कूर्मपुराणम्-पूर्वभागः/चत्वारिंशत्तमोऽध्यायः

विकिस्रोतः तः
Jump to navigation Jump to search
  1. प्रथमोऽध्यायः
  2. द्वितीयोऽध्यायः
  3. तृतीयोऽध्यायः
  4. चतुर्थोऽध्यायः
  5. पञ्चमोऽध्यायः
  6. षष्ठोऽध्यायः
  7. सप्तमोऽध्यायः
  8. अष्टमोऽध्यायः
  9. नवमोऽध्यायः
  10. दशमोऽध्यायः
  11. एकादशोऽध्यायः
  12. द्वादशोऽध्यायः
  13. त्रयोदशोऽध्यायः
  14. चतुर्दशोऽध्यायः
  15. पञ्चदशोऽध्यायः
  16. षोडशोऽध्यायः
  17. सप्तदशोऽध्यायः
  18. अष्टादशोऽध्यायः
  19. एकोनविंशतितमोऽध्यायः
  20. विंशतितमोऽध्यायः
  21. एकविंशतितमोऽध्यायः
  22. द्वाविंशतितमोऽध्यायः
  23. त्रयोविंशतितमोऽध्यायः
  24. चतुर्विंशतितमोऽध्यायः
  25. पञ्चविंशतितमोऽध्यायः
  26. षड्विंशतितमोऽध्यायः
  27. सप्तविंशतितमोऽध्यायः
  28. अष्टाविंशतितमोऽध्यायः
  29. नवविंशतितमोऽध्यायः
  30. त्रिंशत्तमोऽध्यायः
  31. एकत्रिंशत्तमोऽध्यायः
  32. द्वात्रिंशत्तमोऽध्यायः
  33. त्रयस्त्रिंशत्तमोऽध्यायः
  34. चतुस्त्रिंशत्तमोऽध्यायः
  35. पञ्चत्रिंशत्तमोऽध्यायः
  36. षड्त्रिंशत्तमोऽध्यायः
  37. सप्तत्रिंशत्तमोऽध्यायः
  38. अष्टत्रिंशत्तमोऽध्यायः
  39. नवत्रिंशात्तमोऽध्यायः
  40. चत्वारिंशत्तमोऽध्यायः
  41. एकचत्वारिंशत्तमोऽध्यायः
  42. द्विचत्वारिंशत्तमोऽध्यायः
  43. त्रिचत्वारिंशत्तमोऽध्यायः
  44. चतुश्चत्वारिंशत्तमोऽध्यायः
  45. पञ्चचत्वारिंशत्तमोऽध्यायः
  46. षड्चत्वारिंशत्तमोऽध्यायः
  47. सप्तचत्वारिंशत्तमोऽध्यायः
  48. अष्टचत्वारिंशत्तमोऽध्यायः
  49. नवचत्वारिंशत्तमोऽध्यायः
  50. पञ्चाशत्तमोऽध्यायः
  51. एकपञ्चाषत्तमोऽध्यायः
  52. द्विपञ्चाषत्तमोऽध्यायः
  53. त्रिपञ्चाषत्तमोऽध्यायः

श्रीकूर्म उवाच
एवमुक्तास्तु मुनयो नैमिषीया महामतिम् ।
पप्रच्छुरुत्तरं सूतं पृथिव्यादिविनिर्णयम् ।। ४०.१

ऋषय ऊचुः
कथितो भवता सूत सर्गः स्वयंभुवः शुभः ।
इदानीं श्रोतुमिच्छामस्त्रिलोकस्यास्य मण्डलम् ।। ४०.२

यावन्तः सागरा द्वीपास्तथा वर्षाणि पर्वताः ।
वनानि सरितः सूर्यग्रहाणां स्थितिरेव च ।। ४०.३

यदाधारमिदं कृत्स्नं येषां पृथ्वी पुरा त्वियम् ।
नृपाणां तत्समासेन सूत वक्तुमिहार्हसि ।। ४०.४

सूत उवाच
वक्ष्ये देवादिदेवाय विष्णवे प्रभविष्णवे ।
नमस्कृत्याप्रमेयाय यदुक्तं तेन धीमता ।। ४०.५

स्वायंभुवस्य तु मनोः प्रागुक्तो यः प्रियव्रतः ।
पुत्रस्तस्याभवन् पुत्राः प्रजापतिसमा दश ।। ४०.६

