य । प्रजाऽपतिः । पिशङ्गम् । द्रापिम् । प्रति । मुञ्चते । कविः ।

विऽचक्षणः । प्रथयन् । आऽपृणन् । उरु । अजीजनत् । सविता । सुम्नम् । उक्थ्यम् ॥२

“दिवः द्युलोकस्य “धर्ता धारकः । न केवलं दिव एवं अपि तु “भुवनस्य कृत्स्नस्यापि लोकस्य धर्ता "प्रजापतिः प्रजानां प्रकाशवृष्ट्यादिना पालयिता “कविः प्राज्ञो देवः “पिशङ्गं “द्रापिं हिरण्मयं कवचं प्रति "मुञ्चते। आच्छादयति प्रत्युदयम् । “विचक्षणः विविधं द्रष्टा स एव देवः "प्रथयन् प्रख्यापयन् तेजः “आपृणन् आपूरयन् परितः "उरु प्रभूतं "सुम्नं सुखम् "उक्थ्यं स्तुत्यम् "अजीजनत् उत्पादयति ॥


आप्रा॒ रजां॑सि दि॒व्यानि॒ पार्थि॑वा॒ श्लोकं॑ दे॒वः कृ॑णुते॒ स्वाय॒ धर्म॑णे ।

प्र बा॒हू अ॑स्राक्सवि॒ता सवी॑मनि निवे॒शय॑न्प्रसु॒वन्न॒क्तुभि॒र्जग॑त् ॥३

आ । अ॒प्राः॒ । रजां॑सि । दि॒व्यानि॑ । पार्थि॑वा । श्लोक॑म् । दे॒वः । कृ॒णु॒ते॒ । स्वाय॑ । धर्म॑णे ।

प्र । बा॒हू इति॑ । अ॒स्रा॒क् । स॒वि॒ता । सवी॑मनि । नि॒ऽवे॒शय॑न् । प्र॒ऽसु॒वन् । अ॒क्तुऽभिः॑ । जग॑त् ॥३

आ । अप्राः । रजांसि । दिव्यानि । पार्थिवा । श्लोकम् । देवः । कृणुते । स्वाय । धर्मणे ।

प्र । बाहू इति । अस्राक् । सविता । सवीमनि । निऽवेशयन् । प्रऽसुवन् । अक्तुऽभिः । जगत् ॥३

अयं "देवः सविता "दिव्यानि द्युसंबन्धीनि "पार्थिवा पार्थिवानि "रजांसि लोकान् । तिस्रः खलु द्यावः पृथिव्यश्च । ' तिस्रो भूमीर्धारयन् त्रीँरुत द्यून्' (ऋ. सं. २. २७. ८) इति हि श्रुतम् । “आप्राः । आपूरयति स्वाभिर्भाभिर्देवः । "स्वाय “धर्मणे स्वकीयाय धारणाय “श्लोकं प्रशस्तिं “कृणुते करोति । "सविता “सवीमनि प्रसवेऽनुज्ञायां निमित्तायां “बाहू स्वीयौ “प्र “अस्राक् प्रसृजति ।। प्रसारयतीत्यर्थः। किं कुर्वन् । “अक्तुभिः कान्तिभिः "जगत् "निवेशयन् स्वस्वकार्ये स्थापयन् “प्रसुवन् प्रेरयन् । अथवा अक्तुभिरिति रात्रिनाम । तदुपलक्षितैः सर्वैर्वासरैः सर्वेष्वपि दिनेष्वेवं करोतीत्यर्थः ॥


अदा॑भ्यो॒ भुव॑नानि प्र॒चाक॑शद्व्र॒तानि॑ दे॒वः स॑वि॒ताभि र॑क्षते ।

प्रास्रा॑ग्बा॒हू भुव॑नस्य प्र॒जाभ्यो॑ धृ॒तव्र॑तो म॒हो अज्म॑स्य राजति ॥४

अदा॑भ्यः । भुव॑नानि । प्र॒ऽचाक॑शत् । व्र॒तानि॑ । दे॒वः । स॒वि॒ता । अ॒भि । र॒क्ष॒ते॒ ।

प्र । अ॒स्रा॒क् । बा॒हू इति॑ । भुव॑नस्य । प्र॒ऽजाभ्यः॑ । धृ॒तऽव्र॑तः । म॒हः । अज्म॑स्य । रा॒ज॒ति॒ ॥४

अदाभ्यः । भुवनानि । प्रऽचाकशत् । व्रतानि । देवः । सविता । अभि । रक्षते ।

प्र । अस्राक् । बाहू इति । भुवनस्य । प्रऽजाभ्यः । धृतऽव्रतः । महः । अज्मस्य । राजति ॥४

