ऋग्वेदः सूक्तं ४.३७
← सूक्तं ४.३६ | ऋग्वेदः - मण्डल ४ सूक्तं ४.३७ वामदेवो गौतमः। |
सूक्तं ४.३८ → |
दे. ऋभवः। त्रिष्टुप्, ५-८ अनुष्टुप् । |
उप नो वाजा अध्वरमृभुक्षा देवा यात पथिभिर्देवयानैः ।
यथा यज्ञं मनुषो विक्ष्वासु दधिध्वे रण्वाः सुदिनेष्वह्नाम् ॥१॥
ते वो हृदे मनसे सन्तु यज्ञा जुष्टासो अद्य घृतनिर्णिजो गुः ।
प्र वः सुतासो हरयन्त पूर्णाः क्रत्वे दक्षाय हर्षयन्त पीताः ॥२॥
त्र्युदायं देवहितं यथा व स्तोमो वाजा ऋभुक्षणो ददे वः ।
जुह्वे मनुष्वदुपरासु विक्षु युष्मे सचा बृहद्दिवेषु सोमम् ॥३॥
पीवोअश्वाः शुचद्रथा हि भूतायःशिप्रा वाजिनः सुनिष्काः ।
इन्द्रस्य सूनो शवसो नपातोऽनु वश्चेत्यग्रियं मदाय ॥४॥
ऋभुमृभुक्षणो रयिं वाजे वाजिन्तमं युजम् ।
इन्द्रस्वन्तं हवामहे सदासातममश्विनम् ॥५॥
सेदृभवो यमवथ यूयमिन्द्रश्च मर्त्यम् ।
स धीभिरस्तु सनिता मेधसाता सो अर्वता ॥६॥
वि नो वाजा ऋभुक्षणः पथश्चितन यष्टवे ।
अस्मभ्यं सूरय स्तुता विश्वा आशास्तरीषणि ॥७॥
तं नो वाजा ऋभुक्षण इन्द्र नासत्या रयिम् ।
समश्वं चर्षणिभ्य आ पुरु शस्त मघत्तये ॥८॥
सायणभाष्यम्
‘उप नो वाजाः' इत्यष्टर्चं पञ्चमं सूक्तं वामदेवस्यार्षमार्भवं त्रैष्टुभम्। पञ्चम्याद्याश्चतस्रोऽनुष्टुभः । तथा चानुक्रान्तम्- उप नोऽष्टौ चतुरनुष्टुबन्तम्' इति । व्यूढे दशरात्रे षष्ठेऽहनि वैश्वदेवशस्त्रे आद्याः चतस्रः शस्याः । ‘ उप नो वाजा इति त्रयोदशार्भवं चतस्रश्च' (आश्व. श्रौ. ८. ८) इति हि सूत्रितम् ॥
उप॑ नो वाजा अध्व॒रमृ॑भुक्षा॒ देवा॑ या॒त प॒थिभि॑र्देव॒यानै॑ः ।
यथा॑ य॒ज्ञं मनु॑षो वि॒क्ष्वा॒३॒॑सु द॑धि॒ध्वे र॑ण्वाः सु॒दिने॒ष्वह्ना॑म् ॥१
उप॑ । नः॒ । वा॒जाः॒ । अ॒ध्व॒रम् । ऋ॒भु॒क्षाः॒ । देवाः॑ । या॒त । प॒थिऽभिः॑ । दे॒व॒ऽयानैः॑ ।
यथा॑ । य॒ज्ञम् । मनु॑षः । वि॒क्षु । आ॒सु । द॒धि॒ध्वे । र॒ण्वाः॒ । सु॒ऽदिने॑षु । अह्ना॑म् ॥१
उप । नः । वाजाः । अध्वरम् । ऋभुक्षाः । देवाः । यात । पथिऽभिः । देवऽयानैः ।
यथा । यज्ञम् । मनुषः । विक्षु । आसु । दधिध्वे । रण्वाः । सुऽदिनेषु । अह्नाम् ॥१
