कूर्मपुराणम्-पूर्वभागः/षड्विंशतितमोऽध्यायः

विकिस्रोतः तः
Jump to navigation Jump to search
  1. प्रथमोऽध्यायः
  2. द्वितीयोऽध्यायः
  3. तृतीयोऽध्यायः
  4. चतुर्थोऽध्यायः
  5. पञ्चमोऽध्यायः
  6. षष्ठोऽध्यायः
  7. सप्तमोऽध्यायः
  8. अष्टमोऽध्यायः
  9. नवमोऽध्यायः
  10. दशमोऽध्यायः
  11. एकादशोऽध्यायः
  12. द्वादशोऽध्यायः
  13. त्रयोदशोऽध्यायः
  14. चतुर्दशोऽध्यायः
  15. पञ्चदशोऽध्यायः
  16. षोडशोऽध्यायः
  17. सप्तदशोऽध्यायः
  18. अष्टादशोऽध्यायः
  19. एकोनविंशतितमोऽध्यायः
  20. विंशतितमोऽध्यायः
  21. एकविंशतितमोऽध्यायः
  22. द्वाविंशतितमोऽध्यायः
  23. त्रयोविंशतितमोऽध्यायः
  24. चतुर्विंशतितमोऽध्यायः
  25. पञ्चविंशतितमोऽध्यायः
  26. षड्विंशतितमोऽध्यायः
  27. सप्तविंशतितमोऽध्यायः
  28. अष्टाविंशतितमोऽध्यायः
  29. नवविंशतितमोऽध्यायः
  30. त्रिंशत्तमोऽध्यायः
  31. एकत्रिंशत्तमोऽध्यायः
  32. द्वात्रिंशत्तमोऽध्यायः
  33. त्रयस्त्रिंशत्तमोऽध्यायः
  34. चतुस्त्रिंशत्तमोऽध्यायः
  35. पञ्चत्रिंशत्तमोऽध्यायः
  36. षड्त्रिंशत्तमोऽध्यायः
  37. सप्तत्रिंशत्तमोऽध्यायः
  38. अष्टत्रिंशत्तमोऽध्यायः
  39. नवत्रिंशात्तमोऽध्यायः
  40. चत्वारिंशत्तमोऽध्यायः
  41. एकचत्वारिंशत्तमोऽध्यायः
  42. द्विचत्वारिंशत्तमोऽध्यायः
  43. त्रिचत्वारिंशत्तमोऽध्यायः
  44. चतुश्चत्वारिंशत्तमोऽध्यायः
  45. पञ्चचत्वारिंशत्तमोऽध्यायः
  46. षड्चत्वारिंशत्तमोऽध्यायः
  47. सप्तचत्वारिंशत्तमोऽध्यायः
  48. अष्टचत्वारिंशत्तमोऽध्यायः
  49. नवचत्वारिंशत्तमोऽध्यायः
  50. पञ्चाशत्तमोऽध्यायः
  51. एकपञ्चाषत्तमोऽध्यायः
  52. द्विपञ्चाषत्तमोऽध्यायः
  53. त्रिपञ्चाषत्तमोऽध्यायः

सूत उवाच ।
प्रविश्य मेरुशिखरं कैलासं कनकप्रभम् ।
रराम भगवान् सोमः केशवेन महेश्वरः ।। २६.१

अपश्यंस्ते महात्मानं कैलासगिरिवासिनः ।
पूजयाञ्चक्रिरे कृष्णं देवदेवमथाच्युतम् ।। २६.२

चतुर्बाहुमुदाराङ्गं कालमेघसमप्रभम् ।
किरीटिनं शार्ङ्गपाणि श्रीवत्साङ्कितवक्षसम् ।। २६.३

दीर्घबाहुं विशालाक्षं पीतवाससमच्युतम् ।
दधानमुरसा मालां वैजयन्तीमनुत्तमाम् ।। २६.४

भ्राजमानं श्रिया दिव्यं युवानमतिकोमलम् ।
पद्माङ्‌घ्रिं पद्मनयनं सस्मितं सुगतिप्रदम् ।। २६.५

