ऋग्वेदः सूक्तं ४.४५
← सूक्तं ४.४४ | ऋग्वेदः - मण्डल ४ सूक्तं ४.४५ वामदेवो गौतमः |
सूक्तं ४.४६ → |
दे. अश्विनौ। जगती, ७ त्रिष्टुप् |
एष स्य भानुरुदियर्ति युज्यते रथः परिज्मा दिवो अस्य सानवि ।
पृक्षासो अस्मिन्मिथुना अधि त्रयो दृतिस्तुरीयो मधुनो वि रप्शते ॥१॥
उद्वां पृक्षासो मधुमन्त ईरते रथा अश्वास उषसो व्युष्टिषु ।
अपोर्णुवन्तस्तम आ परीवृतं स्वर्ण शुक्रं तन्वन्त आ रजः ॥२॥
मध्वः पिबतं मधुपेभिरासभिरुत प्रियं मधुने युञ्जाथां रथम् ।
आ वर्तनिं मधुना जिन्वथस्पथो दृतिं वहेथे मधुमन्तमश्विना ॥३॥
हंसासो ये वां मधुमन्तो अस्रिधो हिरण्यपर्णा उहुव उषर्बुधः ।
उदप्रुतो मन्दिनो मन्दिनिस्पृशो मध्वो न मक्षः सवनानि गच्छथः ॥४॥
स्वध्वरासो मधुमन्तो अग्नय उस्रा जरन्ते प्रति वस्तोरश्विना ।
यन्निक्तहस्तस्तरणिर्विचक्षणः सोमं सुषाव मधुमन्तमद्रिभिः ॥५॥
आकेनिपासो अहभिर्दविध्वतः स्वर्ण शुक्रं तन्वन्त आ रजः ।
सूरश्चिदश्वान्युयुजान ईयते विश्वाँ अनु स्वधया चेतथस्पथः ॥६॥
प्र वामवोचमश्विना धियंधा रथः स्वश्वो अजरो यो अस्ति ।
येन सद्यः परि रजांसि याथो हविष्मन्तं तरणिं भोजमच्छ ॥७॥
सायणभाष्यम्
‘एष स्य भानुः' इति सप्तर्चं त्रयोदशं सूक्तम् । आदितः षट् जगत्यः सप्तमी त्रिष्टुप् । मण्डलद्रष्टा वामदेव ऋषिः । अश्विनौ देवता । एष स्य त्रिष्टुबन्तम् ' इति ह्यनुक्रान्तम् । प्रातरनुवाकाश्विनशस्त्रयोर्जागते छन्दसीदं शस्यम् । तथा च सूत्रितम्- अबोध्यग्निर्ज्म एष स्य भानुः' ( आश्व. श्रौ. ४. १५) इति ॥
ए॒ष स्य भा॒नुरुदि॑यर्ति यु॒ज्यते॒ रथः॒ परि॑ज्मा दि॒वो अ॒स्य सान॑वि ।
पृ॒क्षासो॑ अस्मिन्मिथु॒ना अधि॒ त्रयो॒ दृति॑स्तु॒रीयो॒ मधु॑नो॒ वि र॑प्शते ॥१
ए॒षः । स्यः । भा॒नुः । उत् । इ॒य॒र्ति॒ । यु॒ज्यते॑ । रथः॑ । परि॑ऽज्मा । दि॒वः । अ॒स्य । सान॑वि ।
पृ॒क्षासः॑ । अ॒स्मि॒न् । मि॒थु॒नाः । अधि॑ । त्रयः॑ । दृतिः॑ । तु॒रीयः॑ । मधु॑नः । वि । र॒प्श॒ते॒ ॥१
एषः । स्यः । भानुः । उत् । इयर्ति । युज्यते । रथः । परिऽज्मा । दिवः । अस्य । सानवि ।
पृक्षासः । अस्मिन् । मिथुनाः । अधि । त्रयः । दृतिः । तुरीयः । मधुनः । वि । रप्शते ॥१
