कूर्मपुराणम्-पूर्वभागः/षड्त्रिंशत्तमोऽध्यायः

विकिस्रोतः तः
Jump to navigation Jump to search
  1. प्रथमोऽध्यायः
  2. द्वितीयोऽध्यायः
  3. तृतीयोऽध्यायः
  4. चतुर्थोऽध्यायः
  5. पञ्चमोऽध्यायः
  6. षष्ठोऽध्यायः
  7. सप्तमोऽध्यायः
  8. अष्टमोऽध्यायः
  9. नवमोऽध्यायः
  10. दशमोऽध्यायः
  11. एकादशोऽध्यायः
  12. द्वादशोऽध्यायः
  13. त्रयोदशोऽध्यायः
  14. चतुर्दशोऽध्यायः
  15. पञ्चदशोऽध्यायः
  16. षोडशोऽध्यायः
  17. सप्तदशोऽध्यायः
  18. अष्टादशोऽध्यायः
  19. एकोनविंशतितमोऽध्यायः
  20. विंशतितमोऽध्यायः
  21. एकविंशतितमोऽध्यायः
  22. द्वाविंशतितमोऽध्यायः
  23. त्रयोविंशतितमोऽध्यायः
  24. चतुर्विंशतितमोऽध्यायः
  25. पञ्चविंशतितमोऽध्यायः
  26. षड्विंशतितमोऽध्यायः
  27. सप्तविंशतितमोऽध्यायः
  28. अष्टाविंशतितमोऽध्यायः
  29. नवविंशतितमोऽध्यायः
  30. त्रिंशत्तमोऽध्यायः
  31. एकत्रिंशत्तमोऽध्यायः
  32. द्वात्रिंशत्तमोऽध्यायः
  33. त्रयस्त्रिंशत्तमोऽध्यायः
  34. चतुस्त्रिंशत्तमोऽध्यायः
  35. पञ्चत्रिंशत्तमोऽध्यायः
  36. षड्त्रिंशत्तमोऽध्यायः
  37. सप्तत्रिंशत्तमोऽध्यायः
  38. अष्टत्रिंशत्तमोऽध्यायः
  39. नवत्रिंशात्तमोऽध्यायः
  40. चत्वारिंशत्तमोऽध्यायः
  41. एकचत्वारिंशत्तमोऽध्यायः
  42. द्विचत्वारिंशत्तमोऽध्यायः
  43. त्रिचत्वारिंशत्तमोऽध्यायः
  44. चतुश्चत्वारिंशत्तमोऽध्यायः
  45. पञ्चचत्वारिंशत्तमोऽध्यायः
  46. षड्चत्वारिंशत्तमोऽध्यायः
  47. सप्तचत्वारिंशत्तमोऽध्यायः
  48. अष्टचत्वारिंशत्तमोऽध्यायः
  49. नवचत्वारिंशत्तमोऽध्यायः
  50. पञ्चाशत्तमोऽध्यायः
  51. एकपञ्चाषत्तमोऽध्यायः
  52. द्विपञ्चाषत्तमोऽध्यायः
  53. त्रिपञ्चाषत्तमोऽध्यायः

ऋषय ऊचुः ।
माहात्म्यमविमुक्तस्य यथावत् तदुदीरितम् ।
इदानीं तु प्रयागस्य माहात्म्यं ब्रूहि सुव्रत ।। ३६.१

यानि तीर्थानि तत्रैव विश्रुतानि महान्ति वै ।
इदानीं कथयास्माकं सूत सर्वार्थविद् भवान् ।। ३६.२

सूत उवाच ।
श्रृणुध्वमृषयः सर्वे विस्तरेण ब्रवीमि वः ।
प्रयागस्य च माहात्म्यं यत्र देवः पितामहः ।। ३६.३

मार्कण्डेयेन कथितं कौन्तेयाय महात्मने ।
यथा युधिष्ठिरायैतत् तद्वक्ष्ये भवतामहम् ।। ३६.४

निहत्य कौरवान् सर्वान् भ्रातृभिः सह पार्थिवः ।
शोकेन महाताविष्टा मुमोह स युधिष्ठिरः ।। ३६.५

अचिरेणाथ कालेन मार्कण्डेयो महातपाः ।
संप्राप्तो हास्तिनपुरं राजद्वारे स तिष्ठति ।। ३६.६

