कूर्मपुराणम्-पूर्वभागः/सप्तमोऽध्यायः

विकिस्रोतः तः
Jump to navigation Jump to search
← षष्ठोऽध्यायः कूर्मपुराणम्-पूर्वभागः
सप्तमोऽध्यायः
वेदव्यासः
अष्टमोऽध्यायः →
  1. प्रथमोऽध्यायः
  2. द्वितीयोऽध्यायः
  3. तृतीयोऽध्यायः
  4. चतुर्थोऽध्यायः
  5. पञ्चमोऽध्यायः
  6. षष्ठोऽध्यायः
  7. सप्तमोऽध्यायः
  8. अष्टमोऽध्यायः
  9. नवमोऽध्यायः
  10. दशमोऽध्यायः
  11. एकादशोऽध्यायः
  12. द्वादशोऽध्यायः
  13. त्रयोदशोऽध्यायः
  14. चतुर्दशोऽध्यायः
  15. पञ्चदशोऽध्यायः
  16. षोडशोऽध्यायः
  17. सप्तदशोऽध्यायः
  18. अष्टादशोऽध्यायः
  19. एकोनविंशतितमोऽध्यायः
  20. विंशतितमोऽध्यायः
  21. एकविंशतितमोऽध्यायः
  22. द्वाविंशतितमोऽध्यायः
  23. त्रयोविंशतितमोऽध्यायः
  24. चतुर्विंशतितमोऽध्यायः
  25. पञ्चविंशतितमोऽध्यायः
  26. षड्विंशतितमोऽध्यायः
  27. सप्तविंशतितमोऽध्यायः
  28. अष्टाविंशतितमोऽध्यायः
  29. नवविंशतितमोऽध्यायः
  30. त्रिंशत्तमोऽध्यायः
  31. एकत्रिंशत्तमोऽध्यायः
  32. द्वात्रिंशत्तमोऽध्यायः
  33. त्रयस्त्रिंशत्तमोऽध्यायः
  34. चतुस्त्रिंशत्तमोऽध्यायः
  35. पञ्चत्रिंशत्तमोऽध्यायः
  36. षड्त्रिंशत्तमोऽध्यायः
  37. सप्तत्रिंशत्तमोऽध्यायः
  38. अष्टत्रिंशत्तमोऽध्यायः
  39. नवत्रिंशात्तमोऽध्यायः
  40. चत्वारिंशत्तमोऽध्यायः
  41. एकचत्वारिंशत्तमोऽध्यायः
  42. द्विचत्वारिंशत्तमोऽध्यायः
  43. त्रिचत्वारिंशत्तमोऽध्यायः
  44. चतुश्चत्वारिंशत्तमोऽध्यायः
  45. पञ्चचत्वारिंशत्तमोऽध्यायः
  46. षड्चत्वारिंशत्तमोऽध्यायः
  47. सप्तचत्वारिंशत्तमोऽध्यायः
  48. अष्टचत्वारिंशत्तमोऽध्यायः
  49. नवचत्वारिंशत्तमोऽध्यायः
  50. पञ्चाशत्तमोऽध्यायः
  51. एकपञ्चाषत्तमोऽध्यायः
  52. द्विपञ्चाषत्तमोऽध्यायः
  53. त्रिपञ्चाषत्तमोऽध्यायः


श्रीकूर्म उवाच ।
सृष्टिं चिन्तयतस्तस्य कल्पादिषु यथा पुरा ।
अबुद्धिपूर्वकः सर्गः प्रादुर्भूतस्तमोमयः ।। ७.१
तमोमोहो महामोहस्तामिस्त्रश्चान्धसंज्ञितः ।
अविद्या पञ्चपर्वैषा प्रादुर्भूता महात्मनः ।। ७.२
पञ्चधावस्थितः सर्गो ध्यायतः सोऽभिमानिनः ।
संवृतस्तमसा चैव बीजकुम्भवदावृतः ।। ७.३
बहिरन्तश्चाप्रकाशः स्तब्धो निःसंग एव च ।
मुक्या नगा इति प्रोक्ता मुख्यसर्गस्तु स स्मृतः ।। ७.४
तं दृष्ट्वाऽसाधकं सर्गममन्यदपरं प्रभुः ।
तस्याभिध्यायतः सर्गंस्तिर्यक्‌स्रोतोऽभ्यवर्तत ।। ७.५
यस्मात् तिर्यक् प्रवृत्तः स तिर्यक्‌स्रोतः ततः स्मृतः ।
