कूर्मपुराणम्-पूर्वभागः/सप्तदशोऽध्यायः
← षोडशोऽध्यायः | कूर्मपुराणम्-पूर्वभागः सप्तदशोऽध्यायः वेदव्यासः |
कूर्मपुराणम्-पूर्वभागः/ → |
श्रीकूर्म उवाच ।
अन्दके निगृहीते वै प्रह्लादस्य महात्मनः ।
विरोचनो नाम सुतो बभूव नृपतिः सुतः ।। १७.१
देवाञ्जित्वा सदेवेन्द्रान बहून् वर्षान् महासुरः ।
पालयामास धर्मेण त्रैलोक्यं सचराचरम् ।। १७.२
तस्यैवं वर्तमानस्य कदाचिद् विष्णुचोदितः ।
सनत्कुमारो भगवान् पुरं प्राप महामुनिः ।। १७.३
दृष्ट्वा सिहासनगतो ब्रह्मपुत्रं महासुरः ।
ननामोत्थाय शिरसा प्राञ्जलिर्वाक्यमब्रवीत् ।। १७.४
धन्योऽस्म्यनुगृहीतोऽस्मि संप्राप्तो मे पुरातनः ।
योगीश्वरोऽद्य भगवान् यतोऽसौ ब्रह्मवित् स्वयम् ।। १७.५
किमर्थमागतो ब्रह्मन् स्वयं देवः पितामहः ।
ब्रूहि मे ब्रह्मणः पुत्र किं कार्यं करवाण्यहम् ।। १७.६
सोऽब्रवीद् भगवान् देवो धर्मयुक्तं महासुरम् ।
द्रष्टुमभ्यागतोऽहं वै भवन्तं भाग्यवानसि ।। १७.७
सुदुर्लभा नीतिरेषा दैत्यानां दैत्यसत्तम ।
त्रिलोके धार्मिको नूनं त्वादृशोऽन्यो न विद्यते ।। १७.८
इत्युक्तोऽसुरराजस्तु पुनः प्राह महामुनिम् ।
धर्माणां परमं धर्मं ब्रूहि मे ब्रह्मवित्तम ।। १७.९
सोऽब्रवीद् भगवान् योगी दैत्येन्द्राय महात्मने ।
सर्वगुह्यतमं धर्ममात्मज्ञानमनुत्तमम् ।। १७.१०
स लब्ध्वा परमं ज्ञानं दत्त्वा च गुरुदक्षिणाम् ।
निधाय पुत्रे तद्राज्यं योगाभ्यासरतोऽभवत् ।। १७.११
स तस्य पुत्रो मतिमान् बलिर्नाम महासुरः ।
ब्रह्मण्यो धार्मिकोऽत्यर्थं विजिग्येऽथ पुरंदरम् ।। १७.१२
कृत्वा तेन महद् युद्धं शक्रः सर्वामरैर्वृतः ।
जगाम निर्जितो विष्णुं देवं शरणमच्युतम् ।। १७.१३
तदन्तरेऽदितिर्देवी देवमाता सुदुः खिता ।
दैत्येन्द्राणां वधार्थाय पुत्रो मे स्यादिति स्वयम् ।। १७.१४
तताप सुमहद् घोरं तपोराशिस्तपः परम् ।
प्रपन्ना विष्णुमव्यक्तं शरण्यं शरणं हरिम् ।। १७.१५
कृत्वा हृत्पद्मकिञ्जल्के निष्कलं परमं पदम् ।
वासुदेवमनाद्यन्तमानन्दं व्योम केवलम् ।। १७.१६
प्रसन्नो भगवान् विष्णुः शङ्खचक्रगदाधरः ।
आविर्बभूव योगात्मा देवमातुः पुरो हरिः ।। १७.१७
दृष्ट्वा समागतं विष्णुमदितिर्भक्तिसंयुता ।
मेने कृतार्थमात्मानं तोषयामास केशवम् ।। १७.१८
अदितिरुवाच ।
जयाशेषदुःखौघनाशैकहेतो
जयानन्तमाहात्म्ययोगाभियुक्त ।
जयानादिमध्यान्तविज्ञानमूर्त्ते
जयाशेषकल्पामलानन्दरूप ।। १७.१९
नमो विष्णवे कालरूपाय तुभ्यं
नमो नारसिंहाय शेषाय तुभ्यम् ।
नमः कालरुद्राय संहारकर्त्रे
नमो वासुदेवाय तुभ्यं नमस्ते ।। १७.२०
नमो विश्वमायाविधानाय तुभ्यं
नमो योगगम्याय सत्याय तुभ्यम् ।
नमो धर्मविज्ञाननिष्ठाय तुभ्यं
नमस्ते वराहाय भूयो नमस्ते ।। १७.२१
नमस्ते सहस्त्रार्कचन्द्राभमूर्त्ते
नमो वेदविज्ञानधर्माभिगम्य ।
नमो देवदेवादिदेवाय तुभ्यं
प्रभो विश्वयोनेऽथ भूयो नमस्ते ।। १७.२२
नमः शंभवे सत्यनिष्ठाय तुभ्यं
