सदस्यः:Soorya Hebbar/प्रयोगपृष्ठम्/कुमारसम्भवम्

विकिस्रोतः तः
कुमारसम्भवम् (सञ्जीविनीव्याख्यासमेतम्)
कालिदासः
१९५५

THE
KUMĀRA-SAMBHAVA
OF
KĀLIDĀSA
With the Commentaries from 1 to 8 Sargas the Sanjivinī
of Mallinātha, from 8-17 Sargas the Sanjivini of
Sitārāma Kavi, the Mahasivapurana Sandarbha,
various readings, critical notes, index etc, etc.
FOURTEENTH EDITION
RE-EDITED
WITH VARIOUS READINGS, NOTES, THE SANDARBHA ETC., BY
NARAYANA RAMA ACHARYA,
"KAVYATIRTHA"
1955
NIRNAYA SAGAR PRESS
BOMBAY 2

[Copy Right Reserved]
Printer & Publisher:-Laxınibai Narayan Chowdhari.
For the Nirnaya Sagar Press, 26/28 Kolbbat Street,
BOMBAY 2

महाकविश्रीकालिदासविरचितं

कु मा र सं भ व म्

(प्रथमतोऽष्टमसर्गावधि)
मल्लिनाथकृतसञ्जीविनीटीकया,

(अष्टमसर्गतः सप्तदशसर्गावधि)
सीतारामकृतसञ्जीविनीटीकया,

कुमारसंभव - महाशिवपुराणसाम्यनिदर्शकसन्दर्भेण
पाठान्तरादिभिश्च समलङ्कृतम्

*

तस्येदम्

चतुर्दशं संस्करणम्

श्रीमदिन्दिराकान्ततीर्थचरणान्तेवासिभिः

नारायण राम आचार्य “काव्यतीर्थ"

इत्येतैः पाठान्तर-टिप्पण-सन्दर्भादिभिः समलङ्कृत्य संशोधितम्


शकाब्दाः १८७७ : सनाब्दाः १९५५


नि र्ण य सा ग र - मु द्र णा ल य म् , मुंबई २

प्रिन्टर - पब्लिशरः-
लक्ष्मीबाई नारायण चौधरी,
निर्णयसागर प्रेम, २६१२८ कोलभाट स्ट्रीट,
मुंबई २

