महाभारतम्-09-शल्यपर्व-064

विकिस्रोतः तः
Jump to navigation Jump to search
← शल्यपर्व-063 महाभारतम्
नवमपर्व
महाभारतम्-09-शल्यपर्व-064
वेदव्यासः
शल्यपर्व-065 →
  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009
  10. 010
  11. 011
  12. 012
  13. 013
  14. 014
  15. 015
  16. 016
  17. 017
  18. 018
  19. 019
  20. 020
  21. 021
  22. 022
  23. 023
  24. 024
  25. 025
  26. 026
  27. 027
  28. 028
  29. 029
  30. 030
  31. 031
  32. 032
  33. 033
  34. 034
  35. 035
  36. 036
  37. 037
  38. 038
  39. 039
  40. 040
  41. 041
  42. 042
  43. 043
  44. 044
  45. 045
  46. 046
  47. 047
  48. 048
  49. 049
  50. 050
  51. 051
  52. 052
  53. 053
  54. 054
  55. 055
  56. 056
  57. 057
  58. 058
  59. 059
  60. 060
  61. 061
  62. 062
  63. 063
  64. 064
  65. 065
  66. 066


जनमेजयेन गान्धार्याश्वासनकारणप्रश्ने वैशम्पायनेन तत्कथनम्।। 1 ।। कृष्णेन गान्धारीधृतराष्ट्रो समाश्वास्य पुनः पाण्डवसमीपागमनम्।। 2 ।।

जनमेजय उवाच। 9-64-1x
किमर्थं द्विजशार्दूल धर्मराजो युधिष्ठिरः।
गान्धार्याः प्रेषयामास वासुदेवं परन्तपम्।।
9-64-1a
9-64-1b
यदा पूर्वं गतः कृष्णः शमार्थं कौरवान्प्रति।
न च तं लब्धवान्कामं ततो युद्धमभूदिदम्।।
9-64-2a
9-64-2b
निहतेषु तु योधेषु हते दुर्योधने तदा।
पृथिव्यां पाण्डवेयस्य निःसपत्ने कृते युधि।।
9-64-3a
9-64-3b
विद्रुते शिबिरे शून्ये प्राप्ते यशसि चोत्तमे।
किं तु तत्कारणं ब्रह्मन्येन कृष्णो गतः पुनः।।
9-64-4a
9-64-4b
न चैतत्कारणं ब्रह्मन्नल्पं विप्रतिभाति मे।
यत्रागमदमेयात्मा स्वयमेव जनार्दनः।।
9-64-5a
9-64-5b
तत्त्वतो वै समाचक्ष्व सर्वमध्वर्युसत्तम।
यच्चात्र कारणं ब्रह्मन्कार्यस्यास्य विनिश्चये।।
9-64-6a
9-64-6b
वैशम्पायन उवाच। 9-64-7x
त्वद्युक्तोऽयमनुप्रश्नो यन्मां पृच्छसि पार्थिव।
तत्तेऽहं संप्रवक्ष्यामि यथावद्भरतर्षभ।।
9-64-7a
9-64-7b
हतं दुर्योधनं दृष्ट्वा भीमसेनेन संयुगे।
व्युत्क्रम्य समयं राजन्धार्तराष्ट्रं महाबलम्।।
9-64-8a
9-64-8b
अन्यायेन हतं दृष्ट्वा गदायुद्धेन भारत।
युधिष्ठिरं महाराज महद्भयमथाविशत्।।
9-64-9a
9-64-9b
सोऽचिन्तयन्महाभागां गान्धारीं तपसान्विताम्।
घोरेण तपसा युक्तां त्रैलोक्यमपि सा दहेत्।।
9-64-10a
9-64-10b
तस्य चिन्तयमानस्य बुद्धिः समभवत्तदा।
गान्धार्याः क्रोधदीप्तायाः पूर्वं प्रशमनं भवेत्।।
9-64-11a
9-64-11b
सा हि पुत्रवधं श्रुत्वा कृतमस्माभिरीदृशम्।
मानसेनाग्निना क्रुद्धा भस्मसान्नः करिष्यति।।
9-64-12a
9-64-12b
कथं दुःखमिदं तीव्रं गान्धारी सम्प्रशक्ष्यति।
श्रुत्वा विनिहतं पुत्रं छलेनाजिह्मयोधिनम्।।
9-64-13a
9-64-13b
एवं विचिन्त्य बहुधा भयशोकसमन्वितः।
