कूर्मपुराणम्-पूर्वभागः/विंशतितमोऽध्यायः
सूत उवाच ।
अदितिः सुषुवे पुत्रमादित्यं कश्यपात् प्रभुम् ।
तस्यादित्यस्य चैवासीद् भार्याणां तु चतुष्टयम् ।२०.१
संज्ञा राज्ञी प्रभा छाया पुत्रांस्तासां निबोधत ।
संज्ञा त्वाष्ट्री च सुषुवे सूर्यान्मनुमनुत्तमम् ।२०.२
यमं च यमुनां चैव राज्ञी रैवंतमेव च ।।
प्रभा प्रभातमादित्याच्छाया सावर्णिमात्मजम् ।२०.३
शनिं च तपतीं चैव विष्टिं चैव यथाक्रमम् ।
मनोस्तु प्रथमस्यासन् नव पुत्रास्तु तत्समाः ।२०.४
इक्ष्वाकुश्चैव नाभागो धृष्टः शर्यातिरेव च ।
नरिष्यन्तश्च नाभागो ह्यरिष्टः करुषस्तथा ।२०.५
पृषध्रश्च महातेजा नवैते शक्रसन्निभाः ।
इला ज्येष्ठा वरिष्ठा च सोमवंशंविवृद्धये ।२०.६
बुधस्य गत्वा भवनं सोमपुत्रेण संगता ।
असूत सोमजाद्देवी पुरूरवसमुत्तमम् ।२०.७
पितॄणां तृप्तिकर्त्तारं बुधादिति हि नः श्रुतम् ।
प्राप्य पुत्रं सुविमलं सुद्युम्न इति विश्रुतं ।२०.८
इला पुत्रत्रयं लेभे पुनः स्त्रीत्वमविन्दत ।
उत्कलश्च गयश्चैव विनताश्वस्तथैव च ।२०.९
सर्वे तेऽप्रतिमप्रख्याः प्रपन्नाः कमलोद्भवम् ।
इक्ष्वाकोश्चाभवद् वीरो विकुक्षिर्नाम पार्थिवः ।२०.१०
ज्येष्ठः पुत्र स तस्यासीद्दश पञ्च च तत्सुताः ।
तेषांज्येष्ठः ककुत्स्थोऽभूत् काकुत्स्थो हि सुयोधनः ।२०.११
सुयोधनात् पृथुः श्रीमान् विश्वकश्च पृथोः सुतः ।
विश्वकादार्द्रको धीमान् युवनाश्वस्तु तत्सुतः ।२०.१२
स गोकर्णमनुप्राप्य युवनाश्वः प्रतापवान् ।
दृष्ट्वा सौ गौतमं विप्रं तपन्तमनलप्रभम् ।२०.१३
प्रणम्य दण्डवद् भूमौ पुत्रकामो महीपतिः ।
अपृच्छत् कर्मणा केन धार्मिकं प्राप्नुयां सुतम् ।२०.१४
गौतम उवाच ।
आराध्य पूर्वपुरुषं नारायणमनामयम् ।
अनादिनिधनं देवं धार्मिकं प्राप्नुयात् सुतम् ।।२०.१५
यस्य पुत्रः स्वयं ब्रह्मा पौत्रः स्यान्नीललोहितः .।
तमादिकृष्णमीशानमाराध्याप्नोति सत्सुतम् ।।२०.१६
न यस्य भगवान् ब्रह्मा प्रभावं वेत्ति तत्त्वतः
तमाराध्य हृषीकेशं प्राप्नुयाद्धार्मिकं सुतम् ।२०.१७
स गौतमवचः श्रुत्वा युवनाश्वो महीपतिः ।
आराधयन्हृषीकेशं वासुदेवं सनातनम् ।२०.१८
तस्य पुत्रोऽभवद् वीरः सावस्तिरिति विश्रुतः ।
निर्मिता येन सावस्तिर्गौडदेशे महापुरी ।।२०.१९
