महाभारतम्-09-शल्यपर्व-044

विकिस्रोतः तः
← शल्यपर्व-043 महाभारतम्
नवमपर्व
महाभारतम्-09-शल्यपर्व-044
वेदव्यासः
शल्यपर्व-045 →
  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 005ब
  7. 006
  8. 007
  9. 008
  10. 009
  11. 010
  12. 011
  13. 012
  14. 013
  15. 014
  16. 015
  17. 016
  18. 017
  19. 018
  20. 019
  21. 020
  22. 021
  23. 022
  24. 023
  25. 024
  26. 025
  27. 026
  28. 027
  29. 028
  30. 029
  31. 030
  32. 031
  33. 032
  34. 033
  35. 034
  36. 035
  37. 036
  38. 037
  39. 038
  40. 039
  41. 040
  42. 041
  43. 042
  44. 043
  45. 044
  46. 045
  47. 046
  48. 047
  49. 048
  50. 049
  51. 050
  52. 051
  53. 052
  54. 053
  55. 054
  56. 055
  57. 056
  58. 057
  59. 058
  60. 059
  61. 060
  62. 061
  63. 062
  64. 063
  65. 064
  66. 065
  67. 066

विश्वामित्रशापाद्रुधिरजलायाः सरस्वत्या ऋषिभिस्वपसा शोधनम्।। 1 ।। इन्द्रेण सरस्वत्यरुणासङ्गमे यजनादिना ब्रह्महत्यापरिहरणम्।। 2 ।। बलरामस्य तत्र स्नानादिपूर्वकं तस्मात्सोमतीर्थगमनम्।। 3 ।।

