सामग्री पर जाएँ

कूर्मपुराणम्-पूर्वभागः/नवमोऽध्यायः

विकिस्रोतः तः
← अष्टमोऽध्यायः 'कूर्मपुराणम्-पूर्वभागः
'
नवमोऽध्यायः

वेदव्यासः
दशमोऽध्यायः →
  1. प्रथमोऽध्यायः
  2. द्वितीयोऽध्यायः
  3. तृतीयोऽध्यायः
  4. चतुर्थोऽध्यायः
  5. पञ्चमोऽध्यायः
  6. षष्ठोऽध्यायः
  7. सप्तमोऽध्यायः
  8. अष्टमोऽध्यायः
  9. नवमोऽध्यायः
  10. दशमोऽध्यायः
  11. एकादशोऽध्यायः
  12. द्वादशोऽध्यायः
  13. त्रयोदशोऽध्यायः
  14. चतुर्दशोऽध्यायः
  15. पञ्चदशोऽध्यायः
  16. षोडशोऽध्यायः
  17. सप्तदशोऽध्यायः
  18. अष्टादशोऽध्यायः
  19. एकोनविंशतितमोऽध्यायः
  20. विंशतितमोऽध्यायः
  21. एकविंशतितमोऽध्यायः
  22. द्वाविंशतितमोऽध्यायः
  23. त्रयोविंशतितमोऽध्यायः
  24. चतुर्विंशतितमोऽध्यायः
  25. पञ्चविंशतितमोऽध्यायः
  26. षड्विंशतितमोऽध्यायः
  27. सप्तविंशतितमोऽध्यायः
  28. अष्टाविंशतितमोऽध्यायः
  29. नवविंशतितमोऽध्यायः
  30. त्रिंशत्तमोऽध्यायः
  31. एकत्रिंशत्तमोऽध्यायः
  32. द्वात्रिंशत्तमोऽध्यायः
  33. त्रयस्त्रिंशत्तमोऽध्यायः
  34. चतुस्त्रिंशत्तमोऽध्यायः
  35. पञ्चत्रिंशत्तमोऽध्यायः
  36. षड्त्रिंशत्तमोऽध्यायः
  37. सप्तत्रिंशत्तमोऽध्यायः
  38. अष्टत्रिंशत्तमोऽध्यायः
  39. नवत्रिंशात्तमोऽध्यायः
  40. चत्वारिंशत्तमोऽध्यायः
  41. एकचत्वारिंशत्तमोऽध्यायः
  42. द्विचत्वारिंशत्तमोऽध्यायः
  43. त्रिचत्वारिंशत्तमोऽध्यायः
  44. चतुश्चत्वारिंशत्तमोऽध्यायः
  45. पञ्चचत्वारिंशत्तमोऽध्यायः
  46. षड्चत्वारिंशत्तमोऽध्यायः
  47. सप्तचत्वारिंशत्तमोऽध्यायः
  48. अष्टचत्वारिंशत्तमोऽध्यायः
  49. नवचत्वारिंशत्तमोऽध्यायः
  50. पञ्चाशत्तमोऽध्यायः
  51. एकपञ्चाषत्तमोऽध्यायः
  52. द्विपञ्चाषत्तमोऽध्यायः
  53. त्रिपञ्चाषत्तमोऽध्यायः

सूत उवाच
एतच्छ्रुत्वा तु वचनं नारदाद्या महर्षयः ।
प्रणम्य वरदं विष्णुं पप्रच्छुः संशयान्विता ॥ ९.१

मुनयः ऊचुः
कथितो भवता सर्गो मुख्यादीनां जनार्दन ।
इदानीं संशयं चेममस्माकं छेत्तुमर्हसि ॥ ९.२

कथं स भगवानीशः पूर्वजोऽपि पिनाकधृक् ।
पुत्रत्वमगच्छंभुर्ब्रह्मणोऽव्यक्तजन्मनः ॥ ९.३

कथं च भगवाञ्जज्ञे ब्रह्मा लोकपितामहः ।
अण्डजो जगतामीशस्तन्नो वक्तुमिहार्हसि ॥ ९.४

