कूर्मपुराणम्-पूर्वभागः/द्वाविंशतितमोऽध्यायः
रोमहर्षण उवाच ।
ऐलः पुरूरवाश्चाथ राजा राज्यमपालयत् ।
तस्य पुत्रा बभूवुर्हि षडिन्द्रसमतेजसः ।। २२.१
आयुर्मायुरमायुश्चर्विश्वायुश्चैव वीर्यवान् ।
शतायुश्च श्रुतायुश्च दिव्याश्चैवोर्वशीसुताः ।। २२.२
आयुषस्तनया वीराः पञ्चैवासन् महौजसः ।
स्वर्भानुतनयायां वै प्रभायामिति नः श्रुतम् ।। २२.३
नहुषः प्रथमस्तेषां धर्मज्ञो लोकविश्रुतः ।
नहुषस्य तु दायादाः षडिन्द्रोपमतेजसः ।। २२.४
उत्पन्नाः पितृकन्यायां विरजायां महाबलाः ।
यतिर्ययातिः संयातिरायातिः पञ्चकोऽश्वकः ।। २२.५
तेषां ययातिः पञ्चानां महाबलपराक्रमः ।
देवयानीमुशनसः सुतां भार्यामवाप सः ।२०.६
शर्मिष्ठामासुरीं चैव तनयां वृषपर्वणः ।
यदुं च तुर्वसुं चैव देवयानी व्यजायत ।२०.७
द्रुह्युं चानुं च पूरुं च शर्मिष्ठा चाप्यजीजनत् ।
सोऽभ्यषिञ्चदतिक्रम्य ज्येष्ठं यदुमनिन्दितम् ।२२.८
पुरुमेव कनीयांसं पितुर्वचनपालकम् ।।
दिशि दक्षिणपूर्वस्यां तुर्वसुं पुत्रमादिशत् ।२२.९
दक्षिणापरयो राजा यदुं ज्येष्ठं न्ययोजयत् ।
प्रतीच्यामुत्तारायां च द्रुह्युं चानुमकल्पयत् ।। २२.१०
तैरियं पृथिवी सर्वा धर्मतः परिपालिता ।
राजाऽपि दारसहितो नवं प्राप महायशाः ।। २२.११
यदोरप्यभवन् पुत्राः पञ्च देवसुतोपमाः ।
सहस्त्रजित् तथाज्येष्ठः क्रोषटुर्नीलोऽजिनोरघुः ।। २२.१२
सहस्त्रजित्सुतस्तद्वच्छतजिन्नाम पार्थिवः ।
सुताः शतजितोऽप्यासंस्त्रयः परमधार्मिकाः ।। २२.१३
हैहयश्च हयश्चैव राजा वेणुहयश्च यः।
हैहयस्याभवत् पुत्रो धर्म इत्यभिविश्रुतः ।। २२.१४
तस्य पुत्रोऽभवद् विप्रा धर्मनेत्रः प्रतापवान् ।
धर्मनेत्रस्य कीर्त्तिस्तु संजितस्तत्सुतोऽभवत् ।। २२.१५
महिष्मान् संजितस्याभूद् भद्रश्रेण्यस्तदन्वयः ।
भद्रश्रेण्यस्य दायादो दुर्दमो नाम पार्थिवः ।। २२.१६
दुर्दमस्य सुतो धीमान् धनको नाम वीर्यवान् ।
अन्धकस्य तु दायादाश्चत्वारो लोकसम्मताः ।। २२.१७
कृतवीर्यः कृताग्निश्च कृतवर्मा तथैव च ।
कृतौजाश्च चतुर्थोऽभूत् कार्त्तवीर्योऽर्जुनोऽभवत् ।। २२.१८
सहत्रबाहुर्द्युतिमान् धनुर्वेदविदां वरः ।
तस्य रामोऽभवन्मृत्युर्जामदग्न्यो जनार्दनः ।। २२.१९
तस्य पुत्रशतान्यासन् पञ्च तत्र महारथाः ।
कृतास्त्रा बलिनः शूरा धर्मात्मानो मनस्विनः ।। २२.२०
शूरश्च शूरसेनश्च धृष्णः कृष्णस्तथैव च ।
जयध्वजश्च बलवान् नारायणपरो नृपः ।। २२.२१
शूरसेनादयः सर्वे चत्वारः प्रथितौजसः ।