हे “वाजाः' हे “ऋभुक्षाः ऋभवो हे “देवाः “नः “अध्वरं यागम् “उप “यात उपगच्छत । “देवयानैः देवैर्गन्तव्यैः “पथिभिः मार्गैः । “यथा येन प्रकारेण “मनुषः मनोः संबन्धिनीषु “आसु “विक्षु प्रजासु यजमानेषु मध्ये हे “रण्वाः रमणीया ऋभवः "अह्नां “सुदिनेषु सुदिनत्वनिमित्तेषु “यज्ञम् अस्मदीयं “दधिध्वे धारयथ । यथा येन प्रकारेण यज्ञमागत्य सुदिनत्वं कुरुथ तथा यज्ञमायातेति ॥
ते वो॑ हृ॒दे मन॑से सन्तु य॒ज्ञा जुष्टा॑सो अ॒द्य घृ॒तनि॑र्णिजो गुः ।
प्र व॑ः सु॒तासो॑ हरयन्त पू॒र्णाः क्रत्वे॒ दक्षा॑य हर्षयन्त पी॒ताः ॥२
ते । वः॒ । हृ॒दे । मन॑से । स॒न्तु॒ । य॒ज्ञाः । जुष्टा॑सः । अ॒द्य । घृ॒तऽनि॑र्निजः । गुः॒ ।
प्र । वः॒ । सु॒तासः॑ । ह॒र॒य॒न्त॒ । पू॒र्णाः । क्रत्वे॑ । दक्षा॑य । ह॒र्ष॒य॒न्त॒ । पी॒ताः ॥२
ते । वः । हृदे । मनसे । सन्तु । यज्ञाः । जुष्टासः । अद्य । घृतऽनिर्निजः । गुः ।
प्र । वः । सुतासः । हरयन्त । पूर्णाः । क्रत्वे । दक्षाय । हर्षयन्त । पीताः ॥२
“अद्य अस्मिन् यागदिने “ते एते “यज्ञाः यागसाधनाः सोमाः "वो “हृदे युष्मद्धृदयाय “मनसे तत्प्रीतये “सन्तु भवन्तु । अद्यास्मिन् दिने “जुष्टासः पर्याप्ताः सोमाः “घृतनिर्णिजः मिश्रणद्रव्येण दीप्तरूपाः “गुः गच्छन्तु युष्मद्धृदयम् । “सुतासः अभिषुताः सोमाः चमसेषु “पूर्णाः “वः युष्मदर्थं "प्र “हरयन्त प्रह्रियन्ते । यद्वा । हर्यंतेः कान्तिकर्मण इदं रूपम् । प्रकर्षेण वः युष्मान् कामयन्ते । “क्रत्वे क्रतवे कर्मणे “दक्षाय उत्साहाय “पीताः "हर्षयन्त हर्षयन्तु ॥
त्र्यु॒दा॒यं दे॒वहि॑तं॒ यथा॑ व॒ः स्तोमो॑ वाजा ऋभुक्षणो द॒दे व॑ः ।
जु॒ह्वे म॑नु॒ष्वदुप॑रासु वि॒क्षु यु॒ष्मे सचा॑ बृ॒हद्दि॑वेषु॒ सोम॑म् ॥३
त्रि॒ऽउ॒दा॒यम् । दे॒वऽहि॑तम् । यथा॑ । वः॒ । स्तोमः॑ । वा॒जाः॒ । ऋ॒भु॒क्ष॒णः॒ । द॒दे । वः॒ ।
जु॒ह्वे । म॒नु॒ष्वत् । उप॑रासु । वि॒क्षु । यु॒ष्मे इति॑ । सचा॑ । बृ॒हत्ऽदि॑वेषु । सोम॑म् ॥३
त्रिऽउदायम् । देवऽहितम् । यथा । वः । स्तोमः । वाजाः । ऋभुक्षणः । ददे । वः ।
जुह्वे । मनुष्वत् । उपरासु । विक्षु । युष्मे इति । सचा । बृहत्ऽदिवेषु । सोमम् ॥३