कदाचित् तत्र लीलार्थं देवकीनन्दवर्द्धनः ।
भ्राजमानः श्रीया कृष्णश्चचार गिरिकन्दरे ।। २६.६

गन्धर्वाप्सरसां मुख्या नागकन्याश्च कृत्स्नशः ।
सिद्धा यक्षाश्च गन्धर्वास्तत्र तत्र जगन्मयम् ।। २६.७

दृष्ट्वाश्चर्यं परं गत्वा हर्षादुत्फुल्लोचनाः ।
मुमुचुः पुष्पवर्षाणि तस्य मूर्ध्नि महात्मनः ।। २६.८

गन्धर्वकन्यका दिव्यास्तद्वदप्सरसां वराः ।
दृष्ट्वा चकमिरे कृष्णं स्त्रस्तवस्त्रविभूषणाः ।। २६.९

काश्चिद् गायन्ति विविधां गीतिं गीतविशारदाः ।
संप्रेक्ष्य देवकीसूनुं सुन्दरं काममोहिताः ।। २६.१०

काश्चिद्विलासबहुला नृत्यन्ति स्म तदग्रतः ।
संप्रेक्ष्य सस्मितं काश्चित् पपुस्तद्वदनामृतम् ।। २६.११

काश्चिद् भूषणवर्याणि स्वाङ्गादादाय सादरम् ।
भूषयाञ्चक्रिरे कृष्णं कामिन्यो लोकभूषणम् ।। २६.१२

काश्चिद् भूषणवर्याणि समादाय तदङ्गतः ।
स्वात्मानं बूषयामासुः स्वात्मकैरपि माधवम् ।। २६.१३

काश्चिदागत्य कृष्णस्य समीपं काममोहिता ।
चुचुम्ब वदनाम्भोजं हरेर्मुग्धमृगेक्षणा ।। २६.१४

प्रगृह्य काश्चिद् गोविन्दं करेण भवनं स्वकम् ।
प्रापयामासर्लोकादिं मायया तस्य मोहिता ।। २६.१५

तासां स भगवान् कृष्णः कामान् कमललोचनः ।
बहूनि कृत्वा रूपाणि पूरयामास लीलया ।। २६.१६

एवं वै सुचिरं कालं देवदेवपुरे हरिः ।
रेमे नारायणः श्रीमान् मायया मोहयञ्जगत् ।। २६.१७

गते बहुतिथे काले द्वारवत्यां निवासिनः ।
बभूवुर्विह्वला भीता गोविन्दविरहे जनाः ।। २६.१८

ततः सुपर्णो बलवान् पूर्वमेव विसर्जितः ।
कृष्णेन मार्गमाणस्तं हिमवन्तं ययौ गिरिम् ।। २६.१९

अदृष्ट्वा तत्र गोविन्दं प्रणम्य शिरसा मुनिम् ।
आजगामोपमन्युं तं पुरीं द्वारवतीं पुनः ।। २६.२०

तदन्तरे महादैत्या राक्षसाश्चातिभीषणाः ।
आजग्मुर्द्वारकां शुभ्रां भीषयन्तः सहस्त्रशः ।। २६.२१

स तान् सुपर्णो बलवान् कृष्णतुल्यपराक्रमः ।
हत्वा युद्धेन महता रक्षति स्म पुरीं शुभाम् ।। २६.२२

एतस्मिन्नेव काले तु नारदो भगवानृषिः ।
दृष्ट्वा कैलासशिखरे कृष्णं द्वारवतीं गतः ।। २६.२३

तं दृष्ट्वा नारदमृषिं सर्वे तत्र निवासिनः ।
प्रोचुर्नारायणो नाथः कुत्रास्ते भगवान् हरिः ।। २६.२४

स तानुवाच भगवान् कैलसशिखरे हरिः ।
रमतेऽद्य महायोगीं तं दृष्ट्वाऽहमिहागतः ।। २६.२५

तस्योपश्रुत्य वचनं सुपर्णः पततां वरः ।
जगामाकाशगो विप्राः कैलासं गिरिमुत्तमम् ।। २६.२६

ददर्श देवकीसूनुं भवने रत्नमण्डिते ।
वरासनस्थं गोविन्दं देवदेवान्तिके हरिम् ।। २६.२७