रुद्रभक्ता महात्मानः पूजयन्ति स्म शंकरम् ।। २२.२२
जयध्वजस्तु मतिमान् देवं नारायणं हरिम् ।
जगाम शरणं विष्णुं दैवतं धर्मतत्परः ।। २२.२३
तमूचुरितरे पुत्रा नायं धर्मस्तवानघ ।
ईश्वराराधनरतः पिताऽस्माकमिति श्रुतिः ।। २२.२४
तानब्रवीन्महातेजा एष धर्मः परो मम ।
विष्णोरंशेन संभूता राजानो ये महीतले ।। २२.२५
राज्यं पालयिताऽवश्यं भगवान् पुरुषोत्तमः ।
पूजनीयो यतो विष्णुः पालको जगतो हरिः ।। २२.२६
सात्त्विकी राजसी चैव तामसी च स्वयंभुवः ।
तिस्त्रस्तु मूर्त्तयः प्रोक्ताः सृष्टिस्थित्यन्तहेतवः ।। २२.२७
सत्त्वात्मा भगवान् विष्णुः संस्थापयति सर्वदा ।
सृजेद् ब्रह्मा रजोमूर्त्तिः संहरेत् तामसो हरः ।। २२.२८
तस्मान्महीपतीनां तु राज्यं पालयतामयम् ।
आराध्यो भगवान् विष्णुः केशवः केशिमर्दनः ।। २२.२९
निशम्य तस्य वचनं भ्रातरोऽन्ये मनस्विनः ।
प्रोचुः संहारकृद् रुद्रः पूजनीयो मुमुक्षुभिः ।। २२.३०
अयं हि भगवान् रुद्रः सर्वं जगदिदं शिवः ।
तमोगुणं समाश्रित्य कल्पान्ते संहरेत् प्रभुः ।। २२.३१
या सा घोरतमा मूर्त्तिरस्य तेजोमयी परा ।
संहरेद् विद्यया सर्वं संसारं शूलभृत्तया ।। २२.३२
ततस्तानब्रवीद् राजा विचिन्त्यासौ जयध्वजः ।
सत्त्वेन मुच्यते जन्तुः सत्त्वात्मा भगवान् हरिः ।। २२.३३
तमूचुर्भ्रातरो रुद्रः सेवितः सात्त्विकैर्जनैः ।
मोचयेत् सत्त्वसंयुक्तः पूजयेत्सततं हरम् ।। २२.३४
अथाब्रवीद् राजपुत्रः प्रहसन् वै जयध्वजः ।
स्वधर्मो मुक्तये पन्था नान्यो मुनिभिरष्यते ।। २२.३५
तथा च वैष्णवीं शक्ति र्नृपाणान् दधतां सदा ।
आराधनं परो धर्मो पुरारेरमितौजसः ।। २२.३६
तमब्रवीद् राजपुत्रः कृष्णो मतिमतां वरः ।
यदर्जुनोऽस्मज्जनकः स धर्मं कृतवानिति ।। २२.३७
एवं विवादे वितते शूरसेनोऽब्रवीद् वचः ।
प्रमाणमृषयो ह्यत्र ब्रूयुस्ते यत् तथैव तत् ।२२.३८
ततस्ते राजशार्दूलाः पप्रच्छुर्ब्रह्मवादिनः ।
गत्वा सर्वे सुसंरब्धाः सप्तर्षीणां तदाश्रमम् ।२२.३९
तानब्रुवंस्ते मुनयो वसिष्ठाद्या यथार्थतः ।
या यस्याभिमता पुंसः सा हि तस्यैव देवता ।२२.४०
किन्तु कार्यविशेषेण पूजिताश्चेष्टदा नृणाम् ।
विशेषात् सर्वदा नायं नियमो ह्यन्यथा नृपाः ।२२.४१
नृपाणां दैवतं विष्णुस्तथैव च पुरंदरः ।
विप्राणामग्निरादित्यो ब्रह्मा चैव पिनाकधृक् ।२२.४२
देवानां दैवतं विष्णुर्दानवानां त्रिशूलभृत् ।
गन्धर्वाणां तथा सोमो यक्षाणामपि कथ्यते ।२२.४३