कुमारसम्भव महाशिवपुराणयोः

साम्यनिदर्शक: संदर्भ: While preparing the Mss. of this ertition all of a sudden it dawned upon tne that soine of the lines and a fow passages in the work were rominiscent of Mahisruarians With this cue I exp- Horod the M.S.P., and to my surprise I discoveral quite a namaber of lines and passages inlentical with Kamirmssnebluesenrs proving | without doubt that af least one of the two authors had the other's work as his basis. Hore I lay down, for those intorested, the result of my humble research. कुमारसंभवम् अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः | पूर्वापरौ तोय निधी वगाह्य स्थितः पृथिव्या इव मानदण्डः | यश्चाप्सरोविभ्रममण्डनानां संपादयित्रीं शिखरैर्बिभर्ति । N. R. Acharya महाशिवपुराणम् (पार्वतीखण्डम् ) नारद उवाच- ब्रह्मन्विधे महाप्राज्ञ ! वद मे वदतां वर! | मेनकायाः समुत्पत्ति विवाहुं चरितं तथा । ब्रह्मोवाच- गुण त्वं नारद मुने ! पार्वतीमातुद्भवम् । विवाहं चरितं चैत्र पावनं भक्तिवर्धनम् । अस्त्युत्तरस्यां दिशि वै गिरीशो हिमवान्महान् | पर्वतो हि मुनिश्रेट ! महातेजाः समृद्धिमा | प्यं तस्य विख्यातं जङ्गमस्थिरभेदतः । वर्णयामि समासेन तस्य सूक्ष्मस्वरूपकम् | पूर्वापरौ तोयनिधी सुविगाद्य स्थितो हि यः | wwwww www.m नानारत्नाकरी रम्यो मानदण्ड इव क्षितेः । नानावृक्षसमाकीर्णो नानाशृङ्गसुचित्रितः । सिंहव्याघ्रादिपशुभिः सेवितः सुखिभिः सदा | २ कुमारसंभव - महा शिवपुराणयोः बलाहकच्छेद विभक्तरागा- मकालसन्ध्यामिव धातुमत्ताम् । पदं तुषारस्रुतिधौतरक्तं यस्मिन्नवापि हतद्विपानाम् । विदन्ति मार्ग नखरन्ध्र मुक्तै- र्मुक्ताफलैः केसरिणां किराताः । स मानसीं मेरुसखः पितॄणां कन्यां कुलस्य स्थितये स्थितिज्ञः मेनां मुनीनामपि माननीया- मात्मानुरूपां विधिनोपयेमे । कालक्रमेणाथ तयोः प्रवृत्ते स्वरूपयोग्ये सुरतप्रसङ्गे । मनोरमं यौवनमुहुन्त्या गर्भोऽभवद्भूधर राजपढ्याः । असूत सा नागवधूपभोग्यं मैना कमम्भोनिधिबद्ध सख्यम् । क्रुद्धेऽपि पक्षच्छिदि वृत्रशत्रा- ववेदनाज्ञं कुलिशक्षतानाम् । प्रथावमानेन पितुः प्रमुक्ता दक्षस्य कन्या भवपूर्वपत्रो । सती सतीयोग विसृष्टदेहा तां जन्मने शैलवधूं प्रपेदे । सा भूधराणामधिपेन तस्यां समाधिमत्यामुदपादि भव्या । तुषारनिधिरत्युग्रो नानाचर्यविचित्रितः । देवर्षिसिद्धमुनिभिः संश्रितः शिवसंप्रियः । तपःस्थानोऽतिपूतात्मा पावनश्च महात्मनाम् | तपः सिद्धिप्रदोऽत्यंतं नानाधात्वाकरः शुभः । स एव दिव्यरूपो हि रम्यः सर्वाङ्गसुन्दरः | विष्ण्वंशोऽविकृतः शैलराजराजसताम्प्रियः । कुलस्थित्यै च स गिरिर्धर्मवर्धनहेतवे । m m । स्वविवाहूंं कर्तुमैच्छत्पितृ देवहितेच्छया । स्मृत्वा शापं सुतानां च प्रोचुरोमिति तद्वचः । ददुर्मेनां सुविधिना हिंमागाय निजात्मजाम् | समुत्सवो महानासीत्तद्विवाहे सुमङ्गले । कालकमेणाऽथ तयोः प्रवृत्ते सुरते मुने ! ।। गर्भो बभूव मेनाया वधे प्रत्यहं च सः । अमृत सा नागवधूपभोग्यं सुतमुत्तमम् । wwwm समुद्रबद्धसत्सख्यं मैनाकाभियमद्भुतम् । शत्रावपि क्रुद्धेऽवेदनाज्ञं सपक्षकम् । पविक्षतानां देवर्षे ! पक्षच्छदि वरांगकम् | ब्रह्मोवाच -- अथ संस्मरतुर्भक्त्या दम्पती तो भवाम्बिकाम् | प्रसृत हेतवे तत्र देवकार्यार्थमादरात् । Anna ततः सा चण्डिका योगात्त्यक्तदेहा पुरा पितुः । ईहया भवितुं भूयः समैच्छद्भिरिदारतः | ततो गिरिः स्वप्रियायां परिपूर्ण शिवांशकम् । ww समाधिमत्त्वात्समये समधत्त सुशङ्करे । सम्यक्प्रयोगादपरिक्षतायां नीताविवोत्साहगुणेन संपत् । प्रसन्नदक्पांसुविविक्तवातं शङ्खस्वनानन्तरपुष्पवृष्टि शरीरिणां स्थावरजंग मानां सुखाय तज्जन्मदिनं बभूव । साम्यनिदर्शक: संदर्भ: तया दुहित्रा सुतरां सवित्री स्फुरप्रभामण्डलया चकासे । विदूरभूमिर्नवमेघशब्दा- दुद्धिमया रत्नशलाकयेव । दिने दिने सा परिवर्धमाना लब्धोदया चान्द्रमसीव लेखा । पुपोष लावण्यमयान्विशेषा- ज्योत्स्त्रान्तराणीव कलान्तराणि । तां पार्वतीत्याभिजनेन नाना बन्धुप्रियां बन्धुजनो जुहाव । उमेति मात्रा तपसो निषिद्धा पश्चादुमाख्यां सुमुखी जगाम । महीभृतः पुत्रवतोऽपि दृष्टि- स्तस्मिन्नपत्ये न जगाम तृप्तिम् । समधत्त गिरेः पत्नी गर्भ देव्याः प्रसादतः । चित्ते स्थितायाः करुणाकरायाः सुखदं गिरेः । तदा सुसमयश्चासीच्छान्तभग्रहतारकः । नभः प्रसन्नतां यातं प्रकाशः सर्वदिक्षु हि । मही मंगलभूयिष्ठा सवनग्रामसागरा । सरः स्रवन्तीवापीषु पुफुल्लुः पङ्कजानि वे । ववुच विविधा वाताः सुखस्पर्शा मुनीश्वर ! | मुमुदुः साधवः सर्वेऽसतां दुःखमभूद्रुतम् । अर्धरात्रे समुत्पन्ना गंगेव शशिमण्डलम् | समये तत्स्वरूपेण मेनका जठराच्छिवा । समुद्भूय समुत्पन्ना सा लक्ष्मीरिव सागरात् । अनुकूलो ववाँ वायुर्गम्भीरो गंधयुक् शुभः । निशीथदीपा विहतत्विष आसन्नरं मुने ! | श्रुत्वा तद्रोदनं रम्यं गृहस्थाः सर्वयोषितः । जहृषुः सम्भ्रमात्तत्रागताः प्रीतिपुरःसराः । तच्छुद्धान्तचरः शीघ्रं शशंस भूभृते तदा । पार्वतीजन्म सुखदं देवकार्यकरं शुभम् । तत्र सा वधे देवी गिरिराजगृहे शिवा | गंगेव वर्षासमये शरदीवाथ चंद्रिका | एवं सा कालिका देवी चार्वंगी चारुदर्शना । द चानुदिनं रम्यां चंद्रबिम्बकलामिव । कुलोचितेन नाम्ना तां पार्वतीयाजुहाव ह । बन्धुप्रियां बन्धुजनः सौशील्यगुणसंयुताम् । उमेति मात्रा तपसो निषिद्धा कालिका च सा । पश्चादुमाख्यां सुमुखी जगाम भुवने मुने ! | दृष्टिः पुत्रवतोऽप्यद्वेस्तस्मिंस्तृप्ति जगाम न । ४ कुमारसंभव - महाशिवपुराणयोः अनन्तपुष्पस्य मधोर्हि चूते द्विरेफमाला सविशेषसङ्गा । प्रभामहत्या शिखयेव दीप- स्त्रिमार्गयेव त्रिदिवस्य मार्गः । संस्कारवत्येव गिरा मनीपी तया स पूतश्च विभूषितश्च । मन्दाकिनी सैकतवेदिकाभिः सा कन्दुकैः कृत्रिमपुत्रकैश्च । रेमे मुहुर्मध्यगता सखीनां क्रीडारसं निर्विशनीव बाल्ये । तां हंसमालाः शरदीव गङ्गा महौषधिं नक्तमिवात्मभासः । स्थिरोपदेशामुपदेशका प्रपेदिरे प्राक्तनजन्मविद्याः । मध्येन सा वैदिविलग्नमध्या वलित्रयं चारु बभार बाला । आरोहणार्थं नवयौवनेन कामस्य सोपानमिव प्रयुक्तम् । अन्योन्यमुत्पीडयदुत्पलाक्ष्याः स्तनद्वयं पाण्डु तथा प्रवृद्धम् । मध्ये यथा श्याममुखस्य तस्य मृणालसूत्रान्तरमप्यलभ्यम् । अपत्ये पार्वतीत्याख्ये सर्वसौभाग्यसंयुते । मधोरनन्तपुष्पस्य चूते हि श्रमरावलिः | विशेषसंगा भवति सहकारे मुनीश्वरः । प्रभामहत्या शिखयेव दीपो भवनस्य च । त्रिमार्गव सन्मार्गस्तद्रगिरिजया गिरिः । पूतो विभूषितश्चापि स बभूव तया गिरिः । संस्कारवत्यैव गिरा मनीषीव हिमालयः | गंगा सैकतवेदीभिर्बाल्ये रेमे मुहुर्मुहुः । कन्दुकैः कृत्रिमैः पुत्रैः सखीमध्यगता च सा | www wwwwwwwww अथ देवी शिवा सा चोपदेशसमये मुने ! | पपाठ विद्याः सुप्रीत्या यतचित्ता च सद्गुरोः । प्राक्तना जन्मविद्यास्तां शरदीव प्रपेदिरे | हंसालिः स्वर्णदीनक्तमात्मभासो महौषधिम् । वित क्षीणमध्यां च त्रिवलीमध्यराजिताम् | स्थलपद्मप्रतीकाशपादयुग्मवराजिताम् । मृणालायतपर्यन्तवाहुयुग्ममनोहराम् । राजीव कुड्मलप्रख्यौ घनपीनौ दृढस्तनौ । ब्रह्मोवाच- एकदा त्वं शिवज्ञानी शिवलीलाविदां वरः । wwww हिमाचलगृहं प्रीत्याऽगमस्त्वं शिवप्रेरितः । साम्यनिदर्शक: संदर्भः दृष्ट्वा मुने ! गिरीशस्त्वां नत्वानर्च स नारदः । आहूय च स्वतनयां त्वदङ्मयोस्तामपातयत् । पुनर्नत्वा मुनीश ! त्वामुवाच हिमभूधरः | हिमालय उवाच- हे मुने ! नारद ! ज्ञानिन्ब्रह्मपुत्रवर प्रभो ! | मत्सुताजातकं ब्रूहि गुणदोषसमुद्भवम् । कस्य प्रिया भाग्यवती भविष्यति सुता मम ? | ब्रह्मोवाच- इत्युक्तो मुनिवर्य ! गिरीशेन हिमाद्रिणा । विलोक्य कालिकाहस्तं सर्वाङ्गं च विशेषतः । अवोचस्त्वं गिरं तात! कौतुकी वाग्विशारदः | ज्ञानी विदितवृत्तान्तो नारदः प्रीतमानसः | नारद उवाच- एषा ते तनया मेने सुधांशोरिव वर्धिता | तां नारदः कामचरः कदाचि- कन्यां किल प्रेक्ष्य पितुः समीपे । आद्या कला शैलराज ! सर्वलक्षणशालिनी । समादिदेशैकवधूं भवित्रीं प्रेम्णा शरीरार्धहरां हरस्य । स्वपतेः सुखदायन्तं पित्रोः कीर्तिविवर्धिनी । सुलक्षणानि सर्वाणि त्सुतायाः करे गिरे ! | एका विलक्षणा रेखा तत्फलं शृणु तत्त्वतः | योगी नग्नोऽगुणोऽकामी मातृतात विवर्जितः । अमानोऽशिववेषश्च पतिरस्याः किलेशः । ब्रह्मोवाच - इत्याकर्ण्य वचस्ते हि सत्यं मत्वा च दम्पती । मेना हिमाचलश्चापि दुःखितौ तौ बभूवतुः । उवाच दुःखितः शैलस्त्वां तदा हृदि नारद ! | किमुपायं मुने ! कुर्यामतिदुःखमभूदिति । नारद उवाच स्नेहाच्छृणु गिरे ! वाक्यं मम सत्यं मृषा न हि । कुमारसंभव - महाशिवपुराणयोः ६ गुरुः प्रगल्भेऽपि वयस्यतोऽस्या- स्तस्थौ निवृत्तान्यवराभिलाषः । ऋते कृशानोर्न हि मन्त्रपूत- मर्हन्ति तेजांस्यपराणि हव्यम् । अयाचितारं न हि देवदेव- मद्रिः सुतां ग्राहयितुं शशाक | अभ्यर्थनाभङ्गभयेन साधु- मध्यस्थ्यमिष्टेऽप्य वलम्बतेऽर्थे । यदैव पूर्वे जनने शरीरं सा दक्षरोषात्सुदती ससर्ज । ताप्रभृत्येव विमुक्तसङ्गः पतिः पशूनामपरिग्रहोऽभूत् । कररेखा ब्रह्मलिपिर्न मृषा भवति ध्रुवम् । तादृशोऽस्याः पतिः शैल ! भविष्यति न संशयः । तादृशोऽस्ति वरः शम्भुललारूपधरः प्रभुः । कुलक्षणानि सर्वाणि तत्र तुल्यानि सद्गुणैः । प्रभौ दोषो न दुःखाय दुःखदोऽस्य प्रभौ हि सः । रविपावकगङ्गानां तत्र ज्ञेया निदर्शना । तस्माच्छिवाय कन्यां स्वां शिवां देहि विवेकतः । हिमालय उवाच- हे मुने नारद ! प्राज्ञ ! विज्ञप्ति कांचिदेव हि । करोमि तां शृणु प्रीत्यातस्त्वं प्रमुदमावह । श्रूयते व्यक्तसंगः स महादेवो यतात्मवान् । तपश्चरति सन्नित्यं देवानामप्यगोचरः | स कथं ध्यानमार्गस्थः परब्रह्मर्पितं मनः | भ्रंशयिष्यति देवर्षे | तत्र मे संशयो महान् । अतः पश्यति सर्वत्र न तु बाह्यं निरीक्षते । इति स श्रूयते नित्यं किन्नराणां मुखान्मुने ! | नारद उवाच- न वै कार्या त्वया चिंता गिरिराज ! महामते । एषा तव सुता काली दक्षजा ह्यभवत्पुरा | सती नामाभवत्तस्याः सर्वमङ्गलदं सदा । सती सा वै दक्षकन्या भूत्वा रुद्रप्रियाभवत् । पितुर्यज्ञे तथा प्राप्यानादरं शङ्करस्य च । तं दृष्ट्वा कोपमाधायात्याक्षीद्देहं च सा सती । पुनः सैव समुत्पन्ना तव गेहेऽम्बिका शिवा । पार्वती हरपत्नीयं भविष्यति न संशयः । ब्रह्मोवाच- वर्धमाना गिरेः पुत्री सा शक्तिकपूजिता । अष्टवर्षा यदा जाता हिमालयगृहे सती । साम्यनिदर्शक: संदर्भः स कृत्तिवासास्तपसे यतात्मा गङ्गाप्रवाहोक्षितदेवदारु । प्रस्थं हिमाद्वेमृगनाभिगन्धि किंचिक्कणत्किंनरमध्युवास | तत्राग्निमाधाय समित्समिद्धं स्वमेव मूर्त्यन्तरमष्टमूर्तिः । स्वयं विधाता तपसः फलानां केनापि कामेन तपश्चचार । अनर्घ्यमर्येण तमद्रिनाथः स्वर्गौकसामर्चितमर्चयित्वा । आराधनायास्य सखीसमेतां समादिदेश प्रयतां तनूजाम् । तजन्म गिरिशो ज्ञात्वा सतीविरहकातरः । कृत्वा तामद्भुतामन्तर्मुमोदातीव नारद ! । तस्मिन्नेवान्तरे शंभुलौकिक गतिमाश्रितः । www समाधातुं मनः सम्यक्तपः कर्तुं समैच्छन । कांश्चिद्णवराञ्छान्तायादीनवगृह्य च । गङ्गावतार मगम द्धिमवत्प्रस्थमुत्तमम् । हिमालय उवाच- शृणु त्वं मेनके देवि ! यथार्थं वच्मि तत्त्वतः | भ्रमं त्यज मुनेर्वाक्यं वितथं न कदाचन । यदि स्नेहः सुतायास्ते मुतां शिक्षस्व मादरम् । तपः कुर्याच्छंकरस्य सा भक्त्या स्थिरचेतसा । हिमालय उवाच - प्रत्यर्थि भूतामपि तां समाधेः शुश्रूषमाणां गिरिशोऽनुमेने । विकारहेतौ सति विक्रियन्ते पूजितोऽसि जगन्नाथ ! मया त्वं परमेश्वर ! | स्वागतेनाद्य विषये स्थितं त्वां प्रार्थयामि किम् ।। इममेवं महद्धैर्य धीराणां सुतपस्विनाम् । येषां न चेतांसि त एव धीराः । विघ्नवन्त्यपि संप्राप्य यद्विघ्नैर्न विहन्यते । अवचित बलिपुष्पा वेदिसंमार्गदक्षा नियमविधिजलानां तपःप्रारम्भमकरोत्स्थित्वा तत्र वशी हरः । एकामं चिंतयामास स्वमात्मानमतंद्रितः | काली सखीभ्यां सहिता प्रत्यहं चंद्रशेखरम् । बर्हिषा चोपनेत्री | सेवमाना महादेवं गमनागमने स्थिता । anandanama गिरिशमुपचचार प्रत्यहं सा सुकेशी प्रक्षाल्य चरणौ शंभोः पपौ तच्चरणोदकम् । नियमितपरिखेदा वह्निशौचेन वस्त्रेण चक्रे तद्गात्रमार्जनम् । तच्छिरश्चन्द्रपादैः | ८ तस्मिन्विप्रकृताः काले तारकेण दिवौकसः | तुरासाहं पुरोधाय धाम स्वायंभुवं ययुः । अथ सर्वस्य धातारं ते सर्वे सर्वतोमुखम् । वागीशं वाग्भिरर्थ्याभिः प्रणिपत्योपतस्थिरे । स्वागतं स्वानधीकारा- न्प्रभावैरवलख्य वः । युगपद्युगबाहुभ्यः प्राप्तेभ्यः प्राज्यविक्रमाः ! | एवं यदात्थ भगव कुमारसंभव - महाशिवपुराणयोः मृष्टं नः परैः पदम् । प्रत्येकं विनियुक्तात्मा कथं न ज्ञास्यसि प्रभो ! । भवलब्धवरोदीर्ण- स्तारकाख्यो महासुरः । उपलवाय लोकानां धूमकेतुरिवोत्थितः । पुरे तावन्तमेवास्य तनोति रविरातपम् । दीर्घिका कमलोन्मेषो यावन्मात्रेण साध्यते । अथ तद्बाधिता देवाः सर्वे शक्रपुरोगमाः । wwwwwww मुने ! मां शरणं जग्मुरनाथा अतिविह्वला: अथ ते निर्जराः सर्वे सुप्रणम्य प्रजेश्वरम् | तुष्टुवुः परया भक्त्या तारकेण प्रपीडिताः । ब्रह्मोवाच- अहं श्रुत्लामरनुतिं यथार्था हृदयंगमाम् । सुप्रसन्नतरी भूत्वा प्रत्यवोचं दिवौकसः । स्वागतं स्वाधिकारा वै निर्विघ्नाः संति नः सुराः! किमर्थमागता यूयमत्र सर्वे वदन्तु मे । तद्दुःखं नाशय क्षिप्रं वयं तं शरणं गताः । अहर्निशं बाधतेऽस्मान्यत्रतत्रास्थितान्स वै । भवता किमु न ज्ञातं दुःखं यन्न उपस्थितम् | देवा ऊचु:- लोकश ! तारको दैत्यो वरेण तव दर्पितः । - निरस्यास्मान्हठात्स्थानान्यग्रहीनो वलात्स्वयम् तारकान्नश्च यद्दुःखं संभूतं सकलेश्वर ! । तेन सर्वे वयं तात ! पीडिता विकला अति । अग्निर्यमोऽथ वरुणो निरृतिर्वायुरेव च । अन्ये दिक्पतयश्चापि सर्वे यदशगामिनः । सर्वे मनुष्यधर्माणः सर्वैः परिकरैर्युताः । सेवंते तं महादैत्यं न स्वतंत्राः कदाचन । सर्वाभिः सर्वदा चन्द्र- स्तं कलाभिर्निषेवते । नादसे केवलां लेखां हरचूडामणीकृताम् । इत्थमाराध्यमानोऽपि लिभाति भुवनत्रयम् । शाम्येत्प्रत्युपकारेण नोपकारेण दुर्जनः । मरवधूस्तैः सदयालूनपलवाः । अभिज्ञाइछेदपातानां क्रियन्ते नन्दनद्रुमाः । तस्मिन्नुपायाः सर्वे नः करे प्रतिहतक्रियाः । वीर्यवन्त्यौषधानीव विकारे सांनिपातिक । जयाशा यत्र चास्माकं प्रतिघातोत्थितार्चिषा | हरिचक्रेण तेनास्य कण्ठे निष्कमिवार्पितम् । वचस्यवसिते तस्मि- न्ससर्ज गिरमात्मभूः | गर्जितानन्तरां वृष्टिं सौभाग्येन जिगाय सा । साम्यनिदर्शक: संदर्भः तस्य सेनापतिः क्रौंचो महापाप्यस्ति दानवः : स पातालतलं गत्वा बाधतेऽत्यनिशं प्रजाः तेन नस्तारकेणेदं सकलं भुवनत्रयम् । हतं हठाजगद्धातः ! पापेनाकरुणात्मना । वयं सर्वे तारकास्यवहौ दग्धाः सुविह्वलाः | P तेन क्रूरा उपाया नः सर्वे हतवलाः कृताः । यावत्यो वनिताः सर्वा ये चाप्यप्सरसा गणाः । सर्वास्ता नग्रही त्यस्तारकोऽसौ महाबली | विकारे सांनिपाते वा वीर्यवंयौषधानि च । यत्राम्माकं जयाशा हि हरिचक्रे सुदर्शने । तत्कुंठितमभूत्तस्य कंठे पुष्पमिवार्पितम् । ब्रह्मोवाच - इत्येतद्वचनं श्रुत्वा निर्जराणामहं मुने ! : प्रत्यवोचं सुरान्सर्वांस्तत्कालसदृशं वचः । कुमारसंभव - महाशिवपुराणयोः ब्रह्मोवाच- ममैव वचसा दैत्यस्तारकाख्यः समेधितः । इतः स दैत्यः प्राप्तश्री- नैत एवार्हति क्षयम् । विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसांप्रतम् | परिच्छिन्नप्रभावर्धि- र्न मया न च विष्णुना । अंशाहते निषिक्तस्य नीललोहितरेतसः । स हि देवः परं ज्योति- स्तमः पारे व्यवस्थितम् । संयुगे सांयुगीनं त- मुद्यतं प्रसहेत कः | उमारूपेण ते यूयं संयमस्तिमितं मनः । शंभोर्यतध्वमाक्रष्टु- मयस्कान्तेन लोहवत् । उसे एव क्षमे वोढु- मुभयोबजमाहितम् । सा वा शंभोस्तदीया वा मूर्तिर्जलमयी मम । तस्यात्मा शितिकण्ठस्थ सैनापत्यमुपेत्य वः । मोक्ष्यते सुरबन्दीनां वेणीर्वीर्यविभूतिभिः । www.www न मत्तस्तस्य हननं युज्यतं हि दिवौकसः ! | ततो नँव वधो योग्यो यतो वृद्धिमुपागतः । विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसांप्रतम् । न मया तारको वथ्यो हरिणापि हरेण च । नान्येनापि सुरैर्वापि मद्वरात्सल्यमुच्यते । शिववीर्यसमुत्पन्नो यदि स्यात्तनयः सुराः । । स एव तारकाव्यस्य हंता देव्यस्य नापरः | यमुपायमहं वच्मि तं कुरुध्वं सुरोत्तमाः ! | महादेवप्रसादेन सिद्धिमेष्यति स ध्रुवम् । सती दाक्षायणी पूर्वं त्यक्तदेहा तु याभवत् । सोत्पन्ना मेनका गर्भात्सा कथा विदिना हि वः । तस्या अवश्यं गिरिशः करिष्यति करग्रहम् । तत्कुरुध्वमुपायं च तथापि त्रिदिवौकसः ! | तथा विधध्वं सुतरां तस्यां तु परियत्नतः । पार्वत्यां मैनकायां वै रेतः प्रतिनिपातने । तमूर्ध्वरेतसं शंभुं सैव प्रच्युतरेतसम् । कर्तुं समर्था नान्यास्ति तथा काप्यबला बलात् । सा सुता गिरिराजस्य सांप्रतं प्रौढयौवना । तपस्यन्तं हिमगिरौ नित्यं संसेवते हरम् | तामग्रतोऽर्चमानां वै त्रैलोक्ये वरवर्णिनीम् । ध्यानसक्तो महेशो हि मनसापि न हीयते । भार्या समीहेत यथा स कार्ली चंद्रशेखरः | तथा विदध्वं त्रिदशा ! न चिरादेव यत्नतः । इति व्याहत्य विबुधा- विश्वयोनिस्तिरोदधे | मनस्या हितकर्तव्या- म्तेऽपि देवा दिवं ययुः । साम्यनिदर्शक: संदर्भ: तत्र निश्चित्य कंदर्पम- गमत्पाकशासनः । मनसा कार्य संसिद्धौ स्वराद्विगुणरंहसा || अथ स ललितयोषिलता