कूर्मपुराणम्-पूर्वभागः/पञ्चविंशतितमोऽध्यायः

विकिस्रोतः तः
Jump to navigation Jump to search
  1. प्रथमोऽध्यायः
  2. द्वितीयोऽध्यायः
  3. तृतीयोऽध्यायः
  4. चतुर्थोऽध्यायः
  5. पञ्चमोऽध्यायः
  6. षष्ठोऽध्यायः
  7. सप्तमोऽध्यायः
  8. अष्टमोऽध्यायः
  9. नवमोऽध्यायः
  10. दशमोऽध्यायः
  11. एकादशोऽध्यायः
  12. द्वादशोऽध्यायः
  13. त्रयोदशोऽध्यायः
  14. चतुर्दशोऽध्यायः
  15. पञ्चदशोऽध्यायः
  16. षोडशोऽध्यायः
  17. सप्तदशोऽध्यायः
  18. अष्टादशोऽध्यायः
  19. एकोनविंशतितमोऽध्यायः
  20. विंशतितमोऽध्यायः
  21. एकविंशतितमोऽध्यायः
  22. द्वाविंशतितमोऽध्यायः
  23. त्रयोविंशतितमोऽध्यायः
  24. चतुर्विंशतितमोऽध्यायः
  25. पञ्चविंशतितमोऽध्यायः
  26. षड्विंशतितमोऽध्यायः
  27. सप्तविंशतितमोऽध्यायः
  28. अष्टाविंशतितमोऽध्यायः
  29. नवविंशतितमोऽध्यायः
  30. त्रिंशत्तमोऽध्यायः
  31. एकत्रिंशत्तमोऽध्यायः
  32. द्वात्रिंशत्तमोऽध्यायः
  33. त्रयस्त्रिंशत्तमोऽध्यायः
  34. चतुस्त्रिंशत्तमोऽध्यायः
  35. पञ्चत्रिंशत्तमोऽध्यायः
  36. षड्त्रिंशत्तमोऽध्यायः
  37. सप्तत्रिंशत्तमोऽध्यायः
  38. अष्टत्रिंशत्तमोऽध्यायः
  39. नवत्रिंशात्तमोऽध्यायः
  40. चत्वारिंशत्तमोऽध्यायः
  41. एकचत्वारिंशत्तमोऽध्यायः
  42. द्विचत्वारिंशत्तमोऽध्यायः
  43. त्रिचत्वारिंशत्तमोऽध्यायः
  44. चतुश्चत्वारिंशत्तमोऽध्यायः
  45. पञ्चचत्वारिंशत्तमोऽध्यायः
  46. षड्चत्वारिंशत्तमोऽध्यायः
  47. सप्तचत्वारिंशत्तमोऽध्यायः
  48. अष्टचत्वारिंशत्तमोऽध्यायः
  49. नवचत्वारिंशत्तमोऽध्यायः
  50. पञ्चाशत्तमोऽध्यायः
  51. एकपञ्चाषत्तमोऽध्यायः
  52. द्विपञ्चाषत्तमोऽध्यायः
  53. त्रिपञ्चाषत्तमोऽध्यायः

सूत उवाच
अथ देवो हृषीकेशो भगवान् पुरुषोत्तमः ।
तताप घोरं पुत्रार्थं निदानं तपसस्तपः ।। 24.1

स्वेच्छयाऽप्यवतीर्णोऽसौ कृतकृत्योऽपि विश्वधृक् ।
चचार स्वात्मनो मूलं बोधयन् भावमैश्वरम् ।। 24.2

जगाम योगिभिर्जुष्टं नानापक्षिसमाकुलम् ।
आश्रमं तूपमन्योर्वै मुनीन्द्रस्य महात्मनः ।। 24.3

पतत्त्रिराजमारूढः सुपर्णमतितेजसम् ।
शङ्खचक्रगदापाणिः श्रीवत्सकृतलक्षणः ।। 24.4

नानाद्रुमलताकीर्णं नानापुष्पोपशोभितम् ।
ऋषीणामाश्रमैर्जुष्टं वेदघोषनिनादितम् ।। 24.5

सिंहर्क्षशरभाकीर्णं शार्दूलगजसंयुतम् ।
विमलस्वादुपानीयैः सरोभिरुपशोभितम् ।। 24.6

आरामैर्विविधैर्जुष्टं देवतायतनैः शुभैः ।
ऋषिभिऋषिपुत्रैश्च महामुनिगणैस्तथा ।। 24.7

