ऋग्वेदः सूक्तं ४.४७
← सूक्तं ४.४६ | ऋग्वेदः - मण्डल ४ सूक्तं ४.४७ वामदेवो गौतमः। |
सूक्तं ४.४८ → |
दे. इन्द्रवायू, १ वायुः। अनुष्टुप्। |
वायो शुक्रो अयामि ते मध्वो अग्रं दिविष्टिषु ।
आ याहि सोमपीतये स्पार्हो देव नियुत्वता ॥१॥
इन्द्रश्च वायवेषां सोमानां पीतिमर्हथः ।
युवां हि यन्तीन्दवो निम्नमापो न सध्र्यक् ॥२॥
वायविन्द्रश्च शुष्मिणा सरथं शवसस्पती ।
नियुत्वन्ता न ऊतय आ यातं सोमपीतये ॥३॥
या वां सन्ति पुरुस्पृहो नियुतो दाशुषे नरा ।
अस्मे ता यज्ञवाहसेन्द्रवायू नि यच्छतम् ॥४॥
सायणभाष्यम्
‘ वायो शुक्रः' इति चतुर्ऋचं द्वितीयं सूक्तमानुष्टुभं वामदेवस्यार्षम् ऐन्द्रवायवम् । आद्या केवलवायव्या । अत्रानुक्रमणिका - वायो चतुष्कमाद्या वायव्यानुष्टुभं तु ' इति । सूक्तविनियोगो लैङ्गिकः । आद्या दशरात्रे चतुर्थेऽहनि प्रउगशस्त्रे वायच्यतृचे प्रथमा । ‘ वायो शुक्रो अयामि ते विहि होत्रा अवीताः ' ( आश्व. श्रौ. ७. ११ ) इति सूत्रितम् ॥
वायो॑ शु॒क्रो अ॑यामि ते॒ मध्वो॒ अग्रं॒ दिवि॑ष्टिषु ।
आ या॑हि॒ सोम॑पीतये स्पा॒र्हो दे॑व नि॒युत्व॑ता ॥१
वायो॒ इति॑ । शु॒क्रः । अ॒या॒मि॒ । ते॒ । मध्वः॑ । अग्र॑म् । दिवि॑ष्टिषु ।
आ । या॒हि॒ । सोम॑ऽपीतये । स्पा॒र्हः । दे॒व॒ । नि॒युत्व॑ता ॥१
वायो इति । शुक्रः । अयामि । ते । मध्वः । अग्रम् । दिविष्टिषु ।
आ । याहि । सोमऽपीतये । स्पार्हः । देव । नियुत्वता ॥१
हे "वायो “ते तुभ्यं “शुक्रः व्रतचर्यादिना दीप्तोऽहं “मध्वः मधुरं सोमरसम् ॥ कर्मणि षष्ठी ॥ “अग्रम् इतरेभ्यः पूर्वम् “अयामि आययामि॥ अयतिरन्तर्भावितण्यर्थः ॥ किमर्थम् । “दिविष्टिषु दिवो द्युलोकस्यैषणेषु सत्सु हे “देव वायो "स्पार्हः स्पृहणीयस्त्वं “नियुत्वता । नियुत् वायोः प्रतिनियतोऽश्वः । तेन साधनेन “आ “याहि “सोमपीतये सोमपानाय ॥
‘ इन्द्रश्च ' इत्यादिस्तृचो दशरात्रे चतुर्थेऽहन्यैन्द्रवायवो द्वितीयः । सूत्रितं च - ‘ इन्द्रश्च वायवेषां सोमानामा चिकितान सुक्रतू' आ. श्रौ. ७. ११ ) इति ॥
इन्द्र॑श्च वायवेषां॒ सोमा॑नां पी॒तिम॑र्हथः ।
यु॒वां हि यन्तीन्द॑वो नि॒म्नमापो॒ न स॒ध्र्य॑क् ॥२
इन्द्रः॑ । च॒ । वा॒यो॒ इति॑ । ए॒षा॒म् । सोमा॑नाम् । पी॒तिम् । अ॒र्ह॒थः॒ ।
यु॒वाम् । हि । यन्ति॑ । इन्द॑वः । नि॒म्नम् । आपः॑ । न । स॒ध्र्य॑क् ॥२
इन्द्रः । च । वायो इति । एषाम् । सोमानाम् । पीतिम् । अर्हथः ।