नमो हेतवे विश्वरूपाय तुभ्यम् ।
नमो योगपीठान्तरस्थाय तुभ्यं
शिवायैकरूपाय भूयो नमस्ते ।। १७.२३
एवं स भगवान् कृष्णो देवमात्रा जगन्मयः ।
तोषितश्छंदयामास वरेण प्रहसन्निव ।। १७.२४
प्रणम्य शिरसा भूमौ सा वब्रे वरमुत्तमम् ।
त्वामेव पुत्रं देवानां हिताय वरये वरम् ।। १७.२५
तथास्त्वित्याह भगवान् प्रपन्नजनवत्सलः ।
दत्त्वा वरानप्रमेयस्तत्रैवान्तरधीयत ।। १७.२६
ततो बहुतिथे काले भगवन्तं जनार्दनम् ।
दधार गर्भं देवानां माता नारायणं स्वयम् ।। १७.२७
समाविष्टे हृषीकेशे देवमातुरथोदरम् ।
उत्पाता जज्ञिरे घोरा बलेर्वैरोचनेः पुरे ।। १७.२८
निरीक्ष्य सर्वानुत्पातान् दैत्येन्द्रो भयविह्वलः ।
प्रह्लादमसुरं वृद्धं प्रणम्याह पितामहम् ।। १७.२९
बलिरुवाच ।
पितामह महाप्राज्ञ जायन्तेऽस्मत्पुरेऽधुना ।
किमुत्पातो भवेत् कार्यमस्माकं किंनिमित्तकाः ।। १७.३०
निशम्य तस्य वचनं चिरं ध्यात्वा महासुरः ।
नमस्कृत्य हृषीकेशमिदं वचनमब्रवीत् ।। १७.३१
प्रह्लाद उवाच ।
यो यज्ञैरिज्यते विष्णुर्यस्य सर्वमिदं जगत् ।
दधारासुरनाशार्थं माता तं त्रिदिवौकसाम् ।। १७.३२
यस्मादभिन्नं सकलं भिद्यते योऽखिलादपि ।
स वासुदेवो देवानां मातुर्देहं समाविशत् ।। १७.३३
न यस्य देवा जानन्ति स्वरूपं परमार्थतः ।
स विष्णुरदितेर्देहं स्वेच्छयाऽद्य समाविशत् ।। १७.३४
यस्माद् भवन्ति भूतानि यत्र संयान्ति संक्षयम् ।
सोऽवतीर्णो महायोगी पुराणपुरुषो हरिः ।। १७.३५
न यत्र विद्यते नामजात्यादिपरिकल्पना ।
सत्तामात्रात्मरूपोऽसौ विष्णुरंशेन जायते ।। १७.३६
यस्य सा जगतां माता शक्तिस्तद्धर्मधारिणी ।
माया भगवती लक्ष्मीः सोऽवतीर्णो जनार्दनः ।। १७.३७
यस्य सा तामसी मूर्त्तिः शंकरो राजसी तनुः ।
ब्रह्मा संजायते विष्णुरंशेनैकेन सत्त्वभृत् ।। १७.३८
इत्थं विचिन्त्य गोविन्दं भक्तिनम्रेण चेतसा ।
तमेव गच्छ शरणं ततो यास्यसि निर्वृतिम् ।। १७.३९
ततः प्रह्लादवचनाद् बलिर्वैरोचनिर्हरिम् ।
जगाम शरणं विश्वं पालयामास धर्मतः ।। १७.४०
काले प्राप्ते महाविष्णुं देवानां हर्षवर्द्धनम् ।
असूत कश्यपाच्चैनं देवमाताऽदितिः स्वयम् ।। १७.४१
चतुर्भुजं विशालाक्षं श्रीवत्साङ्कितवक्षसम् ।
नीलमेघप्रतीकाशं भ्राजमानं श्रियावृतम् ।। १७.४२
उपतस्थुः सुराः सर्वे सिद्धाः साध्याश्च चारणाः ।
उपेन्द्र इन्द्रप्रमुखा ब्रह्मा चर्षिगणैर्वृतः ।। १७.४३
कृतोपनयनो वेदानध्यैष्ट भगवान् हरिः ।
समाचारं भरद्वाजात् त्रिलोकाय प्रदर्शयन् ।। १७.४४
एवं हि लौकिकं मार्गं प्रदर्शयति स प्रभुः ।
स यत् प्रमाणं कुरुते लोकस्तदनुवर्तते ।। १७.४५
ततः कालेन मतिमान् बलिर्वैरोचनिः स्वयम् ।
यज्ञैर्यज्ञेश्वरं विष्णुमर्चयामास सर्वगम् ।। १७.४६
ब्राह्मणान् पूजयामास दत्त्वा बहुतरं धनम् ।
ब्रह्मर्षयः समाजग्मुर्यज्ञवाटं महात्मनः ।। १७.४७
विज्ञाय विष्णुर्भगवान् भरद्वाजप्रचोदितः ।
