सामग्री पर जाएँ

ऋग्वेदः सूक्तं ४.३६

विकिस्रोतः तः
← सूक्तं ४.३५ ऋग्वेदः - मण्डल ४
सूक्तं ४.३६
वामदेवो गौतमः ।
सूक्तं ४.३७ →
दे. ऋभवः। जगती, ९ त्रिष्टुप्


अनश्वो जातो अनभीशुरुक्थ्यो रथस्त्रिचक्रः परि वर्तते रजः ।
महत्तद्वो देव्यस्य प्रवाचनं द्यामृभवः पृथिवीं यच्च पुष्यथ ॥१॥
रथं ये चक्रुः सुवृतं सुचेतसोऽविह्वरन्तं मनसस्परि ध्यया ।
ताँ ऊ न्वस्य सवनस्य पीतय आ वो वाजा ऋभवो वेदयामसि ॥२॥
तद्वो वाजा ऋभवः सुप्रवाचनं देवेषु विभ्वो अभवन्महित्वनम् ।
जिव्री यत्सन्ता पितरा सनाजुरा पुनर्युवाना चरथाय तक्षथ ॥३॥
एकं वि चक्र चमसं चतुर्वयं निश्चर्मणो गामरिणीत धीतिभिः ।
अथा देवेष्वमृतत्वमानश श्रुष्टी वाजा ऋभवस्तद्व उक्थ्यम् ॥४॥
ऋभुतो रयिः प्रथमश्रवस्तमो वाजश्रुतासो यमजीजनन्नरः ।
विभ्वतष्टो विदथेषु प्रवाच्यो यं देवासोऽवथा स विचर्षणिः ॥५॥
स वाज्यर्वा स ऋषिर्वचस्यया स शूरो अस्ता पृतनासु दुष्टरः ।
स रायस्पोषं स सुवीर्यं दधे यं वाजो विभ्वाँ ऋभवो यमाविषुः ॥६॥
श्रेष्ठं वः पेशो अधि धायि दर्शतं स्तोमो वाजा ऋभवस्तं जुजुष्टन ।
धीरासो हि ष्ठा कवयो विपश्चितस्तान्व एना ब्रह्मणा वेदयामसि ॥७॥
यूयमस्मभ्यं धिषणाभ्यस्परि विद्वांसो विश्वा नर्याणि भोजना ।
द्युमन्तं वाजं वृषशुष्ममुत्तममा नो रयिमृभवस्तक्षता वयः ॥८॥
इह प्रजामिह रयिं रराणा इह श्रवो वीरवत्तक्षता नः ।
येन वयं चितयेमात्यन्यान्तं वाजं चित्रमृभवो ददा नः ॥९॥


सायणभाष्यम्

‘ अनश्वो जातः' इति नवर्चं चतुर्थं सूक्तमार्भवम् । ऋषिर्वामदेवः। अन्त्या त्रिष्टुप् शिष्टास्त्रिष्टुबन्तपरिभाषया जगत्यः । अनश्वोऽन्त्या त्रिष्टुप् ' इत्यनुक्रमणिका । आभिप्लविके तृतीयेऽहनि वैश्वदेवशस्त्रे आर्भवनिविद्धानीयमिदम् । तथा च सूत्रितम् - अनश्वो जातः परावतो य इति वैश्वदेवम् ' ( आश्व. श्रौ. ७. ७ ) इति ॥


अ॒न॒श्वो जा॒तो अ॑नभी॒शुरु॒क्थ्यो॒३॒॑ रथ॑स्त्रिच॒क्रः परि॑ वर्तते॒ रज॑ः ।

म॒हत्तद्वो॑ दे॒व्य॑स्य प्र॒वाच॑नं॒ द्यामृ॑भवः पृथि॒वीं यच्च॒ पुष्य॑थ ॥१

अ॒न॒श्वः । जा॒तः । अ॒न॒भी॒शुः । उ॒क्थ्यः॑ । रथः॑ । त्रि॒ऽच॒क्रः । परि॑ । व॒र्त॒ते॒ । रजः॑ ।