“सविता “देवः “अदाभ्यः अन्यैरहिंसितः सन् “भुवनानि “प्रचाकशत् दीपयन् "व्रतानि कर्माणि प्राणिनाम् "अभि "रक्षते । "भुवनस्य लोकस्य "प्रजाभ्यः तत्रत्याभ्यः "बाहू स्वीयौ "प्रास्राक् प्रसारयति । स्वस्वकर्मणे अनुजानातीत्यर्थः । सर्वव्यापाराणां सूर्याधीनत्वात् । सविता वै प्रसवानामीशे' ( ऐ. ब्रा. १. १६ ) इति हि श्रुतिः । “धृतव्रतः धृतकर्मा स तथा कुर्वन् "महः महतः "अज्मस्य जगतः "राजति ईश्वरो भवति ॥


त्रिर॒न्तरि॑क्षं सवि॒ता म॑हित्व॒ना त्री रजां॑सि परि॒भुस्त्रीणि॑ रोच॒ना ।

ति॒स्रो दिव॑ः पृथि॒वीस्ति॒स्र इ॑न्वति त्रि॒भिर्व्र॒तैर॒भि नो॑ रक्षति॒ त्मना॑ ॥५

त्रिः । अ॒न्तरि॑क्षम् । स॒वि॒ता । म॒हि॒ऽत्व॒ना । त्री । रजां॑सि । प॒रि॒ऽभूः । त्रीणि॑ । रो॒च॒ना ।

ति॒स्रः । दिवः॑ । पृ॒थि॒वीः । ति॒स्रः । इ॒न्व॒ति॒ । त्रि॒ऽभिः । व्र॒तैः । अ॒भि । नः॒ । र॒क्ष॒ति॒ । त्मना॑ ॥५

त्रिः । अन्तरिक्षम् । सविता । महिऽत्वना । त्री । रजांसि । परिऽभूः । त्रीणि । रोचना ।

तिस्रः । दिवः । पृथिवीः । तिस्रः । इन्वति । त्रिऽभिः । व्रतैः । अभि । नः । रक्षति । त्मना ॥५

अयं "सविता "त्रिः त्रिभेदम् "अन्तरिक्षम् । अन्तरा क्षान्तं भवति जगदित्यन्तरिक्षम् । “परिभूः परिभविता सन् "महित्वना महित्वेन “इन्वति व्याप्नोति । वायुविद्युद्वरुणाख्यास्त्रयो लोका अन्तरिक्षभेदाः स वायुलोकं स वरुणलोकम् ' ( कौ. उ. १. ३ ) इत्यादिश्रुतेः । "त्री "रजांसि रञ्जनात्मकानि त्रीणि क्षित्यन्तरिक्षद्युलक्षणान् त्रीन् लोकान् इन्वति । पूर्वमन्तरिक्षस्यैवावान्तरभेद उक्तः इह तु सामान्याकारेणेत्यपुनरुक्तिः। "त्रीणि "रोचना रोचनानि रोचमानान् अग्निवाय्वादिस्यान् उक्तस्थानत्रयस्वामित्वेन इन्वति । पूर्वमन्तरिक्षस्यैवावान्तरभेद उक्तः । अथ द्युपृथिव्योरवान्तरभेद उच्यते । “तिस्रो "दिवः इन्द्रप्रजापतिसत्याख्यान् त्रीन् लोकान् इन्वति । तथा “तिस्रः "पृथिवीः इन्वति । क्षित्यवान्तरभेदान् लोकान् इन्वति । एवं सर्वत्र व्याप्तो देवः "त्रिभिर्व्रतैः कर्मभिः उष्णवर्षहिमाख्यैः “नः अस्मान् “त्मना आत्मनैव स्वीयानुग्रहबुद्ध्यैव "अभि "रक्षति अभिरक्षतु । परिपालयतु ॥


बृ॒हत्सु॑म्नः प्रसवी॒ता नि॒वेश॑नो॒ जग॑तः स्था॒तुरु॒भय॑स्य॒ यो व॒शी ।

स नो॑ दे॒वः स॑वि॒ता शर्म॑ यच्छत्व॒स्मे क्षया॑य त्रि॒वरू॑थ॒मंह॑सः ॥६

बृ॒हत्ऽसु॑म्नः । प्र॒ऽस॒वि॒ता । नि॒ऽवेश॑नः । जग॑तः । स्था॒तुः । उ॒भय॑स्य । यः । व॒शी ।

सः । नः॒ । दे॒वः । स॒वि॒ता । शर्म॑ । य॒च्छ॒तु॒ । अ॒स्मे इति॑ । क्षया॑य । त्रि॒ऽवरू॑थम् । अंह॑सः ॥६

बृहत्ऽसुम्नः । प्रऽसविता । निऽवेशनः । जगतः । स्थातुः । उभयस्य । यः । वशी ।

सः । नः । देवः । सविता । शर्म । यच्छतु । अस्मे इति । क्षयाय । त्रिऽवरूथम् । अंहसः ॥६