चारुशङ्गं आगतस्तत्क्षणात्कामः सवसंतो रतिप्रियः । रतिवलयपदाङ्के चापमासज्य कण्ठे | सावलेपो युतो रत्या त्रैलोक्यविजयी प्रभुः । सहचरम वुहस्तन्य स्तचूताङ्कुरास्त्रः शतमखमुपतस्थे प्राञ्जलिः पुष्पधन्वा । आज्ञापय ज्ञातविशेष पुंसां लोकेषु यत्ते करणीयमस्ति । अनुग्रहं संस्मरणप्रवृत्त मिच्छामि संवर्धितमाज्ञया ते । केनास्यसूया पदकाङ्क्षिणा ते नितान्तदीर्घेर्जेनिता तपोभिः । यावद्भवत्याहितसायकस्य मत्कार्मुकस्यास्य निदेशवर्ती । ११ स्थानं गत्वाथ दैत्यस्य तमहं तारकं ततः । निवारयिष्ये कुहठात्स्वस्थानं गच्छतामराः ! | इत्युक्त्वाहं च संबोध्यासुरं तं सकलेश्वरः । ma स्मृत्वा शिवं च सशिवं तत्रांतर्धानमागतः । गतेषु तेषु देवेषु शकः सस्मार वे म्मरम् । तव प्रसादात्कुसुमायुधोऽपि सहायमेकं मधुमेव लब्ध्वा । प्रणामं च ततः कृत्वा स्थित्वा तत्पुरतः स्मरः महोन्नतमनास्तात ! सांजलिः शक्रमब्रवीत् । काम उवाच- किं कार्यं ते समुत्पन्नं स्मृतोऽहं केन हेतुना ? तत्त्वं कथय देवेश ! तत्कर्तुं समुपागतः । पदं ते कर्षितुं यो वै तपस्तपति दारुणम् । पातयिष्यामहं तं च शत्रुं ते मित्र ! सर्वथा । क्षणेन भ्रंशयिष्यामि कटाक्षेण वरस्त्रियाः । देवर्षिदानवादींश्च नराणां गणना न मे । वज्रं तिष्ठतु दूरे वे शस्त्राण्यन्यान्यनेकशः | पंचैव मृदवो वाणास्ते च पुष्पमया मम । चापत्रिधा पुष्पमयः शिंजिनी भ्रमरार्जिता । बलं सुदयिता मे हि वसंतः सचिवः स्मृतः । अहं पंचबलो देवो मित्रं मम सुधानिधिः । कुमारसंभव - महाशिवपुराणयोः १२ कुयां हरस्यापि पिनाकपाणे- धैर्यच्युत के मम धन्विनोऽन्ये । अथोरुदेशादवतार्य पादमा- क्रान्तिसंभावितपादपीठम् । संकल्पितार्थे विवृतात्मशक्ति- माखण्डलः काममिदं बभाषे । सर्व सखे ! त्वय्युपपन्नभेत- दुभे ममास्त्रे कुलिशं भवांश्च । वज्रं तपोवीर्यमहत्सु कुण्ठं त्वं सर्वतोगामि च साधकं च । अवैमि ते सारमतः खलु त्वां कार्ये गुरुण्यात्मसमं नियोक्ष्ये । ब्यादिश्यते भूधरतामवेक्ष्य कृष्णेन देहोद्वहनाय शेषः । तस्मै हिमादेः प्रयतां तनूजां यतात्मने रोचयितुं यतस्व । योषित्सु तद्द्वीर्यनिषेक भूमिः सैव क्षमेत्यात्मभुवोपदिष्टम् । अमी हि वीर्यप्रभवं भवस्य जयाय सेनान्यमुशन्ति देवाः । स च त्वदेकेषुनिपातसाध्यो ब्रह्माङ्गभूर्ब्रह्मणि योजितात्मा । किं ते कार्य करिष्यंति मयि मित्र उपस्थिते । ब्रह्माणं वा हरिं वापि भ्रष्टं कुर्या न संशयः । अन्येषां गणना नास्ति पातयेयं हरं त्वपि । इत्येवं तु वचस्तस्य श्रुत्वा शक्रः सुहर्षितः । उवाच प्रणमन्वाचा काम कांतासुखावहम् | शऋ उवाच - मित्राणि मम संत्येवं बहूनि सुमहांति च । परं तु स्मर ! सन्मित्रं त्वत्तुल्यं न हि कुत्रचित् | जयार्थ मे द्वयं तात ! निर्मितं वज्रमुत्तमम् । mammin वज्रं च निष्फलं स्याद्वै त्वं तु नैव कदाचन । केनापि नैव तच्छक्यं दूरीकर्तुं त्वया विना | दातुः परीक्षा दुर्भिक्षे रणे शूरस्य जायते । आपकाले तु मित्रस्याशक्तौ स्त्रीणां कुलस्य हि । यत्कार्य मनसोद्दिष्टं मया तात मनोभव ! | कर्तुं तत्त्वं समर्थोऽसि नान्यस्मात्तस्य संभवः | तारकाख्यो महादैत्यो ब्रह्मणो वरमद्भुतम् । अभूद्जेयः संप्राप्य सर्वेषामपि दुःखदः । एतस्य मरणं प्रोक्तं प्रजेशेन दुरात्मनः । शम्भोर्वीर्योद्भवाद्वालान्महायोगीश्वरस्य हि । wwwwwww एतत्कार्यं त्वया साधु कर्तव्यं सुप्रयत्नतः । शंभुः स गिरिराजे हि तपः परममा स्थितः । साम्यनिदर्शक: संदर्भः गुरोर्नियोगाञ्च नगेन्द्र कन्या स्थाणुं तपस्यन्तमधित्यकायाम् । अन्वास्त इत्याप्सरसां मुखेभ्यः श्रुतं मया मत्प्रणिधिः स वर्गः । तस्मिन्सुराणां विजयाभ्युपाये तवैव नामास्त्रगतिः कृती त्वम् । प्रसिद्ध यशसे हि पुंसा- मनन्यसाधारणमेव कर्म । सुराः समभ्यर्थयितार ते कार्य त्रयाणामपि विष्टपानाम् । चापेन ते कर्म न चातिहिंस्र महो ! बतासि स्पृहणीयवीर्यः! स माधवेनाभिमतेन सख्या रत्या च साशङ्कमनुप्रयातः । अङ्गव्यय प्रार्थितकार्यसिद्धिः स्थाण्वाश्रमं हैमवतं जगाम । असूत सद्यः कुसुमान्यशोकः स्कन्धात्प्रभृत्येव सपल्लवानि । पादेन नापैक्षत सुन्दरीणां संपर्कमासिञ्जितनूपुरेण । वर्णप्रकर्षे सति कर्णिकार दुनोति निर्गन्धतया स्म चेतः । प्रायेण सामग्यविधौ गुणानां परामुखी विश्वसृजः प्रवृत्तिः । १३ तत्समीपे च देवार्थं पार्वती स्वसखीना | सेवमाना तिष्ठतीति पित्राज्ञप्ता मया श्रुतम् । यथा तस्यां रुचिस्तस्य शिवम्य नियतात्मनः । . जायते नितरां मार ! तथा कार्यन्वया ध्रुवम् लोके स्थायी प्रतापस्ते भविष्यति न चान्यथा | इति कृत्वा कृती म्यास्त्वं सर्वं दुःखं विनंक्ष्यति । अग्रहीत्तरसा कामः शिवमायाविमोहितः । यत्र योगीश्वरः साक्षात्तप्यते परमं तपः । जगाम तत्र सुप्रीतः सदारः सवसंतकः । वसंतः स च यो धर्मः प्रससार स सर्वतः । तपःस्थाने महेशस्योषधिप्रस्थे मुनीश्वर ! | वनानि च प्रफुल्लानि पादपानां महामुने ! | पुष्पाणि सहकाराणामशोकवनिकासु वै 1 विरेजुः मुस्मरोद्दीपकराणि सुरभीण्यपि । कुमारसंभव - महाशिवपुराणयोः तस्मिन्वने संयमिनां मुनीनां तपःसमाधेः प्रतिकूलवर्ती । संकल्पयोनेरभिमानभूत- मात्मानमाधाय मधुर्जजृम्भे । लग्नद्विरेफाञ्जनभक्तिचित्रं मुखे मधुश्रीस्तिलकं प्रकाश्य । रागेण बालारुणकोमलेन चूतप्रवालोष्ठमलंचकार । मधु द्विरेफः कुसुमैकपात्रे पपौ प्रियां स्वामनुवर्तमानः । शुङ्गेण च स्पर्शनिमीलिताक्षीं मृगीमकण्डूयत कृष्णसारः । श्रुताप्सरोगीतिरपि क्षणेऽस्मिन् हरः प्रसंख्यानपरो बभूव । आत्मेश्वराणां न हि जातु विघ्नाः समाधिभेदप्रभवो भवन्ति । कामस्तु बाणावसरं प्रतीक्ष्य अचह्निमु विविक्षुः । उमासमक्षं हरबद्धलक्ष्यः शरासनज्यां मुहुराममर्श । दृष्टिप्रपातं परिहृत्य तस्य काम: पुरःशुक्रमिव प्रयाणे । प्रान्तेषु संसकनमेरुशा खं ध्यानास्पदं भूतपतेर्विवेश । सदेवदारुमवेदिकायां शार्दूलचर्मव्यवधानवत्याम् । तत्र गत्वा स्मरो गर्वी शिवमायाविमोहितः । एवं वसंत विस्तारो मदनावेशकारकः । वनौकसां तदा तत्र मुनीनां दुःसहोऽत्यभूत् । कैरवाणि च पुष्पाणि भ्रमराकलितानि च । बभूवुर्मदनावेशकराणि च विशेषतः । यदा चाप्राप्तविवरस्तस्मिन्योगिवरे स्मरः । महादेवस्तदा सोऽभून्महाभयविमोहितः । एतस्मिन्नन्तरे तत्र सखीभ्यां संयुता शिवा । जगाम शिवपूजार्थ नीत्वा पुष्पाण्यनेकशः । यदा शिवसमीपे तु गता सा पर्वतात्मजा | तदैव शंकरो ध्यानं त्यक्त्वा क्षणमवस्थितः । तच्छिद्रं प्राप्य मदनः प्रथमं हर्षणेन तु । वाणेन हर्षयामास पार्श्वस्थं चन्द्रशेखरम् । शृङ्गारैश्च तदा भावैः सहिता पार्वती हरम् । जगाम कामसाहाय्ये मुने | सुरभिणा सह । साम्यनिदर्शक: संदर्भ: आसीनमासचशरीरपात- स्त्रियम्बकं संयमिनं ददर्श | भविष्यतः पत्युरुमा च शंभो: समाससाद प्रतिहारभूमिम् । योगात्स चान्तः परमात्मसंज्ञं दृष्ट्वा परं ज्योतिरुपारराम । विवृण्वती शैलसुतापि भाव- मङ्गैः स्फुरद्वालकदम्बकल्पैः । साचीकृता चारुतरेण तस्थौ मुखेन पर्यस्तविलोचनेन । मध्येन सा वेदिविलझमध्या वलित्रयं चारु बभार बाला | आरोहणार्थं नवयौवन कामस्य सोपानमिव प्रयुक्तम् । अन्योन्यमुत्पीडयदुत्पलाक्ष्याः स्तनद्वयं पाण्डु तथा प्रवृद्धम् । मध्ये यथा श्याममुखस्य तस्य मृणालसूत्रान्तरमप्यलभ्यम् | प्रतिग्रहीतुं प्रणयिप्रियत्वा- त्रिलोचनस्तामुपचक्रमे च । संमोहनं नाम च पुष्पधन्वा धनुष्यमोघं समधत्त बाणम् । हरस्तु किंचित्परिलुप्तधैर्य- चन्द्रोदयारम्भ इवाम्बुराशिः । उमामुखे बिम्बफलाधरोष्ठे व्यापारयामास विलोचनानि । अथेन्द्रियक्षोभमयुग्मनेत्रः पुनर्वशिस्वादलवनिगृह्य १५ सुसंस्मृत्य वरं तस्यां विधिदत्तं पुरा प्रभुः । शिवोऽपि वर्णयामास तदंगानि मुदा मुने ! | स्त्रीस्वभावाच सा तत्र लजिता दूरतो गता । विवृण्वती निजा॑गानि पश्यंती च मुहुर्मुहुः । सुवीक्षणैर्महा मोदात्सुस्मिताभूच्छिवा मुने ! | एवं चेष्टा तदा दृष्ट्वा शम्भुर्मोहमुपागतः । तदैवाकृष्य तच्चापं रुच्यर्थं शूलधारिणः । द्रुतं पुष्पशरं तस्मै स्मरोऽमुञ्चत्मसंयतः | तन्नमस्कृत्य तत्पूजां कृत्वा तत्पुरतः स्थिता । सादृष्ट्वा पार्वती तत्र प्रभुणा गिरिशेन हि । विवृण्वती तदांगानि स्त्रीस्वभावात्मुलजया | उवाच वचनं चैवं महालीलो महेश्वरः । अस्या दर्शनमात्रेण महानंदो भवयलम् । यदालिंगन मे तस्याः कुर्यां किन्तु ततः सुखम् । क्षणमात्रं विचार्यत्थं संपूज्य गिरिजां ततः । प्रबुद्धः स महायोगी सुविरक्तो जगाविति । शिव उवाच- किमु विघ्नाः समुत्पन्नाः कुर्वतस्तप उत्तमम् । केन मे विकृतं चित्तं कृतमत्र कुकर्मिणा । कुमारसंभव - महा शिवपुराणयोः हेतुं स्वचेतोचिकृतेर्दिदृक्षु- दिशामुपान्तेषु ससर्ज दृष्टिम् । स दक्षिणापाङ्ग निविष्टमुष्टिं नतांसमाकुञ्चितसव्यपादम् । ददर्श चक्रीकृतचारुचापं प्रहर्तुमभ्युद्यतमात्मयो