कूर्मपुराणम्-पूर्वभागः/चतुस्त्रिंशत्तमोऽध्यायः

विकिस्रोतः तः
Jump to navigation Jump to search
  1. प्रथमोऽध्यायः
  2. द्वितीयोऽध्यायः
  3. तृतीयोऽध्यायः
  4. चतुर्थोऽध्यायः
  5. पञ्चमोऽध्यायः
  6. षष्ठोऽध्यायः
  7. सप्तमोऽध्यायः
  8. अष्टमोऽध्यायः
  9. नवमोऽध्यायः
  10. दशमोऽध्यायः
  11. एकादशोऽध्यायः
  12. द्वादशोऽध्यायः
  13. त्रयोदशोऽध्यायः
  14. चतुर्दशोऽध्यायः
  15. पञ्चदशोऽध्यायः
  16. षोडशोऽध्यायः
  17. सप्तदशोऽध्यायः
  18. अष्टादशोऽध्यायः
  19. एकोनविंशतितमोऽध्यायः
  20. विंशतितमोऽध्यायः
  21. एकविंशतितमोऽध्यायः
  22. द्वाविंशतितमोऽध्यायः
  23. त्रयोविंशतितमोऽध्यायः
  24. चतुर्विंशतितमोऽध्यायः
  25. पञ्चविंशतितमोऽध्यायः
  26. षड्विंशतितमोऽध्यायः
  27. सप्तविंशतितमोऽध्यायः
  28. अष्टाविंशतितमोऽध्यायः
  29. नवविंशतितमोऽध्यायः
  30. त्रिंशत्तमोऽध्यायः
  31. एकत्रिंशत्तमोऽध्यायः
  32. द्वात्रिंशत्तमोऽध्यायः
  33. त्रयस्त्रिंशत्तमोऽध्यायः
  34. चतुस्त्रिंशत्तमोऽध्यायः
  35. पञ्चत्रिंशत्तमोऽध्यायः
  36. षड्त्रिंशत्तमोऽध्यायः
  37. सप्तत्रिंशत्तमोऽध्यायः
  38. अष्टत्रिंशत्तमोऽध्यायः
  39. नवत्रिंशात्तमोऽध्यायः
  40. चत्वारिंशत्तमोऽध्यायः
  41. एकचत्वारिंशत्तमोऽध्यायः
  42. द्विचत्वारिंशत्तमोऽध्यायः
  43. त्रिचत्वारिंशत्तमोऽध्यायः
  44. चतुश्चत्वारिंशत्तमोऽध्यायः
  45. पञ्चचत्वारिंशत्तमोऽध्यायः
  46. षड्चत्वारिंशत्तमोऽध्यायः
  47. सप्तचत्वारिंशत्तमोऽध्यायः
  48. अष्टचत्वारिंशत्तमोऽध्यायः
  49. नवचत्वारिंशत्तमोऽध्यायः
  50. पञ्चाशत्तमोऽध्यायः
  51. एकपञ्चाषत्तमोऽध्यायः
  52. द्विपञ्चाषत्तमोऽध्यायः
  53. त्रिपञ्चाषत्तमोऽध्यायः

सूत उवाच ।
उषित्वा तत्र भगवान् कपर्दीशान्तिके पुनः ।
ययौ द्रष्टुं मध्यमेशं बहुवर्षगणान् प्रभुः ।। ३४.१

तत्र मन्दाकिनीं पुण्यामृषिसङ्‌गनिषेविताम् ।
नदीं विमलपानीयां दृष्ट्वा हृष्टोऽभवन्मुनिः ।। ३४.१

स तामन्वीक्ष्य मुनिभिः सह द्वैपायनः प्रभुः ।
चकार भावपूतात्मा स्नानं स्नानविधानवित् ।। ३४.२

संतर्प्य विधिवद् देवानृषीन् पितृगणांस्तथा ।
पूजयामास लोकादिं पुष्पैर्नानाविधैर्भवम् ।। ३४.३

प्रविश्य शिष्यप्रवरैः सार्द्धं सत्यवतीसुतः ।
मध्यमेश्वरमीशानमर्चयामास शूलिनम् ।। ३४.४

ततः पाशुपताः शान्ता भस्मोद्धूलितविग्रहाः ।
द्रष्टुं समागता रुद्रं मध्यमेश्वरमीश्वरम् ।। ३४.५

ओंकारासक्तमनसो वेदाध्ययनतत्पराः ।
जटिला मुण्डिताश्चापि शुक्लयज्ञोपवीतिनः ।। ३४.६

कौपीनवसनाः केचिदपरे चाप्यवाससः ।
ब्रह्मचर्यरताः शान्ता वेदान्तज्ञानतत्पराः ।। ३४.७

दृष्ट्वा द्वैपायनं विप्राः शिष्यैः परिवृतं मुनिम् ।
पूजयित्वा यथान्यायमिदं वचनमब्रुवन् ।। ३४.८