उपास्यमानममरैर्दिव्यस्त्रीभिः समन्ततः ।
महादेवगणैः सिद्धैर्योगिभिः परिवारितम् ।। २६.२८

प्रणम्य दण्डवद् भूमौ सुपर्णः शंकरं शिवम् ।
निवेदयामास हरिं प्रवृत्तिं द्वारकापुरे ।। २६.२९

ततः प्रणम्य शिरसा शंकरं नीललोहितम् ।
आजगाम पुरीं कृष्णः सोऽनुज्ञातो हरेण तु ।। २६.३०

आरुह्य कश्यपसुतं स्त्रीगणैरभिपूजितः ।
वचोभिरमृतास्वादैर्मानितो मधुसूदनः ।। २६.३१

वीक्ष्य यान्तममित्रघ्नं गन्धर्वाप्सरसां वराः ।
अन्वगच्छन् महोयोगं शङ्खचक्रगदाधरम् ।। २६.३२

विसर्जयित्वा विश्वात्मा सर्वा एवाङ्गना हरिः ।
ययौ स तूर्णं गोविन्दो दिव्यां द्वारवतीं पुरीम् ।। २६.३३

गते मुररिपौ नैव कामिन्यो मुनिपुंगवाः ।
निशेव चन्द्ररहिता विना तेन चकाशिरे ।। २६.३४

श्रुत्वा पौरजनास्तूर्णं कृष्णागमनमुत्तमम् ।
मण्डयाञ्चक्रिरे दिव्यां पुरीं द्वारवतीं शुभाम् ।। २६.३५

पताकाभिर्विशालाभिर्ध्वजै रत्नपरिष्कृतैः ।
लाजादिभिः पुरीं रम्यां भूषयाञ्चक्रिरे जनाः ।। २६.३६

अवादयन्त विविधान् वादित्रान् मधुरस्वनान् ।
शंखान् सहस्रशो दध्मुर्वीणावादान् वितेनिरे ।। २६.३७

प्रविष्टमात्रे गोविन्दे पुरीं द्वारवतीं शुभाम् ।
अगायन् मधुरं गानं स्त्रियो यौवनशालिनः ।। २६.३८

दृष्ट्वा ननृतुरीशानं स्थिताः प्रासादमूर्द्धसु ।
मुमुचुः पुष्पवर्षाणि वसुदेवसुतोपरि ।। २६.३९

प्रविश्य भवनं कृष्ण आशीर्वादाभिवर्द्धितः ।
वरासने महायोगी भाति देवीभिरन्वितः ।। २६.४०

सुरम्ये मण्डपे शुभ्रे शङ्खाद्यैः परिवारितः ।
आत्मजैरभितो मुख्यैः स्त्रीसहस्रैश्च संवृतः ।

तत्रासनवरे रम्ये जाम्बवत्या सहाच्युतः ।२६.४१
भ्राजते चोमया देवो यथा देव्या समन्वितः ।। २६.४२

आजग्मुर्देवगन्धर्वा द्रष्टुं लोकादिमव्ययम् ।
महर्षयः पूर्वजाता मार्कण्डेयादयो द्विजाः ।। २६.४३

ततः स भगवान् कृष्णो मार्कण्डेयं समागतम् ।
ननामोत्थाय शिरसा स्वासनं च ददौ हरिः ।। २६.४४

संपूज्य तानृषिगणान् प्रणामेन महाभुजः ।
विसर्जयामास हरिर्दत्त्वा तदभिवाञ्छितान् ।। २६.४५

तदा मध्याह्नसमये देवदेवः स्वयं हरिः ।
स्नात्वा शुक्लाम्बरो भानुमुपतिष्ठन् कृताञ्जलिः ।। २६.४६

जजाप जाप्यं विधिवत् प्रेक्षमाणो दिवाकरम् ।
तर्पयामास देवेशो देवान् मुनिगणान् पितॄन् ।। २६.४७

प्रविश्य देवभवनं मार्कण्डेयेन चैव हि ।
पूजयामास लिङ्गस्थं भूतेशं भूतिभूषणम् ।। २६.४८

