कूर्मपुराणम्-पूर्वभागः/द्वितीयोऽध्यायः

विकिस्रोतः तः
Jump to navigation Jump to search
← प्रथमोऽध्यायः कूर्मपुराणम्-पूर्वभागः
द्वितीयोऽध्यायः
वेदव्यासः
तृतीयोऽध्यायः →
  1. प्रथमोऽध्यायः
  2. द्वितीयोऽध्यायः
  3. तृतीयोऽध्यायः
  4. चतुर्थोऽध्यायः
  5. पञ्चमोऽध्यायः
  6. षष्ठोऽध्यायः
  7. सप्तमोऽध्यायः
  8. अष्टमोऽध्यायः
  9. नवमोऽध्यायः
  10. दशमोऽध्यायः
  11. एकादशोऽध्यायः
  12. द्वादशोऽध्यायः
  13. त्रयोदशोऽध्यायः
  14. चतुर्दशोऽध्यायः
  15. पञ्चदशोऽध्यायः
  16. षोडशोऽध्यायः
  17. सप्तदशोऽध्यायः
  18. अष्टादशोऽध्यायः
  19. एकोनविंशतितमोऽध्यायः
  20. विंशतितमोऽध्यायः
  21. एकविंशतितमोऽध्यायः
  22. द्वाविंशतितमोऽध्यायः
  23. त्रयोविंशतितमोऽध्यायः
  24. चतुर्विंशतितमोऽध्यायः
  25. पञ्चविंशतितमोऽध्यायः
  26. षड्विंशतितमोऽध्यायः
  27. सप्तविंशतितमोऽध्यायः
  28. अष्टाविंशतितमोऽध्यायः
  29. नवविंशतितमोऽध्यायः
  30. त्रिंशत्तमोऽध्यायः
  31. एकत्रिंशत्तमोऽध्यायः
  32. द्वात्रिंशत्तमोऽध्यायः
  33. त्रयस्त्रिंशत्तमोऽध्यायः
  34. चतुस्त्रिंशत्तमोऽध्यायः
  35. पञ्चत्रिंशत्तमोऽध्यायः
  36. षड्त्रिंशत्तमोऽध्यायः
  37. सप्तत्रिंशत्तमोऽध्यायः
  38. अष्टत्रिंशत्तमोऽध्यायः
  39. नवत्रिंशात्तमोऽध्यायः
  40. चत्वारिंशत्तमोऽध्यायः
  41. एकचत्वारिंशत्तमोऽध्यायः
  42. द्विचत्वारिंशत्तमोऽध्यायः
  43. त्रिचत्वारिंशत्तमोऽध्यायः
  44. चतुश्चत्वारिंशत्तमोऽध्यायः
  45. पञ्चचत्वारिंशत्तमोऽध्यायः
  46. षड्चत्वारिंशत्तमोऽध्यायः
  47. सप्तचत्वारिंशत्तमोऽध्यायः
  48. अष्टचत्वारिंशत्तमोऽध्यायः
  49. नवचत्वारिंशत्तमोऽध्यायः
  50. पञ्चाशत्तमोऽध्यायः
  51. एकपञ्चाषत्तमोऽध्यायः
  52. द्विपञ्चाषत्तमोऽध्यायः
  53. त्रिपञ्चाषत्तमोऽध्यायः

अथ वर्णाश्रमवर्णनम्।
श्रीकूर्म उवाच ।
श्रृणुध्वमृषयः सर्वे यत्पृष्टोऽहं जगद्धितम् ।
वक्ष्यमाणं मया सर्वमिन्द्रद्युम्नाय भाषितम् ।। २.१

भूतैर्भव्यैर्भविष्यद्भिश्चरितैरुपबृंहितम् ।
पुराणं पुण्यदं नृणां मोक्षधर्मानुकीर्तनम् ।। २.२

अहं नारायणो देवः पूर्वमासं न मे परम् ।
उपास्य विपुलां निद्रां भोगिशय्यां समाश्रितः ।। २.३

चिन्तयामि पुनः सृष्टिं निशान्ते प्रतिबुध्य तु ।
ततो मे सहसोत्पन्नः प्रसादो मुनिपुंगवा ।। २.४