द्वारपालोऽपि तं दृष्ट्वा राज्ञः कथितवान् द्रुतम् ।
मार्कण्डेयो द्रष्टुमिच्छंस्त्वामास्ते द्वार्यसौ मुनिः ।। ३६.७

त्वरितो धर्मपुत्रस्तु द्वारमेत्याह तत्परम् ।
द्वारमभ्यागतस्येह स्वागतं ते महामुने ।। ३६.८

अद्य मे सफलं जन्म अद्य मे तारितं कुलम् ।
अद्य मे पितरस्तुष्टास्त्वयि तुष्टे महामुने ।। ३६.९

सिंहासनमुपस्थाप्य पादशौचार्चनादिभिः ।
युधिष्ठिरो महात्मेति पूजयामास तं मुनिम् ।। ३४.१०

मार्कण्डेयस्ततस्तुष्टः प्रोवाच स युधिष्ठिरम् ।
किमर्थं मुह्यसे विद्वन् सर्वं ज्ञात्वाऽहमागतः ।। ३४.११

ततो युधिष्ठिरो राजा प्रणम्याह महामुनिम् ।
कथय त्वं समासेन येन मुच्येत किल्बिषैः ।। ३४.१२
निहता वहवो युद्धे पुंसो निरपराधिनः ।
अस्माभिः कौरवैः सार्द्धं प्रसङ्गान्मुनिपुंगव ।। ३४.१३

येन हिंसासमुद्‌भूताज्जन्मान्तरकृतादपि ।
मुच्यते पातकादस्मात् तद् भवान् वक्तुमर्हति ।। ३४.१४

मार्कण्डेय उवाच ।
श्रृणु राजन् महाभाग यन्मां पृच्छसि भारत् ।
प्रयागगमनं श्रेष्ठं नराणां पापनाशनम् ।। ३४.१५

तत्र देवो महादेवो रुद्रो रुद्रोवात्सीन्नरेश्वर ।
समास्ते भगवान् ब्रह्मा स्वयंभूरपि दैवतैः ।। ३४.१६

युधिष्ठिर उवाच ।
भगवञ्च्छ्रोतुमिच्छामि प्रयागगमने फलम् ।
मृतानां का गतिस्तत्र स्नातानामपि किं फलम् ।। ३४.१७

ये वसन्ति प्रयागे तु ब्रूहि तेषां तु किं फलम् ।
भवता विदितं ह्येतत् तन्मे ब्रूहि नमोऽस्तु ते ।। ३४.१८

मार्कण्डेय उवाच ।
कथयिष्यामि ते वत्स या चेष्टा यच्च तत्फलम् ।
पुरा महर्षिभिः सम्यक् कथ्यमानं मया श्रुतम् ।। ३४.१९

एतत् प्रजापतेः क्षेत्रं त्रिषु लोकेषु विश्रुतम् ।
अत्र स्नात्वा दिवं यान्ति ये मृतास्तेऽपुनर्भवाः ।। ३४.२०

तत्र ब्रह्मादयो देवा रक्षां कुर्वन्ति संगताः ।
बहून्यन्यानि तीर्थानि सर्वपापापहानि तु ।। ३४.२१

कथितुं नेह शक्नोमि बहुवर्षशतैरपि ।
संक्षेपेण प्रवक्ष्यामि प्रयागस्येह कीर्तनम् ।। ३४.२२

षष्टिर्धनुः सहस्राणि यानि रक्षन्ति जाह्नवीम् ।
यमुनां रक्षति सदा सविता सप्तवाहनः ।। ३४.२३

प्रयागे तु विशेषेण स्वयं वसति वासवः ।
मण्डलं रक्षति हरिः सर्वदेवैश्च सम्मितम् ।। ३४.२४

न्यग्रोधं रक्षते नित्यं शूलपाणिर्महेश्वरः ।
स्थानं रक्षन्ति वै देवाः सर्वपापहरं शुभम् ।। ३४.२५

स्वकर्मणावृतो लोको नैव गच्छति तत्पदम् ।
स्वल्पं स्वल्पतरं पापं यदा तस्य नराधिप ।३६.२६

प्रयागं स्मरमाणस्य सर्वमायाति संक्षयम् ।।
दर्शनात् तस्य तीर्थस्य नाम संकीर्तनादपि ।३६.२७

