कूर्मपुराणम्-पूर्वभागः/त्रयोविंशतितमोऽध्यायः

विकिस्रोतः तः
Jump to navigation Jump to search
  1. प्रथमोऽध्यायः
  2. द्वितीयोऽध्यायः
  3. तृतीयोऽध्यायः
  4. चतुर्थोऽध्यायः
  5. पञ्चमोऽध्यायः
  6. षष्ठोऽध्यायः
  7. सप्तमोऽध्यायः
  8. अष्टमोऽध्यायः
  9. नवमोऽध्यायः
  10. दशमोऽध्यायः
  11. एकादशोऽध्यायः
  12. द्वादशोऽध्यायः
  13. त्रयोदशोऽध्यायः
  14. चतुर्दशोऽध्यायः
  15. पञ्चदशोऽध्यायः
  16. षोडशोऽध्यायः
  17. सप्तदशोऽध्यायः
  18. अष्टादशोऽध्यायः
  19. एकोनविंशतितमोऽध्यायः
  20. विंशतितमोऽध्यायः
  21. एकविंशतितमोऽध्यायः
  22. द्वाविंशतितमोऽध्यायः
  23. त्रयोविंशतितमोऽध्यायः
  24. चतुर्विंशतितमोऽध्यायः
  25. पञ्चविंशतितमोऽध्यायः
  26. षड्विंशतितमोऽध्यायः
  27. सप्तविंशतितमोऽध्यायः
  28. अष्टाविंशतितमोऽध्यायः
  29. नवविंशतितमोऽध्यायः
  30. त्रिंशत्तमोऽध्यायः
  31. एकत्रिंशत्तमोऽध्यायः
  32. द्वात्रिंशत्तमोऽध्यायः
  33. त्रयस्त्रिंशत्तमोऽध्यायः
  34. चतुस्त्रिंशत्तमोऽध्यायः
  35. पञ्चत्रिंशत्तमोऽध्यायः
  36. षड्त्रिंशत्तमोऽध्यायः
  37. सप्तत्रिंशत्तमोऽध्यायः
  38. अष्टत्रिंशत्तमोऽध्यायः
  39. नवत्रिंशात्तमोऽध्यायः
  40. चत्वारिंशत्तमोऽध्यायः
  41. एकचत्वारिंशत्तमोऽध्यायः
  42. द्विचत्वारिंशत्तमोऽध्यायः
  43. त्रिचत्वारिंशत्तमोऽध्यायः
  44. चतुश्चत्वारिंशत्तमोऽध्यायः
  45. पञ्चचत्वारिंशत्तमोऽध्यायः
  46. षड्चत्वारिंशत्तमोऽध्यायः
  47. सप्तचत्वारिंशत्तमोऽध्यायः
  48. अष्टचत्वारिंशत्तमोऽध्यायः
  49. नवचत्वारिंशत्तमोऽध्यायः
  50. पञ्चाशत्तमोऽध्यायः
  51. एकपञ्चाषत्तमोऽध्यायः
  52. द्विपञ्चाषत्तमोऽध्यायः
  53. त्रिपञ्चाषत्तमोऽध्यायः

सूत उवाच ।
जयध्वजस्य पुत्रोऽभूत् तालजङ्घ इति स्मृतः ।
शतपुत्रास्तु तस्यासन् तालजङ्घाः प्रकीर्तिताः ।। २३.१

तेषां ज्येष्ठो महावीर्यो वीतिहोत्रोऽभवन्नृपः ।
वृषप्रभृतयश्चान्ये यादवाः पुण्यकर्मिणः ।। २३.२

वृषो वंशकरस्तेषां तस्य पुत्रोऽभवन्मधुः ।
मधोः पुत्रशतं त्वासीद् वृषणस्तस्य वंशभाक् ।। २३.३

वीतिहोत्रसुतश्चापि विश्रुतोऽनन्त इत्युत ।
दुर्जयस्तस्य पुत्रोऽभूत् सर्वशास्त्रविशारदः ।। २३.४

तस्य भार्या रूपवती गुणैः सर्वैरलंकृता ।
पतिव्रतासीत् पतिना स्वधर्मपरिपालिका ।। २३.५