वेदाध्ययनसंपन्नैः सेवितं चाग्निहोत्रिभिः ।
योगिभिर्ध्याननिरतैर्नासाग्रन्यस्तलोचनैः ।। 24.8

उपेतं सर्वतः पुण्यं ज्ञानिभिस्तत्त्वदर्शिभिः ।
नदीभिरभितो जुष्टं जापकैर्ब्रह्मवादिभिः ।। 24.9

सेवितं तापसैः पुण्यैरीशाराधनतत्परैः ।
प्रशान्तैः सत्यसंकल्पैर्निः शोकैर्निरुपद्रवैः ।। 24.10

भस्मावदातसर्वाङ्गै रुद्रजाप्यपरायणैः ।
मुण्डितैर्जटिलैः शुद्धैस्तथान्यैश्च शिखाजटैः ।24.11

सेवितं तापसैर्नित्यं ज्ञानिभिर्ब्रह्मवादिभिः ।।
तत्राश्रमवरे रम्ये सिद्धाश्रमविभूषिते ।24.12

गङ्गा भगवती नित्यं वहत्येवाघनाशिनी ।
स तानन्विष्य विश्वात्मा तापसान् वीतकल्मषान् ।24.13

प्रणामेनाथ वचसा पूजयामास माधवः ।
ते ते दृष्ट्वा जगद्योनिं शङ्खचक्रगदाधरम् ।24.14

प्रणेमुर्भक्तिसंयुक्ता योगिनां परमं गुरुम् ।।
स्तुवन्ति वैदिकैर्मन्त्रैः कृत्वा हृदि सनातनम् ।24.15

प्रोचुरन्योन्यमव्यक्तमादिदेवं महामुनिम् ।
अयं स भगवानेकः साक्षान्नारायणः परः ।24.16

अगच्छत्यधुना देवः पुराणपुरुषः स्वयम् ।
अयमेवाव्ययः स्रष्टा संहर्त्ता चैव रक्षकः ।24.17

अमूर्त्तो मूर्तिमान् भूत्वा मुनीन् द्रष्टुमिहागतः ।
एष धाता विधाता च समागच्छति सर्वगः ।24.18

अनादिरक्षयोऽनन्तो महाभूतो महेश्वरः ।
श्रुत्वा बुध्वा हरिस्तेषां वचांसि वचनातिगः ।24.19

ययौ स तूर्णं गोविन्दः स्थानं तस्य महात्मनः।
उपस्पृश्याथ भावेन तीर्थे तीर्थे स यादवः ।24.20

चकार देवकीसूनुर्देवर्षिपितृतर्पणम् ।
नदीनां तीरसंस्थानि स्थापितानि मुनीश्वरैः ।23.21

लिङ्गानि पूजयामास शंभोरमिततेजसः ।
दृष्ट्वा दृष्ट्वा समायान्तं यत्र यत्र जनार्दनम् ।23.22

पूजयाञ्चक्रिरे पुष्पैरक्षतैस्तत्र वासिनः ।
समीक्ष्य वासुदेवं तं शार्ङ्गशङ्खासिधारिणम् ।24.23

तस्थिरे निश्चलाः सर्वे शुभाङ्गं तन्निवासिनः ।
यानि तत्रारुरुक्षूणां मानसानि जनार्दनम् ।24.24

दृष्ट्वा समीहितान्यासन् निष्क्रामन्ति पुराहिरम् ।
अथावगाह्य गङ्गायां कृत्वा देवादितर्पणम् ।24.25

आदाय पुष्पवर्याणि मुनीन्द्रस्याविशद् गृहम् ।
दृष्ट्वा तं योगिनां श्रेष्ठं भस्मोद्धूलितविग्रहम् ।24.26

जटाचीरधरं शान्तं ननाम शिरसा मुनिम् ।
आलोक्य कृष्णमायान्तं पूजयामास तत्त्ववित् ।24.27

आसने चासयामास योगिनां प्रथमातिथिम् ।
उवाच वचसां योनिं जानीमः परमं पदम् ।24.28

विष्णुमव्यक्तसंस्थानं शिष्यभावेन संस्थितम् ।
स्वागतं ते हृषीकेश सफलानि तपांसि नः ।24.29

यत् साक्षादेव विश्वात्मा मद्गेहं विष्णुरागतः ।
त्वां न पश्यन्ति मुनयो यतन्तोऽपि हि योगिनः ।24.30