म॒हत् । तत् । वः॒ । दे॒व्य॑स्य । प्र॒ऽवाच॑नम् । द्याम् । ऋ॒भ॒वः॒ । पृ॒थि॒वीम् । यत् । च॒ । पुष्य॑थ ॥१

अनश्वः । जातः । अनभीशुः । उक्थ्यः । रथः । त्रिऽचक्रः । परि । वर्तते । रजः ।

महत् । तत् । वः । देव्यस्य । प्रऽवाचनम् । द्याम् । ऋभवः । पृथिवीम् । यत् । च । पुष्यथ ॥१

हे “ऋभवः अश्विनोः संबन्धी युष्मद्दत्तः “रथः “अनश्वो "जातः वाहनाश्वनिरपेक्षः संपन्नः । तथा “अनभीशुः प्रग्रहरहितः “उक्थ्यः स्तुत्यः “त्रिचक्रः चक्रत्रययुक्तः सन् “रजः अन्तरिक्षं “परि “वर्तते परिभ्रमति । "महत् प्रभूतं “तत् रथनिर्माणाख्यं कर्म “वः युष्माकं “देव्यस्य देवत्वस्य “प्रवाचनं प्रवक्तृ प्रख्यापकम् । “यच्च येन कर्मणा “द्यां “पृथिवीं च “पुष्यथ पुष्टां कुरुथ ॥


रथं॒ ये च॒क्रुः सु॒वृतं॑ सु॒चेत॒सोऽवि॑ह्वरन्तं॒ मन॑स॒स्परि॒ ध्यया॑ ।

ताँ ऊ॒ न्व१॒॑स्य सव॑नस्य पी॒तय॒ आ वो॑ वाजा ऋभवो वेदयामसि ॥२

रथ॑म् । ये । च॒क्रुः । सु॒ऽवृत॑म् । सु॒ऽचेत॑सः । अवि॑ऽह्वरन्तम् । मन॑सः । परि॑ । ध्यया॑ ।

तान् । ऊं॒ इति॑ । नु । अ॒स्य । सव॑नस्य । पी॒तये॑ । आ । वः॒ । वा॒जाः॒ । ऋ॒भ॒वः॒ । वे॒द॒या॒म॒सि॒ ॥२

रथम् । ये । चक्रुः । सुऽवृतम् । सुऽचेतसः । अविऽह्वरन्तम् । मनसः । परि । ध्यया ।

तान् । ऊं इति । नु । अस्य । सवनस्य । पीतये । आ । वः । वाजाः । ऋभवः । वेदयामसि ॥२

“सुचेतसः शोभनचित्ताः "ये ऋभवः “सुवृतं सुवर्तनचक्रम् “अविह्वरन्तम् अकुटिलं “रथं “मनसः “परि “ध्यया मनसो ध्यानेनाप्रयत्नेन “नु “क्षिप्रं “चक्रुः “तान् । उशब्द एवार्थे । तानेव “अस्य “सवनस्य “पीतये एतं सोमं पातुं हे "वाजाः हे "ऋभवः ”वः युष्मान् “आ "वेदयामसि आवेदयामः ॥


तद्वो॑ वाजा ऋभवः सुप्रवाच॒नं दे॒वेषु॑ विभ्वो अभवन्महित्व॒नम् ।

जिव्री॒ यत्सन्ता॑ पि॒तरा॑ सना॒जुरा॒ पुन॒र्युवा॑ना च॒रथा॑य॒ तक्ष॑थ ॥३

तत् । वः॒ । वा॒जाः॒ । ऋ॒भ॒वः॒ । सु॒ऽप्र॒वा॒च॒नम् । दे॒वेषु॑ । वि॒ऽभ्वः॒ । अ॒भ॒व॒त् । म॒हि॒ऽत्व॒नम् ।