चतुर्मुखस्ततो जातो ब्रह्मा लोकपितामहः ।
तदन्तरेऽभवत् क्रोधः कस्माच्चित् कारणात् तदा ।। २.५

आत्मनो मुनिशार्दूलास्तत्र देवो महेश्वरः ।
रुद्रः क्रोधात्मको जज्ञे शूलपाणिस्त्रिलोचनः ।२.६

तेजसा सूर्यसंकाशस्त्रैलोक्यं संदहन्निव ।
ततः श्रीरभवद् देवि कमलायतलोचना ।२.७

सुरूपा सौम्यवदना मोहिनी सर्वदेहिनाम् ।
शुचिस्मिता सुप्रसन्ना मङ्गला महिमास्पदा ।।२.८

दिव्यकान्तिसमायुक्ता दिव्यमाल्योपशोभिता ।
नारायणी महामाया मूलप्रकृतिरव्यया ।। २.९

स्वधाम्ना पूरयन्तीदं मत्पार्श्वं समुपाविशत् ।
तां दृष्टवा भगवान् ब्रह्मा मामुवाच जगत्पतिम् ।।

मोहायाशेषभूतानां नियोजय सुरूपिणीम् ।
येनेयं विपुला सृष्टिर्वर्द्धते मम माधव ।। २.११

तथोक्तोऽहं श्रियं देवीमब्रवं प्रहसन्निव ।
देवीदमखिलं विश्वं सदेवासुरमानुषम् ।।२.१२

मोहयित्वा ममादेशात् संसारे विनिपातय ।
ज्ञानयोगरतान् दान्तान्‌ ब्रह्मिष्ठान् ब्रह्मवादिनः ।।२.१३

अक्रोधनान् सत्यपरान् दूरतः परिवर्जय ।।
ध्यायिनो निर्ममान् शान्तान् धार्मिकान् वेदपारगान् ॥२.१४

।याजिनस्तापसान् विप्रान् दूरतः परिवर्जय ।
वेदवेदान्तविज्ञानसंछिन्नाशेषसंशयान् ।।२.१५

महायज्ञपरान् विप्रान् दूरतः परिवर्जय ।
ये यजन्ति जपैर्होमैर्देवदेवं महेश्वरम् ।। २.१६

स्वाध्यायेनेज्यया दूरात् तान् प्रयत्नेन वर्जय ।
भक्तियोगसमायुक्तानीश्वरार्पितमानसान् ।। २.१७

प्राणायामादिषु रतान् दूरात् परिहरामलान् ।
प्रणवासक्तमनसो रुद्रजप्यपरायणान् ।। २.१८

अथर्वशिरसोऽध्येतृन् धर्मज्ञान् परिवर्जय ।
बहुनाऽत्र किमुक्तेन स्वधर्मपरिपालकान् ।। २.१९

ईश्वराराधनरतान् मन्नियोगान्न मोहय ।
एवं मया महामाया प्रेरिता हरिवल्लभा ।। २.२०

यथादेशं चकारासौ तस्माल्लक्ष्मीं समर्चयेत् ।
श्रियं ददाति विपुलां पुष्टिं मेधां यशो बलम् ।।२.२१

अर्चिता भगवत्पत्नी तस्माल्लक्ष्मीं समर्चयेत् ।
ततोऽसृजत् स भगवान् ब्रह्मा लोकपितामहः ।।२.२२

चराचराणि भूतानि यथापूर्वं ममाज्ञया ।
मरीचिभृग्वङ्गिरसं पुलस्त्यं पुलहं क्रतुम् ।। २.२३

दक्षमत्रिं वसिष्ठं च सोऽसृजद् योगविद्यया ।
नवैते ब्रह्मणः पुत्रा ब्रह्मणा ब्राह्मणोत्तमाः । २.२४

ब्रह्मवादिन एवैते मरीच्याद्यास्तु साधकाः ।
ससर्ज ब्राह्मणान् वक्त्रात् क्षत्रियांश्च भुजाद् विभुः।।२.२५

वैश्यानूरुद्वयाद् देवः पादार्च्छूद्रान् पितामहः ।
यज्ञनिष्पत्तये ब्रह्मा शूद्रवर्जं ससर्ज ह ।।२.२६

गुप्तये सर्ववेदानां तेभ्यो यज्ञो हि निर्बभौ ।
ऋचो यजूंषि सामानि तथैवाथर्वणानि च ।२.२७