समाप्य नियमं सर्वं नियन्ताऽसौ नृणां स्वयम् ।
भोजयित्वा मुनिवरं ब्राह्मणानभिपूज्य च ।। २६.४९

कृत्वात्मयोगं विप्रेन्द्रा मार्कण्डेयेन चाच्युतः ।
कथाः पौराणिकीं पुण्याश्चक्रे पुत्रादिभिर्वृतः ।। २६.५०

अथैतत् सर्वमखिलं दृष्ट्वा कर्म महामुनिः ।
मार्कण्डेयो हसन् कृष्णं बभाषे मधुरं वचः ।। २६.५१

मार्कण्डेय उवाच ।
कः समाराध्यते देवो भवता कर्मभिः शुभैः ।
ब्रूहि त्वं कर्मभिः पूज्यो योगिनां ध्येय एव च ।। २६.५२

त्वं हि तत् परमं ब्रह्म निर्वाणममलं पदम् ।
भारावतरणार्थाय जातो वृष्णिकुले प्रभुः ।। २६.५३

तमब्रवीन्महाबाहुः कृष्णो ब्रह्मविदां वरः ।
श्रृण्वतामेव पुत्राणां सर्वेषां प्रहसन्निव ।। २६.५४

श्रीभगवानुवाच ।
भवता कथितं सर्वं तथ्यमेव न संशयः ।
तथापि देवमीशानं पूजयामि सनातनम् ।। २६.५५

न मे विप्रास्ति कर्त्तव्यं नानवाप्तं कथंचन ।
पूजयामि तथापीशं जानन्नैतत् परं शिवम् ।। २६.५६

न वै पश्यन्ति तं देवं मायया मोहिता जनाः ।
ततोऽहं स्वात्मनो मूलं ज्ञापयन् पूजयामि तम् ।। २६.५७

न च लिङ्गार्चनात् पुण्यं लोकेस्मिन् भीतिनाशनम् ।
तथा लिङ्गे हितायैषां लोकानां पूजयेच्छिवम् ।। २६.५८

योऽहं तल्लिङ्गमित्याहुर्वेदवादविदो जनाः ।
ततोऽहमात्ममीशानं पूजयाम्यात्मनैव तत् ।। २६.५९

तस्यैव परमा मूर्त्तिस्तन्मयोऽहं न संशयः ।
नावयोर्द्यिते भेदो वेदेष्वेवं विनिश्चयः ।। २६.६०

एष देवो महादेवः सदा संसारभीरुभिः ।
ध्येयः पूज्यश्च वन्द्यश्च ज्ञेयो लिङ्गे महेश्वरः ।। २६.६१

मार्कण्डेय उवाच ।
किं तल्लिङ्गं सुरश्रेष्ठ लिङ्गे संपूज्यते च कः ।
ब्रूहि कृष्ण विशालाक्ष गहनं ह्येतदुत्तमम् ।। २६.६२

अव्यक्तं लिङ्गमित्याहुरानन्दं ज्योतिरक्षरम् ।
वेदा महेस्वरं देवमाहुर्लिङ्गिनमव्ययम् ।
पुरा चैकार्णवे घोरे नष्टे स्थावरजङ्गमे ।२६.६३

प्रबोधार्थं ब्रह्मणो मे प्रादुर्भूतः स्वयं शिवः ।
तस्मात् कालात् समारभ्य ब्रह्मा चाहं सदैव हि ।
पूजयावो महादेवं लोकानां हितकाम्यया ।। २६.६४

मार्कण्डेय उवाच ।
कथं लिङ्गमभूत् पूर्वमैश्वरं परमं पदम् ।
प्रबोधार्थं स्वयं कृष्ण वक्तुमर्हसि सांप्रतम् ।। २६.६५

श्रीभगवानुवाच ।
आसीदेकार्णवं घोरमविभागं तमोमयम् ।
मध्ये चैकार्णवे तस्मिन् शङ्खचक्रगदाधरः ।
सहस्रशीर्षा भूत्वाऽहं सहस्राक्षः सहस्रपात् ।२६.६६