तस्माच्च बृहदश्वोऽभूत् तस्मात् कुवलयाश्वकः ।
धुन्धुमारत्वमगमद् धुन्धुं हत्वा महासुरम् ।२०.२०
धुन्धुमारस्य तनयास्त्रयः प्रोक्ता द्विजोत्तमाः ।
दृढाश्वश्चैव दण्डाश्वः कपिलाश्वस्तथैव च ।२०.२१
दृढाश्वस्य प्रमोदस्तु हर्यश्वस्तस्य चात्मजः ।
हर्यश्वस्य निकुम्भस्तु निकुम्भात् संहताश्वकः ।२०.२२
कृताश्वोऽथ रणाश्वश्च संहताश्वस्य वै सुतौ ।
युवनाश्वो रणाश्वस्य शक्रतुल्यबलो युधि ।२०.२३
कृत्वा तु वारुणीमिष्टिमृषीणां वै प्रसादतः ।
लेभे त्वप्रतिमं पुत्रं विष्णुभक्तमनुत्तमम् २०.२४।
मान्धातारं महाप्राज्ञं सर्वशस्रभृतां वरम् ।
मान्धातुः पुरुकुत्सोऽभूदम्बरीषश्च वीर्यवान् ।२०.२५
मुचुकुन्दश्च पुण्यात्मा सर्वे शक्रसमा युधि ।
अम्बरीषस्य दायादो युवनाश्वोऽपरः स्मृतः ।२०.२६
हरितो युवनाश्वस्य हारितस्तत्सुतोऽभवत् ।
पुरुकुत्सस्य दायादस्त्रसदस्युर्महायशाः ।।२०.२७
नर्मदायां समुत्पन्नः संभूतिस्तत्सुतोऽभवत् ।
विष्णुवृद्धः सुतस्तस्य त्वनरण्योऽभवत्ततः ।
बृहदशवोऽनरण्यस्य हर्यश्वस्तत्सुतोऽभवत् ।। २०.२८
सोऽतीव धार्मिको राजा कर्दमस्य प्रजापतेः ।
प्रसादाद्धार्मिकं पुत्रं लेभे सूर्यपरायणम् ।। २०.२९
स तु सूर्यं समभ्यर्च्य राजा वसुमनाः शुभम् ।
लेभे त्वप्रतिमं पुत्रं त्रिधन्वानमरिंदमम् ।। २०.३०
अयजच्चाश्वमेधेन शत्रून् जित्वा द्विजोत्तमाः ।
स्वाध्यायवान् दानशीलस्तितिक्षुर्धर्मतत्परः ।। २०.३१
ऋषयस्तु समाजग्मुर्यज्ञवाटं महात्मनः ।
वसिष्ठकश्यपमुखा देवाश्चेन्द्रपुरोगमाः ।। २०.३२
तान् प्रणम्य महाराजः पप्रच्छ विनयान्वितः ।
समाप्य विधिवद् यज्ञं वसिष्ठादीन् द्विजोत्तमान् ।। २०.३३
वसुमना उवाच ।
किंस्विच्छेयस्करतरं लोकेऽस्मिन् ब्राह्मणर्षभाः ।
यज्ञस्तपो वा संन्यासो ब्रूत मे सर्ववेदिनः ।। २०.३४
वसिष्ठ उवाच ।
अधीत्य वेदान् विधिवत् पुत्रानुत्पाद्य धर्मतः ।
इष्ट्वा यज्ञेश्वरं यज्ञैर्गच्छेद वनमथात्मवान् ।। २०.३५
पुलस्त्य उवाच ।
आराध्य तपसा देवं योगिनं परमेष्ठिनम् ।
प्रव्रजेद् विधिवद् यज्ञैरिष्ट्वा पूर्वं सुरोत्तमान् ।। २०.३६
पुलह उवाच ।
यमाहुरेकं पुरुषं पुराणं परमेश्वरम् ।
तमाराध्य सहस्त्रांशुं तपसा मोक्षमाप्नुयात् ।। २०.३७
जमदग्निरुवाच ।