वासुदेवमिदं वाक्यं धर्मराजोऽभ्यभाषत।।
9-64-14a
9-64-14b
तव प्रसादाद्गोविन्द राज्यं निहतकण्टकम्।
अप्राप्यं मनसाऽपीदं प्राप्तमस्माभिरच्युत।।
9-64-15a
9-64-15b
प्रत्यक्षं मे महाबाहो सङ्ग्रामे रोमहर्षणे।
विमर्दः सुमहान्प्राप्तस्त्वया यादवनन्दन।।
9-64-16a
9-64-16b
त्वया देवासुरे युद्धे वधार्थममरद्विषाम्।
यथा साह्यं पुरा दत्तं हताश्च विबुधद्विषः।।
9-64-17a
9-64-17b
साह्यं तथा महाबाहो दत्तमस्माकमच्युत।
सारथ्येन च वार्ष्णेय भवता हि धृता वयम्।।
9-64-18a
9-64-18b
यदि न त्वं भवेन्नाथः फल्गुनस्य महारणे।
कथं शक्यो रणे जेतुं भवेदेष बलार्णवः।।
9-64-19a
9-64-19b
गदाप्रहारा विपुलाः परिघैश्चापि ताडनम्।
शक्तिभिर्भिण्डिपालैश्च तोमरैः सपरश्वथैः।।
9-64-20a
9-64-20b
अस्मत्कृते त्वया कृष्ण वाचः सुपरुषाः श्रुताः।
शस्त्राणां च निपाता वै वज्रस्पर्शोपमा रणे।।
9-64-21a
9-64-21b
ते च ते सफला जाता हते दुर्योधनेऽच्युत।
तत्सर्वं न यथा नश्येत्पुनः कृष्ण तथा कुरु।।
9-64-22a
9-64-22b
सन्देहडोलां प्राप्तं नश्चेतः कृष्ण जये सति।
गान्धार्या हि महाबाहो क्रोधं शमय माधव।।
9-64-23a
9-64-23b
सा हि नित्यं महाभागा तपसोग्रेण कर्शिता।
पुत्रपौत्रवधं श्रुत्वा ध्रुवं नः सम्प्रधक्ष्यति।
तस्या प्रसादनं वीर प्राप्तकालं मतं मम।।
9-64-24a
9-64-24b
9-64-24c
कश्च तां क्रोधसन्दीप्तां पुत्रव्यसनकर्शिताम्।
वीक्षितुं पुरुषः शक्तस्त्वामृते पुरुषोत्तम।।
9-64-25a
9-64-25b
तत्र मे गमनं प्राप्तं रोचते तव माधव।
गान्धार्याः क्रोधदीप्तायाः प्रशमार्थमरिन्दम।।
9-64-26a
9-64-26b
त्वं हि कर्ता विकर्ता च लोकानां प्रभवाव्ययः।
हेतुकारणसंयुक्तैर्वाक्यैः कालसमीरितैः।।
9-64-27a
9-64-27b
क्षिप्रमेव महाबाहो गान्धारीं शमयिष्यसि।
पितामहश्च भगवान्कृष्णस्तत्र भविष्यति।।
9-64-28a
9-64-28b
सर्वथा ते महाबाहो गान्धार्याः क्रोधनाशनम्।
कर्तव्यं सात्वतां श्रेष्ठ पाण्डवानां हितार्थिना।।
9-64-29a
9-64-29b
धर्मराजस्य वचनं श्रुत्वा यदुकुलोद्वहः।
आमन्त्र्य दारुकं प्राह रथः सञ्जो विधीयताम्।।
9-64-30a
9-64-30b
केशवस्य वचः श्रुत्वा त्वरमाणोऽथ दारुकः।
न्यवेदयद्रथं सज्जं केशवाय महात्मने।।
9-64-31a
9-64-31b
तं रथं यादवश्रेष्ठः समारुह्य परन्तपः।
जगाम हास्तिनपुरं त्वरितः केशवो विभुः।।
9-64-32a
9-64-32b
ततः प्रायान्महाराज माधवो भगवान्रथी।
नागसाह्वयमासाद्य प्रविवेश च वीर्यवान्।।
9-64-33a
9-64-33b
प्रविश्य नगरं वीरो रथघोषेण नादयन्।
विदितो धृतराष्ट्रस्य सोऽवतीर्य रथोत्तमात्।
अभ्यगच्छददीनात्मा धृतराष्ट्रनिवेशनम्।।
9-64-34a
9-64-34b
9-64-34c
पूर्वं चाभिगतं तत्र सोऽपश्यदृषिसत्तमम्।। 9-64-35a
पादौ प्रपीड्य कृष्णस्य राज्ञश्चापि जनार्दनः।
अभ्यवादयदव्यग्रो गान्धारीं चापि केशवः।।
9-64-36a
9-64-36b
