कूर्मपुराणम्-पूर्वभागः/त्रिंशत्तमोऽध्यायः
व्यास उवाच ।
तिष्ये मायामसूयां च वधं चैव तपस्विनाम् ।
साधयन्ति नरा नित्यं तमसा व्याकुलीकृताः ।। ३०.१
कलौ प्रमारको रोगः सततं क्षुद् भयं तथा ।
अनावृष्टिभयं घोरं देशानां च विपर्ययः ।। ३०.२
अधार्मिका अनाचारा महाकोपाल्पतेजसः ।
अनृतं ब्रुवते लुब्धास्तिष्ये जाताः सुदुःष्प्रजाः ।। ३०.३
दुरिष्टैर्दुरधीतैश्च दुराचारैर्दुरागमैः ।
विप्राणां कर्मदोषैश्च प्रजानां जायते भयम् ।। ३०.४
नाधीयते कलौ वेदान् न यजन्ति द्विजातयः ।
यजन्त्यन्यायतो वेदान् पठन्ते चाल्पबुद्धयः ।। ३०.५
शूद्राणां मन्त्रयौनैश्च संबन्धो ब्राह्मणैः सह ।
भविष्यति कलौ तस्मिञ् शयनासनभोजनैः ।। ३०.६
राजानः शूद्रभूयिष्ठा ब्राह्मणान् बाधयन्ति च ।
भ्रूणहत्या वीरहत्या प्रजायेत नरेश्वरे ।। ३०.७
स्नानं होमं जपं दानं देवतानां तथाऽर्चनम् ।
अन्यानि चैव कर्माणि न कुर्वन्ति द्विजातयः ।। ३०.८
विनिन्दन्ति महादेवं ब्राह्मणान् पुरुषोत्तमम् ।
आम्नायधर्मशास्त्राणि पुराणानि कलौ युगे ।। ३०.९
कुर्वन्त्यवेददृष्टानि कर्माणि विविधानि तु ।
स्वधर्मेऽभिरुचिर्नैव ब्राह्मणानां प्रजायते ।। ३०.१०
कुशीलचर्याः पाषण्डैर्वृथारूपैः समावृताः ।
बहुयाचनका लोको भविष्यन्ति परस्परम् ।। ३०.११
अट्टशूला जनपदाः शिवशूलाश्चतुष्पथाः ।
प्रमदाः केशशूलिन्यो भविष्यन्ति कलौ युगे ।। ३०.१२
शुक्लदन्ताजिनाख्याश्च मुण्डाः काषायवाससः ।
शूद्रा धर्मं चरिष्यन्ति युगान्ते समुपस्थिते ।। ३०.१३
सस्यचौरा भविष्यन्ति तथा चैलाभिमर्षिनः ।
चौराश्चौरस्य हर्त्तारो हर्त्तुर्हर्त्ता तथाऽपरः ।। ३०.१४
दुः खप्रचुरताल्पायुर्देहोत्सादः सरोगता ।
अधर्माभिनिवेशित्वात् तमोवृत्तं कलौ स्मृतम् ।। ३०.१५
काषायिणोऽथ निर्ग्रन्थास्तथा कापालिकाश्च ये ।
वेदविक्रयिणश्चान्ये तीर्थविक्रयिणः परे ।। ३०.१६
आसनस्थान् द्विजान् दृष्ट्वा चलन्त्यल्पबुद्धयः ।
ताडयन्ति द्विजेन्द्रांश्च शूद्रा राजोपजीविनः ।। ३०.१७
उच्चासनस्थाः शूद्रास्तु द्विजमध्ये परंतप ।
ज्ञात्वा न हिंसते राजा कलौ कालबलेन तु ।। ३०.१८
पुष्पैश्च हसितैश्चैव तथान्यैर्मङ्गलैर्द्विजाः ।
शूद्रानभ्यर्चयन्त्यल्पश्रुतभाग्यबलान्विताः ।। ३०.१९
न प्रेक्षन्तेऽर्चितांश्चापि शूद्रा द्विजवरान् नृप ।
सेवावसरमालोक्य द्वारि तिष्ठन्ति च द्विजाः ।। ३०.२०
वाहनस्थान् समावृत्य शूद्राञ् शूद्रोपजीविनः ।
सेवन्ते ब्राह्मणास्तांस्तु स्तुवन्ति स्तुतिभिः कलौ ।। ३०.२१
अध्यापयन्ति वै वेदाञ् शूद्रान् शूद्रोपजीविनः ।
पठन्ति वैदिकान् मन्त्रान् नास्तिक्यं घोरमाश्रिताः ।। ३०.२२
तपोयज्ञफलानां च विक्रेतारो द्विजोत्तमाः ।