श्रीकूर्म उवाच ।
श्रृणुध्वमृषयः सर्वे शंकरस्यामितौजसः ।
पुत्रत्वं ब्रह्मणस्तस्य पद्मयोनित्वमेव च ॥ ९.५

अतीतकल्पावसाने तमोभूतं जगत्त्रयम् ।
आसीदेकार्णवं सर्वं न देवाद्या न चर्षयः ॥ ९.६

तत्र नारायणो देवो निर्जने निरुपप्लवे ।
आश्रित्य शेषशयनं सुष्वाप पुरुषोत्तमः ॥ ९.७

सहस्रशीर्षा भूत्वा स सहस्राक्षः सहस्रपात् ।
सहस्रबाहुः सर्वज्ञश्चिन्त्यमानो मनीषिभिः ॥ ९.८

पीतवासा विशालाक्षो नीलजीमूतसन्निभः ।
महाविभूतिर्योगात्मा योगिनां हृदयालयः ॥ ९.९

कदाचित् तस्य सुप्तस्य लीलार्थं दिव्यमद्‌भुतम् ।
त्रैलोक्यसारं विमलं नाभ्यां पङ्कजमुद्वभौ ॥ ९.१०

शतयोजनविस्तीर्णं तरुणादित्यसन्निभम् ।
दिव्यगन्धमयं पुण्यं कर्णिकाकेसरान्वितम् ॥ ९.११

तस्यैवं सुचिरं कालं वर्तमानस्य शार्ङ्गिणः ।
हिरण्यगर्भो भगवांस्तं देशमुपचक्रमे ॥ ९.१२

स तं करेण विश्वात्मा समुत्थाप्य सनातनम् ।
प्रोवाच मधुरं वाक्यं मायया तस्य मोहितः ॥ ९.१३

अस्मिन्नेकार्णवे घोरे निर्जने तमसावृते ।
एकाकी को भवाञ्छेते ब्रूहि मे पुरुषर्षभ ॥ ९.१४

तस्य तद् वचनं श्रुत्वा विहस्य गरुडध्वजः ।
उवाच देवं ब्रह्माणं मेघगम्भीरनिःस्वनः ॥ ९.१५

भो भो नारायणं देवं लोकानां प्रभवाव्ययम् ।
महायोगीश्वरं मां त्वं जानीहि पुरुषोत्तमम् ॥ ९.१६

मयि पश्य जगत् कृत्स्नं त्वां च लोकपितामहम् ।
सपर्वतमहाद्वीपं समुद्रैः सप्तभिर्वृतम् ॥ ९.१७

एवमाभाष्य विश्चात्मा प्रोवाच पुरुषं हरिः ।
जानन्नपि महायोगी को भवानिति वेधसम् ॥ ९.१८

ततः प्रहस्य भगवान् ब्रह्मा वेदनिधिः प्रभुः ।
प्रत्युवाचाम्बुजाभाक्षं सस्मितं श्लक्ष्णया गिरा ॥ ९.१९

अहं धाता विधाता च स्वयंभूः प्रपितामहः ।
मय्येव संस्थितं विश्वं ब्रह्माऽहं विश्वतोमुखः ॥ ९.२०

श्रुत्वा वाचं स भगवान् विष्णुः सत्यपराक्रमः ।
अनुज्ञाप्याथ योगेन प्रविष्टो ब्रह्मणस्तनुम् ॥ ९.२१

त्रलोक्यमेतत् सकलं सदेवासुरमानुषम् ।
उदरे तस्य देवस्य दृष्ट्वा विस्मयमागतः ॥ ९.२२

तदास्य वक्त्रान्निष्क्रम्य पन्नगेन्द्रनिकेतनः ।
अजातश्मश्रुर्भगवान् पितामहमथाब्रवीत् ॥ ९.२३

भवानप्येवमेवाद्य शाश्वतं हि ममोदरम् ।
प्रविश्य लोकान् पश्यैतान् विचित्रान् पुरुषर्षभ ॥ ९.२४