ततस्तु यादवश्रेष्ठो धृतराष्ट्रमधोक्षजः।
पाणिमालम्ब्य राजेन्द्र सुस्वरं प्ररुरोद ह।।
9-64-37a
9-64-37b
स मुहूर्तादिवोत्सृज्य बाष्पं शोकसमुद्भवम्।
प्रक्षाल्य वारिणा नेत्रे ह्याचम्य च यथाविधि।
उवाच प्रश्रितं वाक्यं धृतराष्ट्रमरिन्दमः।।
9-64-38a
9-64-38b
9-64-38c
न तेऽस्त्यविदितं किञ्चिद्भूतं भव्यं च भारत।
कालस्य च यथावृत्तं तत्ते सुविदितं प्रभो।।
9-64-39a
9-64-39b
यदिदं पाण्डवैः सर्वैस्तव चित्तानुरोधिभिः।
कथं कुलक्षयो न स्यात्तथा क्षत्रस्य भारत।।
9-64-40a
9-64-40b
भ्रातृभिः समयं कृत्वा क्षान्तवान्धर्मवत्सलः।
द्यूतच्छलजितैः शुद्वैर्वनवासो ह्युपागतः।।
9-64-41a
9-64-41b
अज्ञातवासचर्या च नानावेषसमावृतैः।
अन्ये च बहवः क्लेशास्त्वशक्तैरिव सर्वदा।।
9-64-42a
9-64-42b
मया च स्वयमागम्य युद्धकाल उपस्थिते।
सर्वलोकस्य सान्निध्येग्रामांस्त्वं पञ्चयाचितः।।
9-64-43a
9-64-43b
त्वया कालोपसृष्टेन लोभतो नापवर्जिताः।
तवापराधान्नृपते सर्वं क्षत्रं क्षयं गतम्।।
9-64-44a
9-64-44b
भीष्मेण सोमदत्तेन बाह्लीकेन कृपेण च।
द्रोणेन च सपुत्रेण विदुरेण च धीमता।
याचितस्त्वं शमं नित्यं न च तत्कृतवानसि।।
9-64-45a
9-64-45b
9-64-45c
कालोपहतचित्ता हि सर्वे मुह्यन्ति भारत।
यथा मूढो भवान्पूर्वमस्मिन्नर्थे समुद्यते।।
9-64-46a
9-64-46b
किमन्यत्कालयोगाद्धि द्विष्टमेव परायणम्।
मा च दोषान्महाप्राज्ञ पाण्डवेषु निवेशय।।
9-64-47a
9-64-47b
अल्पोप्यतिक्रमो नास्ति पाण्डवानां महात्मनाम्।
धर्मतो न्यायतश्चैव स्नेहतश्च परन्तप।।
9-64-48a
9-64-48b
एतत्सर्वं तु विज्ञाय ह्यात्मदोषकृतं फलम्।
तन्मन्युं पाण्डुपुत्रेषु न भवान्कर्तुमर्हति।।
9-64-49a
9-64-49b
कुलं वंशश्च पिण्डाश्च यच्च पुत्रकृत फलम्।
गान्धार्यास्तव वै नाथ पाण्डवेषु प्रतिष्ठितम्।।
9-64-50a
9-64-50b
त्वं चैव कुरुशार्दूल गान्धारी च यशस्विनी।
मा शुचो नरशार्दूल पाण्डवान्प्रतिकिल्बिम्।।
9-64-51a
9-64-51b
एतत्सर्वमनुध्याय आत्मनश्च व्यतिक्रमम्।
शिवेन पाण्डवान्ध्याहि नमस्ते भरतर्षभ।।
9-64-52a
9-64-52b
जानासि च महाबाहो धर्मराजस्य या त्वयि।
भक्तिर्भरतशार्दूल स्नेहश्चापि स्वभावतः।।
9-64-53a
9-64-53b
एतच्च कदनं कृत्वा शत्रूणामपकारिणाम्।
दह्यते स दिवारात्रौ न च शर्माधिगच्छति।।
9-64-54a
9-64-54b
त्वां चैव नरशार्दूल गान्धारीं च यशस्विनीम्।
स शोचन्नरशार्दूलः शान्तिं नैवाधिगच्छति।।
9-64-55a
9-64-55b
हिया च परयाऽविष्टो भवन्तं नाधिगच्छति।
पुत्रशोकाभिसन्तप्तं बुद्धिव्याकुलितेन्द्रियम्।।
9-64-56a
9-64-56b
एवमुक्त्वा महाराज धृतराष्ट्रं यदूत्तमः।
उवाच परमं वाक्यं गान्धारीं शोककर्शिताम्।।
9-64-57a
9-64-57b
सौबलेयि निबोध त्वं यत्त्वां वक्ष्यामि सुव्रते।
त्वत्समा नास्ति लोकेऽस्मिन्नद्य सीमन्तिनी शुभे।।
9-64-58a
9-64-58b