यतयश्च भविष्यन्ति शतशोऽथ सहस्रशः ।। ३०.२३
नाशयन्ति ह्यधीतानि नाधिगच्छन्ति चानघ ।
गायन्ति लौकिकैर्गानैर्दैवतानि नराधिप ।। ३०.२४
वामपाशुपताचारास्तथा वै पाञ्चरात्रिकाः ।
भविष्यन्ति कलौ तस्मिन् ब्राह्मणाः क्षत्रियास्तथा ।। ३०.२५
ज्ञानकर्मण्युपरते लोके निष्क्रियतां गते ।
कीटमूषकसर्पाश्च धर्षयिष्यन्ति मानवान् ।। ३०.२६
कुर्वान्ति चावताराणि ब्राह्मणानां कुलेषु वै ।
दधीचशापनिर्दग्धाः पुरा दक्षाध्वरे द्विजाः ।। ३०.२७
निन्दन्ति च महादेवं तमसाविष्टचेतसः ।
वृथा धर्मं चरिष्यन्ति कलौ तस्मिन् युगान्तिके ।। ३०.२८
सर्वे वीरा भविष्यन्ति ब्राह्मणाद्याः स्वजातिषु।
ये चान्ये शापनिर्दग्धा गौतमस्य महात्मनः ।३०.२९
सर्वे ते च भविष्यन्ति ब्राह्मणाद्याः स्वजातिषु ।
विनिन्दन्ति हृषीकेशं ब्राह्मणाः ब्रह्मवादिनः ।३०.३०
वेदबाह्यव्रताचारा दुराचारा वृथाश्रमाः ।
मोहयन्ति जनान् सर्वान् दर्शयित्वा फलानि च ।३०.३१
तमसाविष्टमनसो बैडालव्रतिकाधमाः ।
कलौ रुद्रो महादेवो लोकानामीश्वरः परः ।३०.३२
न देवता भवेन्नृणां देवतानां च दैवतम् ।
करिष्यत्यवताराणि शंकरो नीललोहितः ।३०.३३
श्रौतस्मार्त्तप्रतिष्ठार्थं भक्तानां हितकाम्यया ।
उपदेक्ष्यति तज्ज्ञानं शिष्याणां ब्रह्मसंज्ञितम् ।३०.३४
सर्ववेदान्तसारं हि धर्मान् वेदनिदर्शितान् ।।
सर्ववर्णान् समुद्धिश्य स्वधर्मा ये निदर्शिताः।।३०.३५
ये तं प्रीताः निषेवन्ते येन केनोपचारतः ।
विजित्यकलिजान् दोषान् यान्ति ते परमं पदम् ।। ३०.३६
अनायासेन सुमहत् पुण्यमाप्नोति मानवः ।
अनेकदोषदुष्टस्य कलेरेष महान् गुणः ।। ३०.३७
तस्मात् सर्वप्रयत्नेन प्राप्य माहेश्वरं युगम् ।
विशेषाद् ब्राह्मणो रुद्रमीशानं शरणं व्रजेत् ।। ३०.३८
ये नमन्ति विरूपाक्षमीशानं कृत्तिवाससम् ।
प्रसन्नचेतसो रुद्रं ते यान्ति परमं पदम् ।। ३०.३९
यथा रुद्रनमस्कारः सर्वकर्मफलो ध्रुवः ।
अन्यदेवनमस्कारान्न तत्फलमवाप्नुयात् ।। ३०.४०
एवंविधे कलियुगे दोषाणामेवशोधनम् ।
महादेवनमस्कारो ध्यानं दानमिति श्रुतिः ।। ३०.४१
तस्मादनीश्वरानन्यान् त्यक्त्वा देवं महेश्वरम् ।
समाश्रयेद् विरूपाक्षं यदीच्छेत् परमं पदम् ।। ३०.४२
नार्चयन्तीह ये रुद्रं शिवं त्रिदशवन्दितम् ।
तेषां दानं तपो यज्ञो वृथा जीवितमेव च ।। ३०.४३
नमो रुद्राय महते देवदेवाय शूलिने ।
त्र्यम्बकाय त्रिनेत्राय योगिनां गुरवे नमः ।। ३०.४४
नमोऽस्तु वामदेवाय महादेवाय वेधसे ।
शंभवे स्थाणवे नित्यं शिवाय परमेष्ठिने ।३०.४५
नमः सोमाय रुद्राय महाग्रासाय हेतवे ।
प्रपद्येऽहं विरूपाक्षं शरण्यं ब्रह्मचारिणम् ।३०.४६