तादृशस्याथ भवतः किमागमनकारणम् ।
श्रुत्वोपमन्योस्तद् वाक्यं भगवान् केशिमर्दनः ।
व्याजहार महायोगी वचनं प्रणिपत्य तम् ।।24.31

श्रीकृष्ण उवाच
भगवन् द्रष्टुमिच्छामि गिरीशं कृत्तिवाससम् ।24.32


संप्राप्तो भवतः स्थानं भगवद्दर्शनोत्सुकः ।
कथं स भगवानीशो दृश्यो योगविदां वरः ।24.33

मयाऽचिरेण कुत्राहं द्रक्ष्यामि तमुमापतिम् ।
इत्याह भगवानुक्तो दृश्यते परमेश्वरः ।24.34

भक्त्या चोग्रेण तपसा तत्कुरुष्वेह यत्नतः ।
इहेश्वरं देवदेवं मुनीन्द्रा ब्रह्मवादिनः ।24.35

ध्यायन्तः आसते देवं जापिनस्तापसाश्च ये ।
इह देवः सपत्नीको भगवान् वृषभध्वजः ।24.36

क्रीडते विविधैर्भूतैर्योगिभिः परिवारितः ।
इहाश्रमे पुरा रुद्रं तपस्तप्त्वा सुदारुणम् ।24.37

लेभे महेश्वराद् योगं वसिष्ठो भगवानृषिः ।
इहैव भगवान् व्यसः कृष्णद्वैपायनः प्रभुः ।24.38

दृष्ट्वा तं परमं ज्ञानं लब्धवान् ज्ञानमैश्वरम् ।
इहाश्रमवरे रम्ये तपस्तप्त्वा कपर्दिनः ।24.39

अविन्दत् पुत्रकान् रुद्रात् सूरयोर्भक्तिसंयुता ।
इहैव देवताः पूर्वं कालाद् भीता महेश्वरम् ।24.40

संस्तुवन्त महादेवं निर्भया निर्वृतिं ययुः ।।
इहाराध्य महादेवं सावर्णिस्तपतां वरः ।24.41

लब्धवान् परमं योगं ग्रन्थकारत्वमुत्तमम् ।
प्रवर्तयामास शुभां कृत्वा वै संहितां द्विजः ।24.42

(इहैव संहितां दृष्ट्वा कामो यः। शशिपायिनः।
महादेवं चकारेमां पौराणीं तन्नियोगतः ।
द्वादशैव सहस्त्राणि श्लोकानां पुरुषोत्तम ।।
इह प्रवर्तिता पुण्या द्व्यष्टसाहस्रिकोत्तरा ।
वायवीयोत्तरं नाम पुराणं वेदसंमितम् ।)

द्विजः पौराणिकीं पुण्यां प्रसादेन द्विजोत्तमैः
इहैव ख्यापितं शिष्यैः शांशपायनभाषितम् ।। 24.43

याज्ञवल्क्यो महायोगी दृष्ट्वाऽत्र तपसा हरम् ।
चकार तन्नियोगेन योगशास्त्रमनुत्तमम् ।। 24.44

इहैव भृगुणा पूर्वं तप्त्वा वै परमं तपः ।
शुक्रो महेश्वरात् पुत्रो लब्धो योगविदां वरः ।। 24.45

तस्मादिहैव देवेशं तपस्तप्त्वा महेश्वरम् ।
द्रष्टुमर्हसि विश्वेशमुग्रं भीमं कपर्दिनम् ।। 24.46

एवमुक्त्वा ददौ ज्ञानमुपमन्युर्महामुनिः ।
व्रतं पाशुपतं योगं कृष्णायाक्लिष्टकर्मणे ।। 24.47

स तेन मुनिवर्येण व्याहृतो मधुसूदनः ।
तत्रैव तपसा देवं रुद्रमाराधयत् प्रभुः ।। 24.48

भस्मौद्धूलितसर्वाङ्गो मुण्डो वल्कलसंयुतः ।
जजाप रुद्रमनिशं शिवैकाहितमानसः ।। 24.49

ततो बहुतिथे काले सोमः सोमार्धभूषणः ।
अदृश्यत महादेवो व्योम्नि देव्या महेश्वरः ।। 24.50

किरीटिनं गदिनं चित्रमालं
पिनाकिनं शूलिनं देवदेवम् ।
शार्दूलचर्माम्बरसंवृताङ्गं
देव्या महादेवमसौ ददर्श ।। 24.51