जिव्री॒ इति॑ । यत् । सन्ता॑ । पि॒तरा॑ । स॒ना॒ऽजुरा॑ । पुनः॑ । युवा॑ना । च॒रथा॑य । तक्ष॑थ ॥३

तत् । वः । वाजाः । ऋभवः । सुऽप्रवाचनम् । देवेषु । विऽभ्वः । अभवत् । महिऽत्वनम् ।

जिव्री इति । यत् । सन्ता । पितरा । सनाऽजुरा । पुनः । युवाना । चरथाय । तक्षथ ॥३

हे "वाजाः “ऋभवः हे “विभ्वः विभवः । इतरापेक्षया परस्परं बहुवचनमित्युक्तम् । “वः युष्माकं “तत् “महित्वनं महत्त्वं माहात्म्यं “देवेषु मध्ये “सुप्रवाचनं प्रवाच्यम् “अभवत् । तदित्युक्तं यदित्याह। “जिव्री वृद्धौ “सन्ता सन्तौ “सनाजुरा सदा जीर्णौ सन्तौ “पितरा पितरौ “पुनर्युवाना नित्यतरुणौ “चरथाय यथेच्छं संचरणाय “तक्षथ संपादितवन्तः ॥


एकं॒ वि च॑क्र चम॒सं चतु॑र्वयं॒ निश्चर्म॑णो॒ गाम॑रिणीत धी॒तिभि॑ः ।

अथा॑ दे॒वेष्व॑मृत॒त्वमा॑नश श्रु॒ष्टी वा॑जा ऋभव॒स्तद्व॑ उ॒क्थ्य॑म् ॥४

एक॑म् । वि । च॒क्र॒ । च॒म॒सम् । चतुः॑ऽवयम् । निः । चर्म॑णः । गाम् । अ॒रि॒णी॒त॒ । धी॒तिऽभिः॑ ।

अथ॑ । दे॒वेषु॑ । अ॒मृ॒त॒ऽत्वम् । आ॒न॒श॒ । श्रु॒ष्टी । वा॒जाः॒ । ऋ॒भ॒वः॒ । तत् । वः॒ । उ॒क्थ्य॑म् ॥४

एकम् । वि । चक्र । चमसम् । चतुःऽवयम् । निः । चर्मणः । गाम् । अरिणीत । धीतिऽभिः ।

अथ । देवेषु । अमृतऽत्वम् । आनश । श्रुष्टी । वाजाः । ऋभवः । तत् । वः । उक्थ्यम् ॥४

हे ऋभवः “एकं “चमसम् एकमेव सन्तं पानसाधनं चमसं “चतुर्वयम् । वयाः शाखाः । चतुःशाखं चतुरवयवं “वि “चक्र व्यकुरुत । तथा “धीतिभिः कर्मभिः “चर्मणः नूतनां “गां “निः “अरिणीत समस्कुरुत । निरित्येष समित्येतस्य स्थाने । “अथ अतः कारणात् “देवेषु मध्ये “अमृतत्वमानश प्राप्नुत । हे “वाजाः हे “ऋभवः “तत् तादृशं “वः युष्माकं कर्म । “श्रुष्टी इति क्षिप्रनामैतत् । क्षिप्रम् “उक्थ्यं स्तुत्यं भवति ॥


ऋ॒भु॒तो र॒यिः प्र॑थ॒मश्र॑वस्तमो॒ वाज॑श्रुतासो॒ यमजी॑जन॒न्नर॑ः ।

वि॒भ्व॒त॒ष्टो वि॒दथे॑षु प्र॒वाच्यो॒ यं दे॑वा॒सोऽव॑था॒ स विच॑र्षणिः ॥५

ऋ॒भु॒तः । र॒यिः । प्र॒थ॒मश्र॑वःऽतमः । वाज॑ऽश्रुतासः । यम् । अजी॑जनन् । नरः॑ ।

वि॒भ्व॒ऽत॒ष्टः । वि॒दथे॑षु । प्र॒ऽवाच्यः॑ । यम् । दे॒वा॒सः॒ । अव॑थ । सः । विऽच॑र्षणिः ॥५