अजस्य नाभावध्येकमीश्वरेण समर्पितम् ।
बीजं भगवता येन स देवस्तपसेज्यते ।। २०.३८
विश्वामित्र उवाच ।
योऽग्निः सर्वात्मकोऽनन्तः स्वयंभूर्विश्वतोमुखः ।
स रुद्रस्तपसोग्रेण पूज्यते नेतरैर्मखैः ।। २०.३९
भरद्वाज उवाच ।
यो यज्ञैरिज्यते देवो जातवेदाः सनातनः ।
स सर्वदैवततनुः पूज्यते परमेश्वरः ।। २०.४०
अत्रिरुवाच ।
यतः सर्वमिदं जातं यस्यापत्यं प्रजापतिः ।
तपः सुमहदास्थाय पूज्यते स महेश्वरः ।। २०.४१
गौतम उवाच ।
यतः प्रधानपुरुषौ यस्य शक्तिमयं जगत् ।
स देवदेवस्तपसा पूजनीयः सनातनः ।। २०.४२
कश्यप उवाच ।
सहस्त्रनयनो देवः साक्षी शम्भुः प्रजापतिः ।
प्रसीदति महायोगी पूजितस्तपसा परः ।। २०.४३
क्रतुरुवाच
प्राप्ताध्ययनयज्ञस्य लब्धपुत्रस्य चैव हि ।
नान्तरेण तपः कश्चिद्धर्मः शास्त्रेषु दृश्यते ।। २०.४४
इत्याकर्ण्य स राजर्षिस्तान् प्रणम्यातिहृष्टधीः ।
विसर्जयित्वा संपूज्य त्रिधन्वानमथाब्रवीत् ।। २०.४५
आराधयिष्ये तपसा देवमेकाक्षराह्वयम् ।
प्राणं बृहन्तं पुरुषमादित्यान्तरसंस्थितम् ।। २०.४६
त्वं तु धर्मरतो नित्यं पालयैतदतन्द्रितः ।
चातुर्वर्ण्यसमायुक्तमशेषं क्षितिमण्डलम् ।। २०.४७
एवमुक्त्वा स तद्राज्यं निधायात्मभवे नृपः ।
जगामारण्यमनघस्तपस्तप्तुमनुत्तमम् ।। २०.४८
हिमवच्छिखरे रम्ये देवदारुवने शुभे ।
कन्दमूलफलाहारैरुत्पन्नैरयजत् सुरान् ।। २०.४९
संवत्सरशतं साग्रं तपोनिर्द्धूतकल्मषः ।
जजाप मनसा देवीं सावित्रीं वेदमातरम् ।। २०.५०
तस्यैवं जपतो देवः स्वयंभूः परमेश्वरः ।
हिरण्यगर्भो विश्वात्मा तं देशमगमत् स्वयम् ।। २०.५१
दृष्ट्वा देवं समायान्तं ब्रह्माणं विश्वतोमुखम् ।
ननाम शिरसा तस्य पादयोर्नाम कीर्त्तयन् ।। २०.५२
नमो देवाधिदेवाय ब्रह्मणे परमात्मने ।
हिर्ण्यमूर्त्तये तुभ्यं सहस्राक्षाय वेधसे ।। २०.५३
नमो धात्रे विधात्रे च नमो वेदात्ममूर्त्तये ।
सांख्ययोगाधिगम्याय नमस्ते ज्ञानमूर्त्तये ।। २०.५४
नमस्त्रिमूर्त्तये तुभ्यं स्त्रष्ट्रे सर्वार्थवेदिने ।
पुरुषाय पुराणाय योगिनां गुरवे नमः ।। २०.५५
ततः प्रसन्नो भगवान् विरिञ्चो विश्वभावनः ।
वरं वरय भद्रं ते वरदोऽस्मीत्यभाषत ।। २०.५६
राजोवाच
जपेयं देवदेवेश गायत्रीं वेदमातरम् ।