वैशम्पायन उवाच। 9-44-1x
स शप्ता तेन क्रुद्धेन विश्वामित्रेण धीमता।
तस्मिंस्तीर्थवरे शुभ्रं शोणितं समुपावहत्।।
9-44-1a
9-44-1b
अथाजग्मुस्ततो राजन्राक्षसास्तत्र भारत।
तत्र ते शोणितं सर्वे पिबन्तः सुखमासते।।
9-44-2a
9-44-2b
तृप्ताश्च सुभृशं तेन सुखिता विगतज्वराः।
नृत्यन्तश्च हसन्तश्च यथा स्वर्गजितस्तथा।।
9-44-3a
9-44-3b
कस्यचित्त्वथ कालस्य ऋषयः सुतपोधनाः।
तीर्थयात्रां समाजग्मुः सरस्वत्यां महीपते।।
9-44-4a
9-44-4b
तेषु सर्वेषु तीर्थेषु स्वाप्लुत्य मुनिपुङ्गवाः।
प्राप्य प्रीतिं परां चापि तपोलुप्धा विशारदाः।।
9-44-5a
9-44-5b
प्रययुर्हि ततो राजन्येन तीर्थमसृग्वहम्।
अथागम्य महाभागास्तत्तीर्थं दारुणं तदा।।
9-44-6a
9-44-6b
दृष्ट्वा तोयं सरस्वत्याः शोणितेन परिप्लुतम्।
पीयमानं च रक्षोभिर्बहुभिर्नृपसत्तम।।
9-44-7a
9-44-7b
तान्दृष्ट्वा राक्षसान्राजन्मुनयः संशितव्रताः।
परित्राणे सरस्वत्याः परं यत्नं प्रचक्रिरे।।
9-44-8a
9-44-8b
ते तु सर्वे महाभागाः समागम्य महाव्रताः।
आहूय सरितां श्रेष्ठामिदं वचनमब्रुवन्।।
9-44-9a
9-44-9b
कारणं ब्रूहि कल्याणि किमर्थं ते हृदो ह्ययम्।
एवमग्राह्यतां यातः श्रुत्वाऽध्यास्यामहे वयम्।।
9-44-10a
9-44-10b
ततः सा सर्वमाचष्ट यथावृत्तं प्रवेपती।
दुःखितामथ तां दृष्ट्वा ऊचुस्ते वै तपोधनाः।।
9-44-11a
9-44-11b
कारणं श्रुतमस्माभिः शापश्चैव श्रुतोऽनघे।
करिष्यन्ति तु यत्प्राप्तं सर्व एव तपोधनाः।।
9-44-12a
9-44-12b
एवमुक्त्वा सरिच्छ्रेष्ठामूचुस्तेऽथ परस्परम्।
विमोचयामहे सर्वे शापादेतां सरस्वतीम्।।
9-44-13a
9-44-13b
ते सर्वे ब्राह्मणा राजंस्तपोभिर्नियमैस्तथा।
उपवासैश्च विविधैर्यमैः कष्टव्रतैस्तथा।।
9-44-14a
9-44-14b
आराध्य पशुभर्तारं महादेवं जगत्पतिम्।
मोक्षयामासुस्तां देवीं सरिच्छ्रेष्ठां सरस्वतीम्।।
9-44-15a
9-44-15b
तेषां तु सा प्रभावेण प्रकृतिस्था सरस्वती।
प्रसन्नसलिला जज्ञे यथा पूर्वं तथैव हि।
निर्मुक्ता च सरिच्छ्रेष्ठा विबभौ सा यथा पुरा।।
9-44-16a
9-44-16b
9-44-16c
दृष्ट्वा तोयं सरस्वत्या मुनिभिस्तैस्तथा कृतम्।
तानेव शरणं जग्मू राक्षसाः क्षुधितास्तथा।।
9-44-17a
9-44-17b
कृत्वाञ्जलिं ततो राजन्राक्षसाः क्षुधयाऽर्दिताः।
ऊचुस्तान्वै मुनीन्सर्वान्कृपायुक्तान्पुनःपुनः।।
9-44-18a
9-44-18b
वयं च क्षुधिताश्चैव धर्माद्धीनाश्च शाश्वतात्।
न च नः कामकारोऽयं यद्वयं पापकारिणा।।
9-44-19a
9-44-19b
युष्माकं चाप्रसादेन दुष्कृतेन च कर्मणा।
पक्षोऽयं वर्धतेऽस्माकं यतः स्मो ब्रह्मराक्षसाः।
योषितां चैव पापेन योनिदोषकृतेन च।।
9-44-20a
9-44-20b
9-44-20c
एवं हि वैश्यशूद्राणां क्षत्रियाणां तथैव च।
ये ब्राह्मणान्प्रद्विषन्ति ते भवन्तीह राक्षसाः।।
9-44-21a
9-44-21b
`शक्तिमन्तोऽपि ये केचिदाश्रितानां च रक्षणम्।
न कुर्वन्ति मनुष्यास्ते सम्भवन्तीह राक्षसाः'।।
9-44-22a
9-44-22b
आचार्यमृत्विजं चैव गुरुं वृद्वजनं तथा।
प्रणिनो येऽवमन्यन्ते ते भवन्तीह राक्षसाः।।
9-44-23a
9-44-23b
तत्कुरुध्वमिहास्माकं तारणं द्विजसत्तमाः।
शक्ता भवन्तः सर्वेषां लोकानामपि तारणे।।
9-44-24a
9-44-24b
तेषां तु वचनं श्रुत्वा तुष्टुवुस्तां महानदीम्।
मोक्षार्थं रक्षसां तेषामूचुः प्रयतमानसाः।।
9-44-25a
9-44-25b
ऋषय ऊचुः। 9-44-26x
क्षुतं कीटावपन्नं च यच्चोच्छिष्टाचितं भवेत्।
सकेशमवधूतं च रुदितोपहतं च यत्।।
9-44-26a
9-44-26b
श्वभिः संसृष्टमन्नं च भागोऽसौ रक्षसामिह।
तस्माज्ज्ञात्वा सदा विद्वानेतान्यत्नाद्विवर्जयेत्।