निम् । तपः परामर्शविवृद्ध मन्यो भ्रूभङ्गदुष्प्रेक्ष्यमुखस्य तस्य । स्फुरन्नुदाचि: सहसा तृतीया- विचियेत्थं महायोगी परमेशः सतां गतिः । दिशो विलोकयामास परितः शंकिनस्तदा । वामभागे स्थितं कामं ददर्शाकृष्टबाणकम् । स्वशरं क्षेतुकामं हि गर्वितं मूढचेनसम् । तं दृष्ट्वा तादृशं कामं गिरिशस्य परात्मनः । संजातः क्रोधसंमर्दस्तत्क्षणादपि नारद ' । चकम्पे च पुरः स्थित्वा दृष्ट्वा नृत्युञ्जयं प्रभुम् । स्तुतिं कुर्वत्म देवेषु क्रुद्धस्याति हरस्य हि । दक्ष्णः कृशानुः किल निष्पपात | तृतीयात्तस्य नेत्राद्वै निःससार ततो महान् । क्रोधं प्रभो ! संहर संहरेति 1 यावद्भिरः खे मरुतां चरन्ति । तावत्स वह्निर्भवनेत्रजन्मा भस्मावशेष मदनं चकार । तीव्राभिषङ्गप्रभवेण वृत्तिं मोहेन संस्तम्भयतेन्द्रियाणाम् | अज्ञातभर्तृव्यसना मुहूर्त कृतोपकारेव रतिर्बभूव । शैलात्मजापि पितु- रुच्छिरसोऽभिलाष ललाटमध्यगात्तस्मात् स वह्निद्रुतम्भवः । जज्वालोर्ध्वशिखो दीप्तः प्रलयाग्निसमप्रभः । भस्मसात्कृतवान्साधो ! मदनं तावदेव हि । यावच मरुतां वाचः क्षम्यतां क्षम्यतामिति । श्वेतांगा विकृतात्मा च गिरिराजमुना तदा । जगाम मन्दिरं स्वं च समादाय सखीजनम् । क्षणमात्रं रतिस्तत्र विसंज्ञा साभवत्तदा । भर्तृमृत्युजदुःखेन पतिता सा मृता इव । जातायां चैव संज्ञायां रतिरत्यंतविला । व्यर्थ समर्थ्य ललितं वपुरात्मनश्च । सख्योः समक्षमिति चाधिकजातलजा शून्या जगाम भवना- भिमुखीकथंचित् । अथ मोहपरायणा सती विवशा कामवधूर्विबोधिता। विधिना प्रतिपादयिष्यता नववैधव्यमसह्यवेदनम् । विललाप तदा तत्रोच्चरन्ती विविधं वचः | रतिरुवाच - किं करोमि क गच्छामि किं कृतं दैवतैरिह । मत्स्वामिनं समाहूय नाशयामासुरुद्धतम् । हा हा नाथ स्मर स्वामिन्प्राणप्रिय सुखप्रद ! | इदं तु किमभूदत्र हा हा प्रिय ! प्रियेति च । इत्थं विलपती सा तु वदंती बहुधा वचः । साम्यनिदर्शक: संदर्भः अयि जीवितनाथ ! जीवसी- त्यभिधायोत्थितया तया पुरः दशे पुरुषाकृति क्षितौ हरकोपानलभस्म केवलम् । अथ सा पुनरेव विह्वला वसुधालिङ्गनधूसरस्तनी । विललाप विकीर्णमूर्धजा समदुःखामिव कुर्वती स्थलीम् । इत्थं रतेः किमपि भूतमदृश्यरूपं एतस्मिन्नंतरे तत्र देवाः शक्रादयोऽखिलाः । रतिमूचुः समाश्वास्य संम्मरन्तो महेश्वरम् | १७ हस्तौ पादौ तदास्फाल्य केशानत्रोटयत्तदा । मन्दीचकार मरणव्यवसायबुद्धिम् । तत्प्रत्ययाञ्च कुसुमायुधबन्धुरेना- देवा ऊचुः - माश्वासयन्सुचरितार्थपदैर्वचोभिः । अथ मदनवधूरुपलवान्तं व्यसनकृशा परिपालयांबभूव । शशिन इव दिवातनस्य लेखा किरणपरिक्षयधूसरा प्रदोषम् । तथा समक्षं दहता मनोभवं पिनाकिना भनमनोरथा सती । निनिन्द रूपं हृदयेन पार्वती प्रियेषु सौभाग्यफला हि चारुता इयेष सा कर्तुमवन्ध्यरूपता समाधिमास्थाय तपोभिरात्मनः । अवाप्यते वा कथमन्यथा द्वयं तथाविधं प्रेम पतिश्च तादृशः । 2 Fo Ho Uo किंचिद्भस्म गृहीत्वा तु रक्ष यत्नाद्भूयं त्यज । जीवयिष्यति स स्वामी लप्स्यसे त्वं पुनः प्रियम् । अन्तर्हित स्मरे दग्ध्वा हरे तद्विरहाच्छिवा विकलाभू भृशं सा वै लेभे शर्म न कुत्रचित् । ब्रह्मोवाच - त्वयि देवमुने ! याते पार्वती हृष्टमानसा | तपःसाध्यं हरं मेने तपोर्थं मन आदधे । निनिंद च स्वरूपं सा हा हतास्मीत्यथाब्रवीत् । सखीभिर्वाधिता चापि न बुबोध गिरींद्रजा | तिष्ठंति च सखीमध्ये न किंचित्सुखमाप ह | । धिक्म्वरूपं मदीयं च तथा जन्म च कर्म च । इति ब्रुवंती सततं मरंती हरचेष्टितम् । सुखं न लेभे किंचिद्वाऽब्रवीच्छिव शिवेति च । पार्वत्युवाच - मातस्तप्तुं गमिष्यामि प्रातः प्राप्तुं महेश्वरम् । अनुजानीहि मां गन्तुं तपसेऽद्य तपोवनम् । १८ कुमारसंभव महाशिवपुराणयोः ब्रह्मोवाच - इत्याकर्ण्य वचः पुत्र्या मेना दुःखमुपागता । सोपाहूय तदा पुत्रीमुवाच विकला सती । मेनोवाच - - निशम्य चैनां तपसे कृतोद्यमां सुता गिरीशप्रतिसक्तमानसाम् । उवाच मेना परिरभ्य वक्षसा निवारयन्ती महतो मुनिव्रतात् । मनीषिताः सन्ति गृहेषु देवता- स्तपः क्व वत्से क्व च तावकं वपुः । पदं सहेत भ्रमरस्य पेलवं शिरीषपुष्पं न पुनः पतत्रिणः | इति ध्रुवेच्छामनुशासती सुतां शशाक मेना न नियन्तुमुयमात् क ईप्सितार्थस्थिरनिश्चयं मनः पयश्च निम्नाभिमुख प्रतीपयेत् । अथानुरूपाभिनिवेशतोषिणा कृताभ्यनुज्ञा गुरुणा गरीयसा । प्रजासु पश्चाप्रथितं तदाख्यया जगाम गौरीशिखरं शिखण्डिमत् प्रजासु पश्चात्प्रथितं तदाख्यया दुःखितासि शिवे पुत्रि ! तपस्नु॑ पु॒रा यदि तपश्चर गृहेऽद्य त्वं न बहिर्गच्छ पार्वति ! | कुत्र यासि तपः कर्तुं देवाः संति गृहे मम । तीर्थानि च समस्तानि क्षेत्राणि विविधानि च । शरीरं कोमलं वत्से ! तपस्तु कठिनं महत् । एतस्मात्तु त्वया कार्यं तपोऽत्र न बहिर्ब्रज | स्त्रीणां तपोवनगतिर्न श्रुता कामनार्थिनी । तम्मात्त्वं पुत्रि ! मा कार्षीस्तपोर्थ गमनं प्रति । इत्येवं बहुधा पुत्री तन्मात्रा विनिवारिता | संवेदे न मुखं किंचिद्विनाराध्य महेश्वरम् | मातुराज्ञां च संप्राप्य सुव्रता मुनिसत्तम ! | ततः स्त्रांते सुखं लेभे पार्वती स्मृतशंकरा | मातरं पितरं साथ प्रणिपत्य मुदा शिवा । । | सखीभ्यां च शिवं स्मृत्वा तपस्तप्तुं समुद्गता । हित्वा मतान्यनेकानि वस्त्राणि विविधानि च । जगाम गौरीशिखरं शिखण्डिमत् । वल्कलानि धृतान्याशु मौंजीं बद्ध्वा तु शोभनाम् । विमुच्य सा हारमहार्यनिश्चया विलोलयष्टिप्रविलुप्तचन्दनम् । बबन्ध बालारुणबभ्रु वल्कलं पयोधरोत्सेध विशीर्णसंहान । यदा फलं पूर्वतपः समाधिना न तावता लभ्यममंस्त काङ्क्षितम् हित्वा हार तथा चर्म मृगस्य परं धृतम् । जगाम तपसे तत्र गङ्गावतरणं प्रति । शम्भुना कुर्वता ध्यानं यत्र दग्धो मनोभवः । गङ्गावतरणो नाम प्रस्थो हिमवतः स च । वातश्चैव तथा शीतवृष्टिश्च विविधा तथा । । दुःसहोऽपि तथा धर्मस्तया सेहे सुचित्तया । साम्यनिदर्शक: संदर्भ: तदानपेक्ष्य स्वशरीरमार्दवं तपो महत्सा चरितुं प्रचक्रमे । शुचौ चतुर्णां ज्वलतां हविर्भुजां शुचिस्मिता मध्यगता सुमध्यमा । विजित्य नेत्रप्रतिघातिनीं प्रभा मनन्यदृष्टिः सवितारमैक्षत । तथातितप्तं सवितुर्गभस्तिभि मुखं तदीयं कमलश्रियं दधौ । अपाङ्गयोः केवलमस्य दीर्घयोः शनैः शनैः श्यामिकया कृतं पदम् । अयाचितोपस्थितमम्बु केवलं रसात्मकस्योडुपतंत्र रश्मयः । बभूव तस्याः किल पारणाविधिर्न वृक्षवृत्तिव्यतिरिक्त साधनः । निनाय सात्यन्तहिमोत्किरानिलाः सहस्यरात्रीरुदवा सतत्परा | परस्पराक्रन्दिनि चक्रवाकयोः पुरो वियुक्ते मिथुने कृपावती । स्वयं विशीर्णद्रुमपर्णवृत्तिता परा हि काष्ठा तपसस्तया पुनः । तदप्यपाकीर्णमतः प्रियंवदां वदन्त्यपर्णेति च तां पुराविदः । मृणालिकापेलवमेवमादिभि- तैः स्वमङ्गं ग्लपयन्त्यहर्निशम् । तपः शरीरैः कठिनैरुपार्जितं तपस्विनां दूरमधश्चकार सा | अथाजिनाषाढघरः प्रगल्भवा- ज्ज्वलन्निव ब्रह्ममयेन तेजसा । १९ दुःखं च विविधं तत्र गणितं न तथा गतम् | केवलं मन आधाय शिवे सासीस्थिता मुने ! ततः पर्णान्यपि शिवा निरम्य हिमवत्सुता | निराहाराऽभवदेवी तपश्चरण संरता | अधोमुखी निर्विकारा जटावल्कलधारिणी । तथा तथा तपस्त हुँ मुनीनामपि दुष्करम् । आहारे व्यक्तपर्णाऽभूयस्माद्धिमवतः सुता । तेन देवैरपर्णेति कथिता नामतः शिवा । स्मृत्वा च पुरुषास्तत्र परमं विम्मयं गताः । तत्तपोदर्शनार्थं हि समाजग्मुश्च तेऽखिलाः । धन्यान्निजान्मन्यमाना जगदुश्चेति सम्मतः | श्रृणु शैलसुते देवि ! किमर्थं तप्यते तपः ? इच्छसि त्वं मुरं कं च किं फलं तद्वदाधुना | ब्रह्मोवाच- गतेषु तेषु मुनिषु स्वं लोकं शङ्करः स्वयम् | परीक्षितुं तपो देव्या ऐच्छत्सृतिकरः प्रभुः । कुमारसंभव - महाशिवपुराणयोः २० विवेश कश्विजटिलस्तपोवनं शरीरबद्धः प्रथमाश्रमो यथा । परीक्षाच्छद्मना शम्भुद्रष्टुं तां तुष्टमानसः । जाटिलं रूपमास्थाय स ययौ पार्वतीवनम् । आगतं तं तदा दृष्ट्वा ब्राह्मणं तेजसाद्भुतम् । अपूजयच्छिवा देवी सर्वपूजोपहारकैः । सुसत्कृतं संविधाभिः पूजितं परया मुद्रा | पार्वती कुशलं प्रीत्या पप्रच्छ द्विजमादरात् । पार्वत्युवाच - ब्रह्मचारिस्वरूपेण कस्त्वं हि कुत आगतः ? तमातिथेयी बहुमानपूर्वया सपर्यया प्रत्युदियाय पार्वती । भवन्ति साम्येऽपि निविष्टचेतसां वपुर्विशेषेष्वतिगौरवाः क्रियाः । विधिप्रयुक्त परिगृह्य सक्रियां परिश्रमं नाम विनीय च क्षणम् । इदं वनं भासयसे वद वेदविदां वर ! । अहमिच्छाभिगामी च वृद्धो विप्रतनुः सुधीः । तपस्वी सुखदोऽन्येषामुपकारी न संशयः । का त्वं कस्यासि तनया किमर्थं विजने वने ? तपश्चरसि दुर्धर्ष मुनिभिः प्रपदैरपि । उमां स पश्यनृजनैव चक्षुषा प्रचक्रमे वक्तुमनुज्झितक्रमः । अपि क्रियार्थं सुलभं समित्कुशं जलान्यपि स्नानविधिक्षमाणि ते । अपि स्वशक्त्या