स कदाचिन्महाभागः कालिन्दीतीरसंस्थिताम् ।
अपश्यदुर्वशीं देवीं गायन्तीं मधुरस्वनाम् ।। २३.६

ततः कामाहतमनास्तत्समीपमुपेत्य वै ।
प्रोवाच सुचिरं कालं देवि रन्तुं मयाऽर्हसि ।। २३.७

सा देवी नृपतिं दृष्ट्वा रूपलावण्यसंयुतम् ।
रेमे तेन चिरं कालं कामदेवमिवापरम् ।। २३.८

कालात् प्रबुद्धो राजा तामुर्वशीं प्राह शोभनाम् ।
गमिष्यामि पुरीं रम्यां हसन्ती साऽब्रवीद् वचः ।। २३.९

न ह्यनेनोपभोगेन भवता राजसुन्दर ।
प्रीतिः संजायते मह्यं स्थातव्यं वत्सरं पुनः ।। २३.१०

तामब्रवीत् स मतिमान् गत्वा शीघ्रतरं पुरीम् ।
आगमिष्यामि भूयोऽत्र तन्मेऽनुज्ञातुमर्हसि ।। २३.११

तमब्रवीत् सा सुभगा तथा कुरु विशांपते ।
नान्ययाऽप्सरसा तावद् रन्तव्यं भवता पुनः ।। २३.१२

ओमित्युक्त्वा ययौ तूर्णं पुरीं परमशोभनाम् ।
गत्वा पतिव्रतां पत्नीं दृष्ट्वा बीतोऽभवन्नृपः ।। २३.१३

संप्रेक्ष्य सा गुणवती भार्या तस्य पतिव्रता ।
भीतं प्रसन्नया प्राह वाचा पीनपयोधरा ।। २३.१४

स्वामिन् किमत्र भवतो भीतिरद्य प्रवर्तते ।
तद् ब्रूहि मे यथा तत्त्वं न राज्ञां कीर्त्तयेत्विदम् ।। २३.१५

स तस्या वाक्यमाकर्ण्य लज्जावनतमानसः ।
नोवाच किञ्चिन्नृपतिर्ज्ञानदृष्ट्या विवेद सा ।। २३.१६

न भेतव्यं त्वया स्वामिन् कार्यं पापविशोधनम् ।
भीते त्वयि महाराज राष्ट्रं ते नाशमेष्यति ।। २३.१७

तदा स राजा द्युतिमान् निर्गत्य तु पुरात्ततः ।
गत्वा कण्वाश्रमं पुण्यं दृष्ट्वा तत्र महामुनिम् ।। २३.१८

निशम्य कण्ववदनात् प्रायश्चित्तविधिं शुभम् ।
जगाम हिमवत्पृष्ठं समुद्दिश्य महाबलः ।। २३.१९

सोऽपश्यत् पथि राजेन्द्रो गन्धर्ववरमुत्तमम् ।
भ्राजमानं श्रिया व्योम्नि भूषितं दिव्यमालया ।। २३.२०

वीक्ष्य मालाममित्रघ्नः सस्माराप्सरसां वराम् ।
उर्वशीं तां मनश्चक्रे तस्या एवेयमर्हति ।। २३.२१

सोऽतीव कामुको राजा गन्धर्वेणाथ तेन हि ।
चकार सुमहद् युद्धं मालामादातुमुद्यतः ।। २३.२२

विजित्य समरे मालां गृहीत्वा दुर्जयो द्विजाः ।
जगाम तामप्सरसं कालिन्दीं द्रष्टुमादरात् ।। २३.२३

अदृष्ट्वाऽप्सरसं तत्र कामबाणाभिपीडितः ।
बभ्राम सकलां पृथ्वीं सप्तद्वीपसमन्विताम् ।। २३.२४

आक्रम्य हिमवत्पार्श्वमुर्वशीदर्शनोत्सुकः ।
जगाम शैलप्रवरं हेमकूटमिति श्रुतम् ।। २३.२५

तत्र तत्राप्सरोवर्या दृष्ट्वा तं सिंहविक्रमम् ।
कामं संदधिरे घोरं भूषितं चित्रमालया ।। २२३.२६