राक्षसान्नमसौ भुङ्क्ते यो भुङ्क्ते ह्यन्नमीदृशम्।।
9-44-27a
9-44-27b
9-44-27c
शोधयित्वा ततस्तीर्थमृषयस्ते तपोधनाः।
मोक्षार्थं राक्षसानां च नदीं तां प्रत्यचोदयन्।।
9-44-28a
9-44-28b
महर्षीणां मतं ज्ञात्वा ततः सा सरितां वरा।
अरुणामानयामास स्वां तनुं पुरुषर्षभ।।
9-44-29a
9-44-29b
तस्यान्तेराक्षसाः स्नात्वा तनूस्त्यक्त्वा दिवं गताः।
अरुणायां महाराज ब्रह्मवध्यापहा हि सा।।
9-44-30a
9-44-30b
एतमर्थमभिज्ञाय देवराजः शतक्रतुः।
तस्मिंस्तीर्थे वरे स्नात्वा विमुक्तः पाप्मना किल।।
9-44-31a
9-44-31b
जनमेजय उवाच। 9-44-32x
किमर्थं भगवाञ्शक्रो ब्रह्मवध्यामवाप्तवान्।
कथमस्मिंश्च तीर्थे वै आप्लुत्याकल्मषोऽभवत्।।
9-44-32a
9-44-32b
वैशम्पायन उवाच। 9-44-33x
शृणुष्वैतदुपाख्यानं यथावृत्तं जनेश्वर।
यथा बिभेद समयं नमुचेर्वासवः पुरा।।
9-44-33a
9-44-33b
जमुचिर्वासवाद्भीतः सूर्यरश्मिं समाविशत्।
तेनेन्द्रः सख्यमकरोत्समयं चेदमब्रवीत्।।
9-44-34a
9-44-34b
न चार्द्रेण न शुष्केण न रात्रौ नापि चाहनि।
वधिष्याम्यसुरश्रेष्ठ सखे सत्येन ते शपे।।
9-44-35a
9-44-35b
एवं स कृत्वा समयं दृष्ट्वा नीहास्मीश्वरः।
चिच्छेदास्य शिरो राजन्नपां फेनेन वासवः।।
9-44-36a
9-44-36b
तच्छिरो नमुचेश्छिन्नं पृष्ठतः शक्रमन्वियात्।
भोभो मित्रह पापेति ब्रुवाणं शक्रमन्तिकात्।।
9-44-37a
9-44-37b
एवं स शिरसा तेन चोद्यमानः पुनः पुनः।
पितामहाय सन्तप्त एतमर्थं न्यवेदयत्।।
9-44-38a
9-44-38b
तमब्रवील्लोकगुरुररुणायां यथाविधि।
इष्ट्वोपस्पृश देवेन्द्र तीर्थे पापभयापहे।।
9-44-39a
9-44-39b
[एषा पुण्यजला शक्र कृता मुनिभिरेव तु।
निगूढमस्यागमनमिहासीत्पूर्वमेव तु।।
9-44-40a
9-44-40b
ततोऽभ्येत्यारुणां देवीं प्लावयामास वारिणा।
सरस्वत्यारुणायाश्च पुण्योऽयं सङ्गमो महान्।।
9-44-41a
9-44-41b
इह त्वं यज देवेन्द्र दद दानान्यनेकशः।
अत्राप्लुत्य सुघोरात्त्वं पातकाद्विप्रमोक्ष्यसे।।]
9-44-42a
9-44-42b
इत्युक्तः स सरस्वत्याः कुञ्जे वै जनमेजय।
इष्ट्वा यथावद्बलभिदरुणायामुपास्पृशत्।।
9-44-43a
9-44-43b
स मुक्तः पाप्मना तेन ब्रह्मवध्याकृतेन च।
जगाम संहृष्टमनास्त्रिदिवं त्रिदशेश्वरः।।
9-44-44a
9-44-44b
शिरस्तच्चापि नमुचेस्तत्रैवाप्लुत्य भारत।
लोकान्कामदुधात्प्राप्तमक्षयान्राजसत्तम।।
9-44-45a
9-44-45b
वैशपायन उवाच। 9-44-46x
तत्राप्युपस्पृश्य बलो महात्मा
दत्त्वा च दानानि पृथग्विधानि।
अवाप्य धर्मं परमार्यकर्मा
जगाम सोमस्य महत्सुतीर्थम्।।
9-44-46a
9-44-46b
9-44-46c
9-44-46d
यत्रायजद्राजसूयेन सोमः
साक्षात्पुरा विधिवत्पार्थिवेन्द्र।
अत्रिर्धीमान्ब्रह्मपुत्रो बभूव
होता यस्मिन्क्रतुमुख्ये महात्मा।।
9-44-47a
9-44-47b
9-44-47c
9-44-47d
यस्यान्तेऽभूत्सुमहद्दानवानां
दैतेयानां राक्षसानां च देवैः।
सङ्ग्रामो वै तारकाख्यः सुतीव्रो
यत्र स्कन्दस्तारकाख्यं जघान।।
9-44-48a
9-44-48b
9-44-48c
9-44-48d
सैनापत्यं लब्धवान्दैवतानां
महासेनो यत्र दैत्यान्तकर्ता।
साक्षाच्चैवं न्यवसत्कार्तिकेयः
सदा कुमारो यत्र स प्लुक्षराजः।।
9-44-49a
9-44-49b
9-44-49c
9-44-49d
।। इति श्रीमन्महाभारते शल्यपर्वणि
ह्रदप्रवेशपर्वणि चतुश्चत्वारिंशोऽध्यायः।। 44 ।।

[सम्पाद्यताम्]

9-44-10 अध्यास्यामहे अध्यवसायं करिष्यामहे।। 9-44-49 सदा कुमारो यत्र नक्षत्रधर्मा इति क.पाठः। यत्र नक्षत्रकामः इति ङ.पाठः।। 9-44-44 चतुश्चत्वारिंशोऽध्यायः।।

शल्यपर्व-043 पुटाग्रे अल्लिखितम्। शल्यपर्व-045