सामग्री पर जाएँ

कूर्मपुराणम्-पूर्वभागः/तृतीयोऽध्यायः

विकिस्रोतः तः
← द्वितीयोऽध्यायः कूर्मपुराणम्-पूर्वभागः
तृतीयोऽध्यायः
वेदव्यासः
चतुर्थोऽध्यायः →
  1. प्रथमोऽध्यायः
  2. द्वितीयोऽध्यायः
  3. तृतीयोऽध्यायः
  4. चतुर्थोऽध्यायः
  5. पञ्चमोऽध्यायः
  6. षष्ठोऽध्यायः
  7. सप्तमोऽध्यायः
  8. अष्टमोऽध्यायः
  9. नवमोऽध्यायः
  10. दशमोऽध्यायः
  11. एकादशोऽध्यायः
  12. द्वादशोऽध्यायः
  13. त्रयोदशोऽध्यायः
  14. चतुर्दशोऽध्यायः
  15. पञ्चदशोऽध्यायः
  16. षोडशोऽध्यायः
  17. सप्तदशोऽध्यायः
  18. अष्टादशोऽध्यायः
  19. एकोनविंशतितमोऽध्यायः
  20. विंशतितमोऽध्यायः
  21. एकविंशतितमोऽध्यायः
  22. द्वाविंशतितमोऽध्यायः
  23. त्रयोविंशतितमोऽध्यायः
  24. चतुर्विंशतितमोऽध्यायः
  25. पञ्चविंशतितमोऽध्यायः
  26. षड्विंशतितमोऽध्यायः
  27. सप्तविंशतितमोऽध्यायः
  28. अष्टाविंशतितमोऽध्यायः
  29. नवविंशतितमोऽध्यायः
  30. त्रिंशत्तमोऽध्यायः
  31. एकत्रिंशत्तमोऽध्यायः
  32. द्वात्रिंशत्तमोऽध्यायः
  33. त्रयस्त्रिंशत्तमोऽध्यायः
  34. चतुस्त्रिंशत्तमोऽध्यायः
  35. पञ्चत्रिंशत्तमोऽध्यायः
  36. षड्त्रिंशत्तमोऽध्यायः
  37. सप्तत्रिंशत्तमोऽध्यायः
  38. अष्टत्रिंशत्तमोऽध्यायः
  39. नवत्रिंशात्तमोऽध्यायः
  40. चत्वारिंशत्तमोऽध्यायः
  41. एकचत्वारिंशत्तमोऽध्यायः
  42. द्विचत्वारिंशत्तमोऽध्यायः
  43. त्रिचत्वारिंशत्तमोऽध्यायः
  44. चतुश्चत्वारिंशत्तमोऽध्यायः
  45. पञ्चचत्वारिंशत्तमोऽध्यायः
  46. षड्चत्वारिंशत्तमोऽध्यायः
  47. सप्तचत्वारिंशत्तमोऽध्यायः
  48. अष्टचत्वारिंशत्तमोऽध्यायः
  49. नवचत्वारिंशत्तमोऽध्यायः
  50. पञ्चाशत्तमोऽध्यायः
  51. एकपञ्चाषत्तमोऽध्यायः
  52. द्विपञ्चाषत्तमोऽध्यायः
  53. त्रिपञ्चाषत्तमोऽध्यायः


ऋषयः ऊचुः
वर्णा भगवतोद्दिष्टाश्चत्वारोऽप्याश्रमास्तथा ।
इदानीं क्रममस्माकमाश्रमाणां वद प्रभो ॥ ३.१

श्रीकूर्म उवाच
ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा ।
क्रमेणैवाश्रमाः प्रोक्ताः कारणादन्यथा भवेत् ॥ ३.२

उत्पन्नज्ञानविज्ञानी वैराग्यं परमं गतः ।
प्रव्रजेद् ब्रह्मचर्यात्तु यदिच्छेत् परमां गतिम् ॥ ३.३

दारानाहृत्य विधिवदन्यथा विविधैर्मखैः ।
यजेदुत्पादयेत् पुत्रान् विरक्तो यदि संन्यसेत् ॥ ३.४
अनिष्ट्वा विधिवद् यज्ञैरनुत्पाद्य तथात्मजान् ।
न गार्हस्थं गृहीत्यक्त्वा संन्यसेद् बुद्धिमान् द्विजः ॥ ३.५

अथ वैराग्यवेगेन स्थातुं नोत्सहते गृहे ।
तत्रैव संन्यसेद् विद्वाननिष्ट्वाऽपि द्विजोत्तमः ॥ ३.६