पश्वादयस्ते विख्याता उत्पथग्राहिणो द्विजाः ।। ७.६
तमप्यसाधकं ज्ञात्वा सर्गमन्यं ससर्ज ह ।
ऊर्ध्वस्रोत इति प्रोक्तो देवसर्गस्तु सात्त्विकः ।। ७.७
ते सुखप्रीतिबहुला बहिरन्तस्त्वनावृताः ।
प्रकाशा बहिरन्तश्च स्वभावाद् देवसंज्ञिताः ।। ७.८
ततोऽबिधायायतस्तस्य सत्याभिध्यायिनस्तदा ।
प्रादुरासीत् तदाऽव्यक्तादर्वाक्‌स्रोतस्तु साधकः ।। ७.९
तत्र प्रकाशबहुलास्तमोद्रिक्ता रजोधिकाः ।
दुःखोत्कटाः सत्त्वयुता मनुष्याः परिकीर्तिता ।। ७.१०
तं दृष्ट्वा चापरं सर्गममन्यद् भगवानजः ।
तस्याभिध्यायतः सर्गं सर्गो भूतादिकोऽभवत् ।। ७.११
त परिग्राहिणः सर्वे संविभागरताः पुनः।
स्वादिनाश्चाप्यशीलाश्च भूताद्याः परिकीर्तिताः ।७.१२
इत्येते पञ्च कथिताः सर्गा वै द्विजपुंगवाः ।।
प्रथमो महतः सर्गो विज्ञेयो ब्रह्मणस्तु सः ।७.१३
तन्मात्राणां द्वितीयस्तु भूतसर्गो हि स स्मृतः ।।
वैकारिकस्तृतीयस्तु सर्ग ऐन्द्रियकः स्मृतः ।७.१४
इत्येष प्राकृतः सर्गः संभूतोऽबुद्धिपूर्वकः ।।
मुख्यसर्गश्चतुर्थस्तु मुख्या वै स्थावराः स्मृताः ।७.१५
तिर्यक्स्रोतस्तु यः प्रोक्तस्तिर्यग्योन्यः स पञ्चमः ।।
तथोर्ध्स्रोतसां षष्ठो देवसर्गस्तु स स्मृतः ।७.१६
ततोऽर्वाक्स्रोतसां सर्गः सप्तमः स तु मानुषु ।।
अष्टमो भौतिकः सर्गो भूतादीनां प्रकीर्तितः ।७.१७
नवमश्चैव कौमारः प्राकृता वैकृतास्त्विमे ।।
प्राकृतास्तु त्रयः पूर्वे सर्गास्ते बुद्धिपूर्वकाः ।७.१८
बुद्धिपूर्वं प्रवर्त्तन्ते मुख्याद्या मुनिपुंगवाः ।।
अग्रे ससर्ज वै ब्रह्मा मानसानात्मनः समान् ।७.१९
सनकं सनातनं चैव तथैव च सनन्दनम् ।
ऋभुं सनात्कुमारं च पूर्वमेव प्रजापतिः ।। ७.२०
पञ्चैते योगिनो विप्राः परं वैराग्यमाश्रिताः ।
ईश्वरासक्तमनसो न सृष्टौ दधिरे मतिम् ।। ७.२१
तेष्वेवं निरपेक्षेषु लोकसृष्टौ प्रजापतिः ।
मुमोह मायया सद्यो मायिनः परमेष्ठिनः ।। ७.२२
तं बोधयामास सुतं जगन्मायो महामुनिः ।
नारायणो महायोगी योगिचित्तानुरञ्जनः ।। ७.२३
बोधितस्तेन विश्वात्मा तताप परमं तपः ।
स तप्यमानो भगवान् न किञ्चित् प्रतिपद्यत ।। ७.२४
ततो दीर्घेण कालेन दुखात् क्रोधोऽभ्यजायत ।
क्रोधाविष्टस्य नेत्राभ्यां प्रापतन्नश्रुबिन्दवः ।। ७.२५
भ्रुकुटीकुटिलात् तस्य ललाटात् परमेष्टिनः ।
समुत्पन्नो महादेवः शरण्यो नीललोहितः ।। ७.२६
स एव भगवानीशस्तेजोराशिः सनातनः ।
यं प्रपश्यन्ति विद्वांसः स्वात्मस्थं परमेश्वरम् ।। ७.२७
ओंकारं समनुस्मृत्य प्रणम्य च कृताञ्जलिः ।
