कूर्मपुराणम्-पूर्वभागः/अष्टाविंशतितमोऽध्यायः
पठन सेटिंग्स
ऋषय ऊचुः ।
कृतं त्रेता द्वापरं च कलिश्चेति चतुर्युगम् ।
एषां स्वभावं सूताद्य कथयस्व समासतः ।। २८.१
सूत उवाच ।
गते नारायणे कृष्णे स्वमेव परमं पदम् ।
पार्थः परमधर्मात्मा पाण्डवः शत्रुतापनः ।। २८.२
कृत्वा चेवोत्तरविधिं शोकेन महतावृतः ।
अपश्यत् पथि गच्छन्तं कृष्णद्वैपायनं मुनिम् ।। २८.३
शिष्यैः प्रशिष्यैरभितः संवृतं ब्रह्मवादिनम् ।
पपात दण्डवद् भूमौ त्यक्त्वा शोकं तदाऽर्जुनः ।। २८.४
उवाच परमप्रीतः कस्माद् देशान्महामुने ।
इदानीं गच्छसि क्षिप्रं कं वा देशं प्रति प्रभो ।। २८.५
संदर्शनाद् वै भवतः शोको मे विपुलो गतः ।
इदानीं मम यत् कार्यं ब्रूहि पद्मदलेक्षण ।। २८.६
तमुवाच महायोगी कृष्णद्वैपायनः स्वयम् ।
उपविश्य नदीतिरे शिष्यैः परिवृतो मुनिः ।। २८.७
इति श्रीकूर्मपुराणे पार्थाय व्यसदर्शनं नामाष्टाविंशोध्यायः ॥