कूर्मपुराणम्-पूर्वभागः/चतुर्दशोऽध्यायः
← त्रयोदशोऽध्यायः | कूर्मपुराणम्-पूर्वभागः चतुर्दशोऽध्यायः वेदव्यासः |
पञ्चदशोऽध्यायः → |
सूत उवाच
प्रियव्रतोत्तानपादौ मनोः स्वायंभुवस्य तु ।
धर्मज्ञौ तौ महावीर्यौ शतरूपा व्यजीजनत् ।। १४.१
ततस्तूत्तानपादस्य ध्रुवो नाम सुतोऽभवत् ।
भक्तो नारायणे देवे प्राप्तवान् स्थानमुत्तमम् ।। १४.२
ध्रुवात् सृष्टिंच भाव्यं च भार्या शम्भुर्व्यजायत ।
श्लिष्टेराधत्त सुच्छाया पञ्च पुत्रानकल्पषान् ।। १४.३
वसिष्ठवचनाद् देवी तपस्तप्त्वा सुदुश्चरम् ।
आराध्य पुरुषं विष्णुं शालग्रामे जनार्दनम् ।। १४.४
रिपुं रिपुंजयं विप्रं वृकलं वृषतेजसम् ।
नारायणपरान् शुद्धान् स्वधर्मपरिपालकान् ।। १४.५
रिपोराधत्त महिषी चाक्षुषं सर्वतेजसम् ।
सोऽजीजनत् पुष्करिण्यां वैरण्यां चाक्षुषं मनुम् ।१४.६
प्रजापतेरात्मजायां वीरणस्य महात्मनः ।
मनोरजायन्त दश नकुलायां महौजसः ।१४.७
कन्यायां सुमहावीर्यो वैराजस्य प्रजापतेः ।
ऊरुः पूरुः शतद्युम्नस्तपस्वी सत्यवाक् शुचिः ।१४.८
अग्निष्टुदतिरात्रश्च सुद्युम्नश्चाभिमन्युकः ।
ऊरोरजनयत् पुत्रान् षडाग्नेयी महाबलान् ।१४.९
अङ्गं सुमनसं स्वातिं क्रतुमङ्गिरसं शिवम् ।
अङ्गाद् वेनोऽभवत् पश्चाद् वैन्यो वेनादजायत ।१४.१०
योऽसौ पृथुरिति ख्यातः प्रजापालो महाबलः ।
येन दुग्धा मही पूर्वं प्राजानां हितकारणात् ।१४.११
नियोगाद् ब्रह्मणः सार्द्धं देवेन्द्रेण महौजसा ।
वेनपुत्रस्य वितते पुरा पैतामहे मखे ।१४.१२
सूतः पौराणिको जज्ञे मायारूपः स्वयं हरिः ।
प्रवक्ता सर्वशास्त्राणां धर्मज्ञो गुणवत्सलः ।१४.१३
तं मां वित्त मुनिश्रेष्ठाः पूर्वोद्भूतं सनातनम् ।
अस्मिन् मन्वन्तरे व्यासः कृष्णद्वैपायनः स्वयम् ।१४.१४
श्रावयामास मां प्रीत्या पुराणं पुरुषो हरिः ।
मदन्वये तु ये सूताः संभूता वेदवर्जिताः ।१४.१५
तेषां पुराणवक्तृत्वं वृत्तिरासीदजाज्ञया ।
स तु वैन्यः पृथुर्धीमान् सत्यसंधो जितेन्द्रियः ।१४.१६
सार्वभौमो महातेजाः स्वधर्मपरिपालकः ।
तस्य बाल्यात् प्रभृत्येव भक्तिर्नारायणेऽभवत् ।१४.१७
गोवर्धनगिरिं प्राप्तः तपस्तेपे जितेन्द्रियः ।
तपसा भगवान्प्रीतः शङ्खचक्रगदाधरः ।१४.१८
आगत्य देवो राजानं प्राह दामोदरः स्वयम् ।
ध्रमिकौ रूपसंपन्नौ सर्वशस्त्रभृतां वरौ ।१४.१९
मत्प्रसादादसंदिग्धौ पुत्रौ तव भविष्यतः ।
एकमुक्त्वा हृषीकेशः स्वकीयां प्रकृतिं गतः ।। १४.२०
वैन्योऽपि वेदविधिना निश्चलां भक्तिमुद्वहन् ।
सोऽपालयत् स्वकं राज्यं न्यायेन मधुसूदनम् ।। १४.२१