ततः प्रह्लादनीं वाणी श्रुत्वा तस्याभिनन्द्य च ।
श्रीपतेरुदरं भूयः प्रविवेश कुशध्वजः ॥ ९.२५

तानेव लोकान् गर्भस्थानपश्यत् सत्यविक्रमः ।
पर्यटित्वाथ देवस्य ददृशेऽन्तं न वै हरेः ॥ ९.२६

ततो द्वाराणि सर्वाणि पिहितानि महात्मना ।
जनार्दनेन ब्रह्माऽसौ नाभ्यां द्वारमविन्दत ॥ ९.२७

तत्र योगबलेनासौ प्रविश्य कनकाण्डजः ।
उज्जहारात्मनो रूपं पुष्कराच्चतुराननः ॥ ९.२८

विरराजारविन्दस्थः पद्मगर्भसमद्युतिः ।
ब्रह्मा स्वयंभूर्भगवान् जगद्योनिः पितामहः ॥ ९.२९

समन्यमानो विश्वेशमात्मानं परमं पदम् ।
प्रोवाच पुरुषं विष्णुं मेघगम्भीरया गिरा ॥ ९.३०

कृतं किं भवतेदानीमात्मनो जयकाङ्‌क्षया ।
एकोऽहं प्रबलो नान्यो मां वै कोऽभिभविष्यति ॥ ९.३१

श्रुत्वा नारायणो वाक्यं ब्रह्मणो लोकमन्त्रिणः ।
सान्त्वपूर्वमिदं वाक्यं बभाषे मधुरं हरिः ॥ ९.३२

भवान् धाता विधाता च स्वयंभूः प्रपितामहः ।
न मात्सर्याभियोगेन द्वाराणि पिहितानि मे ॥ ९.३३

किन्तु लीलार्थमेवैतन्न त्वां बाधितुमिच्छया ।
को हि बाधितुमन्विच्छेद्‌ देवदेवं पितामहम् ॥ ९.३४

न तेऽन्यथाऽवमन्तव्यं मान्यो मे सर्वथा भवान् ।
सर्वमन्वय कल्याणं यन्मयाऽपहृतं तव ॥ ९.३५

अस्माच्च कारणाद्‌ ब्रह्मन् पुत्रो भवतु मे भवान् ।
पद्मयोनिरिति ख्यातो मत्प्रियार्थं जगन्मय ॥ ९.३६

ततः स भगवान् देवो वरं दत्त्वा किरीटिने ।
प्रहर्षमतुलं गत्वा पुनर्विष्णुमभाषत ॥ ९.३७

भवान् सर्वात्मकोऽनन्तः सर्वेषां परमेश्वरः ।
सर्वभूतान्तरात्मा वै परं बह्म सनातनम् ॥ ९.३८

अहं वै सर्वलोकानामात्मा लोकोमहेश्वरः ।
मन्मयं सर्वमेवेदं ब्रह्माऽहं पुरुषः परः ॥ ९.३९

नावाभ्यां विद्यते ह्यन्यो लोकानां परमेश्वरः ।
एका मूर्तिर्द्विधा भिन्ना नारायणपितामहौ ॥ ९.४०

तेनैवमुक्तो ब्रह्माणं वासुदेवोऽब्रवीदिदम् ।
इयं प्रतिज्ञा भवतो विनाशाय भविष्यति ॥ ९.४१

किं न पश्यसि योगेशं ब्रह्माधिपतिमव्ययम् ।
प्रधानपुरुषेशानं वेदाहं परमेश्वरम् ॥ ९.४२

यं न पश्यन्ति योगीन्द्राः सांख्या अपि महेश्वरम् ।
अनादिनिधनं ब्रह्म तमेव शरणं व्रज ॥ ९.४३

ततः क्रुद्धोऽम्बुजाभाक्षं ब्रह्मा प्रोवाच केशवम् ।
भवान्न नूनमात्मानं वेद्मि तत्परमाक्षरम् ॥ ९.४४

ब्रह्माणं जगतामेकमात्मानं परमं पदम् ।
नावाभ्यां विद्यते ह्यन्यो लोकानां परमेश्वरः ॥ ९.४५