“त्र्युदायं त्र्युदयं सवनत्रयगमनोपेतं “देवहितं सोमाख्यमन्नं देवेभ्यो हितं देवैर्वा विहितम् । तृतीयसवनस्थम् इत्यर्थः । तत् "यथा “वः युष्मान् “ददे धारयति । हे "वाजाः हे “ऋभुक्षणः ऋभवो यथा “स्तोमः स्तोत्रं “वः ददे धारयति । “उपरासु । उप देवयजनसमीपे रमन्ते इत्युपराः । तासु “विक्षु प्रजासु "बृहद्दिवेषु प्रभूतदीप्तिषु देवेषु मध्ये "मनुष्वत् मनुरिव "युष्मे युष्मदर्थं “सचा सह अनेकग्रहेषु प्रस्थितं "जुह्वे जुहोमि "सोमम् ॥
पीवो॑अश्वाः शु॒चद्र॑था॒ हि भू॒ताय॑ःशिप्रा वाजिनः सुनि॒ष्काः ।
इन्द्र॑स्य सूनो शवसो नपा॒तोऽनु॑ वश्चेत्यग्रि॒यं मदा॑य ॥४
पीवः॑ऽअश्वाः । शु॒चत्ऽर॑थाः । हि । भू॒त । अयः॑ऽशिप्राः । वा॒जि॒नः॒ । सु॒ऽनि॒ष्काः ।
इन्द्र॑स्य । सू॒नो॒ इति॑ । श॒व॒सः॒ । न॒पा॒तः॒ । अनु॑ । वः॒ । चे॒ति॒ । अ॒ग्रि॒यम् । मदा॑य ॥४
पीवःऽअश्वाः । शुचत्ऽरथाः । हि । भूत । अयःऽशिप्राः । वाजिनः । सुऽनिष्काः ।
इन्द्रस्य । सूनो इति । शवसः । नपातः । अनु । वः । चेति । अग्रियम् । मदाय ॥४
हे “वाजिनः ऋभवः “पीवोअश्वाः पीवानोऽश्वा येषां ते तादृशाः । तथा “शुचद्रथाः दीप्तरथाः "अयःशिप्राः। शिप्रे हनू नासिके वा '। अयोवत्सारभूतशिप्राः “सुनिष्काः शोभनधनाश्च “भूत भवत । हे “इन्द्रस्य "सूनो सूनवः पुत्रवद्रक्षणीया हे “शवसो “नपातः बलस्य पुत्रा बलिनः “वः युष्मभ्यं “मदाय “अनु “चेति अन्वज्ञायि । देवेषु “अग्रियम् अग्रे भवं तृतीयसवनम् ।।
ऋ॒भुमृ॑भुक्षणो र॒यिं वाजे॑ वा॒जिन्त॑मं॒ युज॑म् ।
इन्द्र॑स्वन्तं हवामहे सदा॒सात॑मम॒श्विन॑म् ॥५
ऋ॒भुम् । ऋ॒भु॒क्ष॒णः॒ । र॒यिम् । वाजे॑ । वा॒जिन्ऽत॑मम् । युज॑म् ।
इन्द्र॑स्वन्तम् । ह॒वा॒म॒हे॒ । स॒दा॒ऽसात॑मम् । अ॒श्विन॑म् ॥५
ऋभुम् । ऋभुक्षणः । रयिम् । वाजे । वाजिन्ऽतमम् । युजम् ।
इन्द्रस्वन्तम् । हवामहे । सदाऽसातमम् । अश्विनम् ॥५
हे “ऋभुक्षणः ऋभवः “ऋभुम् उरुभासमानं “रयिं धनरूपम् । तद्धेतुभूतत्वात् ताच्छब्द्यम् । “वाजे संग्रामे “वाजिन्तमम् अत्यन्तबलवन्तं "युजं परस्परयोगोपेतम् “इन्द्रस्वन्तम् इन्द्रवन्तमिन्द्रियवन्तं “सदासातमं सर्वदा दातृतमम् “अश्विनम् अश्ववन्तं भवतां गणं “हवामहे आह्वयामि ॥ ॥९॥
