महाभारतम्-09-शल्यपर्व-005ब
← शल्यपर्व-005 | महाभारतम् नवमपर्व महाभारतम्-09-शल्यपर्व-005ब वेदव्यासः |
शल्यपर्व-006 → |
सञ्जय उवाच॥
अथ हैमवते प्रस्थे स्थित्वा युद्धाभिनन्दिनः ।
सर्व एव महाराज योधास्तत्र समागताः ॥१॥
शल्यश्च चित्रसेनश्च शकुनिश्च महारथः ।
अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः ॥२॥
सुषेणोऽरिष्टसेनश्च धृतसेनश्च वीर्यवान् ।
जयत्सेनश्च राजानस्ते रात्रिमुषितास्ततः ॥३॥
रणे कर्णे हते वीरे त्रासिता जितकाशिभिः ।
नालभञ्शर्म ते पुत्रा हिमवन्तमृते गिरिम् ॥४॥
तेऽब्रुवन्सहितास्तत्र राजानं सैन्यसंनिधौ ।
कृतयत्ना रणे राजन्सम्पूज्य विधिवत्तदा ॥५॥
कृत्वा सेनाप्रणेतारं परांस्त्वं योद्धुमर्हसि ।
येनाभिगुप्ताः सङ्ग्रामे जयेमासुहृदो वयम् ॥६॥
ततो दुर्योधनः स्थित्वा रथे रथवरोत्तमम् ।
सर्वयुद्धविभागज्ञमन्तकप्रतिमं युधि ॥७॥
स्वङ्गं प्रच्छन्नशिरसं कम्बुग्रीवं प्रियंवदम् ।
व्याकोशपद्माभिमुखं व्याघ्रास्यं मेरुगौरवम् ॥८॥
स्थाणोर्वृषस्य सदृशं स्कन्धनेत्रगतिस्वरैः ।
पुष्टश्लिष्टायतभुजं सुविस्तीर्णघनोरसम् ॥९॥
जवे बले च सदृशमरुणानुजवातयोः ।
आदित्यस्य त्विषा तुल्यं बुद्ध्या चोशनसा समम् ॥१०॥
कान्तिरूपमुखैश्वर्यैस्त्रिभिश्चन्द्रमसोपमम् ।
काञ्चनोपलसङ्घातैः सदृशं श्लिष्टसन्धिकम् ॥११॥
सुवृत्तोरुकटीजङ्घं सुपादं स्वङ्गुलीनखम् ।
स्मृत्वा स्मृत्वैव च गुणान्धात्रा यत्नाद्विनिर्मितम् ॥१२॥
सर्वलक्षणसम्पन्नं निपुणं श्रुतिसागरम् ।
जेतारं तरसारीणामजेयं शत्रुभिर्बलात् ॥१३॥
दशाङ्गं यश्चतुष्पादमिष्वस्त्रं वेद तत्त्वतः ।
साङ्गांश्च चतुरो वेदान्सम्यगाख्यानपञ्चमान् ॥१४॥
आराध्य त्र्यम्बकं यत्नाद्व्रतैरुग्रैर्महातपाः ।
अयोनिजायामुत्पन्नो द्रोणेनायोनिजेन यः ॥१५॥
तमप्रतिमकर्माणं रूपेणासदृशं भुवि ।
पारगं सर्वविद्यानां गुणार्णवमनिन्दितम् ॥१६॥
तमभ्येत्यात्मजस्तुभ्यमश्वत्थामानमब्रवीत् ॥१६॥
यं पुरस्कृत्य सहिता युधि जेष्याम पाण्डवान् ।
गुरुपुत्रोऽद्य सर्वेषामस्माकं परमा गतिः ॥१७॥
भवांस्तस्मान्नियोगात्ते कोऽस्तु सेनापतिर्मम ॥१७॥
द्रौणिरुवाच॥
अयं कुलेन वीर्येण तेजसा यशसा श्रिया ।
सर्वैर्गुणैः समुदितः शल्यो नोऽस्तु चमूपतिः ॥१८॥
भागिनेयान्निजांस्त्यक्त्वा कृतज्ञोऽस्मानुपागतः ।
महासेनो महाबाहुर्महासेन इवापरः ॥१९॥
एनं सेनापतिं कृत्वा नृपतिं नृपसत्तम ।
शक्यः प्राप्तुं जयोऽस्माभिर्देवैः स्कन्दमिवाजितम् ॥२०॥
तथोक्ते द्रोणपुत्रेण सर्व एव नराधिपाः ।
परिवार्य स्थिताः शल्यं जयशब्दांश्च चक्रिरे ॥२१॥
युद्धाय च मतिं चक्रूरावेशं च परं ययुः ॥२१॥
ततो दुर्योधनः शल्यं भूमौ स्थित्वा रथे स्थितम् ।
उवाच प्राञ्जलिर्भूत्वा रामभीष्मसमं रणे ॥२२॥
अयं स कालः सम्प्राप्तो मित्राणां मित्रवत्सल ।
यत्र मित्रममित्रं वा परीक्षन्ते बुधा जनाः ॥२३॥
स भवानस्तु नः शूरः प्रणेता वाहिनीमुखे ।
रणं च याते भवति पाण्डवा मन्दचेतसः ॥२४॥
भविष्यन्ति सहामात्याः पाञ्चालाश्च निरुद्यमाः ॥२४॥
शल्य उवाच॥
यत्तु मां मन्यसे राजन्कुरुराज करोमि तत् ।
त्वत्प्रियार्थं हि मे सर्वं प्राणा राज्यं धनानि च ॥२५॥
दुर्योधन उवाच॥
सेनापत्येन वरये त्वामहं मातुलातुलम् ।
सोऽस्मान्पाहि युधां श्रेष्ठ स्कन्दो देवानिवाहवे ॥२६॥
अभिषिच्यस्व राजेन्द्र देवानामिव पावकिः ।
जहि शत्रून्रणे वीर महेन्द्रो दानवानिव ॥२७॥