तपसि प्रवर्तसे शरीरमाद्यं खलु धर्मसाधनम् । कुले प्रसूतिः प्रथमस्य वेधस- स्त्रिलोक सौन्दर्य मिवोदितं वपुः । अमृग्यमैश्वर्यसुखं नवं वय- स्तपः फलं स्यात्किमतः परं वद । किमित्यपास्याभरणानि यौवने धृतं त्वया वार्धकशोभि वल्कलम् वद प्रदोषे स्फुटचन्द्र तारका विभावरी यद्यरुणाय कल्पते । इति प्रविश्याभिहिता द्विजन्मना मनोगतं सा न शशाक शंसितुम् अथो वयस्यां परिपार्श्ववर्तिनी विवर्तितानञ्जननेत्रमैक्षत । न बाला न च वृद्धासि तरुणी भासि शोभना । किं त्वं वेदप्रसूर्लक्ष्मीः किं सुरूपा सरस्वती ? एतामु मध्ये का वा त्वं नाहं तर्कितुमुत्सहे । पार्वत्युवाच - नाहं वेदप्रसूर्विप्र ! न लक्ष्मीच सरस्वती । अहं हिमाचलसुता सांप्रतं नाम पार्वती । जटिल उवाच- किमिच्छसि वरं देवि ! प्रष्टुमिच्छाभ्यतः परम् । | त्वय्येव तदसौ देवि ! फलं सर्वं प्रदृश्यते । परार्थे च तपश्चद्वै तिष्ठेत्तु तप एव तत् । रत्नं हस्ते समादाय हित्वा काचस्तु संचितः । ईदृशं तव सौन्दर्य कथं व्यर्थीकृतं त्वया ? । हित्वा वस्त्राण्यनेकानि चर्मादि च धृतं त्वया । तत्सर्वं कारणं ब्रूहि तपसस्त्वस्य सत्यतः । तच्छ्रुत्वा विप्रवर्योऽहं यथा हर्षमवानुयाम् । साम्यनिदर्शक: संदर्भ: ब्रह्मोवाच - इति पृष्टा तदा तेन सखीं प्रेरयताम्बिका । तन्मुखेनैव तत्सर्वं कथयामास सुव्रता । तया च प्रेरिता तत्र पार्वत्या विजयाभिधा | प्राणप्रिया सुव्रतज्ञा सखी जटिलमब्रवीत् । २१ संख्युवाच - सखी तदीया तमुवाच वर्णिनं शृणु साधो ! प्रवक्ष्यामि पार्वतीचरितं परम् । निबोध साधो ! तव चेत्कुतूहलम् | हेतुं च तपसः सर्वं यदि त्वं श्रोतुमिच्छसि । यदर्थमम्भोजमिवोष्णवारणं ख्याता } कृतं तपःसाधनमेतया वपुः । इयं महेन्द्रप्रभृतीनधिश्रिय- चतुर्दिगीशानवमत्य मानिनी । अरूपहार्य मदनस्य निग्रहा- त्पिनाकपाणिं पतिमाप्तुमिच्छति । यथा श्रुतं वेदविदांवर ! त्वया जनोऽयमुच्चैः पदलङ्घनोत्सुकः । तपः किलेदं तदवाप्तिसाधनं मनोरथानामगतिर्न विद्यते । अथाह वर्णी विदितो महेश्वर- स्तदर्थिनी त्वं पुनरेव वर्तसे । सखी मे गिरिराजस्य सुतेयं हिमभूभृतः । पार्वतीनाम्ना सा कालीति च मेनया व ऊढेयं न च केनापि न वांछति शिवात्परम् | हित्वेन्द्रप्रमुखान्देवान् हरिं ब्रह्माणमेव च । पतिं पिनाकपाणि वै प्राप्तुमिच्छति पार्वती । मत्सखी चादराद्देशात्तपस्तपति दारुणम् । मनोरथं कुतस्तस्या न फलिष्यति तापस ! | यत्ते पृष्टं द्विजश्रेष्ट ! मत्सख्या मनसीप्सितम् । मयाख्यातं च तत्प्रीया किमन्यच्छ्रोतुमिच्छसि ? जटिल उवाच- सख्येदं कथितं तत्र परिहासोऽनुमीयते । यथार्थं चेत्तदा देवी स्वमुखेनाभिभाषताम् । ब्रह्मोवाच- इत्युक्ते च तदा तेन जटिलेन द्विजन्मना । उवाच पार्वती देवी स्वमुखेनैव तं द्विजम् । पार्वत्युवाच - शृणु द्विजेन्द्र जटिल ! मद्वृत्तं निखिलं खलु । सख्युक्तं मेऽद्य यत्सत्यं तत्तथैव न चान्यथा | मनसा वचसा साक्षात्कर्मणा यतिभावतः । सत्यं ब्रवीमि नोऽसत्यं वृतो वै शङ्करो मया । २२ कुमारसंभव महाशिवपुराणयोः जानामि दुर्लभं वस्तु कथं प्राप्यं मया भवेत् । तथापि मनऔत्सुक्यात्तप्यतेऽद्य तपो मया । ब्राह्मण उवाच- अमङ्गलाभ्यासरतिं विचिन्त्य तं तवानुवृत्तिं न च कर्तुमुत्सहे । चतुष्कपुष्पप्रकरावकीर्णयोः एतावत्कालपर्यन्तं ममेच्छा महती ह्यभूत् । किं वस्तु कांक्षती देवी कुरुते सुमहत्तपः । तज्ज्ञात्वा निखिलं देवि श्रुत्वा त्वन्मुखपङ्कजा परोऽपि को नाम तवानुमन्यते । इतो गच्छाम्यहं स्थानाद्यथेच्छति तथा कुरु । इत्युक्त्वा वचनं तस्य यावद्द्वन्तुमियेष सः । तावच पार्वती देवी प्रणम्योवाच तं द्विजम् | पार्वत्युवाच - किं गमिष्यसि विप्रेन्द्र ! स्थितो भव हितं वद । द्विजोवाच- यदि श्रोतुमना देवि ! मां स्थापयसि भक्तितः । वदामि तत्त्वं सत्सर्व येन ते वयुनं भवेत् । जानाम्यहं महादेवं सर्वथा गुरुधर्मतः । वृषध्वजो महादेवो भस्मदिग्धो जटाधरः | व्याघ्रचर्मांबरधरः संवीतो गजकृत्तिना । कपालधारी सौंघैः सर्वगात्रेषु वेष्टितः । विषदिग्धोऽभक्ष्यभक्षो विरूपाक्षो बिभीषणः । अव्यक्तजन्मा सततं गृहभोगविवर्जितः । अलक्तकाङ्कानि पदानि पादयो- विकीर्णकेशास परतभूमिपु अयुक्तरूपं किमतः परं वद त्रिनेत्रवक्षः सुलभं तवापि यत् । स्तनद्वयेऽस्मिन्हरिचन्दनास्पदे पदं चिताभस्मरजः करिष्यति । इयं च तेऽन्या पुरतो बिडम्बना यदूढया वारणराजहार्यया । विलोक्य वृद्धोक्षमधिष्ठितं त्वया महाजनः स्मेरमुखो भविष्यति । वपुर्विरूपाक्षमलक्ष्यजन्मता दिगम्बरत्वेन निवेदितं वसु । वरेषु यद्वालमृगाक्षि मृग्यते अवस्तुनिर्बन्धपरे ! कथं नु ते करोऽयमा मुक्तविवाहकौतुकः । करेण शंभोवलयीकृताहिना सहिष्यते तत्प्रथमावलम्बनम् । त्वमेव तावत्परिचिन्तय स्वयं कदाचिदेते यदि योगमर्हतः । वधूदुकूलं कलहंसलक्षणं गजाजिनं शोणितबिन्दुवर्षि च तदस्ति किं व्यस्तमपि त्रिलोचने । दिगम्बरो दशभुजो भूतप्रेतान्वितः सदा । क्व त्वं कमलपत्राक्षी कासौ वै त्रिलोचनः । शशांकवदना त्वं च पञ्चवक्त्रः शिवः स्मृतः । चंदनं च त्वदीयांगे चिताभम्म शिवस्य च । क्व दुकूलं त्वदीयं वै शांकरं व गजाजिनम् । व भूषणानि दिव्यानि व सर्पाः शङ्करस्य च । भवल्याश्व शिवस्यैव न युक्तं रूपमुत्तमम् । यदि द्रव्यं भवेत्तस्य कथं स्यात्स दिगम्बरः | वाहनं च बलीवर्दः सामग्री कापि तस्य न । सहायाश्च पिशाचा हि विषं कंठे हि दृश्यते । साम्यनिदर्शकः संदर्भ: २३ निवर्तयास्मादसदीप्सितान्मनः एकाकी च सदा नित्यं विरागी च विशेषतः । क्व तद्विधस्त्वं क्व च पुण्यलक्षणा । क्व च हारस्त्वदीयो वैव च तन्मुण्डमालिका । अङ्गरागः क ते दिव्यः चिताभम्म व तत्तनौ । अपेक्ष्यते साधुजनेन वैदिकी असद्वस्तु च यत्किंचित् तत्सर्वं स्वयमीहसे । श्मशानशूलस्य न यूपसत्क्रिया । निवर्तय मनस्तस्मान्नो चेदिच्छसि तत्कुरु । ब्रह्मोवाच- इत्येवं वचनं श्रुत्ला तस्य विस्य पार्वती । उवाच क्रुद्धमनसा शिवनिन्दापरं द्विजम् । त्वयोक्तं विदितं देव ! तदलीकं न चान्यथा | यदि त्वयोदितं स्याद्वै विरुद्धं नोच्यते त्वया | कदाचिद्दृश्यते तादृम् वेषधारी महेश्वरः । स्वलीलया परब्रह्म स्वरागोपात्तविग्रहः । ब्रह्मचारिम्वरूपेण प्रतारयितुमुद्यतः । आगतश्छल संयुक्तं वचोऽवादीः कुयुक्तितः । न सन्ति याथार्थ्यविदः पिनाकिनः । शंकरस्य स्वरूपं तु जानामि सुविशेषतः । विभूषणोद्भासि पिनद्ध भोगि वा गजाजिनालम्बि दुकूलधारि वा । कपालि वा स्यादथ वेन्दुशेखरं न विश्वमूर्तेरवधार्यते वपुः । इति द्विजातौ प्रतिकूलवादिनि प्रवेपमानाधरलक्ष्यकोपया । विकुञ्चितश्रृलतमाहिते तया विलोचने तिर्यगुपान्तलोहिते । अकिंचनः सन्प्रभवः स संपदां त्रिलोकनाथः पितृसझगोचरः । स भीमरूपः शिव इत्युदीर्यते स्तुतो हि निर्गुणो ब्रह्म सगुणः कारणेन सः | कुतो जातिर्भवेत्तस्य निर्गुणस्य गुणात्मनः । स सर्वासां हि विद्यानामधिष्ठानं सदाशिवः । किं तस्य विद्यया कार्य पूर्णस्य परमात्मनः । कल्याणरूपिणस्तस्य सेवयेह न किं भवेत् । किं न्यूनं तस्य देवस्य मामिच्छति सदाशिवः । सप्तजन्मदरिद्रः स्यात्सेवेद्यो यदि शङ्करम् । तस्यैतत्सेवनाल्लोके लक्ष्मी स्यादनपायिनी । यद सिद्धयोऽष्टौ च नित्यं नृत्यंति तोषितम् । यद्यपूतम्भवेद्भस्म चितायाश्च त्वयोदितम् । नित्यभस्मांगगं देवैः शिरोभिर्धार्यते कथम् ? | यो देवो जगतां कर्ता भर्ता हर्ता गुणान्वितः | निर्गुणः शिवसंज्ञश्च स विज्ञेयः कथं भवेत् ! अगुणं ब्रह्मणो रूपं शिवस्य परमात्मनः । २४ कुमारसंभव - महाशिवपुराणयोः इतो गमिष्याम्यथ वेति वादिनी चचाल बाला स्तनभिन्नवल्कला । निवार्यतामालि ! किमप्ययं बटुः पुनर्विवक्षुः स्फुरितोत्तराधरः । न केवलं यो महतोऽपभाषते शृणोति तस्मादपि यः स पापभाक् | यथा संभाषणं न म्यादनेनाऽविदुषा पुनाः । ब्रह्मोवाच - स्वरूपमास्थाय च तां कृतस्मितः समाललम्बे वृषराजकेतनः । अद्यप्रभृत्यवनताङ्गि ! तवास्मि दासः क्रीतस्तपोभिरिति वादिनि चन्द्रमौलौ । अाय सा नियमजं कुममुत्ससर्ज क्लेशः फलेन हि पुनर्नवतां विधत्ते अथ विश्वात्मने गौरी तत्कथं हि विजानन्ति त्वादृशास्तहिर्मुखाः | यथा तथा भवेद्रो यथा वा बहुरूपवान् । ममाभीष्टतमो नित्यं निर्विकारी सतां प्रियः । इत्युक्त्वा गिरिजा सा हि गिरीश्वरसुता मुने! विरराम शिवं दध्यौ निर्विकारेण चेतसा | तदाकर्ण्य वचो देव्या ब्रह्मचारी स वै द्विजः । पुनर्वचनमाख्यातुं यावदेव प्रचक्रमे । उवाच गिरिजा तावत्स्वसखीं विजया द्रुतम् । गिरिजोवाच- संदिदेश मिथः सखीम् । दाता मे भूभृतां नाथः प्रमाणीक्रियतामिति । वारणीयः प्रयत्नेन संख्ययं हि द्विजाधमः | पुनर्वक्तुमनाचैव शिवनिन्दां करिष्यति । हित्यैतत्स्थलमचैव यास्यामोऽन्यत्र मा चिरम् । इत्युक्त्वा चोमया यावत्पादमुत्क्षिप्यते मुने ! असौ तावच्छिवः साक्षादालंबे प्रियया