अन्यथा विविधैर्यज्ञैरिष्ट्वा वनमथाक्षयेत् ।
तपस्तप्त्वा तपोयोगाद् विरक्तः संन्यसेद् यदि ॥ ३.७

वानप्रस्थाश्रमं गत्वा न गृहं प्रविशेत् पुनः ।
न संन्यासी वनञ्चाथ ब्रह्माचर्यानु साधकः ॥ ३.८

प्राजापत्यां निरूप्येष्टिमाग्नेयीमथवा द्विजः ।
प्रव्रजेत्तु गृही विद्वान् वनाद्वा श्रुतिचोदनात् ॥ ३.९

प्रकर्त्तुमसमर्थोऽपि जुहोतियजतिक्रियाः ।
अन्धः पङ्‌गुर्दरिद्रो वा विरक्तः संन्यसेद् द्विजः ॥ ३.१०

सर्वेषामेव वैराग्यं संन्यासाय विधीयते ।
पतत्येवाविरक्तो यः संन्यासं कर्तुमिच्छति ॥ ३.११

एकस्मिन्नथवा सम्यग् वर्तेतामरणाद्विजाः ।
श्रद्धावनाश्रमे युक्तः सोऽमृतत्वाय कल्पते ॥ ३.१२

न्यायागतधनः शान्तो ब्रह्मविद्यापरायणः ।
स्वधर्मपालको नित्यं ब्रह्मभूयाय कल्पते ॥ ३.१३

ब्रह्मण्याधाय क्रर्माणि निःसङ्गः कामवर्जितः ।
प्रसन्नेनैव मनसा कुर्वाणो याति तत्पदम् ॥ ३.१४

ब्रह्मणा दीयते देयं ब्रह्मणे संप्रदीयते ।
ब्रह्मैव दीयते चेति ब्रह्मार्पणमिदं परम् ॥ ३.१५

नाहं कर्ता सर्वमेतद् ब्रह्मैव कुरुते तथा ।
एतद् ब्रह्मार्पणं प्रोक्तमृषिभिः तत्त्वदर्शिभिः ॥ ३.१६

प्रीणातु भगवानीशः कर्मणाऽनेन शाश्वतः ।
करोति सततं बुद्ध्या ब्रह्मार्पणमिदं परम् ॥ ३.१७

यद्वा फलनां संन्यासं प्रकुर्यात् परमेश्वरे ।
कर्मणामेतदप्याहुः ब्रह्मार्पणमनुत्तमम् ॥ ३.१८

कार्यमित्येव यत्कर्म नियतं सङ्गवर्जितम् ।
क्रियते विदुषा कर्म तद्भवेदपि मोक्षदम् ॥ ३.१९

अन्यथा यदि कर्माणि कुर्यान्नित्यान्यपि द्विजः ।
अकृत्वा फलसंन्यासं बध्यते तत्फलेन तु ॥ ३.२०

तस्मात् सर्वप्रयत्नेन त्यक्त्वा कर्माश्रितं फलम् ।
अविद्वानपि कुर्वीत कर्माप्नोतिचिरात् पदम् ॥ ३.२१

कर्मणा क्षीयते पापमैहिकं पौर्विकं तथा ।
मनः प्रसादमन्वेति ब्रह्मविज्ञायते ततः ॥ ३.२२

कर्मणा सहिताज्ज्ञानात्सम्यग् योगोऽभिजायते ।
ज्ञानं च कर्मसहितं जायते दोषवर्जितम् ॥ ३.२३

तस्मात् सर्वप्रयत्नेन यत्र तत्राश्रमे रतः ।
कर्माणीश्वरतुष्ट्यर्थं कुर्यान्नैष्कर्म्यमाप्नुयात् ॥ ३.२४

संप्राप्य परमं ज्ञानं नैष्कर्म्यं तत्प्रसादतः ।
एकाकी निर्ममः शान्तो जीवन्नेव विमुच्यते ॥ ३.२५

वीक्षते परमात्मानं परं ब्रह्म महेश्वरम् ।
नित्यानन्दं निराभासंय तस्मिन्नेव लयं व्रजेत् ॥ ३.२६

तस्मात् सेवेत सततं कर्मयोगं प्रसन्नधीः ।
तृप्तये परमेशस्य तत् पदं याति शाश्वतम् ॥ ३.२७

एतद्वः कथितं सर्वं चातुराश्रम्यमुत्तमम् ।
न ह्येतत् समतिक्रम्य सिद्धिं विन्दति मानवः ॥ ३.२८

इति श्रीकूर्मपुराणे चातुराश्रम्यकथनं नाम षट्‌साहस्त्र्यां संहितायां पूर्वविभागे तृतीयोऽध्यायः ॥३॥