युवाम् । हि । यन्ति । इन्दवः । निम्नम् । आपः । न । सध्र्यक् ॥२
हे "वायो त्वम् “इन्द्रश्च “एषां गृहीतानां “सोमानां “पीतिं पानम् “अर्हथः । “युवां “हि खलु “इन्दवः सोमाः "यन्ति प्राप्नुवन्ति । “निम्नं खातप्रदेशम् “आपो “न “सध्र्यक् उदकानि यथा सहैव गच्छन्ति तद्वत् सर्वे सोमा युवां हि यन्ति ।
वाय॒विन्द्र॑श्च शु॒ष्मिणा॑ स॒रथं॑ शवसस्पती ।
नि॒युत्व॑न्ता न ऊ॒तय॒ आ या॑तं॒ सोम॑पीतये ॥३
वायो॒ इति॑ । इन्द्रः॑ । च॒ । शु॒ष्मिणा॑ । स॒ऽरथ॑म् । श॒व॒सः॒ । प॒ती॒ इति॑ ।
नि॒युत्व॑न्ता । नः॒ । ऊ॒तये॑ । आ । या॒त॒म् । सोम॑ऽपीतये ॥३
वायो इति । इन्द्रः । च । शुष्मिणा । सऽरथम् । शवसः । पती इति ।
नियुत्वन्ता । नः । ऊतये । आ । यातम् । सोमऽपीतये ॥३
हे "वायो त्वम् “इन्द्रश्च हे “शवसस्पती बलस्य पती “शुष्मिणा बलवन्तौ “नियुत्वन्ता नियुत्संज्ञकाश्ववन्तौ युवां "सरथं समानमेव रथमारुह्येति शेषः। “न “ऊतये रक्षणाय “सोमपीतये सोमपानायात्र “आ "यातम् आगच्छतम् । यद्वा । सरथमधितिष्ठतम् आरुह्य चायातमिति च वाक्यद्वयम् ॥
या वां॒ सन्ति॑ पुरु॒स्पृहो॑ नि॒युतो॑ दा॒शुषे॑ नरा ।
अ॒स्मे ता य॑ज्ञवाह॒सेन्द्र॑वायू॒ नि य॑च्छतम् ॥४
याः । वा॒म् । सन्ति॑ । पु॒रु॒ऽस्पृहः॑ । नि॒ऽयुतः॑ । दा॒शुषे॑ । न॒रा॒ ।
अ॒स्मे इति॑ । ताः । य॒ज्ञ॒ऽवा॒ह॒सा॒ । इन्द्र॑वायू॒ इति॑ । नि । य॒च्छ॒त॒म् ॥४
याः । वाम् । सन्ति । पुरुऽस्पृहः । निऽयुतः । दाशुषे । नरा ।
अस्मे इति । ताः । यज्ञऽवाहसा । इन्द्रवायू इति । नि । यच्छतम् ॥४
हे “नरा नेतारौ हे “यज्ञवाहसा यज्ञवाहकौ 'इन्द्रवायू “याः “पुरुस्पृहः बहुभिः स्पृहणीयाः “नियुतः “सन्ति “अस्मे अस्मभ्यं “दाशुषे हविर्दत्तवते यजमानाय मदर्थं “ताः नियुतः “नि “यच्छतम् ॥ ॥ २३ ॥
टिप्पणी
वायो शुक्रो अयामि ते इति - ४.४७.१
तु.साम १६२८
वायो शुक्रो अयामि त इति शुक्रवती भवति। शुक्रियं ह्य् एतद् अहः। मध्वो अग्रं दिविष्टिष्व् इति, तद् उ मधव्या अग्रया ब्रह्मवर्चसिनो भवन्ति। आ याहि सोमपीतय इति सौमी, तेन पावमानी क्रियते। स्पार्हो देव नियुत्वतेत्य् - असौ वै स्पार्हो ऽन्नं नियुत्वद् - एतम् एव तद् अन्नाद्येनाभ्युपयन्ति। यो वै श्रेयांसम् आहरन्न् उपैति प्रति वै स तं नन्दति। - जैब्रा २.३८९
गवामयने विषुवदहः -- विषुवानेष भवति... आ याहि सोमपीतय इति सौमी पावमानी। नियुत्वती भवति पशवो नियुतः शान्तिः पशवः शान्तेनैव तदादित्यमुपयन्ति । तां ४, ६, ११
मण्डल ४ | |
---|---|
|