प्रभुं पुराणं पुरुषं पुरुस्तात्।
सनातनं योगिनमीशतारम्।।
अणोरणीयांसमनन्तशक्तिं
प्राणेश्वरं शम्भमसौ ददर्श।।24.52

परश्वधासक्तकरं त्रिनेत्रं.
नृसिंहचर्मावृतभस्मगात्रम् ।।
समुद्गिरन्तं प्रणवं बृहन्तं।
सहस्त्रसूर्यप्रतिमं ददर्श ।। 24.53

न यस्य देवा न पितामहोऽपि
नेन्द्रो न चाग्निर्वरुणो न मृत्युः ।
प्रभावमद्यापि वदन्ति रुद्रं
तमादिदेवं पुरतो ददर्श ।। 24.54

तदान्वपश्यद् गिरिशस्य वामे
स्वात्मानमव्यक्तमनन्तरूपम् ।
स्तुवन्तमीशं बहुभिर्वचोभिः
शङ्खासिचक्रार्पितहस्तमाद्यम् ।। 24.55

कृताञ्जलिं दक्षिणतः सुरेशं
हंसाधिरूढं पुरुषं ददर्श ।
स्तुवानमीशस्य परं प्रभावं
पितामहं लोकगुरुं दिवस्थम् ।। 24.56

गणेश्वरानर्कसहस्त्रकल्पान्
नन्दीश्वरादीनमितप्रभावान् ।
त्रिलोकभर्त्तुः पुरतोऽन्वपश्यत्
कुमारमग्निप्रतिमं विशाखम् ।। 24.57

मरीचिमत्रिं पुलहं पुलस्त्यं
प्रचेतसं दक्षमथापि कण्वम् ।
पराशरं तत्परतो वसिष्ठं
स्वायंभुवं चापि मनुं ददर्श ।। 24.58

तुष्टाव मन्त्रैरमरप्रधानं
बद्धाञ्जलिर्विष्णुरुदारबुद्धिः ।
प्रणम्य देव्या गिरिशं सभक्त्या
स्वात्मन्यथात्मानमसौ विचिन्त्य ।। 24.59

श्रीकृष्ण उवाच
नमोऽस्तु ते शाश्वत सर्वयोने
ब्रह्माधिपं त्वामृषयो वदन्ति ।
तपश्च सत्त्वं च रजस्तमश्च
त्वामेव सर्व प्रवदन्ति सन्तः ।। 24.60

त्वं ब्रह्मा हरिरथ विश्वयोनिरग्निः
संहर्त्ता दिनकरमण्डलाधिवासः ।
प्राणस्त्वं हुतवहवासवादिभेद-
सत्वामेकं शरणमुपैमि देवमीशम् ।। 24.61

सांख्यास्त्वां अगुणमथाहुरेकरूपं
योगास्थं सततमुपासते हृदिस्थम् ।
वेदास्त्वामभिदधतीह रुद्रमग्निं
त्वामेकं शरणमुपैमि देवमीशम् ।। 24.62

त्वात्पादे कुसुममथापि पत्रमेकं
दत्त्वासौ भवति विमुक्तविश्वबन्धः ।
सर्वांध्यं प्रणुदति सिद्धयोगिजुष्टं
स्मृत्वा ते पदयुगलं भवत्प्रसादात् ।। 24.63

यस्याशेषविभागहीनममलं हृद्यन्तरावस्थितं ते
तत्त्वं योनिमनन्तमेकमचलं सत्यं परं सर्वगम् ।24.64

स्थानं प्राहुरनादिमध्यनिधनं यस्मादिदं जायते
नित्यं त्वामहमुपैमि सत्यविभवंविश्वेश्वरंतंशिवम् ।। 24.65

ॐ नमो नीलकण्ठाय त्रिनेत्राय च रंहसे ।
महादेवाय ते नित्यमीशानाय नमो नमः ।। 24.66

नमः पिनाकिने तुभ्यं नमो मुण्डाय दण्डिने ।
नमस्ते वज्रहस्ताय दिग्वस्त्राय कपर्दिने ।। 24.67

नमो भैरवनादाय कालरूपाय दंष्ट्रिणे ।
नागयज्ञोपवीताय नमस्ते वह्निरेतसे ।। 24.68

नमोऽस्तु ते गिरीशाय स्वाहाकाराय ते नमः ।
नमो मुक्ताट्टहासाय भीमाय च नमो नमः ।। 24.69