ऋभुतः । रयिः । प्रथमश्रवःऽतमः । वाजऽश्रुतासः । यम् । अजीजनन् । नरः ।

विभ्वऽतष्टः । विदथेषु । प्रऽवाच्यः । यम् । देवासः । अवथ । सः । विऽचर्षणिः ॥५

“ऋभुतः ऋभूणां सकाशात् "प्रथमश्रवस्तमः प्रथमं मुख्यमतिशयितं श्रवः अन्नं यशो वा यस्य धनस्य तत् “रयिः धनम् । अस्माकं भवत्विति शेषः । “वाजश्रुतासः वाजैः अन्नैः सह विख्याताः “नरः नेतारः ऋभवः “यं रयिम् “अजीजनन् उत्पादितवन्तः । “विभ्वतष्टः विभ्वभिर्ऋभुभिस्तष्टः तक्षणसंपन्नश्चमसोऽश्विनो रथो वा “विदथेषु यज्ञेषु “प्रवाच्यः प्रकर्षेण स्तुत्यः । हे “देवासः द्योतमानाः यूयं “यं रथं चमसं वा “अवथ रक्षथ । “स “विचर्षणिः विविधं द्रष्टा भवति द्रष्टव्यो भवतीत्यर्थः ॥ ॥ ७ ॥


स वा॒ज्यर्वा॒ स ऋषि॑र्वच॒स्यया॒ स शूरो॒ अस्ता॒ पृत॑नासु दु॒ष्टर॑ः ।

स रा॒यस्पोषं॒ स सु॒वीर्यं॑ दधे॒ यं वाजो॒ विभ्वाँ॑ ऋ॒भवो॒ यमावि॑षुः ॥६

सः । वा॒जी । अर्वा॑ । सः । ऋषिः॑ । व॒च॒स्यया॑ । सः । शूरः॑ । अस्ता॑ । पृत॑नासु । दु॒स्तरः॑ ।

सः । रा॒यः । पोष॑म् । सः । सु॒ऽवीर्य॑म् । द॒धे॒ । यम् । वाजः॑ । विऽभ्वा॑ । ऋ॒भवः॑ । यम् । आवि॑षुः ॥६

सः । वाजी । अर्वा । सः । ऋषिः । वचस्यया । सः । शूरः । अस्ता । पृतनासु । दुस्तरः ।

सः । रायः । पोषम् । सः । सुऽवीर्यम् । दधे । यम् । वाजः । विऽभ्वा । ऋभवः । यम् । आविषुः ॥६

“स “वाजी वेजनवान् बलवान् सन् “अर्वा अरणकुशलो भवति । “स “ऋषिः अतीन्द्रियज्ञानी सन् “वचस्यया स्तुत्या युक्तो भवति । “स “शरः विक्रान्तः सन् “अस्ता क्षेप्ता शत्रूणां भवति । स्वयं च “पृतनासु संग्रामेषु “दुष्टरः नाभिभाव्यो भवति । “सः एव “रायस्पोषं धनपुष्टिं “दधे धत्ते । “स “सुवीर्यं सुवीरत्वं दधे धत्ते । “यं मनुष्यं “वाजो “विभ्वा “ऋभवः च “आविषुः अरक्षन् । स एवमेवं भवतीति । अन्त्यस्य बहुवन्निर्देशस्त्रयाणाम् ऋभुव्यवहारप्राचुर्याभिप्रायः॥