को भवान् कुत आयातः सह शिष्यैर्महामुने ।
प्रोचुः पैलादयः शिष्यास्तानृषीन् ब्रह्मभावितान् ।। ३४.९

अयं सत्यवतीसूनुः कृष्णद्वैपायनो मुनिः ।
व्यासः स्वयं हृषीकेशो येन वेदाः पृथक् कृताः ।। ३४.१०

यस्य देवो महादेवः साक्षद्देव पिनाकधृक् ।
अंशांशेनाभवत् पुत्रो नाम्ना शुक इति प्रभुः ।। ३४.११

यो स साक्षान्महादेवं सर्वभावेन शंकरम् ।
प्रपन्नः परया भक्त्या यस्य तज्ज्ञानमैश्वरम् ।। ३४.१२

ततः पाशुपताः सर्वे हृष्टसर्वतनूरुहाः ।
नेमुरव्यग्रमनसः प्रोचुः सत्यवतीसुतम् ।। ३४.१३

भगवन् भवता ज्ञातं विज्ञानं परमेष्ठिनः ।
प्रिसादाद् देवदेवस्य यत् तन्माहेश्वरं परम् ।। ३४.१४

तद्वदास्माकमव्यक्तं रहस्यं गुह्यमुत्तमम् ।
क्षिप्रं पश्येम तं देवं श्रुत्वा भगवतो मुखात् ।। ३४.१५

विसर्जयित्वा ताञ्छिष्यान् सुमन्तुप्रमुखांस्तदा ।
प्रोवाच तत्परं ज्ञानं योगिभ्यो योगवित्तमः ।। ३४.१६

तत्क्षणादेव विमलं संभूतं ज्योतिरुत्तमम् ।
लीनास्तत्रैव ते विप्राः क्षणादन्तरधीयत ।। ३४.१७

ततः शिष्यान् समाहूय भगवान् ब्रह्मवित्तमः ।
प्रोवाच मध्यमेशस्य माहात्म्यं पैलपूर्वकान् ।। ३४.१८

अस्मिन् स्थाने स्वयं देवो देव्या सह महेश्वरः ।
रमते भगवान् नित्यं रुद्रैश्च परिवारितः ।। ३४.१९

अत्र पूर्वं हृषीकेशो विश्वात्मा देवकीसुतः ।
उवास वत्सरं कृष्णः सदा पाशुपतैर्वृतः ।। ३४.२०

भस्मोद्धूलितसर्वाङ्गो रुद्राध्ययनतत्परः ।
आराधयन् हरिः शंभुं कृत्वा पाशुपतं व्रतम् ।। ३४.२१

तस्य ते बहवः शिष्या ब्रह्मचर्यपरायणाः ।
लब्ध्वा तद्वचनाज्ज्ञानं दृष्टवन्तो महेश्वरम् ।। ३४.२२

तस्य देवो महादेवः प्रत्यक्षं नीललोहितः ।
ददौ कृष्णस्य भगवान् वरदो वरमुत्तमम् ।। ३४.२३

येऽर्चयिष्यन्ति गोविन्दं मद्भक्ता विधिपूर्वकम् ।
तेषां तदैश्वरं ज्ञानमुत्पत्स्यति जगन्मय ।। ३४.२४

नमस्कार्योऽर्चितव्यश्च ध्यातव्यो मत्परैर्जनैः ।
भविष्यसि न संदेहो मत्प्रसादाद् द्विजातिभिः ।। ३४.२५

येऽत्र द्रक्ष्यन्ति देवेशं स्नात्वा रुद्रं पिनाकिनम् ।
ब्रह्महत्यादिकं पापं तेषामाशु विनश्यति ।। ३४.२६

प्राणांस्त्यजन्ति ये मर्त्याः पापकर्मरता अपि ।
ते यान्ति परमं स्थानं नात्र कार्या विचारणा ।। ३४.२७

धन्यास्तु खलु ते विप्रा मन्दाकिन्यां कृतोदकाः ।
अर्चयन्ति महादेवं मध्यमेश्वरमुत्तमम् ।। ३४.२८

स्नानं दानं तपः श्राद्धं पिण्डनिर्वपणं त्विह ।
एकैकशः कृतं विप्राः पुनात्यासप्तमं कुलम् ।। ३४.२९

संनिहत्यामुपस्पृश्य राहुग्रस्ते दिवाकरे ।
यत् फलं लभते मर्त्यस्तस्माद् दशगुणं त्विह ।। ३४.३०

एवमुक्त्वा महायोगी मध्यमेशान्ति के प्रभुः ।
उवास सुचिरं कालं पूजयन् वै महेश्वरम् ।। ३४.३१

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायां पूर्वविभागे चतुस्त्रिंशोऽध्यायः ।।