कूर्मपुराणम्-पूर्वभागः/पञ्चमोऽध्यायः
← चतुर्थोऽध्यायः | कूर्मपुराणम्-पूर्वभागः पञ्चमोऽध्यायः वेदव्यासः |
षष्ठोऽध्यायः → |
अथ काल संख्याविवरणम्
श्रीकूर्म उवाच ।
स्वयंभुवो विवृत्तस्य कालसंख्या द्विजोत्तमाः ।
न शक्यते समाख्यातुं बहुवर्षैरपि स्वयम् ।। ५.१
कालसंख्या समासेन परार्द्धद्वयकल्पिता ।
स एव स्यात् परः कालः तदन्ते प्रतिसृज्यते ।। ५.२
निजेन तस्य मानेन चातुर्वर्षशतं स्मृतम् ।
तत् परार्द्धं तदर्द्धं वा परार्द्धमभिदीयते ।। ५.३
काष्ठा पञ्चदश ख्याता निमेषा द्विजसत्तमाः ।
काष्ठास्त्रिंशत् कला त्रिंशत् कला मौहूर्त्तिकी गतिः ।। ५.४
तावत्संख्यैरहोरात्रं मुहूर्त्तैर्मानुषं स्मृतम् ।
अहोरात्राणि तावन्ति मासः पक्षद्वयात्मकः ।। ५.५
तैः षड्भिरयनं वर्षं द्वेऽयने दक्षिणोत्तरे ।
अयनं दक्षिणं रात्रिर्देवानामुत्तरं दिनम् ।। ५.६
दिव्यैर्वर्षसहस्त्रैस्तु कृतत्रेतादिसंज्ञितम् ।
चतुर्युगं द्वादशभिः तद्विभागं निबोधत ।। ५.७
चत्वार्याहुः सहस्त्राणि वर्षाणां तत्कृतं युगम् ।
तस्य तावच्छती सन्ध्या सन्ध्यांशश्च कृतस्य तु ।। ५.८
त्रिशती द्विशती सन्ध्या तथा चैकशती क्रमात् ।
अंशकं षट्शतं तस्मात् कृसन्ध्यांशकै विना ।। ५.९
त्रिद्व्येकसाहस्त्रमितो विना सन्ध्यांशकेन तु ।
त्रेताद्वापरतिष्याणां कालज्ञाने प्रकीर्त्तितम् ।। ५.१०
एतद् द्वादशसाहस्त्रं साधिकं परिकल्पितम् ।
तदेकसप्ततिगुणं मनोरन्तरमुच्यते ।। ५.११
ब्रह्मणो दिवसे विप्रा मनवः स्युश्चतुर्द्दश ।
स्वायंभुवादयः सर्वे ततः सावर्णिकादयः ।। ५.१२
तैरियं पृथिवी सर्वा सप्तद्वीपा सपर्वता ।
पूर्णं युगसहस्त्रं वै परिपाल्या नरेश्वरैः ।। ५.१३
मन्वन्तरेण चैकेन सर्वाण्येवान्तराणि वै ।
व्याख्यातानि न संदेहः कल्पि कल्पे न चैव हि ।। ५.१४
ब्राह्ममेकमहः कल्पस्तावती रात्रिरिष्यते ।
चतुर्युगसहस्त्रं तु कल्पमाहुर्मनीषिणः ।। ५.१५
त्रीणि कल्पशतानि स्युः तथा षष्टिर्द्विजोत्तमाः ।
ब्रह्मणः कथितं वर्षं परार्द्धं तच्छतं विदुः ।। ५.१६
तस्यान्ते सर्वसत्त्वानां सहेतौ प्रकृतौ लयः ।
तेनायं प्रोच्यते सद्भिः प्राकृतः प्रतिसंचरः ।। ५.१७
ब्रह्मनारायणेशानां त्रयाणां प्रकृतौ लयः ।
प्रोच्यते कालयोगेन पुनरेव च संभवः ।। ५.१८
एवं ब्रह्मा च भूतानि वासुदेवोऽपि शंकरः ।
कालेनैव तु सृज्यन्ते स एव ग्रसते पुनः ।। ५.१९
अनादिरेष भगवान् कालोऽनन्तोऽजरोऽमरः ।
सर्वगत्वात् स्वतन्त्रत्वात् सर्वात्मत्वान्महेश्वरः ।। ५.२०
ब्रह्माणो बहवो रुद्रा ह्यन्ये नारायणादयः ।
एको हि भगवानीशः कालः कविरिति श्रुति ।। ५.२१
एकमत्र व्यतीतं तु परार्द्धं ब्रह्मणो द्विजाः ।
सांप्रतं वर्त्तते त्वर्द्धं तस्य कल्पोऽयमग्रतः ।। ५.२२
योऽतीतः सोऽन्तिमः कल्पः पाद्म इत्युच्यते बुधैः ।
वाराहो वर्त्तते कल्पः तस्य वक्ष्यामि विस्तरम् ।। ५.२३
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे पञ्चमोऽध्यायः।।५।।