संत्यज्य निद्रां विपुलां स्वमात्मानं विलोकय ।
तस्य तत्क्रोधजं वाक्यं श्रुत्वा विष्णुरभाषत ॥ ९.४६

मामैवं वद कल्याण परिवादं महात्मनः ।
न मेह्‌यविदितं ब्रह्मन् नान्यथाऽहं वदामि ते ॥ ९.४७

किन्तु मोहयति ब्रह्मन् भवन्तं पारमेश्वरी ।
मायाशेषविशेषाणां हेतुरात्मसमुद्भवा ॥ ९.४८

एतावदुक्त्वा भगवान् विष्णुस्तूष्णीं बभूव ह ।
ज्ञात्वा तत् परमं तत्त्वं स्वमात्मानं महेश्वरम् ॥ ९.४९

कुतोह्‌यपरिमेयात्मा भूतानां परमेश्वरः ।
प्रसादं ब्रह्मणे कर्तुं प्रादुरासीत्ततो हरः ॥ ९.५०

ललाटनयनोऽनन्तो जटामण्डलमण्डितः ।
त्रिशूलपाणिर्भगवांस्तेजसां परमो निधिः ॥ ९.५१

दिव्यां विशालां ग्रथितां ग्रहैः सार्केन्दुतारकैः ।
मालामत्यद्‌भुताकारां धारयन्पादलम्बिनीम् ॥ ९.५२

तं दृष्ट्वा देवमीशानं ब्रह्मा लोकपितामहः ।
मोहितो माययात्यर्थं पीतवासलमब्रवीत्‌ ॥ ९.५३

क एष पुरुषोऽनन्तः शूलपाणिस्त्रिलोचनः ।
तेजोराशिरमेयात्मा समायाति जनार्दन ॥ ९.५४

तस्य तद्वचनं श्रुत्वा विष्णुर्दानवमर्दनः ।
अपश्यदीश्वरं देवं ज्वलन्तं विमलेऽम्भसि ॥ ९.५५

ज्ञात्वा तं परमं भावमैश्वरं ब्रह्मभावनम् ।
प्रोवाचोत्थाय भगवान् देवदेवं पितामहम् ॥ ९.५६

अयं देवो महादेवः स्वयंज्योतिः सनातनः ।
अनादिनिधनोऽचिन्त्यो लोकानामीश्वरो महान् ॥ ९.५७

शंकरः शंभुरीशानः सर्वात्मा परमेश्वरः ।
भूतानामधिपो योगी महेशो विमलः शिवः ॥ ९.५८

एष धाता विधाता च प्रधानपुरुषेश्वरः ।
यं प्रपश्यन्ति यतयो ब्रह्मभावेन भाविताः ॥ ९.५९

सृजत्येष जगत् कृत्स्नं पाति संहरते तथा ।
कालो भूत्वा महादेवः केवलो निष्कलः शिवः ॥ ९.६०

ब्रह्माणं विदधे पूर्वं भवन्तं यः सनातनः ।
वेदांश्च प्रददौ तुभ्यं सोऽयमायाति शंकरः ॥ ९.६१

अस्यैव चापरां मूर्ति विश्वयोनिं सनातनीम् ।
वासुदेवाभिधानां मामवेहि प्रपितामह ॥ ९.६२

किं न पश्यसि योगेशं ब्रह्माधिपतिमव्ययम् ।
दिव्यं भवतु ते चक्षुर्येन द्रक्ष्यसि तत्परम् ॥ ९.६३

लब्ध्वा शैवं तदा चक्षुर्विष्णोर्लोकपितामहः ।
बुबुधे परमेशानं पुरतः समवस्थितम् ॥ ९.६४

स लब्ध्वा परमं ज्ञानमैश्वरं प्रपितामहः ।
प्रपेदे शरणं देवं तमेव पितरं शिवम् ॥ ९.६५

ओंकारं समनुस्मृत्य संस्तभ्यात्मानमात्मना ।
अथर्वशिरसा देवं तुष्टाव च कृताञ्जलिः ॥ ९.६६

संस्तुतस्तेन। भगवान् ब्रह्मणा परमेश्वरः ।
अवाप परमां प्रीतिं व्याजहार स्मयन्निव ॥ ९.६७