अग्नीध्रश्चाग्निबाहुश्च वपुष्मान् द्युतिमांस्तथा ।
मेधा मेधातिथिर्हव्यः सवनः पुत्र एव च ।। ४०.७

ज्योतिष्मान् दशमस्तेषां महाबलपराक्रमः ।
धार्मिको दाननिरतः सर्वभूतानुकम्पकः ।। ४०.८

मेधाग्निबाहुपुत्रास्तु त्रयो योगपरायणाः ।
जातिस्मरा महाभागा न राज्ये दधिरे मतिम् ।। ४०.९

प्रियव्रतोऽभ्यषिञ्चद् वै सप्तद्वीपेषु सप्त तान् ।
जम्बुद्वीपेश्वरं पुत्रमग्नीध्रमकरोन्नृपः ।। ४०.१०

प्लक्ष्द्वीपेश्वरश्चैव तेन मेधातिथिः कृतः ।
शाल्मलीशं वपुष्मन्तं नरेन्द्रमभिषिक्तवान् ।। ४०.११

ज्योतिष्मन्तं कुशद्वीपे राजानं कृतवान् प्रभुः ।
द्युतिमन्तं च राजानं क्रौञ्चद्वीपे समादिशत् ।। ४०.१२

शाकद्वीपेश्वरं चापि हव्यं चक्रे प्रियव्रतः ।
पुष्कराधिपतिं चक्रे सवनं च प्रजापतिः ।। ४०.१३

पुष्करेश्वरतश्चापि महावीतः सुतोऽभवत् ।
धातिकिश्चैव द्वावेतौ पुत्रौ पुत्रवतां वरौ ।। ४०.१४

महावीतं स्मृतं वर्षं तस्य स्यात्तु महात्मनः ।
नाम्ना वैधातकेश्चापि धातकीखण्डमुच्यते ।। ४०.१५

शाकद्वीपेश्वरस्याथ हव्यस्याप्यभवन् सुताः ।
जलदश्च कुमारश्च सुकुमारो मणीचकः ।४०.१६

कुशोत्तरोऽथ मोदाकिः सप्तमः स्यान्महाद्रुमः ।
जलदं जलदस्याथ वर्षं प्रथममुच्यते।४०.१७

कुमारस्य तु कौमारं तृतीयं सुकुमारकम् ।
मणीचकं चतुर्थं तु पञ्चमं कुसुमोत्तरम् ।४०.१८

मोदाकं षष्ठमित्युक्तं सप्तमं तु महाद्रुमम् ।
क्रौञ्चद्वीपेश्वरस्यापि सुता द्युतिमतोऽभवन् ।४०.१९

कुशलः प्रथमस्तेषां द्वितीयस्तु मनोहरः ।
उष्णस्तृतीयः संप्रोक्तश्चतुर्थः प्रवरः स्मृतः ।४०.२०

अन्धकारो मुनिश्चैव दुन्दुभिश्चेति सप्तमः ।
तेषां स्वनामभिर्देशाः क्रौञ्चद्वीपाश्रयाः शुभाः ।। ४०.२१

ज्योतिष्मतः कुशद्वीपे सप्तैवासन् महौजसः ।
उद्‌भेदो वेणुमांश्चैवाश्वरथो लम्बनो धृतिः ।४०.२२

षष्ठः प्रभाकारश्चापि सप्तमः कपिलः स्मृतः ।
स्वनामचिह्निता यत्र तथा वर्षाणि सुव्रताः ।४०.२३

ज्ञेयानि च तथान्येषु द्वीपेष्वेवं न यो मतः ।
शाल्मलिद्वीपनाथस्य सुताश्चासन् वपुष्मतः ।४०.२४

श्वेतश्च हरितश्चैव जीमूतो रोहितस्तथा ।
वैद्युतौ मानसश्चैव सप्तमः सुप्रभो मतः ।। ४०.२५

प्लक्षद्वीपेश्वरस्यापि सप्त मेधातिथेः सुताः ।
ज्येष्ठः शान्तमयस्तेषां शिशिरस्तु सुखोदयः।४०.२६

आनन्दश्च शिवश्चैव क्षेमकश्च ध्रुवस्तथा ।
प्लक्षद्वीपादिषु ज्ञेयाः शाकद्वीपान्तिकेषु च ।४०.२७