विद्याधराणां वाग्देवी सिद्धानां भगवान्हरिः।
रक्षसां शंकरो रुद्रः किंनराणां च पार्वती ।२२.४४
ऋषीणां दैवतं ब्रह्मा महादेवस्त्रिशूलभृत् ।
मनूनां स्यादुमा देवी तथा विष्णुः सभास्करः ।२२.४५
गृहस्थानां च सर्वे स्युर्ब्रह्मा वै ब्रह्मचारिणाम् ।
वैखानसानामर्कः स्याद् यतीनां च महेश्वरः ।२२.४६
भूतानां भगवान् रुद्रः कूष्माण्डानां विनायकः ।
सर्वेषां भगवान् ब्रह्मा देवदेवः प्रजापतिः ।२२.४७
इत्येवं भगवान् ब्रह्मा स्वयं देवोह्यभाषत ।
तस्माज्जयध्वजो नूनं विष्ण्वाराधनमर्हति ।२२.४८
किंतु रुद्रेण तादात्म्यं बुध्वा पूज्यो हरिर्नरैः।
अन्यथा नृपतेः शत्रुं न हरि संहरेद्यतः।।२२.४९
तान् प्रणम्याथ ते जग्मुः पुरीं परमशोभनाम् ।
पालयाञ्चक्रिरे पृथ्वीं जित्वा सर्वरिपून् रणे ।२२.५०
ततः कदाचिद् विप्रेन्द्रा विदेहो नाम दानवः ।
भीषणः सर्वसत्त्वानां पुरीं तेषां समाययौ ।२२.५१
दंष्ट्राकरालो दीप्तात्मा युगान्तदहनोपमः ।
शूलमादाय सूर्याभं नादयन् वै दिशो दश ।२२.५२
तन्नादश्रवणान्मर्त्यास्तत्र ये निवसन्ति ते ।
तत्यजुर्जोवितं त्वन्ये दुद्रुवुर्भयविह्वलाः ।२२.५३
ततः सर्वे सुसंयत्ताः कार्त्तवीर्यात्मजास्तदा ।
शूरसेनादयः पञ्च राजानस्तु महाबलाः।२२.५४
युयुधुर्दानवं शक्तिगिरिकूटासिमुद्गरैः ।।
तान् सर्वान् दानवो विप्राः शूलेन प्रहसन्निव।२२.५५
युद्धाय कृतसंरम्भा विदेहं त्वभिदुद्रुवुः ।
शूरोऽस्त्रं प्राहिणोद् रौद्रं शूरसेनस्तु वारुणम् ।२२.५६
प्राजापत्यं तथा कृष्णो वायव्यं धृष्ण एव च ।
जयध्वजश्च कौबेरमैन्द्रमाग्नेयमेव च ।२२.५७
भञ्जयामास शूलेन तान्यस्त्राणि स दानवः ।
ततः कृष्णो महावीर्यो गदामादाय भीषणाम् ।२२.५८
स्पृष्ट्वा मन्त्रेण तरसा चिक्षेप न ननाद च ।
संप्राप्य सा गादाऽस्योरो विदेहस्य शिलोपमम् ।२२.५९
न दानवं चालयितुं शशाकान्तकसंनिभम् ।
दुद्रुवुस्ते भयग्रस्ता दृष्ट्वा तस्यातिपौरुषम् ।२२.६०
जयध्वजस्तु मतिमान् सस्मार जगतः पतिम् ।
विष्णुं जयिष्णुं लोकादिमप्रमेयमनामयम् ।२२.६१
त्रातारं पुरुषं पूर्वं श्रीपतिं पीतवाससम् ।
ततः प्रादुरभूच्चक्रं सूर्यायुतसमप्रभम् ।२२.६२
आदेशाद् वासुदेवस्य भक्तानुग्रहकारणात् ।
जग्राह जगतां योनिं स्मृत्वा नारायणं नृपः ।२२.६३
प्राहिणोद् वै विदेहाय दानवेभ्यो यथा हरिः ।
संप्राप्य तस्य घोरस्य स्कन्धदेशं सुदर्शनम् ।२२.६४
पृथिव्यां पातयामास शिरोऽद्रिशिखराकृति ।
तस्मिन् हते देवरिपौ शूराद्या भ्रातरो नृपाः ।२२.६५