संस्मरन्नुर्वशीवाक्यं तस्यां संसक्तमानसः ।
न पश्यति स्म ताः सर्वागिरिश्रृङ्गाणिजग्मिवान् ।। २३.२७

तत्राप्यप्सरसं दिव्यामदृष्ट्वा कामपीडितः ।
देवलोकं महामेरुं ययौ देवपराक्रमः ।। २३.२८

स तत्र मानसं नाम सरस्त्रैलोक्यविश्रुतम् ।
भेजे श्रृङ्गाण्यतिक्रम्य स्वबाहुबलभावितः ।। २३.२९

स तस्य तीरे सुभगां चरन्तीमतिलालसाम् ।
दृष्टवाननवद्याङ्गीं तस्यै मालां ददौ पुनः ।। २३.३०

स मालया तदा देवीं भूषितां प्रेक्ष्य मोहितः ।
रेमे कृतार्थमात्मानं जानानः सुचिरं तया ।। २३.३१

अथोर्वशी राजवर्यं रतान्ते वाक्यमब्रवीत् ।
किं कृतं भवता पूर्वं पुरीं गत्वा वृथा नृप ।। २३.३२

स तस्यै सर्वमाचष्ट पत्न्या यत् समुदीरितम् ।
कण्वस्य दर्शनं चैव मालापहरणं तथा ।। २३.३३

श्रुत्वैतद् व्याहृतं तेन गच्छेत्याह हितैषिणी ।
शापं दास्यति ते कण्वो ममापि भवतः प्रिया ।। २३.३४

तयाऽसकृन्महाराजः प्रोक्तोऽपि मदमोहितः ।
न तत्यजाथ तत्पार्श्वं तत्र संन्यस्तमानसः ।। २३.३५

ततोर्वशी कामरूपा राज्ञे स्वं रूपमुत्कटम् ।
सुरोमशं पिङ्गलाक्षं दर्शयामास सर्वदा ।। २३.३६

तस्यां विरक्तचेतस्कः स्मृत्वा कण्वाभिभाषितम् ।
धिङ्‌मामिति विनिश्चित्यतपः कर्त्तुं समारभत् ।। २३.३७

संवत्सरद्वादशकं कन्दमूलफलाशनः ।
भूय एव द्वादशकं वायुभक्षोऽभवन्नृपः ।। २३.३८

गत्वा कण्वाश्रमं भीत्या तस्मै सर्वं न्यवेदयत् ।
वासमप्सरसा भूयस्तपोयोगमनुत्तमम् ।। २३.३९

वीक्ष्य तं राजशार्दूलं प्रसन्नो भगवानृषिः ।
कर्त्तुकामो हि निर्बोजं तस्याघमिदमब्रवीत् ।। २३.४०

कण्व उवाच
गच्छ वाराणसीं दिव्यामीश्वराध्युषितां पुरीम् ।
आस्ते मोचयितुं लोकं तत्र देवो महेश्वरः ।। २३.४१

स्नात्वा संतर्प्य विधिवद् गङ्गायांदेवताः पितॄन् ।
दृष्ट्वा विश्वेश्वरं लिङ्गंकिल्बिषान्मोक्ष्यसेऽखिलात् ।। २३.४२

प्रणम्य शिरसा कण्वमनुज्ञाप्य च दुर्जयः ।
वाराणस्यां हरं दृष्ट्वा पापान्मुक्तोऽभवत् ततः ।। २३.४३

जगाम स्वपुरीं शुभ्रां पालयामास मेदिनीम् ।
याजयामास तं कण्वो याचितो घृणया मुनिः ।। २३.४४

तस्य पुत्रोऽथ मतिमान् सुप्रतीक इति श्रुतः ।
बभूव जातमात्रं तं राजानमुपतस्थिरे ।। २३.४५

उर्वश्यां च महावीर्याः सप्त देवसुतोपमाः ।
कन्या जगृहिरे सर्वा गन्धर्व्यो दयिता द्विजाः ।। २३.४६

एष व कथितः सम्यक् सहस्रजित उत्तमः ।
वंशः पापहरो नृणां क्रोष्टोरपि निबोधत ।। २३.४७

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायां पूर्वविभागे त्रयोविशोऽध्यायः।।