कूर्मपुराणम्-पूर्वभागः/षष्ठोऽध्यायः

विकिस्रोतः तः
Jump to navigation Jump to search
← पञ्चमोऽध्यायः कूर्मपुराणम्-पूर्वभागः
षष्ठोऽध्यायः
वेदव्यासः
सप्तमोऽध्यायः →
  1. प्रथमोऽध्यायः
  2. द्वितीयोऽध्यायः
  3. तृतीयोऽध्यायः
  4. चतुर्थोऽध्यायः
  5. पञ्चमोऽध्यायः
  6. षष्ठोऽध्यायः
  7. सप्तमोऽध्यायः
  8. अष्टमोऽध्यायः
  9. नवमोऽध्यायः
  10. दशमोऽध्यायः
  11. एकादशोऽध्यायः
  12. द्वादशोऽध्यायः
  13. त्रयोदशोऽध्यायः
  14. चतुर्दशोऽध्यायः
  15. पञ्चदशोऽध्यायः
  16. षोडशोऽध्यायः
  17. सप्तदशोऽध्यायः
  18. अष्टादशोऽध्यायः
  19. एकोनविंशतितमोऽध्यायः
  20. विंशतितमोऽध्यायः
  21. एकविंशतितमोऽध्यायः
  22. द्वाविंशतितमोऽध्यायः
  23. त्रयोविंशतितमोऽध्यायः
  24. चतुर्विंशतितमोऽध्यायः
  25. पञ्चविंशतितमोऽध्यायः
  26. षड्विंशतितमोऽध्यायः
  27. सप्तविंशतितमोऽध्यायः
  28. अष्टाविंशतितमोऽध्यायः
  29. नवविंशतितमोऽध्यायः
  30. त्रिंशत्तमोऽध्यायः
  31. एकत्रिंशत्तमोऽध्यायः
  32. द्वात्रिंशत्तमोऽध्यायः
  33. त्रयस्त्रिंशत्तमोऽध्यायः
  34. चतुस्त्रिंशत्तमोऽध्यायः
  35. पञ्चत्रिंशत्तमोऽध्यायः
  36. षड्त्रिंशत्तमोऽध्यायः
  37. सप्तत्रिंशत्तमोऽध्यायः
  38. अष्टत्रिंशत्तमोऽध्यायः
  39. नवत्रिंशात्तमोऽध्यायः
  40. चत्वारिंशत्तमोऽध्यायः
  41. एकचत्वारिंशत्तमोऽध्यायः
  42. द्विचत्वारिंशत्तमोऽध्यायः
  43. त्रिचत्वारिंशत्तमोऽध्यायः
  44. चतुश्चत्वारिंशत्तमोऽध्यायः
  45. पञ्चचत्वारिंशत्तमोऽध्यायः
  46. षड्चत्वारिंशत्तमोऽध्यायः
  47. सप्तचत्वारिंशत्तमोऽध्यायः
  48. अष्टचत्वारिंशत्तमोऽध्यायः
  49. नवचत्वारिंशत्तमोऽध्यायः
  50. पञ्चाशत्तमोऽध्यायः
  51. एकपञ्चाषत्तमोऽध्यायः
  52. द्विपञ्चाषत्तमोऽध्यायः
  53. त्रिपञ्चाषत्तमोऽध्यायः

अथ पृथिव्युद्धारः

श्रीकूर्म उवाच ।
आसीदेकार्णवं घोरमविभागं तमोमयम् ।
शान्तवातादिकं सर्वं न प्रज्ञायत किञ्चन ।। ६.१

एकार्णवे तदा तस्मिन् नष्टे स्थावरजङ्गमे ।
तदा समभवद् ब्रह्मा सहस्त्राक्षः सहस्त्रपात् ।। ६.२

सहस्त्रशीर्षा पुरुषो रुक्मवर्णोह्यतीन्द्रियः ।
ब्रह्मा नारायणाख्यस्तु सुष्वाप सलिले तदा ।। ६.३

इमं चोदाहरन्त्यत्र श्लोकं नारायणं प्रति ।
ब्रह्मस्वरूपिणं देवं जगतः प्रभवाव्ययम् ।। ६.४