स्वयम् । कृत्वा स्वरूपं सुभगं शिवाध्यानं यथा तथा । दर्शयित्वा शिवायें तामुवाचावाङ्मुखीं शिवः । प्रसन्नोऽस्मि वरं ब्रूहि नादेयं विद्यते तव । अद्यप्रभृति दासस्तपोभिः क्रीत एव । क्रीतोऽस्मि तव सौन्दर्यात्क्षणमेकं युगायत । त्यज्यतां च त्वया लज्जा मम पत्नी सनातनी । मया परीक्षितासि त्वं बहुवा दृढमानसे! | तत्क्षमम्वापराधं मे लोकलीलानुसारिणः । न त्वाशीम्प्रणयिनीं पश्यामि च त्रिलोककें । सर्वथाहं तवाधीनः स्वकामः पूर्यतां शिवे ! | स तथेति प्रतिज्ञाय विसृज्य कथमप्युमाम् । ऋषीज्योतिर्मयान्सत सस्मार स्मरशासनः । तदर्शनादभूच्छंभो- र्भूयान्दारार्थमादरः । क्रियाणां खलु धर्म्याणां सपत्यो मूलकारणम् । सोऽहं तृष्णातुरैर्वृष्टिं विद्युत्वानिव चातकैः । अरिविप्रकृतदेवैः प्रसूतिं प्रति याचितः । तामस्मदर्थे युष्माभि- र्याचितव्यो हिमालयः । विक्रियायें न कल्पते संबन्धाः सदनुष्ठिताः । ततः परममित्युक्त्वा प्रतस्थे मुनिमण्डलम् | भगवानपि संप्राप्तः प्रथमोद्दिष्टमास्पदम् । अलकामतिवाद्यैव वसतिं वसुसंपदाम् । साम्यानदशक: संदर्भ: २५ एहि प्रिये ! मत्सकाशं पत्नी त्वं मे वरस्तव | इत्युक्ते देवदेवेन पार्वती मुदमाप सा | तपोजातं तु यत्कष्टं तज्जहौ च पुरातनम् । सर्व: श्रमो विनष्टोऽभूत्सत्यस्तु मुनिसत्तम ! | फले जाते श्रमः पूर्वो जन्तोर्नाशमवाप्नुयात् । पितुर्गेहे मया सम्यग्गम्यते त्वदनुज्ञया । प्रसिद्धं क्रियतां तद्वै विशुद्धं परमं यशः । गन्तव्यं भवता नाथ ! हिमवत्पार्श्वतः प्रभो ! । याचख मां ततो भिक्षुर्भूत्वा लीलाविशारदः । एतस्मिन्नंतरे तात ! शम्भुना सप्त एव ते । संस्मृता ऋषयः सद्यो विरहव्याकुलात्मना । ऋषयश्चैव ते सर्वे शम्भुना संस्मृता यदा । तदाऽऽजग्मुः स्वयं सद्यः कल्पवृक्षा इवापरे । अरुंधती तथाऽऽयाता साक्षात्सिद्धिरिवापरा | साधनीया विशेषेण लोकानां सिद्धिहेतवे । देवानां दुःखमुत्पन्नं तारकात्सुदुरात्मनः । ब्रह्मणा च बरो दत्तः किं करोमि दुरासदः । मूर्तयोऽष्टौ च याः प्रोक्ता मदीयाः परमर्षयः | ताः सर्वा उपकाराय न तु स्वार्थाय तत्स्फुटम् | तथा च कर्तुकामाहं विवाहं शिवया सह । तया वै सुतपस्तप्तं दुष्करं परमर्षिभिः । पार्वतीवचनाद्भिक्षुरूपो यातो गिरेगृहम् । अहं पावितवान्काले यतो लीलाविशारदः । मां ज्ञात्वा तौ परं ब्रह्म दम्पती परभक्तितः । दातुकामावभूतां च स्वसुतां वेदरीतितः । २६ स्वर्गाभिष्यन्दवमनं कृत्वेवोपनिवेशितम् । कर्तव्यं वो न पश्यामि स्याञ्चेकि नोपपद्यते । मन्यते मत्पावनायैव प्रस्थानं भवतामिह । कुमारसंभव - महाशिवपुराणयोः देवप्रेरणयाहं वै कृतवानस्मि निन्दनम् । स्वकन्यां नेच्छतो दातुं मह्यं हि मुनयोऽधुना | तस्माद्भवन्तो गच्छंतु हिमाचलगृहं ध्रुवम् । तत्र गत्वा गिरिवरं तत्पत्नीं च प्रबोधय । कथनीयं प्रयत्नेन वचनं वेदसम्मितम् । इत्येवं वचनं श्रुत्वा मुनयस्तेऽमलाशयाः । आनन्दं लेभिरे सर्वे प्रभुणानुग्रहीकृताः गता आकाशमार्गेण यत्रास्ति हिमवत्पुरम् | दृष्ट्वा तां च पुरं दिव्यमृषय स्तेऽतिविस्मिताः । वर्णयन्तश्च स्वं पुण्यमब्रुवन्वै परस्परम् । ऋषय ऊचु:- पुण्यवन्तो वयं धन्या दृष्ट्वेतद्धिमत्पुरम् । यम्मादेवंविधे कार्ये शिवेनैव नियोजिताः । अलकायाञ्च स्वर्गाच्च भोगवल्यास्तथा पुनः । विशेषेणामरावत्या दृश्यते पुरमुत्तमम् । उद्यानानि विचित्राणि प्रसन्नैः पूजितान्यथा | नराव देवताः सर्वे स्त्रियश्चाप्सरसं तथा । कर्मभूमौ याज्ञिकाश्च पौराणा: स्वर्गकाम्यया | कुति ते वृथा सर्वे विहाय हिमवत्पुरम् । यावन्न दृष्टमेतच तावत्सर्गपरा नराः । दृष्टमेतद्यदा विप्राः किं स्वर्गेण प्रयोजनम् । ब्रह्मोवाच - इत्येवमृषिवर्यास्ते वर्णयन्तः पुरं च तत् । गता हैमालयं सर्वे गृहं सर्वसमृद्धिमत् । तान्दृष्ट्वा सूर्यसङ्काशान् हिमवान्विस्मितोऽब्रवीत दूरादाकाशमार्गस्थान्मुनीन्सप्त सुतेजसः । सप्तैते सूर्यसङ्काशाः समायांति मदन्तिके | पूजा कार्या प्रयत्नेन मुनीनां च मयाधुना । वयं धन्या गृहस्थाश्च सर्वेषां सुखदायिनः | तथापि तावस्कस्मिंश्चि- दाज्ञां मे दातुमर्हथ । विनियोगप्रसादा हि किंकरा: प्रभविष्णुषु । अस्तोतुः स्तूयमानस्य वन्द्यस्थानन्यवन्दिनः । सुतासंबन्धविधिना भव विश्वगुरोर्गुरुः | स ते दुहितरं साक्षा- त्साक्षी विश्वस्य कर्मणाम् । वृणुते वरदः शंभु- रस्मत्संक्रमितैः पर्दैः । साम्यानदशक: संदर्भ: २७ येषां गृहे समायान्ति महात्मानो यदीदृशाः । यम्माद्भवन्तो मद्नेहमागता विष्णुरूपिणः | पूर्णानां भवतां कार्य कृपणानां गृहेषु किम् । तथापि किंचित्कार्य च सदृशं सेवकस्य मे । कथनीयं सुदयया सफलं स्याज्जनुर्मम । ऋषय ऊचु:- ईशैलेन्द्र ! श्रूयतां वाक्यमस्माकं शुभकारणम् । शिवाय पार्वती देहि संहर्तुः श्वशुरो भव । अयाचितारं सर्वेशं प्रार्थयामास यत्नतः । तारकस्य विनाशाय ब्रह्मा सम्बन्धकर्मणि । नोत्सुको दारसंयोगे शङ्करो योगिनां वरः । विधेः प्रार्थनया देवस्तव कन्यां ग्रहीष्यति । दुहितुस्ते तपस्तप्तं प्रतिज्ञानं चकार सः । हेतुद्वयेन योगींद्रो विवाहं च करिष्यति । एतच्छ्रुत्वा वचस्तेषां मेर्वादीनां हिमाचलः । सुप्रसन्नतरोऽभूइँ जहास गिरिजा हृदि । अरुंधती च तां मेनां वोधयामास कारणात । नानावाक्यसमूहेनेतिहासैर्विविधैरपि । सप्तर्षयो महाभागा वचः शृणुत मामकम् । मदीयं च शरीरं वै पत्नी मेना सुतास्सुता । ऋद्धिसिद्धिच चान्यद्वै शिवस्यैव न चान्यथा | अथ शैलेश्वरः प्रीतो हिमवान्मुनिसत्तम ! | स्वपुरं रचयामास विचित्रं परमोत्सवम् । तथैव सर्व परया मुदान्वित- चक्रे गिरीन्द्रः स्वसुतार्थमेव । गर्ग पुरस्कृत्य महाप्रभावं प्रस्तावयोग्यं च सुमंगल हि । २८ कुमारसंभव - महाशिवपुराणयोः अथ शम्भुः समाहूय नन्द्यादीन् सकलान्गणान् । आज्ञापयामास मुदा गन्तुं वेन च तत्र वै । श्रीशिव उवाच - अपि यूयं सह मया संगच्छध्वं गिरेः पुरम् | कियद्गणानिहास्थाप्य महोत्सवपुरःसरम् । तावत्स्त्रियः समाजग्मुर्हित्वा कामाननेकशः | वहयास्ताः पुरवासिन्यः शिवदर्शनलालसाः । मज्जनं कुर्वती काचित्तवर्णसहिता ययौ । द्रष्टुं कुतूहलाढ्या च शंकरं गिरिजावरम् । रशनां बनती काचित्तयैव सहिता ययौ । वसनं विपरीतं वै धृत्वा काचिद्ययौ ततः । काचिद्धस्ते शलाकां च धृत्वांजनकरा प्रिया अञ्जित्वैकाक्षि सन्द्रष्टुं ययौ शैलसुतावरम् । दृष्ट्वा तु शांकरं रूपं मोहं प्राप्तास्तदाऽभवन् । अथ विष्ण्वादयो देवा मुनयः सकुतूहलम् | हिमाचलप्रार्थनया विवेशान्तर्गृहं गिरेः । श्रुत्याचारं भवाचारं विधाय च यथार्थतः । शिवामलंकृतां चक्रुः शिवदत्तविभूषणैः । एतस्मिन्नन्तरे तत्र गर्गाचार्यप्रणोदितः । हिमवान्मेनया सार्धं कन्यां दातुं प्रचक्रमे । हैमं कलशमादाय मेना चार्धांगमाश्रिता । हिमाद्रेच महाभागा वस्त्राभरणभूषिता । पाद्यादिभिस्ततः शैलः प्रहृष्टः सपुरोहितः । तं वरं वरयामास वस्त्रचन्दनभूषणैः । ततो हिमाद्रिणा प्रोक्तां द्विजास्तिथ्यादि कीर्तने । तिथौ च जामित्रगुणान्वितायाम् । तच्छ्रुत्वा वचनं तेषां सुहृदां स हिमालयः । समेतबन्धुर्हिमवान्सुताया विवाहदीक्षाविधिमन्वतिष्ठत् । अौषधीनामधिपस्य स्वकन्यादानमकरोच्छिवाय विधिनोदितः ! इमां कन्यां तुभ्यमहं ददामि परमेश्वर ! | ते हिमालयमामध्य पुनः प्राप्य च शूलिनम् । सिद्धं चास्मै निवेद्यार्थ तद्विसृष्टाः खमुद्ययुः | तस्मिन्मुहूर्ते पुरसुन्दरीणा- मीशानसंदर्शनलालसानाम् । प्रासादमालासु बभूवुरित्यं व्यक्तान्य कार्याणि विचेष्टितानि | तस्याः करं शैलगुरूपनीतं जग्राह ताम्राङ्गुलिमष्टमूर्तिः । उमातनौ गूढतनोः स्मरस्य सच्छकिन: पूर्वमिव प्ररोहम् । वधूं द्विजः प्राह तवैष वत्से ! वहिर्विवाहं प्रति कर्मसाक्षी । शिवेन भर्त्रा सह धर्मचर्या कार्या त्वया मुक्तविचारयेति । एहि विश्वात्मने वत्से ! भिक्षासि परिकल्पिता । आर्थिनो मुनयः प्राप्तं गृह मेधिफलं मया । साम्यनिदर्शक: संदर्भः पाणिपीडनविधेरनन्तरं शैलराजदुहितुर्हरं प्रति । भावसाध्वसपरिग्रहादभू- कामदोहदसुखं मनोहरम् । समदिवसनिशीथं सङ्गिनस्तत्र शंभोः शतमगमहतूनां सार्धमेका निशेव | न स सुरतसुखेभ्यश्छिन्नतृष्णो बभूव ज्वलन इव समुद्रान्तर्गत स्तज्जलौघैः । २९ भार्यार्थ परिगृह्णीष्व प्रसीद सकलेश्वर ! | तस्मै रुद्राय महते मन्त्रेणानेन दत्तवान् | हिमाचलो निजां कन्यां पार्वतीं त्रिजगत्प्रभुम् वेदमंत्रेण गिरिशो गिरिजाकरपङ्कजम् । जग्राह स्वकरेणाशु प्रसन्नः परमेश्वरः । तस्मिन्नवसरे ज्ञात्वानुकूलं समयं रतिः । किमर्थं प्राणनाथो मे निःस्वार्थ भस्मसात्कृतः । जीवयात्रा पतिं मे हि कामव्यापारमात्मनि । इति तद्वचनं श्रुत्वा प्रसन्नोऽभून्महेश्वरः । सुधादृष्टया शूलभृतो भस्मतो निर्गतः स्मरः । शिवः स भगवान् साक्षात्कैला समग मद्यदा । सौख्यं च विविधं चक्रुर्गणाः सर्वे सुहर्षिताः ।