मृत्तिकालम्भनाद् वापि नरः पापात् प्रमुच्यते ।।
पञ्च कुण्डानि राजेन्द्र येषां मध्ये तु जाह्नवी ।३६.२८

प्रयागं विशतः पुंसः पापं नश्यति तत्क्षणात् ।
योजनानां सहस्रेषु गङ्‌गां यः स्मरते नरः ।३६.२९

अपि दुष्कृतकर्माऽसौ लभते परमां गतिम् ।
कीर्त्तनान्मुच्यते पापाद् दृष्ट्वा भद्राणि पश्यति ।३६.३०

तथोपस्पृश्य राजेन्द्र स्वर्गलोके महीयते ।
व्याधितो यदि वा दीनः क्रूद्धो वाऽपि भवेन्नरः ।३६.३१

पितॄणां तारकञ्चैव सर्वपापप्रणाशनम्।
यैः प्रयागे कृतो वासः उत्तीर्णो भवसागरः।।३६.३२

गङ्‌गायमुनमासाद्य त्यजेत् प्राणान् प्रयत्नतः ।
ईप्सिताँल्लभते कामान्वदन्ति मुनिपुङ्गवाः.।३६.३३

दीप्तकाञ्चनवर्णाभैर्विमानैर्भानुवर्णिभिः ।
सर्वरत्नमयैर्दिव्यैर्नानाध्वजसमाकुलैः ।३६.३४

वराङ्गनासमाकीर्णैर्मोदते शुभलक्षणः ।
गीतवादित्रनिर्घोषैः प्रसुप्तः प्रतिबुध्यते ।३६.३५

यावन्न स्मरते जन्म तापत् स्वर्गे महीयते ।
तस्मात् स्वर्गात् परिभ्रष्टः क्षीणकर्मा नरोत्तम ।३६.३६
हिरण्यरत्नसंपूर्णे समृद्धे जायते कुले ।
तदेव स्मरते तीर्थं स्मरणात् तत्र गच्छति ।३६.३७

देश वा यदि वाऽरण्ये विदेशे यदि वा गृहे ।
प्रयागं स्मरमाणस्तु यस्तु प्राणान् परित्यजेत् ।३६.३८

ब्रह्मलोकमवाप्नोति वदन्ति मुनिपुंगवाः ।
सर्वकामफला वृक्षा मही यत्र हिरण्मयी ।३६.३९

ऋषयो मुनयः सिद्धास्तत्र लोके स गच्छति ।
स्त्रीसहस्राकुले रम्ये मन्दाकिन्यास्तटे शुभे ।३६.४०

मोदते मुनिभिः सार्द्धं स्वकृतेनेह कर्मणा ।
सिद्धचारणगन्धर्वैः पूज्यते दिवि दैवतैः ।३६.४१

ततः स्वर्गात् परिभ्रष्टो जम्बुद्वीपपतिर्भवेत् ।
ततः शुभानि कर्माणि चिन्तयानः पुनः पुनः ।३६.४२

गुणवान् वृत्तसंपन्नो भवतीह न संशयः ।
कर्मणा मनसा वाचा सत्यधर्मप्रतिष्ठितः ।। ३६.४३

गङ्‌गायमुनयोर्मध्ये यस्तु ग्रामं प्रतीच्छति ।
सुवर्णमथ मुक्तां वा तथैवान्यत् प्रतिग्रहम् ।। ३६.४४

स्वकार्ये पितृकार्ये वा देवताभ्यर्चनेऽपि वा ।
निष्फलं तस्य तत् तीर्थं यावत् तत्फलमश्नुते ।। ३६.४५

अतस्तीर्थे न गृह्णीयात् पुण्येष्वायतनेषु च ।
निमित्तेषु च सर्वेषु अप्रमत्तो द्विजो भवेत् ।। ३६.४६

कपिलां पाटलां धेनुं यस्तु कृष्णां प्रयच्छति ।
स्वर्णश्रृङ्‌गीं रौप्यखुरां चैलकर्णीं पयस्विनीम् ।। ३६.४७

तस्य यावन्ति लोमानि सन्ति गात्रेषु सत्तम ।
तावद् वर्षसहस्त्राणि रुद्रलोके महीयते ।। ३६.४८

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायां पूर्वविभागे षट्त्रिंशोऽध्यायः ।।