सेदृ॑भवो॒ यमव॑थ यू॒यमिन्द्र॑श्च॒ मर्त्य॑म् ।
स धी॒भिर॑स्तु॒ सनि॑ता मे॒धसा॑ता॒ सो अर्व॑ता ॥६
सः । इत् । ऋ॒भ॒वः॒ । यम् । अव॑थ । यू॒यम् । इन्द्रः॑ । च॒ । मर्त्य॑म् ।
सः । धी॒भिः । अ॒स्तु॒ । सनि॑ता । मे॒धऽसा॑ता । सः । अर्व॑ता ॥६
सः । इत् । ऋभवः । यम् । अवथ । यूयम् । इन्द्रः । च । मर्त्यम् ।
सः । धीभिः । अस्तु । सनिता । मेधऽसाता । सः । अर्वता ॥६
हे “ऋभवः "यूयमिन्द्रश्च “यं “मर्त्यम् “अवथ रक्षथ । “सेत् स एव “अस्तु भवतु । नान्यः श्रेष्ठो भवत्वित्यर्थः । “सः एव “धीभिः कर्मभिः “सनिता संभक्ता भवतु । “मेधसाता मेधसातौ यज्ञे “सः एव “अर्वता अरणवताश्वेन युक्तो भवतु ॥
वि नो॑ वाजा ऋभुक्षणः प॒थश्चि॑तन॒ यष्ट॑वे ।
अ॒स्मभ्यं॑ सूरयः स्तु॒ता विश्वा॒ आशा॑स्तरी॒षणि॑ ॥७
वि । नः॒ । वा॒जाः॒ । ऋ॒भु॒क्ष॒णः॒ । प॒थः । चि॒त॒न॒ । यष्ट॑वे ।
अ॒स्मभ्य॑म् । सू॒र॒यः॒ । स्तु॒ताः । विश्वाः॑ । आशाः॑ । त॒री॒षणि॑ ॥७
वि । नः । वाजाः । ऋभुक्षणः । पथः । चितन । यष्टवे ।
अस्मभ्यम् । सूरयः । स्तुताः । विश्वाः । आशाः । तरीषणि ॥७
हे "वाजाः हे “ऋभुक्षणः ऋभवः “नः अस्माकं “पथः मार्गान् “यष्टवे यष्टुं यज्ञमार्गान् “वि “चितन विचेतयत । प्रज्ञापयतेत्यर्थः । “अस्मभ्यं हे "सूरयः मेधाविनो यूयं “स्तुताः सन्तः “विश्वा “आशाः सर्वा दिशः “तरीषणि तरीतुम् । सामर्थ्यं वितरतेति शेषः ॥
तं नो॑ वाजा ऋभुक्षण॒ इन्द्र॒ नास॑त्या र॒यिम् ।
समश्वं॑ चर्ष॒णिभ्य॒ आ पु॒रु श॑स्त म॒घत्त॑ये ॥८
तम् । नः॒ । वा॒जाः॒ । ऋ॒भु॒क्ष॒णः॒ । इन्द्र॑ । नास॑त्या । र॒यिम् ।
सम् । अश्व॑म् । च॒र्ष॒णिऽभ्यः॑ । आ । पु॒रु । श॒स्त॒ । म॒घत्त॑ये ॥८
तम् । नः । वाजाः । ऋभुक्षणः । इन्द्र । नासत्या । रयिम् ।
सम् । अश्वम् । चर्षणिऽभ्यः । आ । पुरु । शस्त । मघत्तये ॥८
अनया स्तुतिमुपसंहृत्य अभिमतमाशास्ते । हे “वाजाः हे “ऋभुक्षणः ऋभवो हे “इन्द्र हे “नासत्या अश्विनौ ते यूयं “नः अस्मभ्यं “चर्षणिभ्यः मनुष्येभ्यः स्तोतृभ्यः “तं “पुरु प्रभूतं “रयिं धनम् “अश्वं च पुरु प्रभूतं “मघत्तये धनदानाय “सम् “आ “शस्त सम्यगाशासनं कुरुत ॥ ॥ १० ॥
मण्डल ४ | |
---|---|
|