भूयो वर्षशतं साग्रं तावदायुर्भवेन्मम ।। २०.५७
बाढमित्याह विश्वात्मा समालोक्य नराधिपम् ।
स्पृष्ट्वा कराभ्यां सुप्रीतस्तत्रैवान्तरधीयत ।। २०.५८
सोऽपि लब्धवरः श्रीमान् जजापातिप्रसन्नधीः ।
शान्तस्त्रिषवणस्नायी कन्दमूलफलाशनः ।। २०.५९
तस्य पूर्णे वर्षशते भगवानुग्रदीधितिः ।
प्रादुरासीन्महायोगी भानोर्मण्डलमध्यतः ।। २०.६०
तं दृष्ट्वा वेदविदुषं मण्डलस्थं सनातनम् ।
स्वयंभुवमनाद्यन्तं ब्रह्माणं विस्मयं गतः ।। २०.६१
तुष्टाव वैदिकैर्मन्त्रैः सावित्र्या च विशेषतः ।
क्षणादपश्यत् पुरुषं तमेव परमेश्वरम् ।। २०.६२
चतुर्मुखं जटामौलिमष्टहस्तं त्रिलोचनम् ।
चन्द्रावयवलक्षमाणं नरनारीतनुं हरम् ।। २०.६३
भासयन्तं जगत् कृत्स्नं नीलकण्ठं स्वरश्मिभिः ।
रक्ताम्बरधरं रक्तं रक्तमाल्यानुलेपनम् ।। २०.६४
तद्भावभावितो दृष्ट्वा सद्भावेन परेण हि ।
ननाम शिरसा रुद्रं सावित्र्यानेन चैव हि ।। २०.६५
नमस्ते नीलकण्ठाय भास्वते परमेष्ठिने ।
त्रयीमयाय रुद्राय कालरूपाय हेतवे ।। २०.६६
तदा प्राह महादेवो राजानं प्रीतमानसः ।
इमानि मे रहस्यानि नामानि श्रृणु चानघ ।। २०.६७
सर्ववेदेषु गीतानि संसारशमनानि तु ।
नमस्कुरुष्व नृपते एभिर्मां सततं शुचिः ।। २०.६८
अध्यायं शतरुद्रीयं यजुषां सारमुद्धृतम् ।
जपस्वानन्यचेतस्को मय्यासक्तमना नृप ।। २०.६९
ब्रह्मचारी मिताहारो भस्मनिष्ठः समाहितः ।
जपेदामरणाद् रुद्रं स याति परमं पदम् ।। २०.७०
इत्युक्त्वा भगवान् रुद्रो भक्तानुग्रहकाम्यया ।
पुनः संवत्सरशतं राज्ञे ह्यायुरकल्पयत् ।। २०.७१
दत्त्वाऽस्मै तत् परं ज्ञानं वैराग्यं परमेश्वरः ।
क्षणादन्तर्दधे रुद्रस्तदद्भुतमिवाभवत् ।। २०.७२
राजाऽपि तपसा रुद्रं जजापानन्यमानसः ।
भस्मच्छन्नस्त्रिषवणं स्नात्वा शान्तः समाहितः ।। २०.७३
जपतस्तस्य नृपतेः पूर्णे वर्षशते पुनः ।
योगप्रवृत्तिरभवत् कालात् कालात्मकं परम् ।। २०.७४
विवेशैतद् वेदसारं स्थानं वै परमेष्ठिनः ।
भानोः सुमण्डलं शुभ्रं ततो यातो महेश्वरम् ।। २०.७५
यः पठेच्छृणुयाद्वापि राज्ञश्चरितमुत्तमम् ।
सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते ।। २०.७६
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे विंशोऽध्यायः ।।