तमाह भगवान् ब्रह्मा सृजेमा विविधाः प्रजाः ।। ७.२८
निशम्य भगवान् वाक्यं शंकरो धर्मवाहनः ।
स्वात्मना सद्‌शान् रुद्रान् ससर्ज मनसा शिवः ।
कपर्दिनो निरातङ्कांस्त्रिनेत्रान् नीललोहितान् ।। ७.२९
तं प्राह भगवान् ब्रह्मा जन्ममृत्युयुताः प्रजाः ।
सृजेति सोऽब्रवीदीशो नाहं मृत्युजरान्विताः ।७.३०
प्रजाः स्त्रक्ष्ये जगन्नाथ सृज त्वमशुभाः प्रजाः ।।
निवार्य स तदा रुद्रं ससर्ज कमलोद्भवः ।७.३१
स्थानाभिमानिनः सर्वान् गदतस्तान् निबोधत ।।
अपोऽग्निरन्तरिक्षं च द्यौर्वायुः पृथिवी तथा ।७.३२
नद्यः समुद्राः शैलाश्च वृक्षा वीरुध एव च ।।
लवाः काष्ठाः कलाश्चैव मुहूर्ता दिवसाः क्षपाः ।७.३३
अर्द्धमासाश्च मासाश्च अयनाब्दयुगादयः ।।
स्थानाबिमानिनः सृष्ट्वा साधकानसृजत् पुनः ।७.३४
मरीचिभृग्वङ्गिरसः पुलस्त्यं पुलहं क्रतुम् ।
दक्षमत्रिं वसिष्ठं च धर्मं संकल्पमेव च ।। ७.३५
प्राणाद् ब्रह्माऽसृजद् दक्षं चक्षुषश्च मरीचिनम् ।
शिरसोऽङ्गिरसं देवो हृदयाद् भृगुमेव च ।। ७.३६
नेत्राभ्यामत्रिनामानं धर्मं च व्यवसायतः ।
संकल्पं चैव संकल्पात् सर्वलोकपितामहः ।। ७.३७
पुलस्त्यं च तथोदानाद् व्यानाच्च पुलहं मुनिम् ।
अपानात् क्रतुमव्यग्रं समानाच्च वसिष्ठकम् ।। ७.३८
इत्येते ब्रह्मणा सृष्टाः साधका गृहमेधिनः ।
आस्थाय मानवं रूपं धर्मस्तैः संप्रवर्त्तितः ।। ७.३९
ततो देवासुरपितृन् मनुष्यांश्च चतुष्टयम् ।
सिसृक्षुर्भगवानेतान् स्वमात्मानमयूयुजत् ।। ७.४०
युक्तात्मनस्तमोमात्रा ह्युद्रिक्ताभूत् प्रजापतेः ।
ततोऽस्य जघनात् पूर्वमसुरा जज्ञिरे सुताः ।। ७.४१
उत्ससर्जासुरान् सृष्ट्वा तां तनुं पुरुषोत्तमः ।
सा चोत्सृष्ट्रा तनुस्तेन सद्यो रात्रिरजायत ।७.४२
सा तमोबहुला यस्मात् प्रजास्तस्यांस्वपन्त्यतः ।।
सत्त्वमात्रत्मिकां देवस्तनुमन्यामगृह्णत ।७.४३
ततोऽस्य मुखतो देवा दीव्यतः संप्रजज्ञिरे ।।
त्यक्ता साऽपि तनुस्तेन सत्त्वप्रायमभूद् दिनम् ।७.४४
तस्मादहो धर्मयुक्ता देवताः समुपासते ।।
सत्त्वमात्रात्मिकामेव ततोऽन्यां जगृहे तनुम् ।७.४५
पितृवन्मन्यमानस्य पितरः संप्रजज्ञिरे ।।
उत्ससर्ज पितृन् सृष्ट्वा ततस्तामपि विश्वसृक् ।७.४६
साऽपविद्धा तनुस्तेन सद्यः सन्ध्या व्यजायत ।।
तस्मादहर्देवतानां रात्रिः स्याद् देवविद्विषाम् ।७,४७
तयोर्मध्ये पितॄणां तु मूर्तिः सन्ध्या गरीयसी ।।
तस्माद् देवासुराः सर्वे मुनयो मानवास्तथा ।७.४८
उपासते तदा युक्ता रात्र्यह्नोर्मध्यमां तनुम् ।।