“एषः पुरतो दृश्यमानः "स्यः सः "भानुः दीप्तिमानादित्यः "उदियर्ति ऊर्ध्वं गच्छति । पुरस्तात् “रथः च युवयोः संबन्धी "परिज्मा परितो गन्ता "अस्य "दिवः द्योतमानस्यादित्यस्य "सानविः सानौ समुच्छ्रितप्रदेशे उदियर्तीति विरप्शते इति वा संबन्धनीयम् । "अस्मिन् रथे “अधि उपरिभागे “मिथुनाः मिथुनीभूताः “त्रयः त्रिविधाः “पृक्षासः अन्नानि । त्रेधा विहितं चान्नम् । इदमन्नमशनं पानं खादश्च ' इति हि श्रुतम् । त्रिष्वपि पदार्थेषु मिथुनशब्दः तैत्तिरीयेषु दृश्यते-- माता पिता पुत्रस्तदेव तन्मिथुनम्' इति । "दृतिस्तुरीयः । रसद्रव्याधारः पदार्थश्चर्ममयो दृतिरित्युच्यते । "मधुनः सोमरसस्य संबन्धी मधुपूर्णश्चतुर्थः “वि “रप्शते विविधं राजते ॥
उद्वां॑ पृ॒क्षासो॒ मधु॑मंत ईरते॒ रथा॒ अश्वा॑स उ॒षसो॒ व्यु॑ष्टिषु ।
अ॒पो॒र्णु॒वंत॒स्तम॒ आ परी॑वृतं॒ स्व१॒॑र्ण शु॒क्रं त॒न्वंत॒ आ रजः॑ ॥२
उत् । वा॒म् । पृ॒क्षासः॑ । मधु॑ऽमन्तः । ई॒र॒ते॒ । रथाः॑ । अश्वा॑सः । उ॒षसः॑ । विऽउ॑ष्टिषु ।
अ॒प॒ऽऊ॒र्णु॒वन्तः॑ । तमः॑ । आ । परि॑ऽवृतम् । स्वः॑ । न । शु॒क्रम् । त॒न्वन्तः॑ । आ । रजः॑ ॥२
उत् । वाम् । पृक्षासः । मधुऽमन्तः । ईरते । रथाः । अश्वासः । उषसः । विऽउष्टिषु ।
अपऽऊर्णुवन्तः । तमः । आ । परिऽवृतम् । स्वः । न । शुक्रम् । तन्वन्तः । आ । रजः ॥२
"पृक्षासः पृक्षास्त्रिविधान्नवन्तः "मधुमन्तः सोमरसोपेताः "अश्वासः अश्वयुक्ताः “वां युवयोः “रथाः । यद्वा । मधुमन्तः पृक्षा रथा अश्वासोऽश्वाः “उषसो “व्युष्टिषु व्युच्छनेषु सत्सु "उत् "ईरते उन्मुखं गच्छन्ति । किं कुर्वन्तः । "परीवृतं परितो व्याप्तं “तमः "आ सर्वतः "अपोर्णुवन्तः अपाकुर्वन्तः “स्वर्न आदित्य इव “शुक्रं दीप्तं "रजः तेजश्च “तन्वन्तः । आकारश्चार्थे । यद्वा । रजोऽन्तरिक्षं शुक्रं दीप्तं तन्वन्तः ॥
मध्वः॑ पिबतं मधु॒पेभि॑रा॒सभि॑रु॒त प्रि॒यं मधु॑ने युंजाथां॒ रथं॑ ।
आ व॑र्त॒निं मधु॑ना जिन्वथस्प॒थो दृतिं॑ वहेथे॒ मधु॑मंतमश्विना ॥३
मध्वः॑ । पि॒ब॒त॒म् । म॒धु॒ऽपेभिः॑ । आ॒सऽभिः॑ । उ॒त । प्रि॒यम् । मधु॑ने । यु॒ञ्जा॒था॒म् । रथ॑म् ।
आ । व॒र्त॒निम् । मधु॑ना । जि॒न्व॒थः॒ । प॒थः । दृति॑म् । व॒हे॒थे॒ इति॑ । मधु॑ऽमन्तम् । अ॒श्वि॒ना॒ ॥३
मध्वः । पिबतम् । मधुऽपेभिः । आसऽभिः । उत । प्रियम् । मधुने । युञ्जाथाम् । रथम् ।