मत्समस्त्वं न संदेहो मद्भक्तश्च यतो भवान् ।
मयैवोत्पादितः पूर्वं लोकसृष्ट्यर्थमव्ययम् ॥ ९.६८

त्वमात्मा ह्यादिपुरुषो मम देहसमुद्भवः ।
वरं वरय विश्वात्मन् वरदोऽहं तवानघ ॥ ९.६९

स देवदेववचनं निशम्य कमलोद्भवः ।
निरीक्ष्य विष्णुं पुरुषं प्रणम्याह वृषध्वजम् ॥ ९.७०

भगवन् भूतभव्येश महादेवाम्बिकापते ।
त्वामेव पुत्रमिच्छामि त्वया वा सदृशं सतम् ॥ ९.७१

मोहितोऽस्मि महादेव मायया सूक्ष्मया त्वया ।
न जाने परमं भावं याथातथ्येन ते शिव ॥ ९.७२

त्वमेव देव भक्तानां भ्राता माता पिता सुहृत् ।
प्रसीद तव पादाब्जं नमामि शरणागतः ॥ ९.७३

स तस्य वचनं श्रुत्वा जगन्नाथो वृषध्वजः ।
व्याजहार तदा पुत्रं समालोक्य जनार्दनम् ॥ ९.७४

यदर्थितं भगवता तत्करिष्यामि पुत्रक ।
विज्ञानमैश्वरं दिव्यमुत्पत्स्यति तवानघ ॥ ९.७५

त्वमेव सर्वभूतानामादिकर्ता नियोजितः ।
तथा कुरुष्व देवेश मयां लोकपितामह ॥ ९.७६

एष नारायणोऽनन्तो ममैव परमा तनुः ।
भविष्यति तवेशानो योगक्षेमवहो हरिः ॥ ९.७७

एवं व्याहृत्य हस्ताभ्यां प्रीतात्मा परमेश्वरः ।
संस्पृश्य देवं ब्रह्माणं हरिं वचनमब्रवीत् ॥ ९.७८

तृष्टोऽस्मि सर्वथाऽहंते भक्त्या तव जगन्मय ।
वरं वृणीष्वं न ह्यावां विभिन्नौ परमार्थतः ॥ ९.७९

श्रुत्वाऽथ देववचनं विष्णुर्विश्वजगन्मयः ।
प्राह प्रसन्नया वाचा समालोक्य चतुर्मुखम् ॥ ९.८०

एष एव वरः श्लाघ्यो यदहं परमेश्वरम् ।
पश्यामि परमात्मानं भक्तिर्भवतु मे त्वयि ॥ ९.८१

तथेत्युक्त्वा महादेवः पुनर्विष्णुमभाषत ।
भवान् सर्वस्य कार्यस्य कर्ताह़मधिदैवतम् ॥ ९.८२

त्वन्मयं मन्मयं चैव सर्वमेतन्न संशयः ।
भवान् सोमस्त्वहं सूर्यो भवान् रात्रिरहं दिनम् ॥ ९.८३

भवान् प्रकृतिरव्यक्तमहं पुरुष एव च ।
भवान् ज्ञानमहं ज्ञाता भवान् मायाहमीश्वरः ॥ ९.८४

भवान् विद्यात्मिका शक्तिः शक्तिमानहमीश्वरः ।
योऽहं सनिष्कलो देवः सोऽपि नारायणः परः ॥ ९.८५

एकीभावेन पश्यन्ति योगिनो ब्रह्मवादिनः ।
त्वामनाश्रित्य विश्वात्मन् न योगी मामुपैष्यति ।
पालयैतज्जगत् कृत्स्नं सदेवासुरमानुषम् ॥ ९.८६

इतीदमुक्त्वा भगवाननादिः
स्वमायया मोहितभूतभेदः
जगाम जन्मर्द्धिविनाशहीनं
धामैकमव्यक्तमनन्तशक्तिः ॥ ९.८७

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायां पूर्वविभागे नवमोऽध्यायः ॥ ९ ॥