रजोमात्रात्मिकां ब्रह्मा तनुमन्यामगृह्णत ।७.४९
ततोऽस्य जज्ञिरे पुत्रा मनुष्या रजसावृताः ।।
तामप्याशु स तत्याज तनुं सद्यः प्रजापतिः ।७.५०
ज्योत्स्ना सा चाभवद्विप्राः प्राक्सन्ध्या याऽभिधीयते ।।
ततः स भगवान् ब्रह्मा संप्राप्य द्विजपुंगवाः ।७.५१
मूर्ति तमोरजः प्रायां पुनरेवाभ्ययूयुजत् ।।
अन्धकारे क्षुधाविष्टा राक्षसास्तस्य जज्ञिरे ।७.५२
पुत्रास्तमोरजः प्राया बलिनस्ते निशाचराः ।।
सर्पा यक्षास्तथा बूता गन्धर्वाः संप्रजज्ञिरे ।। ७.५३
रजस्तमोभ्यामाविष्टांस्ततोऽन्यानसृजत् प्रभुः ।।
वयांसि वयसः सृष्ट्वा अवीन्वै वक्षसोऽसृजत् ।७.५४
मुखतोऽजान् ससर्जान्यान् उदराद्‌गाश्चनिर्ममे ।।
पद्भ्यांचाश्वान् समातङ्गान् रासभान् गवयान् मृगान् ।७.५५
उष्ट्रानश्वतरांश्चैव न्यङ्‌कूनन्यांश्व जातयः ।
ओषध्यः फलमूलिन्यो रोमभ्यस्तस्य जज्ञिरे ।। ७.५६
गायत्रं च ऋचश्चैव त्रिवृत्‌स्तोंम रथन्तरम् ।
अग्निष्टोमं च यज्ञानां निर्ममे प्रथमान्मुखात् ।। ७.५७
यजूंषि त्रैष्टुभं छन्दः स्तोमं पञ्चदशं तथा ।
बृहत्साम तथोक्थं च दक्षिणादसृजन्मुखात् ।। ७.५८
सामानि जागतं छन्दस्तोमं सप्तदशं तथा ।
वैरूपमतिरात्रं च पश्चिमादसृजन्मुखात् ।। ७.५९
एकविशमथर्वाणमाप्तोर्यामाणमेव च ।
अनुष्टुभं सवैराजमुत्तरादसृजन्मुखात् ।। ७.६०
उच्चावचानि भूतानि गात्रेभ्यस्तस्य जज्ञिरे ।
ब्रह्मणो हि प्रजासर्गं सृजतस्तु प्रजापतेः ।। ७.६१
यक्षान् पिशाचान् गन्धर्वांस्तथैवाप्सरसः शुभाः।
सृष्ट्वा चतुष्टयं सर्गं दवर्षिपितृमानुषम्।।७.६२
ततो सृजच्च भूतानि स्थावराणिचराणिच।
नरकिन्नररक्षांसि वयः पशुमृगोरगान् ।७.६३
अव्ययं च व्ययं चैव द्वयं स्थावरजङ्गमम् ।।
तेषां ये यानि कर्माणि प्राक्‌सृष्टौ प्रतिपेदिरे ।७.६४
तान्येव ते प्रपद्यन्ते सृज्यमानाः पुनः पुनः ।।
हिंस्त्राहिंस्त्रे मृदुक्रूरे धर्माधर्मावृतानृते ।७.६५
तद्भाविताः प्रपद्यन्ते तस्मात् तत्तस्य रोचते ।।
महाभूतेषु नानात्वमिन्द्रियार्थेषु मूर्तिषु ।७.६६
विनियोगं च भूतानां धातैव व्यदधात् स्वयम् ।।
नामरूपं च भूतानां कृत्यानां च प्रपञ्चनम् ।७.६७
वेदशब्देभ्य एवादौ निर्ममे स महेश्वरः ।
आर्षाणि चैव नामानि याश्च वेदेषु सृष्टयः ।७.६८
शर्वर्यन्ते प्रसूतानां तान्येवैभ्यो ददात्यजः ।।
यथर्त्तावृतुलिङ्गानि नानारूपाणि पर्यये ।७.६९
दृश्यन्ते तानि तान्येव तथा भावा युगादिषु ।।७.७०

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायां पूर्वविभागे सप्तमोऽध्यायः।।७।।