ब्रह्मणः सहजं रूपं नित्यैषा शक्तिरव्यया ।
अनादिनिधना दिव्या वागुत्सृष्टा स्वयंभुवा ।।२.२८

आदौ वेदमयी भूता यतः सर्वाः प्रवृत्तयः ।
अतोऽन्यानितु शास्त्राणिपृथिव्यांयानिकानिचित् ।।२.२९

न तेषु रमते धीरः पाषण्डी तेन जायते ।
वेदार्थवित्तमैः कार्यं यत्स्मृतं मुनिभिः पुरा ।।२.३०

स ज्ञेयः परमो धर्मो नान्यशास्त्रेषु संस्थितः ।
या वेदबाह्याः स्मृतयो याश्च काश्च कुदृष्टयः ।।२.३१

सर्वास्ता निष्फलाः प्रेत्यतमोनिष्ठाहिताः स्मृताः ।
पूर्वकल्पे प्रजा जाताः सर्वबादाविवर्जिताः ।।२.३२

शुद्धान्तः करणाः सर्वाः स्वधर्मनिरताः सदा ।
ततः कालवशात् तासां रागद्वेषादिकोऽभवत् ।।२.३३

अधर्मो मुनिशार्दूलाः स्वधर्मप्रतिबन्धकः ।
ततः सा सहजा सिद्धिस्तासां नातीव जायते ।

रजोमात्रात्मिकास्तासां सिद्धयोऽन्यास्तदाभवन् ।। २.३३
तासु क्षीणास्वशेषासु कालयोगेन ताः पुनः ।

वार्त्तोपायं पुनश्चक्रुर्हस्तसिद्धिं च कर्मजाम् ।
ततस्तासां विभुर्ब्रह्मा कर्माजीवमकल्पयत् ।। २.३४

स्वायंभुवो मनुः पूर्वं धर्मान् प्रोवाच धर्मदृक् ।
साक्षात् प्रजापतेर्मूर्तिर्निसृष्टा ब्रह्मणा द्विजाः ।
भृग्वादयस्तद्वदनाच्छ्रुत्वा धर्मानथोचिरे ।। २.३५

यजनं याजनं दानं ब्राह्मणस्य प्रतिग्रहमः ।
अध्यापनं चाध्ययनं षट्‌ कर्माणि द्विजोत्तमाः ।। २.३६

दानमध्ययनं यज्ञो धर्मः क्षत्रियवैश्ययोः ।
दण्डो युद्धं क्षत्रियस्य कृषिर्वैश्यस्य शस्यते ।। २.३७

शुश्रूषैव द्विजातीनां शूद्राणां धर्मसाधनम् ।
कारुकर्म तथाजीवः पाकयज्ञाऽदि धर्मतः ।। २.३८

ततः स्थितेषु वर्णेषु स्थापयामास चाश्रमान् ।
गृहस्थं च वनस्थं च भिक्षुकं ब्रह्मचारिणम् ।। २.३९

अग्नयोऽतिथिशुश्रूषा यज्ञो दानं सुरार्चनम् ।
गृहस्थस्य समासेन धर्मोऽयं मुनिपुंगवाः ।। २.४०

होमो मूलफलाशित्वं स्वाध्यायस्तप एव च ।
संविभागो यथान्यायं धर्मोऽयं वनवासिनाम् ।। २.४१

भैक्षाशनं च मौनित्वं तपो ध्यानं विशेषतः ।
सम्यग्ज्ञानं च वैराग्यं धर्मोऽयं भिक्षुके मतः ।। २.४२

भिक्षाचर्या च शुश्रूषा गुरोः स्वाध्याय एव च ।
सन्ध्याकर्माग्निकार्यं च धर्मोऽयं ब्रह्मचारिणाम् ।। २.४३

ब्रह्मचारिवनस्थानां भिक्षुकाणां द्विजोत्तमाः ।
साधारणं ब्रह्मचर्यं प्रोवाच कमलोद्भवः ।। २.४४

ऋतुकालाभिगामित्वं स्वदारेषु न चान्यतः ।
पर्ववर्जं गृहस्थस्य ब्रह्मचर्यमुदाहृतम् ।। २.४५