आपो नारा इति प्रोक्ता नाम्ना पूर्वमिति श्रुतिः ।
अयनं तस्य ता यस्मात् तेन नारायणः स्मृतः ।। ६.५

तुल्यं युगसहस्त्रस्य नैशं कालमुपास्य सः ।
शर्वर्यन्ते प्रकुरुते ब्रह्मत्वं सर्गकारणात् ।। ६.६

ततस्तु सलिले तस्मिन् विज्ञायान्तर्गतां महीम् ।
अनुमानात् तदुद्धारं कर्त्तुकामः प्रजापतिः ।। ६.७

जलक्रीडासु रुचिरं वाराहं रुपमास्थितः ।
अधृष्यं मनसाप्यन्यैर्वाङ्‌मयं ब्रह्मसंज्ञितम् ।। ६.८

पृथिव्युद्धरणार्थाय प्रविश्य च रसातलम् ।
दंष्ट्रयाऽभ्युज्जहारैनामात्माधारो धराधरः ।। ६.९

दृष्ट्वा दंष्ट्राग्रविन्यस्तां पृथिवीं प्रथितपौरुषम् ।
अस्तुवञ्जनलोकस्थाः सिद्धा ब्रह्मर्षयो हरिम् ।। ६.१०
ऋषय ऊचुः ।
नमस्ते देवदेवाय ब्रह्मणे परमेष्ठिने ।
पुरुषाय पुराणाय शाश्वताय जयाय च ।। ६.११

नमः स्वयंभुवे तुभ्यं स्त्रष्ट्रे सर्वार्थवेदिने ।
नमो हिरण्यगर्भाय वेधसे परमात्मने ।। ६.१२

नमस्ते वासुदेवाय विष्णवे विश्वयोनये ।
नारायणाय देवाय देवानां हितकारिणे ।। ६.१३

नमोऽस्तु ते चतुर्वक्त्रे शार्ङ्गचक्रासिधारिणे ।
सर्वभूतात्मभूताय कूटस्थाय नमो नमः ।। ६.१४

नमो वेदरहस्याय नमस्ते वेदयोनये ।
नमो बुद्धाय शुद्धाय नमस्ते ज्ञानरूपिणे ।। ६.१५

नमोऽस्त्वानन्दरूपाय साक्षिणे जगतां नमः ।
अनन्तायाप्रमेयाय कार्याय करणाय च ।। ६.१६

नमस्ते पञ्चबूताय पञ्चभूतात्मने नमः ।
नमो मूलप्रकृतये मायारूपाय ते नमः ।। ६.१७

नमोऽस्तु ते वराहाय नमस्ते मत्स्यरूपिणे ।
नमो योगाधिगम्याय नमः सकर्षणाय ते ।। ६.१८

नमस्त्रिमूर्तये तुभ्यं त्रिधाम्ने दिव्यतेजसे ।
नमः सिद्धाय पूज्याय गुणत्रयविभागिने ।। ६.१९

तमोऽस्त्वादित्यवर्णाय नमस्ते पद्मयोनये ।
नमोऽमूर्त्ताय मूर्ताय माधवाय नमो नमः ।। ६.२०

त्वयैव सृष्टमखिलं त्वय्येव लयमेष्यति ।
पालयैतज्जगत् सर्वं त्राता त्वं शरणं गतिः ।। ६.२१

इत्थं स भगवान् विष्णुः सनकाद्यैरभिष्टुतः ।
प्रसादमकरोत् तेषां वराहवपुरीश्वरः ।। ६.२२

ततः संस्थानमानीय पृथिवीं पृथिवीधरः ।
मुमोच रूपं मनसा धारयित्वा प्रजापतिः ।। ६.२३

तस्योपरि जलौघस्य महतो नौरिव स्थिता ।
विततत्वाच्च देहस्य न मही याति संप्लवम् ।। ६.२४

पृथिवीं तु समीकृत्य पृथिव्यां सोऽचिनोद् गिरीन् ।
प्राक्‌सर्गदग्धानखिलांस्ततः सर्गेऽदधन्मनः ।। ६.२५

श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे षष्ठोऽध्यायः।।६।।