नमस्ते कामनाशाय नमः कालप्रमाथिने ।
नमो भैरववेषाय हराय च निषङ्गिणे ।। 24.70

नमोऽस्तु ते त्र्यम्बकाय नमस्ते कृत्तिवाससे ।
नमोऽम्बिकाधिपतये पशूनां पतये नमः ।। 24.71

नमस्ते व्योमरूपाय व्योमाधिपतये नमः ।
नरनारीशरीराय सांख्ययोगप्रवर्त्तिने ।। 24.72

नमो भैरवनाथाय देवानुगतलिङ्गिने ।
कुमारगुरवे तुभ्यं देवदेवाय ते नमः ।। 24.73

तमो यज्ञाधिपतये नमस्ते ब्रह्मचारिणे ।
मृगव्याधाय महते ब्रह्माधिपतये नमः ।। 24.74

नमो हंसाय विश्वाय मोहनाय नमो नमः ।
योगिने योगगम्याय योगमायाय ते नमः ।। 24.75

नमस्ते प्राणपालाय घण्टानादप्रियाय च ।
कपालिने नमस्तुभ्यं ज्योतिषां पतये नमः ।। 24.76

नमो नमो नमस्तुभ्यं भूय एव नमो नमः ।
मह्यं सर्वात्मना कामान् प्रयच्छ परमेश्वर ।। 24.77
सूत उवाच
एवं हि भक्त्या देवेशमभिष्टूय स माधवः ।
पपात पादयोर्विप्रा देवदेव्योः स दण्डवत् ।। 24.78

उत्थाप्य भगवान् सोमः कृष्णं केशिनिषूदनम् ।
बभाषे मधुरं वाक्यं मेघगम्भीरनिः स्वनः ।। 24.79

किमर्थं पुण्डरीकाक्ष तपस्तप्तं त्वयाऽव्यय ।
त्वमेव दाता सर्वेषां कामानां कामिनामिह ।। 24.80

त्वं हि सा परमा मूर्तिर्मम नारायणाह्वया ।
नानवाप्तं त्वया तात विद्यते पुरुषोत्तम ।। 24.81

वेत्थ नारायणानन्तमात्मानं परमेश्वरम् ।
महादेवं महायोगं स्वेन योगेन केशव ।। 24.82

श्रुत्वा तद्वचनं कृष्णः प्रहसन् वै वृषध्वजम् ।
उवाचान्वीक्ष्य विश्वेशं देवीं च हिमशैलजाम् ।। 24.83

ज्ञातं हि भवता सर्वं स्वेन योगेन शंकर ।
इच्छाम्यात्मसमं पुत्रं त्वद्भक्तं देहि शंकर ।। 24.84

तथास्त्वित्याह विश्वात्मा प्रहृष्टमनसा हरः ।
देवीमालोक्य गिरिजां केशवं परिषस्वजे ।। 24.85

ततः सा जगतां माता शंकरार्द्धशरीरिणी ।
व्याजहार हृषीकेशं देवी हिमगिरीन्द्रजा ।। 24.86

वत्स जाने तवानन्ता निश्चलां सर्वदाच्युत ।
अनन्यामीश्वरे भक्तिमात्मन्यपि च केशव ।। 24.87

त्वं हि नारायणः साक्षात् सर्वात्मा पुरुषोत्तमः ।
प्रार्थितो दैवतैः पूर्वं संजातो दैवकीसुतः ।। 24.88

पश्य त्वमात्मनात्मानमात्मीयममलं पदम् ।
नावयोर्विद्यते भेद एकं पश्यन्ति सूरयः ।। 24.89

इमानिह वरानिष्टान् मत्तो गृह्णीष्व केशव ।
सर्वज्ञत्वं तथैश्वर्यं ज्ञानं तत् पारमेश्वरम् ।24.90

ईश्वरे निश्चलां भक्तिमात्मन्यपि परं बलम् ।
एवमुक्तस्तया कृष्णो महादेव्या जनार्दनः ।24.91

आशिषं शिरसागृह्य देवोऽप्याह महेश्वरः ।
प्रगृह्य कृष्णं भगवानथेशः
करेण देव्या सह देवदेवः ।
संपूज्यमानो मुनिभिः सुरेशै-
र्जगाम कैलासगिरिं गिरीशः ।। 24.92

इति श्रीकूर्मपूराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे पञ्चविंशोऽध्यायः ।। 24 ।।