आ । वर्तनिम् । मधुना । जिन्वथः । पथः । दृतिम् । वहेथे इति । मधुऽमन्तम् । अश्विना ॥३
“मध्वः मधुरं सोमरसं “"मधुपेभिः सोमपानार्हैः “आसभिः आस्यैः "पिबतम् । "उत अपि च “प्रियं "रथं "मधुने मधुलाभाय "युञ्जाथाम् अश्वैर्युक्तं कुरुतम् । "वर्तनिं यजमानगृहम् "आ गच्छतमिति शेषः । "पथः गमनमार्गान् "मधुना “जिन्वथः प्रीणयतम् । यद्वैकं वाक्यम् । पथो वर्तनिमाकाशं जिन्वथः । “दृतिं "मधुमन्तं हे "अश्विना “वहेथे धारयथः ॥
हं॒सासो॒ ये वां॒ मधु॑मंतो अ॒स्रिधो॒ हिर॑ण्यपर्णा उ॒हुव॑ उष॒र्बुधः॑ ।
उ॒द॒प्रुतो॑ मं॒दिनो॑ मंदिनि॒स्पृशो॒ मध्वो॒ न मक्षः॒ सव॑नानि गच्छथः ॥४
हं॒सासः॑ । ये । वा॒म् । मधु॑ऽमन्तः । अ॒स्रिधः॑ । हिर॑ण्यऽपर्णाः । उ॒हुवः॑ । उ॒षः॒ऽबुधः॑ ।
उ॒द॒ऽप्रुतः॑ । म॒न्दिनः॑ । म॒न्दि॒ऽनि॒स्पृशः॑ । मध्वः॑ । न । मक्षः॑ । सव॑नानि । ग॒च्छ॒थः॒ ॥४
हंसासः । ये । वाम् । मधुऽमन्तः । अस्रिधः । हिरण्यऽपर्णाः । उहुवः । उषःऽबुधः ।
उदऽप्रुतः । मन्दिनः । मन्दिऽनिस्पृशः । मध्वः । न । मक्षः । सवनानि । गच्छथः ॥४
"हंसासः अध्वनि शीघ्रं गन्तारः "मधुमन्तः माधुर्योपेताः "अस्रिधः अद्रोग्धारः “हिरण्यपर्णाः हितरमणीयपर्णाः “उहुवः वोढारः "उषर्बुधः उषसि बुध्यमानाः “उदप्रुतः उदकस्य प्लावयितारः “मन्दिनः हर्षयितारः “मन्दिनिस्पृशः मन्दिनं सोमं स्पृशन्तः । इत्थंलक्षणा: अश्वा “ये सन्ति तैरश्वैः “मध्वो “न मध्विव "मक्षः मक्षिकाः "सवनानि अस्मदीयानि गच्छथः ॥
स्व॒ध्व॒रासो॒ मधु॑मंतो अ॒ग्नय॑ उ॒स्रा ज॑रंते॒ प्रति॒ वस्तो॑र॒श्विना॑ ।
यन्नि॒क्तह॑स्तस्त॒रणि॑र्विचक्ष॒णः सोमं॑ सु॒षाव॒ मधु॑मंत॒मद्रि॑भिः ॥५
सु॒ऽअ॒ध्व॒रासः॑ । मधु॑ऽमन्तः । अ॒ग्नयः॑ । उ॒स्रा । ज॒र॒न्ते॒ । प्रति॑ । वस्तोः॑ । अ॒श्विना॑ ।
यत् । नि॒क्तऽह॑स्तः । त॒रणिः॑ । वि॒ऽच॒क्ष॒णः । सोम॑म् । सु॒साव॑ । मधु॑ऽमन्तम् । अद्रि॑ऽभिः ॥५
सुऽअध्वरासः । मधुऽमन्तः । अग्नयः । उस्रा । जरन्ते । प्रति । वस्तोः । अश्विना ।
यत् । निक्तऽहस्तः । तरणिः । विऽचक्षणः । सोमम् । सुसाव । मधुऽमन्तम् । अद्रिऽभिः ॥५