सहस्रबाहुर्युक्तात्मा शयितोऽहं सनातनः ।
एतस्मिन्नन्तरे दूरे पश्यमि ह्यमितप्रभम् ।
कोटिसूर्यप्रतीकाशं भ्राजमानं श्रियावृतम् ।। २६.६७
चतुर्वरक्रं महायोगं पुरुषं काञ्चनप्रभम् ।
कृष्णाजिनधरं देवमृग्यजुः सामभिः स्तुतम् ।। २६.६८

निमेषमात्रेण स मां प्राप्तो योगविदां वरः ।
व्याजहार स्वयं ब्रह्मा स्मयमानो महाद्युतिः ।। २६.६९

कस्त्वं कुतो वा किं चेह तिष्ठसे वह मे प्रभो ।
अहं कर्त्ता हि लोकानां स्वयंभूः प्रपितामहः ।। २६.७०

एवमुक्तस्तदा तेन ब्रह्मणाऽहमुवाच ह ।
अहं कर्त्ताऽस्मि लोकानां संहर्ता च पुनः पुनः ।। २६.७१

एवं विवादे वितते मायया परमेष्ठिनः ।
प्रबोधार्थं परं लिङ्गं प्रादुर्भूतं शिवात्मकम् ।। २६.७२

कालानलसमप्रख्यं ज्वालामालासमाकुलम् ।
क्षयवृद्धिविनिर्मुक्तमादिमध्यान्तवर्जितम् ।। २६.७३

ततो मामाह भगवानधो गच्छ त्वमाशु वै ।
अन्तमस्य विजानीम ऊर्ध्वं गच्छेऽहमित्यजः ।। २६.७४

तदाशु समयं कृत्वा गतावूर्ध्वमधश्च द्वौ ।
पितामहोऽप्यहं नान्तं ज्ञातवन्तौ समाः शतम् ।। २६.७५

ततो विस्मयमापन्नौ भीतौ देवस्य शूलिनः ।
मायया मोहितौ तस्य ध्यायन्तौ विश्वमीश्वरम् ।। २६.७६

प्रोच्चरन्तौ महानादमोङ्कारं परमं पदम् ।
तं प्राञ्जलिपुटौभूत्वा शंभुं तष्टुवतुः परम् ।। २६.७७

ब्रह्मविष्णू ऊचतुः ।
अनादिमूलसंसाररागेवैद्याय शंभवे ।
नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्त्तये ।। २६.७८

प्रलयार्णवसंस्थाय प्रलयोद्‌भूतिहेतवे ।
नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्त्तये ।। २६.७९

ज्वालामालावृताङ्गाय ज्वलनस्तम्भरूपिणे ।
नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्त्तये ।। २६.८०

आदिमध्यान्तहीनाय स्वबावामलदीप्तये ।
नमः शिवायानन्ताय ब्रह्मणे लिङ्गमूर्त्तये ।। २६.८१

प्रधानपुरुषेशाय व्योमरूपाय वेधसे
नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्त्तये ।। २६.८२

निर्विकाराय सत्याय नित्यायामलतेजसे ।
वेदान्तसाररुपाय कालरुपाय ते नमः।।२६.८३

नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्त्तये ।
एवं संस्तूयमानस्तु व्यक्तो भूत्वा महेश्वरः ।२६.८४

भाति देवो महायोगी सूर्यकोटिसमप्रभः ।
वक्त्रकोटिसहस्त्रेण ग्रसमान इवाम्बरम् ।२६.८५

सहस्त्रहस्तचरणः सूर्यसोमाग्निलोचनः ।
पिनाकपाणिर्भगवान् कृत्तिवासास्त्रिशूलभृत् ।२५,८६

व्यालयज्ञोपवीतश्च मेघदुन्दुभिनिः स्वनः ।
अथोवाच महादेवः प्रीतोऽहं सुरसत्तमौ ।२६.८७

पश्येतं मां महादेवं भयं सर्वं प्रमुच्यताम् ।
युवां प्रसूतौ गात्रेभ्यो मम पूर्वं सनातनौ ।२६.८८

अयं मे दक्षिणे पार्श्वे ब्रह्मा लोकपितामहः ।
वामपार्श्वे च मे विष्णुः पालको हृदये हरः ।। २६.८९