आगर्भधारणादाज्ञा कार्या तेनाप्रमादतः ।
अकुर्वाणस्तु विप्रेन्द्रा भ्रूणहा तु प्रजायते ।। २.४६

वेदाभ्यासोऽन्वहं शक्त्या श्राद्धं चातिथिपूजनम् ।
गृहस्थस्य परो धर्मो देवताभ्यर्चनं तथा ।। २.४७

वैवाह्ममग्निमिन्धीत सायं प्रातर्यथाविधि ।
देशान्तरगतो वाऽथ मृतपत्नीक एव च ।। २.४८

त्रयाणामाश्रमाणां तु गृहस्थो योनिरुच्यते ।
अन्ये तमुपजीवन्ति तस्माच्छ्रेयान् गृहाश्रमी ।। २.४९

ऐकाश्रम्यं गृहस्थस्य चतुर्णां श्रुतिदर्शनात् ।
तस्माद् गार्हस्थ्यमेवैकं विज्ञेयं धर्मसाधनम् ।। २.५०

परित्यजेदर्थकामौ यौ स्यातां धर्मवर्जितौ ।
सर्वलोकविरुद्धं च धर्ममप्याचरेन्न तु ।। २.५१

धर्मात् संजायते ह्यर्थो धर्मात् कामोऽभिजायते ।
धर्म एवापवर्गाय तस्माद् धर्मं समाश्रयेत् ।। २.५२

धर्मश्चार्थश्च कामश्च त्रिवर्गस्त्रिगुणो मतः ।
सत्त्वं रजस्तमश्चेति तस्माद्धर्मं समाश्रयेत् ।। २.५३

ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः ।
जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः ।। २.५४

यस्मिन् धर्मसमायुक्तावर्थकामौ व्यवस्थितौ
इह लोके सुखी भूत्वा प्रेत्यानन्त्याय कल्पते ।। २.५५

धर्मात् संजायते मोक्षो ह्यर्थात् कामोऽभिजायते ।
एवं साधनसाध्यत्वं चातुर्विध्ये प्रदर्शितम् ।। २.५६

य एवं वेद धर्मार्थकाममोक्षस्य मानवः ।
माहात्म्यं चानुतिष्ठेत स चानन्त्याय कल्पते ।। २.५७

तस्मादर्थं च कामं च त्यक्त्वा धर्मं समाश्रयेत् ।
धर्मात् संजायते सर्वमित्याहुर्ब्रह्मवादिनः ।। २.५८

धर्मेण धार्यते सर्वं जगत् स्थावरजङ्गमम् ।
अनादिनिधना शक्तिः सैषा ब्राह्मी द्विजोत्तमाः ।। २.५९

कर्मणा प्राप्यते धर्मो ज्ञानेन च न संशयः ।
तस्माज्ज्ञानेन सहितं कर्मयोगं समाचरेत् ।। २.६०

प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम् ।
ज्ञानपूर्वं निवृत्तं स्यात् प्रवृत्तं यदतोऽन्यथा ।। २.६१

निवृत्तं सेवमानस्तु याति तत् परमं पदम् ।
तस्मान्निवृत्तं संसेव्यमन्यथा संसरेत् पुनः ।। २.६२

क्षमा दमो दया दानमलोभस्त्याग एव च ।
आर्जवं चानसूया च तीर्थानुसरणं तथा ।। २.६३

सत्यं सन्तोषमास्तिक्यं श्रद्धा चेन्द्रियनिग्रहः ।
देवताभ्यर्चनं पूजा ब्राह्मणानां विशेषतः ।। २.६४

अहिंसा प्रियवादित्वमपैशुन्यमकल्कता ।
सामासिकमिमं धर्मं चातुर्वर्ण्येऽब्रवीन्मनुः ।। २.६५

प्राजापत्यं ब्राह्मणानां स्मृतं स्थानं क्रियावताम् ।
स्थानमैन्द्रं क्षत्रियाणां संग्रामेष्वपलायिनाम् ।। २.६६

वैश्यानां मारुतं स्थानं स्वधर्ममनुवर्तताम् ।
गान्धर्वं शूद्रजातीनां परिचारेण वर्तताम् ।। २.६७