“स्वध्वरासः शोभनयागसाधनाः "मधुमन्तः होतव्यसोमवन्तः "अग्नयः गार्हपत्यादयः "उस्रा सह निवसन्तावश्विनौ "प्रति “वस्तोः अन्वहमुषःकाले "जरन्ते स्तुवन्ति । "यत् यदा "निक्तहस्तः समन्त्रेणोदकेन शोधितहस्तः “तरणिः कर्मणस्तारयिता "विचक्षणः विविधं द्रष्टा अध्वर्युः "सोमं "मधुमन्तम् "अद्रिभिः ग्रावभिः "सुषाव अभिषुतवान् । तदा तेऽग्नयः स्तुवन्ति तस्मादागच्छतमित्यर्थः ।
आ॒के॒नि॒पासो॒ अह॑भि॒र्दवि॑ध्वतः॒ स्व१॒॑र्ण शु॒क्रं त॒न्वंत॒ आ रजः॑ ।
सूर॑श्चि॒दश्वा॑न्युयुजा॒न ई॑यते॒ विश्वाँ॒ अनु॑ स्व॒धया॑ चेतथस्प॒थः ॥६
आ॒के॒ऽनि॒पासः॑ । अह॑ऽभिः । दवि॑ध्वतः । स्वः॑ । न । शु॒क्रम् । त॒न्वन्तः॑ । आ । रजः॑ ।
सूरः॑ । चि॒त् । अश्वा॑न् । यु॒यु॒जा॒नः । ई॒य॒ते॒ । विश्वा॑न् । अनु॑ । स्व॒धया॑ । चे॒त॒थः॒ । प॒थः ॥६
आकेऽनिपासः । अहऽभिः । दविध्वतः । स्वः । न । शुक्रम् । तन्वन्तः । आ । रजः ।
सूरः । चित् । अश्वान् । युयुजानः । ईयते । विश्वान् । अनु । स्वधया । चेतथः । पथः ॥६
“आकेनिपासः । आकेऽन्तिके निपतन्तीत्याकेनिपा रश्मयः । ते च “अहभिः अहोभिः “दविध्वतः कम्पयन्तो ध्वंसयन्तः वा तमांसि। "स्वर्न आदित्य इव "शुक्रं दीप्तं “रजः “आ “तन्वन्तः भवन्त्यश्विनोरश्वाः "सूरश्चित् सूर्यश्च "अश्वान्युयुजानः योजयन् “ईयते गच्छति । हे अश्विनौ युवां "विश्वान् "पथः आगमनमार्गाननुक्रमेण 'स्वधया अन्नेन सोमलक्षणेन "चेतथः.चेतयथः प्रज्ञापयथः ॥
प्र वा॑मवोचमश्विना धियं॒धा रथः॒ स्वश्वो॑ अ॒जरो॒ यो अस्ति॑ ।
येन॑ स॒द्यः परि॒ रजां॑सि या॒थो ह॒विष्मं॑तं त॒रणिं॑ भो॒जमच्छ॑ ॥७
प्र । वा॒म् । अ॒वो॒च॒म् । अ॒श्वि॒ना॒ । धि॒य॒म्ऽधाः । रथः॑ । सु॒ऽअश्वः॑ । अ॒जरः॑ । यः । अस्ति॑ ।
येन॑ । स॒द्यः । परि॑ । रजां॑सि । या॒थः । ह॒विष्म॑न्तम् । त॒रणि॑म् । भो॒जम् । अच्छ॑ ॥७
प्र । वाम् । अवोचम् । अश्विना । धियम्ऽधाः । रथः । सुऽअश्वः । अजरः । यः । अस्ति ।
येन । सद्यः । परि । रजांसि । याथः । हविष्मन्तम् । तरणिम् । भोजम् । अच्छ ॥७
“धियंधाः कर्मणां धारकोऽहम् हे "अश्विना “वां “प्र “अवोचं प्रब्रवीमि स्तौमि । "स्वश्व: “अजरः अजीर्णो नित्यनूतनोऽजरयिता वा "रथः "यः अस्ति । "येन रथेन "सद्यः तदानीमेव “रजांसि लोकान् "परि "याथः । तेन रथेन "हविष्मन्तं सोमादिहविर्युक्तं "तरणिं तारकं शीघ्रगामिनं “भोजं भोजयितारमस्मद्यागम् "अच्छ प्राप्तुम्। आगच्छतमिति शेषः ॥ ॥ २१ ॥ ॥ ४ ॥
मण्डल ४ | |
---|---|
|