वर्णाश्रमविभागेन स्वधर्मो मुक्तये द्विजाः ।
जम्बुद्वीपेश्वरस्यापि पुत्रास्त्वासन् महाबलाः ।४०.२८

अग्नीध्रस्य द्विजश्रेष्ठास्तन्नामानि निबोधत ।
नाभिः किंपुरुषश्चैव तथा हरिरिलावृतः ।४०.२९

रम्यो हिरण्वांश्च कुरुर्भद्राश्वः केतुमालकः ।
जम्बुद्वीपेश्वरो राजा स चाग्नीध्रो महामतिः ।४०.३०

विभज्य नवधा तेभ्यो यथान्यायं ददौ पुनः ।
नाभेस्तु दक्षिणं वर्षं हिमाह्वं प्रददौ पिता ।४०.३१

हेमकूटं ततो वर्षं ददौ किंपुरुषाय सः ।
तृतीयं नैषधं वर्षं हरये दत्तवान् पिता ।४०.३२

इलावृताय प्रददौ मेरुमध्यमिलावृतम् ।
नीलाचलाश्रृतं वर्षं रम्याय प्रददौ पिता ।४०.३३

श्वेतं यदुत्तरं वर्षं पित्रा दत्तं हिरण्वते ।
यदुत्तरं श्रृङ्गवतो वर्षं तत् कुरुवे ददौ ।४०.३४

मेरोः पूर्वेण यद् वर्षं भद्राश्वाय न्यवेदयत् ।
गन्धमादनवर्षं तु केतुमालाय दत्तवान् ।। ४०.३५

वर्षेष्वेतेषु तान् पुत्रानभिषिच्य नराधिपः ।
संसारकष्टतां ज्ञात्वा तपस्तेपे वनं गतः ।। ४०.३६

हिमाह्वयं तु यस्यैतन्नाभेरासीन्महात्मनः ।
तस्यर्षभोऽभवत् पुत्रो मरुदेव्यां महाद्युतिः ।। ४०.३७

ऋषभाद् भरतो जज्ञे वीरः पुत्रशताग्रजः ।
सोऽभिषिच्यर्षभः पुत्रं भरतं पृथिवीपतिः ।४०.३८

वानप्रस्थाश्रमं गत्वा तपस्तेपे यथाविधि ।
तपसा कर्षितोऽत्यर्थं कृशो धमनिसन्ततः ।४०.३९

ज्ञानयोगरतो भूत्वा महापाशुपतोऽभवत् ।
सुमतिर्भरतस्याभूत् पुत्रः परमधार्मिकः ।४०.४०

सुमतेस्तैजसस्तस्मादिन्द्रिद्युम्नो महाद्युतिः ।
परमेष्ठी सुतस्तस्मात् प्रतीहारस्तदन्वयः ।४०.४१

प्रतिहर्त्तेति विख्यात उत्पन्नस्तस्य चात्मजः ।
भवस्तस्मादथोद्‌गीथः प्रस्तावस्तत्सुतोऽभवत् ।४०.४२

पृथुस्ततस्ततो नक्तो नक्तस्यापि गयः स्मृतः ।
नरो गयस्य तनयस्तस्य पुत्रो विराडभूत् ।४०.४३

तस्य पुत्रो महावीर्यो धीमांस्तस्मादजायत ।
धीमतोऽपि ततश्चाभूद् शौचनस्तत्सुतोऽभवत् ।४०.४४

त्वष्टा त्वष्टुश्च विरजो रजस्तस्मादभूत् सुतः ।
शतजिद् रथजित्तस्य जज्ञे पुत्रशतं द्विजाः ।४०.४५

तेषां प्रधानो बलवान् विश्वज्योतिरिति स्मृतः ।
आराध्य देवं ब्रह्माणं क्षेमकं नाम पार्थिवम् ।४०.४६

असूत पुत्रं धर्मज्ञं महाबाहुमरिंदमम्‌ ।
एते पुरस्ताद् राजानो महासत्त्वा महौजसः ।४०.४७

एषां वंशप्रसूतैश्च भुक्तेयं पृथिवी पुरा ।। ४०.४८

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायां पूर्वविभागे चत्वारिंशोऽध्यायः ।। ४०।।