आस्थाय वामनं रूपं यज्ञदेशमथागमत् ।। १७.४८
कृष्णाजिनोपवीताङ्ग आषाढेन विराजितः ।
ब्राह्मणो जटिलो वेदानुद्गिरन् भस्ममण्डितः ।। १७.४९
संप्राप्यासुरराजस्य समीपं भिक्षुको हरिः ।
स्वपद्भ्यां क्रमितं देशमयाचत बलिं त्रिभिः ।। १७.५०
प्रक्षाल्य चरणौ विष्णोर्बलिर्भावसमन्वितः ।
आचामयित्वा भृङ्गारमादाय स्वर्णनिर्मितम् ।। १७.५१
दास्ये तवेदं भवते पदत्रयं
प्रीणातु देवो हरिरव्ययाकृतिः ।
विचिन्त्य देवस्य कराग्रपल्लवे
निपातयामास जलं सुशीतलम् ।। १७.५२
विचक्रमे पृथिवीमेष चैता-
मथान्तरिक्षं दिवमादिदेवः ।
व्यपेतरागं दितिजेश्वरं तं
प्रकर्तुकामः शरणं प्रपन्नम् ।। १७.५३
आक्रम्य लोकत्रयमीशपादः
प्राजापत्याद् ब्रह्मलोकं जगाम ।
प्रणेमुरादित्यसहस्त्रकल्पं
ये तत्र लोके निवसन्ति सिद्धाः ।। १७.५४
अथोपतस्थे भगवाननादिः
पितामहास्तोषयामास विष्णुम् ।
भित्त्वा तदण्डस्य कपालमूर्ध्वं
जगाम दिव्याभरणानि भूयः ।। १७.५५
अथाण्डभेदान्निपपात शीतलं
महाजलं तत् पुण्यकृद्भिश्चजुष्टम् ।
प्रवर्तते चापि सरिद्वरा तदा
गङ्गेत्युक्त्वा ब्रह्मणा व्योमसंस्था ।। १७.५६
गत्वा महान्तं प्रकृतिं प्रधानं
ब्रह्माणमेकं पुरुषं स्वबीजम् ।
अतिष्ठदीशस्य पदं तदव्ययं
दृष्ट्वा देवास्तत्र तत्र स्तुवन्ति ।। १७.५७
आलोक्य तं पुरुषं विश्वकायं
महान् बलिर्भक्तियोगेन विष्णुम् ।
ननाम नारायणमेकमव्ययं
स्वचेतसा यं प्रणमन्ति वेदाः ।। १७.५८
तमब्रवीद् भगवानादिकर्त्ता
भूत्वा पुनर्वामनो वासुदेवः ।
ममैव दैत्याधिपतेऽधुनेदं
लोकत्रयं भवता भावदत्तम् ।। १७.५९
प्रणम्य मूर्ध्ना पुनरेव दैत्यो
निपातयामास जलं कराग्रे ।
दास्ये तवात्मानमनन्तधाम्ने
त्रिविक्रमायामितविक्रमाय ।। १७.६०
प्रगृह्य सूनोरपि संप्रदत्तं
प्रह्लादसूनोरथ शङ्खपाणिः ।
जगाद दैत्यं जगदन्तरात्मा
पातालमूलं प्रविशेति भूयः ।। १७.६१
समास्यतां भवता तत्र नित्यं
भुक्त्वा भोगान् देवतानामलभ्यान् ।
ध्यायस्व मां सततं भक्तियोगात्
प्रवेक्ष्यसे कल्पदाहे पुनर्माम् ।। १७.६२
उक्त्वैवं दैत्यसिंहं तं विष्णुः सत्यपराक्रमः ।
पुरंदराय त्रैलोक्यं ददौ विष्णुरुरुक्रमः ।। १७.६३
संस्तुवन्ति महायोगं सिद्धा देवर्षिकिन्नराः ।
ब्रह्मा शक्रोऽथ भगवान् रुद्रादित्यमरुद्गणाः ।। १७.६४
कृत्वैतदद्भुतं कर्म विष्णुर्वामनरूपधृक् ।
पश्यतामेव सर्वेषां तत्रैवान्तरधीयत ।। १७.६५
सोऽपि दैत्यवरः श्रीमान् पातालं प्राप चोदितः ।
प्रह्लादेनासुरवरैर्विष्णु भक्तस्तुतत्परः ।। १७.६६
अपृच्छद् विष्णुमाहात्मयं भक्तियोगमनुत्तमम् ।
पूजाविधानं प्रह्लादं तदाहासौ चकार सः ।। १७.६७
अथ रथचरणंसशङ्खपाणिं
सरसिजोलचनमीशमप्रमेयम् ।
शरणमुपपयौ स भावयोगात्
प्रणयगतिं प्रणिधाय कर्मयोगम् ।। १७.६८
एष वः कथितो विप्रा वामनस्य पराक्रमः ।
स देवकार्याणि सदा करोति पुरुषोत्तमः ।। १७.६९
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे सप्तदशोऽध्याय।।