श्रेष्ठं॑ व॒ः पेशो॒ अधि॑ धायि दर्श॒तं स्तोमो॑ वाजा ऋभव॒स्तं जु॑जुष्टन ।

धीरा॑सो॒ हि ष्ठा क॒वयो॑ विप॒श्चित॒स्तान्व॑ ए॒ना ब्रह्म॒णा वे॑दयामसि ॥७

श्रेष्ठ॑म् । वः॒ । पेशः॑ । अधि॑ । धा॒यि॒ । द॒र्श॒तम् । स्तोमः॑ । वा॒जाः॒ । ऋ॒भ॒वः॒ । तम् । जु॒जु॒ष्ट॒न॒ ।

धीरा॑सः । हि । स्थ । क॒वयः॑ । वि॒पः॒ऽचितः॑ । तान् । वः॒ । ए॒ना । ब्रह्म॑णा । आ । वे॒द॒या॒म॒सि॒ ॥७

श्रेष्ठम् । वः । पेशः । अधि । धायि । दर्शतम् । स्तोमः । वाजाः । ऋभवः । तम् । जुजुष्टन ।

धीरासः । हि । स्थ । कवयः । विपःऽचितः । तान् । वः । एना । ब्रह्मणा । आ । वेदयामसि ॥७

“श्रेष्ठम् अत्युत्कृष्टमत एव “दर्शतं दर्शनीयं “वः युष्माकं “पेशः रूपम् “अधि “धायि अधिनिहितम् । अतस्तदुचितो यः “स्तोमः स्तोत्रमस्मत्कृतमस्ति हे “वाजा “ऋभवस्तं स्तोमं स्तोत्रं "जुजुष्टन सेवध्वम् । ये यूयं “धीरासो “हि धीमन्तः प्रसिद्धाः “कवयः मेधाविनः “विपश्चितः ज्ञानवन्तः “स्थ भवत “तान्वः युष्मान् “एना एनेन “ब्रह्मणा मन्त्रेण शस्त्रात्मकेन “आ “वेदयामसि । अथवोक्तलक्षणाः विपश्चितः स्तोतारो यान् । स्तुवन्तीति शेषः । तान् ब्रह्मणा आ वेदयामसि प्रज्ञापयामः ॥


यू॒यम॒स्मभ्यं॑ धि॒षणा॑भ्य॒स्परि॑ वि॒द्वांसो॒ विश्वा॒ नर्या॑णि॒ भोज॑ना ।

द्यु॒मन्तं॒ वाजं॒ वृष॑शुष्ममुत्त॒ममा नो॑ र॒यिमृ॑भवस्तक्ष॒ता वय॑ः ॥८

यू॒यम् । अ॒स्मभ्य॑म् । धि॒षणा॑भ्यः । परि॑ । वि॒द्वांसः॑ । विश्वा॑ । नर्या॑णि । भोज॑ना ।

द्यु॒ऽमन्त॑म् । वाज॑म् । वृष॑ऽशुष्मम् । उ॒त्ऽत॒मम् । आ । नः॒ । र॒यिम् । ऋ॒भ॒वः॒ । त॒क्ष॒त॒ । आ । वयः॑ ॥८

यूयम् । अस्मभ्यम् । धिषणाभ्यः । परि । विद्वांसः । विश्वा । नर्याणि । भोजना ।

द्युऽमन्तम् । वाजम् । वृषऽशुष्मम् । उत्ऽतमम् । आ । नः । रयिम् । ऋभवः । तक्षत । आ । वयः ॥८

हे ऋभवः “यूयमस्मभ्यं “धिषणाभ्यस्परि स्तुतिभ्यो निमित्तभूताभ्यः । परीति पञ्चम्यर्थानुवादी । यद्वा । अस्मन्मतिभ्योऽधिकानि “नर्याणि नृभ्यो हितानि “विश्वा सर्वाणि “भोजना भोग्यानि “विद्वांसः जानन्तः सन्तः “आ “तक्षत संपादयत। किं च “द्युमन्तं दीप्तिमन्तं हिरण्यादिरूपं “वाजं बलवन्तं “वृषशुष्मं सेक्तॄणां बलवतां शोषकम् “उत्तमं “रयिं “नः अस्माकं “वयः अन्नं च “आ तक्षत हे “ऋभवः ॥