अचिरादेव तन्वङ्गी भार्या तस्य शुचिस्मिता ।
खिखण्डिनं हविर्द्धानमन्तर्द्धानात् व्यजायत ।। १४.२२
शिखण्डनोऽभवत् पुत्रः सुशील इति विश्रुतः ।
धार्मिको रूपसंपन्नो वेदवेदाङ्गपारगः ।। १४.२३
सोऽधीत्य विधिवद् वेदान् धर्मेण तपसि स्थितः ।
मतिं चक्रे भाग्ययोगात् संन्यांसं प्रति धर्मवित् ।। १४.२४
स कृत्वा तीर्थसंसेवां स्वाध्याये तपसि स्थितः ।
जगाम हिमवत्पृष्ठं कदाचित् सिद्धसेवितम् ।। १४.२५
तत्र धर्मपदं नाम धर्मसिद्धिप्रदं वनम् ।
अपश्यद् योगिनां गम्यमगम्यं ब्रह्मविद्विषाम् ।। १४.२६
तत्र मन्दाकिनी नाम सुपुण्या विमला नदी ।
पद्मोत्पलवनोपेता सिद्धाश्रमविभूषिता ।। १४.२७
स तस्या दक्षिणे तीरे मुनीन्द्रैर्योगिभिर्युतम् ।
सुपुण्यमाश्रमं रम्यमपश्यत् प्रीतिसंयुतः ।। १४.२८
मन्दाकिनीजले स्नात्वा संतर्प्य पितृदेवताः ।
अर्चयित्वा महादेवं पुष्पैः पद्मोत्पलादिभिः ।। १४.२९
ध्यात्वार्कंसंस्थमीशानं शिरस्याधाय चाञ्जलिम् ।
संप्रेक्षमाणो भास्वन्तं तुष्टाव परमेश्वरम् ।। १४.३०
रुद्राध्यायेन गिरिशं रुद्रस्य चरितेन च ।
अन्यैश्च विविधैः स्तोत्रैः शांभवैर्वेदसंभवैः ।। १४.३१
अथास्मिन्नन्तरेऽपश्यत् तमायान्तं महामुनिम् ।
श्वेताश्वतरनामानं महापाशुपतोत्तमम् ।। १४.३२
भस्मसंदिग्धसवाङ्गं कौपीनाच्छादनान्वितम् ।
तपसा कर्षितात्मानं शुक्लयज्ञोपवीतिनम् ।। १४.३३
समाप्य संस्तवं शंभोरानन्दास्राविलेक्षणः ।
ववन्दे शिरसा पादौ प्राञ्जलिर्वाक्यमब्रवीत् ।। १४.३४
धन्योऽस्म्यनुगृहीतोऽस्मि यन्मे साक्षान्मुनीश्वरः ।
योगीश्वरोऽद्य भगवान् दृष्टो योगविदां वरः ।। १४.३५
अहो मे सुमहद्भाग्यं तपांसि सफलानि मे ।
किं करिष्यामि शिष्योऽहं तव मां पालयानघ ।। १४.३६
सोऽनुगृह्याथ राजानं सुशीलं शीलसंयुतम् ।
शिष्यत्वे परिजग्राह तपसा क्षीणकल्पषम् ।। १४.३७
सांन्यासिकं विधिं कृत्स्नं कारयित्वा विचक्षणः ।
ददौ तदैश्वरं ज्ञानं स्वशाखाविहितं व्रतम् ।। १४.३८
अशेषवेदसारं तत् पशुपाशविमोचनम् ।
अन्त्याश्रममिति ख्यातं ब्रह्मादिभिरनुष्ठितम् ।। १४.३९
उवाच शिष्यान् संप्रेक्ष्य ये तदाश्रमवासिनः ।
ब्राह्मणाः क्षत्रियाः वैश्याः ब्रह्मचर्यपरायणाः ।। १४.४०
मया प्रवर्त्तितां शाखामधीत्यैवेह योगिनः ।
समासते महादेवं ध्यायन्तो निष्कलं शिवम् ।। १४.४१
इह देवो महादेवो रममाणः सहोमया ।
अध्यास्ते भगवानीशो भक्तानामनुकम्पया ।। १४.४२
इहाशेषजगद्धाता पुरा नारायणः स्वयम् ।
आराधयन्महादेवं लोकानां हितकाम्यया ।। १४.४३
इहैनं देवमीशानं देवानामपि दैवतम् ।
आराध्य महतीं सिद्धिं लेभिरे देवदानवाः ।। १४.४४