महादेवं महायोगमीशानं चाम्बिकापतिम् ।
योगिनां योगदातारं योगमायासमावृतम् ।३०.४७
योगिनां गुरुमाचार्यं योगिगम्यं पिनाकिनम् ।
संसारतारणं रुद्रं ब्रह्माणं ब्रह्मणोऽधिपम् ।३०.४८
शाश्वतं सर्वगं शान्तं ब्रह्मण्यं ब्राह्मणप्रियम् ।
कपर्दिनं कालमूर्त्तिममूर्त्ति परमेश्वरम् ।३०.४९
एकमूर्त्ति महामूर्त्ति वेदवेद्यं दिवस्पतिम् ।
नीलकण्ठं विश्वमूर्त्ति व्यापिनं विश्वरेतसम् ।३०.५०
कालाग्निं कालदहनं कामदं कामनाशनम् ।
नमस्ये गिरिशं देवं चन्द्रावयवभूषणम् ।३०.५१
विलोहितं लेलिहानमादित्यं परमेष्ठिनम् ।
उग्रं पशुपतिं भीमं भास्करं परमं तपः ।। ३०.५२
इत्येतल्लक्षणं प्रोक्तं युगानां वै समासतः ।
अतीतानागतानां वै यावन्मन्वन्तरक्षयः ।। ३०.५३
मन्वन्तरेण चैकेन सर्वाण्येवान्तराणि वै ।
व्याख्यातानि न संदेहः कल्पः कल्पेन चैव हि ।। ३०.५४
मन्वन्तरेषु चैतेषु अतीतानागतेषु वै ।
तुल्याभिमानिनः सर्वे नामरूपैर्भवन्त्युत ।। ३०.५५
एवमुक्तो भगवता किरीटी श्वेतवाहनः ।
बभार परमां भक्तिमीशानेऽव्यभिचारिणीम् ।। ३०.५६
नमश्चकार तमृषिं कृष्णद्वैपायनं प्रभुम् ।
सर्वज्ञं सर्वकर्त्तारं साक्षाद् विष्णुं व्यवस्थितम् ।। ३०.५७
तमुवाच पुनर्व्यासः पार्थं परपुरंजयम् ।
कराभ्यां सुशुभाभ्यां च संस्पृश्य प्रणतं मुनिः ।। ३०.५८
धन्योऽस्यनुगृहीतोऽसि त्वादृशोऽन्यो न विद्यते ।
त्रैलोक्ये शंकरे नूनं भक्तः परपुरंजय ।। ३०.५९
दृष्टवानसि तं देवं विश्वाक्षं विश्वतोमुखम् ।
प्रत्यक्षमेव सर्वेशं रुद्रं सर्वजगद्गुरुम् ।। ३०.६०
ज्ञानं तदैश्वरं दिव्यं यथावद् विदितं त्वया ।
स्वयमेव हृषीकेशः प्रीत्योवाच सनातनः ।। ३०.६१
गच्छ गच्छ स्वकं स्थानं न शोकं कर्त्तुमर्हसि ।
व्रजस्व परया भक्त्या शरण्यं शरणं शिवम् ।। ३०.६२
एवमुक्त्वा स भगवाननुगृह्यार्जुनं प्रभुः ।
जगाम शंकरपुरीं समाराधयितुं भवम् ।। ३०.६३
पाण्डवेयोऽपि तद् वाक्यात् संप्राप्य शरणं शिवम् ।
संत्यज्य सर्वकर्माणि तद्भक्तिपरमोऽभवत् ।। ३०.६४
नार्चनेन समः शंभोर्भक्त्या भूतो भविष्यति ।
मुक्त्वा सत्यवतीसूनुं कृष्णं वा देवकीसुतम् ।। ३०.६५
तस्मै भगवते नित्यं नमः सत्याय धीमते ।
पाराशर्याय मुनये व्यासायामिततेजसे ।। ३०.६६
कृष्णद्वैपायनः साक्षाद् विष्णुरेव सनातनः ।
को ह्यन्यस्तत्त्वतो रुद्रं वेत्ति तं परमेश्वरम् ।। ३०.६७
नमः कुरुध्वं तमृषिं कृष्णं सत्यवतीसुतम् ।
पाराशर्यं महात्मानं योगिनं विष्णुमव्ययम् ।। ३०.६८
एवमुक्तास्तु मुनयः सर्व एव समीहिताः ।
प्रेणेमुस्तं महात्मानं व्यासं सत्यवतीसुतम् ।। ३०.६९
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे त्रिंशोऽध्यायः ।।