जानासि च यथा राज्ञि सभायां मम सन्निधौ।
धर्मार्थसहितं वाक्यमुभयोः पक्षयोर्हितम्।।
9-64-59a
9-64-59b
उक्तवत्यसि कल्याणि न च ते तनयैः कृतम्।
दुर्योधनस्त्वया चोक्तो जयार्थी परुषं वचः।।
9-64-60a
9-64-60b
शृणु मूढ वचो मह्यं यतो धर्मस्ततो जयः।
तदिदं समनुप्राप्तं तव वाक्यं नृपात्मजे।।
6-64-61a
9-64-61b
एवं विदित्वा कल्याणि मा स्म शोके मनः कृथाः।
पाण्डवानां विनाशाय मा ते बुद्धिः कदाचन।।
9-64-62a
9-64-62b
शक्ता चासि महाभागे पृथिवीं सचराचराम्।
चक्षुषा क्रोधदीप्तेन निर्दग्धुं तपसो बलात्।।
9-64-63a
9-64-63b
वासुदेववचः श्रुत्वा गान्धारी वाक्यमब्रवीत्।
एवमेतन्महाबाहो यथा वदसि केशव।।
9-64-64a
9-64-64b
आधिभिर्दह्यमानाया मतिः सञ्चलिता मम।
सा मे व्यवस्थिता श्रुत्वा तव वाक्यं जनार्दन।।
9-64-65a
9-64-65b
राज्ञस्त्वन्धस्य वृद्धस्य हतपुत्रस्य केशव।
त्वं गतिः सहितैर्वीरैः पाण्डवैर्दिपदा वर।।
9-64-66a
9-64-66b
एतावदुक्त्वा वचनं मुखं प्रच्छाद्य वाससा।
पुत्रशोकाभिसन्तप्ता गान्धारी प्ररुरोद ह।।
9-64-67a
9-64-67b
तत एनां महाबाहुः केश्वः शोककर्शिताम्।
हेतुकारणसंयुक्तैर्वाक्यैराश्वासयत्प्रभुः।।
9-64-68a
9-64-68b
समाश्वास्य च गान्धारीं धृतराष्ट्रं च माधवः।
द्रौणिसङ्कल्पितं भावमन्वबुध्यत केशवः।।
9-64-69a
9-64-69b
ततस्त्वरित उत्थाय पादौ मूर्ध्ना प्रणम्य च।
द्वैपायनस्य राजेन्द्र ततः कौरवमब्रवीत्।।
9-64-70a
9-64-70b
आपृच्छे त्वां कुरुश्रेष्ठ मा च शोके मनः कृथाः।
द्रौणेः पापोस्त्यभिप्रायस्तेनास्मि सहसोत्थितः।।
9-64-71a
9-64-71b
पाण्डवानां वधे रात्रौ बुद्धिस्तेन प्रदर्शिता।। 9-64-72a
एतच्छ्रुत्वा तु वचनं गान्धार्या सहितोऽब्रवीत्।
धृतराष्ट्रो महाबाहुः केशवं केशिसूदनम्।।
9-64-73a
9-64-73b
शीघ्रं गच्छ महाबाहो पाण्डवान्परिपालय।
भूयस्त्वया समेष्यामि क्षिप्रमेव जनार्दन।।
9-64-74a
9-64-74b
प्रायात्ततस्तु त्वरितो दारुकेण सहाच्युतः।। 9-64-75a
वासुदेवे गते राजन्धृतराष्ट्रं जनेश्वरम्।
आश्वासयदमेयात्मा व्यासो लोकनमस्कृतः।।
9-64-76a
9-64-76b
वासुदेवोऽपि धर्मात्मा कृतकृत्यो जगाम ह।
शिबिरं हास्तिनपुराद्दिदृक्षुः पाण्डवान्नृप।।
9-64-77a
9-64-77b
आगम्य शिबिरं रात्रौ सोऽभ्यगच्छत पाण्डवान्।
तच्च तेभ्यः समाख्याय सहितस्तैः समाहितः।।
9-64-78a
9-64-78b
।। इति श्रीमन्महाभारते शल्यपर्वणि
गदायुद्धपर्वणि चतुःषष्टितमोऽध्यायः।। 64 ।।

[सम्पाद्यताम्]

9-64-27 हेतुकारणसंयुक्तैः हेतवो दृष्टा अपराधाः। कारणानि अदृष्टान्यवश्यंभावीनि तैर्युक्तानि तैर्युक्तानि तैः।। 9-64-33 प्रायादगच्छत्।। 9-64-34 विदितं धृताराष्ट्रस्येति झ.पाठः।। 9-64-36 कृष्णस्य व्यासस्य।। 9-64-49 असूयां पाण्डुपुत्रोष्विति झ.पाठः।। 9-64-64 चतुःषष्टितमोऽध्यायः।।

शल्यपर्व-063 पुटाग्रे अल्लिखितम्। शल्यपर्व-065