अष्टाशीतिसहस्त्राणामृषीणामूर्ध्वरेतसाम् ।
स्मृतं तेषां तु यत्स्थानं तदेव गुरुवासिनाम् ।। २.६८

सप्तर्षीणान्तु यत्स्थानं स्मृतं तद् वै वनौकसाम् ।
प्राजापत्यं गृहस्थानां स्थानमुक्तं स्वयंभुवा ।। २.६९

यतीनां जितचित्तानां न्यासिनामूर्ध्वरेतसाम् ।
हैरण्यगर्भं तत्स्थानं यस्मान्नावर्त्तते पुनः ।। २.७०

योगिनाममृतं स्थानं व्योमाख्यं परमक्षरम् ।
आनन्दमैश्वरं धाम सा काष्ठा सा परागतिः ।। २.७१

ऋषच ऊचुः ।
भगवन् देवतारिघ्न हिरण्याक्षनिषूदन ।
चत्वारो ह्याश्रमाः प्रोक्ता योगिनामेक उच्यते ।। २.७२

श्रीकूर्म ऊवाच ।
सर्वकर्माणि संन्यस्य समाधिमचलं श्रितः ।
य आस्ते निश्चलो योगी स संन्यासी न पञ्चमः ।। २.७३

सर्वेषामाश्रमाणां तु द्वैविध्यं श्रुतिदर्शितम् ।
ब्रह्मचार्युपकुर्वाणो नैष्ठिको ब्रह्मतत्परः ।। २.७४

योऽधीत्यविधिवद्‌वेदान् गृहस्थाश्रममाव्रजेत् ।
उपकुर्वाणको ज्ञेयो नैष्ठिको मरणान्तिकः ।। २.७५

उदासीनः साधकश्च गृहस्थो द्विविधो भवेत् ।
कुटुम्बभरणा यत्तः साधकोऽसौ गृही भवेत् ।। २.७६

ऋणानित्रीण्यपाकृत्य त्यक्त्वा भार्याधनादिकम् ।
एकाकी यस्तु विचरेदुदासीनः स मौक्षिकः ।। २.७७

तपस्तप्यति योऽरण्ये यजेद् देवान् जुहोति च ।
स्वाध्याये चैव निरतो वनस्थस्तापसो मतः ।। २.७८

तपसा कर्षितोऽत्यर्थं यस्तु ध्यानपरो भवेत् ।
सांन्यासिकः स विज्ञेयो वानप्रस्थाश्रमे स्थितः ।। २.७९

योगाभ्यासरतो नित्यमारुरुक्षुर्जितेन्द्रियः ।
ज्ञानाय वर्तते भिक्षुः प्रोच्यते पारमेष्ठिकः ।। २.८०

यस्त्वात्मरतिरेव स्यान्नित्यतृप्तो महामुनिः ।
सम्यग् दर्शनसंपन्नः स योगी भिक्षुरुच्यते ।। २.८१

ज्ञानसंन्यासिनः केचिद् वेदसंन्यासिनोऽपरे ।
कर्मसन्यासिनः केचित् त्रिविधाः पारमेष्ठिकाः ।। २.८२

योगी च त्रिविधो ज्ञेयो भौतिकः सांख्य एव च ।
तृतीयोह्याश्रमी प्रोक्तो योगमुत्तममाश्रितः ।। २.८३

प्रथमा भावना पूर्वे सांख्ये त्वक्षरभावना ।
तृतीये चान्तिमा प्रोक्ता भावना पारमेश्वरी ।। २.८४

तस्मादेतद् विजानीध्वमाश्रमाणां चतुष्टयम् ।
सर्वेषु वेदशास्त्रेषु पञ्चमो नोपपद्यते ।। २.८५

एवं वर्णाश्रमान् सृष्ट्वा देवदेवो निरञ्जनः ।
दक्षादीन् प्राह विश्वात्मा सृजध्वं विविधाः प्रजाः ।। २.८६

ब्रह्मणो वचनात् पुत्रा दक्षाद्या मुनिसत्तमाः ।
असृजन्त प्रजाः सर्वे देवमानुषपूर्विकाः ।। २.८७

इत्येवं भगवान् ब्रह्मा स्रष्टुत्वे संव्यवस्थितः ।
अहं वै पालयामीदं संहरिष्यति शूलभृत् ।। २.८८