इहैव मुनयः पूर्वं मरीच्याद्या महेश्वरम् ।
दृष्ट्वा तपोबलाज्ज्ञानं लेभिरे सार्वकालिकम् ।। १४.४५
तस्मात् त्वमपि राजेन्द्र तपोयोगसमन्वितः ।
तिष्ठ नित्यं मया सार्द्धं ततः सिद्धिमवाप्स्यसि ।। १४.४६
एवमाभाष्य विप्रेन्द्रो देवं ध्यात्वा पिनाकिनम् ।
आचचक्षे महामन्त्रं यथावत् स्वार्थसिद्धये ।। १४.४७
सर्वपापोपशमनं वेदसारं विमुक्तिदम् ।
अग्निरित्यादिकं पुण्यमृषिभिः संप्रवर्तितम् ।। १४.४८
सोऽपि तद्वचनाद् राजा सुशीलः श्रद्धयान्वितः ।
साक्षात् पाशुपतो भूत्वा वेदाभ्यासरतोऽभवत् ।। १४.४९
भस्मोद्धूलितसर्वाङ्गः कन्दमूलफलाशनः ।
शान्तो दान्तो जितक्रोधः संन्यासविधिमाश्रितः ।। १४.५०
हविर्धानस्तथाग्नेय्यां जनयामास सत्सुतम् ।
प्राचीनबर्हिषं नाम्ना धनुर्वेदस्य पारगम् ।। १४.५१
प्राचीनबर्हिर्भागवान् सर्वशस्त्रभृतां वरः ।
समुद्रतनयायां वै दश पुत्रानजीजनत् ।। १४.५२
प्रचेतसस्ते विख्याता राजानः प्रथितैजसः ।
अधीतवन्तः स्वं वेदं नारायणपरायणाः ।। १४.५३
दशभ्यस्तु प्रचेतोभ्यो मारिषायां प्रजापतिः ।
दक्षो जज्ञे महाभागो यः पूर्वं ब्रह्मणः सुतः ।। १४.५४
स तु दक्षो महेशेन रुद्रेण सह धीमता ।
कृत्वा विवादं रुद्रेण शप्तः प्राचेतसोऽभवत् ।। १४.५५
समायान्तं महादेवो दक्षं देव्या गृहं हरः ।
दृष्ट्वा यथोचितां पूजां दक्षाय प्रददौ स्वयम् ।। १४.५६
तदा वै तमसाविष्टः सोऽधिकां ब्रह्मणः सुतः ।
पूजामनर्हामन्विच्छन् जगाम कुपितो गृहम् ।। १४.५७
कदाचित् स्वगृहं प्राप्तां सतीं दक्षः सुदुर्मनाः ।
भर्त्रा सह विनिन्द्यैनां भर्त्सयामसा वै रुषा ।। १४.५८
अन्ये जामातरः श्रेष्ठा भर्त्तुस्तव पिनाकिनः ।
त्वमप्यसत्सुताऽस्माकं गृहाद् गच्छ यथागतम् ।। १४.५९
तस्य तद्वाक्यमाकर्ण्य सा देवी शंकरप्रिया ।
विनिन्द्य पितरं दक्षं ददाहात्मानमात्मना ।। १४.६०
प्रणम्य पशुभर्त्तारं भर्त्तारं कृत्तिवाससम् ।
हिमवद्दुहिता साऽभूत् तपसा तस्य तोषिता ।। १४.६१
ज्ञात्वा तद्भागवान् रुद्रः प्रपन्नार्त्तिहरो हरः ।
शशाप दक्षं कुपितः समागत्याथ तद्गृहम् ।। १४.६२
त्यक्त्वा देहमिमं ब्रह्मं क्षत्रियाणां कुले भव ।
स्वस्यां सुतायां मूढात्मा पुत्रमुत्पादयिष्यसि ।। १४.६३
एवमुक्त्वा महादेवो ययौ कालासपर्वतम् ।
स्वायंभुवोऽपि कालेन दक्षः प्राचेतसोऽभवत् ।। १४.६४
एतद्वः कथितं सर्वं मनोः स्वायंभुवस्य तु ।
विसर्गं दक्षपर्यन्तं श्रृण्वतां पापनाशनम् ।। १४.६५
इति श्रीकूर्मपुराणे षट्माहस्त्र्यां संहितायां पूर्वविभागे चतुर्दशोऽध्यायः।।१४।।