प्रीतोऽहं युवयोः सम्यक् वरं दद्मि यथेप्सितम् ।
एवमुक्त्वाऽथ मां देवो महादेवः स्वयं शिवः ।२६.९०

आलिङ्‌ग्य देवं ब्रह्माणं प्रसादाभिमुखोऽभवत्।
ततः प्रहृष्टमनसौ प्रणिपत्य महेश्वरम् ।२६.९१

ऊचतुः प्रेक्ष्य तद्वक्त्रं नारायणपितामहौ ।
यदि प्रीतिः समुत्पन्ना यदि देयो वरो हि न।२६.९२

भक्तिर्भवतु नौ नित्यं त्वयि देव महेश्वरे ।
ततः स भगवानीशः प्रहसन् परमेश्वरः ।२६.९३

उवाच मां महादेवः प्रीतः प्रीतेन चेतसा।
देवदेव उवाच ।
प्रलयस्थितिसर्गाणां कर्त्ता त्वं धरणीपते ।२६.९४

वत्स वत्स हरे विश्वं पालयैतच्चराचरम् ।
त्रिधा भिन्नोऽस्म्यहं विष्णो ब्रह्मविष्णुहराख्यया ।२६.९५

सर्गरक्षालयगुणैर्निर्गुणोऽपि निरञ्जनः ।
संमोहं त्यज भो विष्णो पालयैनं पितामहम् ।२६.९६

भविष्यत्येव भगवांस्तव पुत्रः सनातनः ।
अहं च भवतो वक्त्रात् कल्पादौ सुररूपधृक् ।२६.९७

शूलपाणिर्भविष्यामि क्रोधजस्तव पुत्रकः ।
एवमुक्त्वा महादेवो ब्रह्माणं मुनिसत्तम ।२६.९८

अनुगृह्य च मां देवस्तत्रैवान्तरधीयत ।
ततः प्रभृति लोकेषु लिङ्गार्चा सुप्रतिष्ठिता ।२६.९९

लिङ्गं तत्तु यतो ब्रह्मन् ब्रह्मणः परमं वपुः ।
एतल्लिङ्गस्य माहात्म्यं भाषितं ते मयाऽनघ ।२६.१००

एतद् बुध्यन्ति योगज्ञा न देवा न च दानवाः ।
एतद्धि परमं ज्ञानमव्यक्तं शिवसंज्ञितम् ।२६.१०१

येन सूक्ष्ममचिन्त्यं तत् पश्यन्ति ज्ञान चक्षुषः ।
तस्मै भगवते नित्यं नमस्कारं प्रकुर्महे ।२६.१०२

महादेवाय रुद्राय देवदेवाय लिङ्गिने ।
नमो वेदरहस्याय नीलकण्ठाय ते नमः ।२६.१०३

विभीषणाय शान्ताय स्थाणवे हेतवे नमः ।
ब्रह्मणे वामदेवाय त्रिनेत्राय महीयसे ।२६.१०४

शंकराय महेशाय गिरीशाय शिवाय च ।
नमः कुरुष्व सततं ध्यायस्व मनसा हरम् ।२६.१०५

संसारसागरादस्मादचिरादुद्धरिष्यसि ।
एवं स वासुदेवेन व्याहृतो मुनिपुंगवः ।२६.१०६

जगाम मनसा देवमीशानं विश्वतोमुखम् ।
प्रणम्य शिरसा कृष्णमनुज्ञातो महामुनिः ।२६.१०७

जगाम चेप्सितं देशं देवदेवस्य शूलिनः ।
य इमं श्रावयेन्नित्यं लिङ्गाध्यायमनुत्तमम् ।२६.१०८

श्रृणुयाद् वा पठेद्वापि सर्वपापैः प्रमुच्यते ।
श्रुत्वा सकृदपि ह्येतत् तपश्चरणमुत्तमम् ।२६.१०९

वासुदेवस्य विप्रेन्द्राः पापं मुञ्चिति मानवः ।
जपेद् वाहरहर्नित्यं ब्रह्मलोके महीयते ।

एवमाह महायोगी कृष्णद्वैपायनः प्रभुः ।। २६.११०

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायां पूर्वविभागे षड्विंशोऽध्यायः ।।