यः “बृहत्सुम्नः प्रभूतधनः प्रभूतसुखो वा "प्रसविता प्रकर्षेणानुज्ञाता कर्मणां "निवेशनः सर्वैर्गन्तव्यः । "जगतः जङ्गमस्य “स्थातुः स्थावरस्य “उभयस्य "यो "वशी "सः महान् "सविता "देवः "नः अस्मभ्यं "शर्म सुखं "यच्छतु । कीदृशं शर्म । "त्रिवरूथम् । त्रीणि वरूथानि गृहाणि स्थानानि क्षित्यादीनि यस्य तत्तादृशम् । "अस्मे अस्माकम् "अंहसः पापस्य "क्षयाय भवत्विति शेषः ॥


राजक्रये ‘ आगन्देवः' इत्येषानुवचनीया । सूत्रितं च - ' आगन्देव ऋतुभिर्वर्धतु क्षयमित्यर्धर्च आरमेत् ' ( आश्व. श्रौ. ४. ४ ) इति ॥

आग॑न्दे॒व ऋ॒तुभि॒र्वर्ध॑तु॒ क्षयं॒ दधा॑तु नः सवि॒ता सु॑प्र॒जामिष॑म् ।

स न॑ः क्ष॒पाभि॒रह॑भिश्च जिन्वतु प्र॒जाव॑न्तं र॒यिम॒स्मे समि॑न्वतु ॥७

आ । अ॒ग॒न् । दे॒वः । ऋ॒तुऽभिः॑ । वर्ध॑तु । क्षय॑म् । दधा॑तु । नः॒ । स॒वि॒ता । सु॒ऽप्र॒जाम् । इष॑म् ।

सः । नः॒ । क्ष॒पाभिः॑ । अह॑ऽभिः । च॒ । जि॒न्व॒तु॒ । प्र॒जाऽव॑न्तम् । र॒यिम् । अ॒स्मे इति॑ । सम् । इ॒न्व॒तु॒ ॥७

आ । अगन् । देवः । ऋतुऽभिः । वर्धतु । क्षयम् । दधातु । नः । सविता । सुऽप्रजाम् । इषम् ।

सः । नः । क्षपाभिः । अहऽभिः । च । जिन्वतु । प्रजाऽवन्तम् । रयिम् । अस्मे इति । सम् । इन्वतु ॥७

“देवः "सविता “ऋतुभिः सह “आगन् आगच्छतु । गमेर्लङि रूपम् ॥ किंच "क्षयं गृहं “वर्धतु वर्धयतु । “नः अस्माकं "सुप्रजां शोभनपुत्राद्युपेतम् "इषम् अन्नं "दधातु ददातु । "सः एव “नः अस्मान् "क्षपाभिः रात्रिभिः "अहभिश्च । सर्वेषु दिनेष्वित्यर्थः । "जिन्वतु प्रीणयतु धनादिभिः। “अस्मे अस्मासु "प्रजावन्तं "रयिं "समिन्वतु व्याप्नोतु । प्रापयत्वित्यर्थः ॥ ॥ ४ ॥

मण्डल ४

सूक्तं ४.१

सूक्तं ४.२

सूक्तं ४.३

सूक्तं ४.४

सूक्तं ४.५

सूक्तं ४.६

सूक्तं ४.७

सूक्तं ४.८

सूक्तं ४.९

सूक्तं ४.१०

सूक्तं ४.११

सूक्तं ४.१२

सूक्तं ४.१३

सूक्तं ४.१४

सूक्तं ४.१५

सूक्तं ४.१६

सूक्तं ४.१७

सूक्तं ४.१८

सूक्तं ४.१९

सूक्तं ४.२०

सूक्तं ४.२१

सूक्तं ४.२२

सूक्तं ४.२३

सूक्तं ४.२४

सूक्तं ४.२५

सूक्तं ४.२६

सूक्तं ४.२७

सूक्तं ४.२८

सूक्तं ४.२९

सूक्तं ४.३०

सूक्तं ४.३१

सूक्तं ४.३२

सूक्तं ४.३३

सूक्तं ४.३४

सूक्तं ४.३५

सूक्तं ४.३६

सूक्तं ४.३७

सूक्तं ४.३८

सूक्तं ४.३९

सूक्तं ४.४०

सूक्तं ४.४१

सूक्तं ४.४२

सूक्तं ४.४३

सूक्तं ४.४४

सूक्तं ४.४५

सूक्तं ४.४६

सूक्तं ४.४७

सूक्तं ४.४८

सूक्तं ४.४९

सूक्तं ४.५०

सूक्तं ४.५१

सूक्तं ४.५२

सूक्तं ४.५३

सूक्तं ४.५४

सूक्तं ४.५५

सूक्तं ४.५६

सूक्तं ४.५७

सूक्तं ४.५८



"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.५३&oldid=222991" इत्यस्माद् प्रतिप्राप्तम्