तिस्त्रस्तु मूर्त्तयः प्रोक्ता ब्रह्मविष्णुमहेश्वराः ।
रजः सत्त्वतमोयोगात् परस्य परमात्मनः ।। २.८९

अन्योन्यमनुरक्तास्ते ह्यन्योन्यमुपजीविनः ।
अन्योन्यप्रणताश्चैव लीलया परमेश्वराः ।। २.९०

ब्राह्मी माहेश्वरी चैव तथैवाक्षरभावना ।
तिस्रस्तु भावना रुद्रे वर्तन्ते सततं द्विजाः ।। २.९१

प्रवर्तते मय्यजस्त्रमाद्या त्वक्षरभावना ।
द्वितीया ब्रह्मणः प्रोक्ता देवस्याक्षरभावना ।। २.९२

अहं चैव महादेवो न भिन्नः परमार्थतः ।
विभज्यस्वेच्छयात्मानं सोऽन्तर्यामीश्वरः स्थितः ।। २.९३

त्रैलोक्यमखिलं स्रष्टुं सदेवासुरमानुषम् ।
पुरुषः परतोऽव्यक्तो ब्रह्मत्वं समुपागमत् ।। २.९४

तस्माद्‌ ब्रह्मा महादेवो विष्णुर्विश्वेश्वरः परः ।
एकस्यैव स्मृतास्तिस्रस्तद्वत्कार्यवशात् प्रभोः ।। २.९५

तस्मात् सर्वप्रयत्नेन वन्द्याः पूज्याः विशेषतः ।
यदीच्छेदचिरात् स्थानं यत्तन्मोक्षाख्यमव्ययम् ।। २.९६

वर्णाश्रमप्रयुक्तेन धर्मेण प्रीतिसंयुतः ।
पूजयेद् भावयुक्तेन यावज्जीवं प्रतिज्ञया ।। २.९७

चतुर्णामाश्रमाणां तु प्रोक्तोऽयं विधिवद्‌द्विजाः ।
आश्रमो वैष्णवो ब्राह्मो हराश्रम इति त्रयः ।। २.९८

तल्लिंगधारी नियतं तद्‌भक्तजनवत्सलः ।
ध्यायेदथार्चयेदेतान् ब्रह्मविद्यापरायणः ।। २.९९

सर्वेषामेव भक्तानां शंभोर्लिगमनुत्तमम् ।
सितेन भस्मना कार्यं ललाटे तु त्रिपुण्ड्रकम् ।। २.१००

यस्तु नारायणं देवं प्रपन्नः परमं पदम् ।
धारयेत् सर्वदा शूलं ललाटे गन्धवारिभिः ।। २.१०१

प्रपन्ना ये जगद्‌बीजं ब्रह्माणं परमेष्ठिनम् ।
तेषां ललाटे तिलकं धारणीयं तु सर्वदा ।। २.१०२

योऽसावनादिर्भूतादिः कालात्माऽसौ धृतो भवेत् ।
उपर्यधो भावयोगात् त्रिपुण्ड्रस्य तु धारणात् ।। २.१०३

यत्तत् प्रधानं त्रिगुणं ब्रह्मविष्णुशिवात्मकम् ।
धृतंन्तु त्रिशूलधरणाद् भवत्येव न संशयः ।। २.१०४

ब्रह्मतेजोमयं शुक्लं यदेतन् मण्डलं रवेः ।
भवत्येव धृतं स्थानमैश्वरं तिलके कृते ।। २.१०५

तस्मात् कार्यं त्रिशूलांकं तथा च तिलकं शुभम् ।
आयुष्यञ्चापि भक्तानां त्रयाणां विधिपूर्वकम् ।। २.१०६

यजेत जुहुयादग्नौ जपेद् दद्याज्जितेन्द्रियः ।
शान्तो दान्तो जितक्रोधो वर्णाश्रमविधानवित् ।। २.१०७

एवं परिचरेद् देवान् यावज्जीवं समाहितः ।
तेषां संस्थानमचलं सोऽचिरादधिगच्छति ।। २.१०८

इति श्रीकूर्मपुराणे वर्णाश्रमवर्णनं नाम
षट्‌साहस्त्र्यां संहितायां पूर्वविभागे द्वितीयोऽध्यायः ।। २ ।।