तद्दि चक्रं पुरा विष्णुस्तपसाराध्य शंकरम्
यस्मदवाप तत्तस्मादसुराणां विनाशकम्।।२२.६६
समाययुः पुरीं रम्यां भ्रातरं चाप्यपूजयन् ।
श्रुत्वाजगाम भगवान् जयध्वजपराक्रमम् ।२२.६७
कार्त्तवीर्यसुतं द्रष्टुं विश्वामित्रो महामुनिः ।
तमागतमथो दृष्ट्वा राजा संभ्रान्तमानसः ।२२.६८
समावेश्यासने रम्ये पूजयामास भावतः ।
उवाच भगवान् घोरः प्रसादाद् भवतोऽसुरः ।२२.६९
निपातितो मया संख्ये विदेहो दानवेश्वरः ।
त्वद्वाक्याच्छिन्नसंदेहो विष्णुं सत्यपराक्रमम् ।२२.७०
प्रपन्नः शरणं तेन प्रसादो मे कृतः शुभः ।
यक्ष्यामि परमेशानं विष्णुं पद्मदलेक्षणम् ।२२.७१
कथं केन विधानेन संपूज्यो हरिरीश्वरः ।
कोऽयं नारायणो देवः किंप्रभावश्च सुव्रत ।२२.७२
सर्वमेतन्ममाचक्ष्व परं कौतूहलं हि मे ।
जयध्वजस्य वचनं श्रुत्वा शान्तो मुनिस्ततः।.
दृष्ट्वा हरौ परां भक्तिं विश्वामित्र उवाच ह।.२२.७३
विश्वामित्र उवाच ।
यतः प्रवृत्तिर्भूतानां यस्मिन् सर्वं यतो जगत् ।२२.७४
स विष्णुः सर्वभूतात्मा तमाश्रित्य विमुच्यते ।।
यमक्षरात्परतरात्परं प्राहुर्गुहश्रयम्।।२२.७५
आनन्दं परमं व्योम स वै नारायण स्मृतः।.
नित्योदितो निर्विकल्पो नित्यानन्दो नरञ्जनः।।२२.७६
चतुर्व्यूहधरो विष्णुरव्यूहः प्रोच्यते स्वयम्।
परमैत्मा परन्धाम परं व्योम परं पदम्।२२.७७
त्रिपादमक्षरं ब्रह्म तमाहुब्रह्मवादिनः।
स वासुदेवो विश्वात्मा योगात्मा पुरुषोत्तमः।।२२.७८
यस्यांश सम्भवो ब्रह्मा रुद्रोऽपि परमेश्वरः।
स्ववर्णाश्रमधर्मेण पुंसां यः पुरुषोत्तमः ।२२.७९
अकामहतभावेन समाराध्यो न चान्यथा ।
एतावदुक्त्वा भगवान् विश्वामित्रो महातपाः।२२.८०
शूराद्यैः पूजितो विप्रा जगामाथ स्वमालयम् ।। २२.
अथ शूरादयो देवमयजन्त महेश्वरम् ।२२.८१
यज्ञेन यज्ञगम्यं तं निष्कामा रुद्रमव्ययम् ।
तान् वसिष्ठस्तु भगवान् याजयामास धर्मवित् २२.८२
गौतमोऽत्रिरगस्त्यश्च सर्वे रुद्रपरायणाः ।।
विश्वामित्रस्तु भगवान् जयध्वजमरिंदमम् ।२२.८३
याजयामास भूतादिमादिदेवं जनार्दनम् ।।
तस्य यज्ञे महायोगी साक्षाद् देवः स्वयं हरिः ।२२.८४
आविरासीत् स भगवान् तदद्भुतमिवाभवत् ।। २२.८५
जयध्वजोऽपि तं विष्णुं रुद्रस्य परमां तनुम्।
इत्येवं परमं बुद्ध्वा यत्नेनायजदच्युतम्।.२२.८६
य इमं श्रृणुयान्नित्यं जयध्वजपराक्रमम् ।
सर्वपापविमुक्तात्मा विष्णुलोकं स गच्छति ।। २२.८७
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे द्वाविशोऽध्यायः।।