इ॒ह प्र॒जामि॒ह र॒यिं ररा॑णा इ॒ह श्रवो॑ वी॒रव॑त्तक्षता नः ।

येन॑ व॒यं चि॒तये॒मात्य॒न्यान्तं वाजं॑ चि॒त्रमृ॑भवो ददा नः ॥९

इ॒ह । प्र॒ऽजाम् । इ॒ह । र॒यिम् । ररा॑णाः । इ॒ह । श्रवः॑ । वी॒रऽव॑त् । त॒क्ष॒त॒ । नः॒ ।

येन॑ । व॒यम् । चि॒तये॑म । अति॑ । अ॒न्यान् । तम् । वाज॑म् । चि॒त्रम् । ऋ॒भ॒वः॒ । द॒द॒ । नः॒ ॥९

इह । प्रऽजाम् । इह । रयिम् । रराणाः । इह । श्रवः । वीरऽवत् । तक्षत । नः ।

येन । वयम् । चितयेम । अति । अन्यान् । तम् । वाजम् । चित्रम् । ऋभवः । दद । नः ॥९

“नः अस्माकम् “इह यज्ञे “रराणाः रममाणाः “प्रजां पुत्रपौत्रादिरूपां “तक्षत संपादयत । “इह एव यज्ञे “रयिं च तक्षत । “इह एव यज्ञे “श्रवः यशः “वीरवत् वीरैर्भृत्यादिभिरुपेतं तक्षत । किंच “वयं “येन वाजेन “अन्यान् अस्मत्समानान् “अति “चितयेम अतिक्रम्य ज्ञायेमहि । “तं “चित्रं चायनीयं “वाजम् अन्नं हे “ऋभवः “नः “दद अस्मभ्यं दत्त ॥ ॥ ८ ॥


मण्डल ४

सूक्तं ४.१

सूक्तं ४.२

सूक्तं ४.३

सूक्तं ४.४

सूक्तं ४.५

सूक्तं ४.६

सूक्तं ४.७

सूक्तं ४.८

सूक्तं ४.९

सूक्तं ४.१०

सूक्तं ४.११

सूक्तं ४.१२

सूक्तं ४.१३

सूक्तं ४.१४

सूक्तं ४.१५

सूक्तं ४.१६

सूक्तं ४.१७

सूक्तं ४.१८

सूक्तं ४.१९

सूक्तं ४.२०

सूक्तं ४.२१

सूक्तं ४.२२

सूक्तं ४.२३

सूक्तं ४.२४

सूक्तं ४.२५

सूक्तं ४.२६

सूक्तं ४.२७

सूक्तं ४.२८

सूक्तं ४.२९

सूक्तं ४.३०

सूक्तं ४.३१

सूक्तं ४.३२

सूक्तं ४.३३

सूक्तं ४.३४

सूक्तं ४.३५

सूक्तं ४.३६

सूक्तं ४.३७

सूक्तं ४.३८

सूक्तं ४.३९

सूक्तं ४.४०

सूक्तं ४.४१

सूक्तं ४.४२

सूक्तं ४.४३

सूक्तं ४.४४

सूक्तं ४.४५

सूक्तं ४.४६

सूक्तं ४.४७

सूक्तं ४.४८

सूक्तं ४.४९

सूक्तं ४.५०

सूक्तं ४.५१

सूक्तं ४.५२

सूक्तं ४.५३

सूक्तं ४.५४

सूक्तं ४.५५

सूक्तं ४.५६

सूक्तं ४.५७

सूक्तं ४.५८



"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.३६&oldid=198660" इत्यस्माद् प्रतिप्राप्तम्