शय्यां रतिकरीं कृत्वा पुष्पचन्दनचर्चिताम् । अद्भुतां तत्र परमां भोगवस्त्वन्वितां शुभाम् । स रेमे तत्र भगवाञ्शम्भुर्गिरिजया सह् । सहस्रवर्षपर्यन्तं देवमानेन मानदः । हरे भोगप्रवृत्ते तु लोकधर्मप्रवर्तिनी । महान् कालो व्यतीताय तयोः क्षण इवानघ ! । दिव्यं वर्षसहस्रं च शंभोः संभोगकर्म तत् । X x x पूर्णे वर्षसहस्रे च गत्वा तत्र सुरेश्वराः ! | येन वीर्य पतेद्भूमौ तत् करिष्यथ निश्चितम् । तत्र वीर्ये च भविता स्कन्दनामा प्रभोः सुतः । सुन्दरः सुभगः श्रीमांस्तेजस्वी प्रीतिवर्धनः । ३० कुमारसंभव महाशिवपुराणयोः शिव उवाच - हे हरे हे विधे! देवाः ! सर्वे शृणुत मद्वचः | सर्वथाहं प्रसन्नोऽस्मि वरान्त्रणुत ऐच्छिकान् । देवकार्यं कुरु विभो ! रक्ष देवान् महेश्वर ! | करोतु शम्भुः संभोगं पार्वत्या सह निर्जने । जहि दैत्यान् कृपां कृत्वा तारकादीन् महाप्रभून् । इल्याकर्ण्य वचस्तेषां सुराणां भगवान्भवः । प्रत्युवाच विषण्णात्मा दूयमानेन चेतसा | हे विष्णो हे विधे! देवाः! सर्वेषां वो मनोगतिः । तथाविधेऽनङ्गरसप्रसङ्गे मुखारविन्दे मधुपः प्रियायाः । संभोगवेश्म प्रविशन्तमन्त- ददर्श पारावतमेकमीशः । प्रभो ! प्रसीदाशु सृजात्मपुत्रं यं प्राप्य सेनान्यमसौ सुरेन्द्रः स्वर्लोकलक्ष्मीप्रभुतामवाप्य जगत्रयं पाति तत्र प्रसादात् । त्वं सर्वभक्षो भव भीमकर्मा कुष्टाभिभूतोऽनलधूमगर्भः । इत्थं शशाप द्विसुता हुताशं रुष्टा रतानन्दसुखस्य भङ्गात् । स पावकालोकरुणा विलक्षां स्मरत्रपास्मेरविनम्रत्रक्राम् । विनोदयामास गिरीन्द्रपुत्रीं शृङ्गारगर्भैर्मधुरैर्वचोभिः । आससाद सुनासीरं सदसि विदशः सह । एप यम्बकंतीवं वहन्यह्निर्महन्महः | दृष्ट्वा तथाविधं वह्नि मिन्द्रः क्षुब्धेन चैतसा | व्यचिन्तयचिरं किंचि स्कंदर्पद्वेषिरोषजम् । तत्र माहेश्वरं धाम संचक्राम हविर्भुजः | गङ्गायामुत्तरङ्गाया- मन्तस्तापविपद्धति । यद्भावि तद्भवत्येव कोऽपि नो तन्निवारकः । यज्जातं नज्जातमेव प्रस्तुतं शृणुताऽमराः || शिरस्तः खलितं वीर्य को ग्रहीष्यति मेऽचुना | स गृह्णीयादिति प्रोच्य पातयामास तद्भुवि । अग्निभूत्वा कपोतो हि प्रेरितः सर्वनिर्जरैः | अभक्षच्छांभवं वीर्यं चञ्चवा तु निखिलं तदा । ज्ञात्वा तद्वृत्तमखिलं महाक्रोवयुता शिवा । इति शहा शिवा वह्निं सहेशेन नगात्मजा | जगाम स्वालयं शीघ्रमसंतुष्टा ततो मुने ! | गत्वा शिवा शिवं सम्यक् बोधयामास यत्नतः । साम्यनिदर्शक: संदर्भ: कृशानुरेतसो रेत- स्याहते सरिता तया । निश्चक्राम ततः सौख्यं हव्यवाहो वहन्बहु | अमोघं शांभवं बीजं सद्यो नद्योज्झितं महत् । तासामभ्युदरं दीप्तं स्थितं गर्भत्वमागमत् । स्वरूपमा स्थाय ततो हुताशस्त्र- सन्वलत्कम्पकृताञ्जलिः सन् | प्रवेपमानो नितरां स्मरारि- मिदं वचो व्यक्तमथाध्युवाच । स्वदीय सेवावसर प्रतीक्षै- रभ्यर्थितः शकमुखैः सुरैस्वाम् । उपागतोऽन्चेष्टुमहं बिहंग- रूपेण विद्वन्समयोचितेन । पिबन्स तम्याः स्तनयोः सुधौघं क्षणक्षणं साधु समेधमानः । प्रापाकृतिं कामपि षड्भिरेत्य निषेव्यमाणः खलु कृत्तिकाभिः । श्रुत्वेति वाक्यं हृदयप्रियायाः कौतूहलिन्या विमलस्मितश्रीः । सान्द्रप्रमोदोदय सौख्य हेतु- भूतं वचोऽवोचत चन्द्रचूडः । जगधयीनन्दन एष वीरः प्रवीरमातुस्तव नन्दनोऽस्ति । अजीजनत्परं पुत्रं गणेशाख्य मुनीश्वर ! | असहञ्शिवरेतस्तद्धिमाद्रिः कम्पमुद्वहन् । गंगायां प्राक्षिपत्तूर्णमसह्यं दाहपीडितः । गङ्गयाऽपि च तद्वीर्यं दुःसहं परमात्मनः । निःक्षिप्तं हि शरस्तम्बे तरंगैः स्वैर्मुनीश्वर ! । पतितं तत्र तदेतो द्रुतं वालो बभूव ह । ततः स वह्निर्विकलः सांजलिर्नतको मुने । अस्तौच्छिवं मुखी नात्मा वचनं चेदमब्रवीत् । देवदेव महेशान ! मूढोऽहं तव सेवकः । क्षमस्व मेऽपराधं हि मम दाहं निवारय । ३१ ग्रहीतुं तं मनचक्रुः सर्वास्ताः कृत्तिका स्त्रियः | वादो बभूव तासां तद्ग्रहणेच्छापरो मुने ! | तद्वादशमनार्थं स षण्मुखानि चकार ह् । अमुं रुदंतमानीय स्तन्यपानेन ताः प्रभो ! । वर्धयामासुरीशस्य सुतं तव रविप्रभम् । पुत्रं निरीक्ष्य च तदा जगदेकबन्धुः ३२ कुमारसंभव - महाशिवपुराणयोः कल्याणि ! कल्याणकरः सुराणां प्रीत्यान्वितः परमया परया भवान्या त्वत्तोऽपरस्याः कथमेष सर्गः । महोत्सवे तत्र समागतानां गन्धर्वविद्याधरसुन्दरीणाम् । संभावितानां गिरिराजपुत्र्या गृहेऽभवन्मङ्गलगीतकानि | ततः कुमारं कनकाद्रिसारं पुरंदरः प्रेक्ष्य धृतास्त्रशस्त्रम् । महेश्वरोपान्तिकवर्तमानं शत्रोर्जयाशां मनसा बबन्ध । इति प्रबद्धाञ्जलिरेत्य नन्दी निधाय कक्षामभि हेमवेत्रम् । प्रसादपात्र पुरतो भविष्णु- रथ स्मरारातिमुवाच वाचम् | पुरा सुरेन्द्रं सुरसंघसेव्यं त्रिलोकसेव्यस्त्रिपुरासुरारिः । प्रीत्या सुधासारनिधारिणेव ततोऽनुजग्राह विलोकनेन । रणोत्सुकेनान्धकशत्रुसूनुना समं प्रयुक्तै स्त्रिद शैजिंगीपुणा । महासुरं तारकसंज्ञकं द्विषं प्रसह्य हन्तुं समनात द्रुतम् स दुर्निवारं मनसोऽतिवेगिनं तच्छ्रुत्वा वचनं शंभोर्मुनेर्विष्ण्वादयः सुराः । सर्वे प्रोचुः प्रसन्नास्या देवं पशुपतिं प्रभुम् । " कुमारेण हतो होष तारको भविता प्रभो ! । तदर्थमेव संजातमिदं चरितमुत्तमम् ।” तथेति मत्वा स विभुर्दत्तवांस्तनयं तदा । जयश्रियः संनयनं सुदुःसहम् । देवेभ्यस्तारकं हन्तुं कृपया परिभावितः । साम्यनिदर्शक: संदर्भ: ३३ शिवाज्ञया सुराः सर्वे ब्रह्मविष्णुमुखास्तदा । पुरस्कृय गुहं सयो निर्जग्मुर्मिलिता गिरेः । कुमारे च पुरस्कृय सर्वे ते जातमाध्यसाः | विजित्वरीभिर्विजयश्रिया श्रितम् | योद्धुकामाः सुरा जग्मुर्महीसागरसंगमम् । श्रुत्वा सुराणां पृतनाभिरागतं चित्ते चिरं चुक्षुभिरे महासुराः । ततो महेन्द्रस्य चराश्चमूचरा रणान्तलीलारभसेन भूयसा । पुरः प्रचेलुर्मनसोऽतिवेगिनो युयुत्सुभिः किं समरे विलम्ब्यते । स शांकरिः सर्वगुणैरुपेतः । सङ्ग्रामं प्रलयाय संनिपततो- वेलामतिकामतो वृन्दारासुरसैन्यसागरयुग- स्याशेषदिव्यापिनः । आजगाम द्रुतं तत्र यत्र देवाः स तारकः । सैन्येन महता साधं सुरैर्बहुभिरावृतः । सुरसैन्येन महता लोकपालैः समावृतः । तदा दुन्दुभयो नेदुर्भेरीतर्ग्राण्यनेकशः । विमानमारुह्य तदा महायशाः श्रिया समेता परऱ्या बभौ महान् संवीज्यमानश्चमरैर्महाप्रभैः । मिलितास्ते तदा सर्वे देवाः शक्रपुरोगमाः | अथाभूद्वंद्वयुद्धं हि सुरासुरविमदनम् । कालातिथ्यभुजो बभूव बहल: कोलाहल: क्रोषणः शैलोत्तालतटीविघट्टनपटु· र्ब्रह्माण्ड कुाक्षैभरिः । दैत्योऽपि रोषकलुषो निशितैः यंदा हर्षिता वीराः क्लीवाश्च भयमागताः । तारको युयुधे युद्धे शक्रेण दितिजो बली | तदा च तेषां सुरानवान बभूव युद्धं तुमुलं जयैषिणाम् । सुखावहं वीरमनस्विनां वै । क्षुरप्रैरा कर्णकृष्टधनुरुत्पतिः स मीमैः । तद्भीतिविद्रुतसमस्तसुरेन्द्रसैन्यो विजित्वरं नाम तदा महारथो धनुर्धरः शक्तिधरोऽध्यरोहयत् । चमूप्रभुं मन्मथमर्दनात्मजं भयावहूंं चव तथेतरेषाम् । मही महारौद्रतरा विनष्टकैः सुरासुरैर्वै पतितैरनेकशः । गाढं जघान मकरध्वजशत्रुसूनुम् । तस्मिन्नगम्यातिभयानका तदा उयोतिताम्बर दिगन्तरमं शुजालैः जाता महासौख्यवह! मनविनाम् । शक्तिः पपात हृदि तस्य महासुरस्य । विनिश्चियासुरवधं शांकरिः स महाप्रभुः । विमानादवतीर्याथ पदातिरभवत्तदा । पद्भ्यां तदासौ परिधावमानो रेजेऽतिवीरः शिवजः कुमारः । करे समादाय महाप्रभां तां शक्तिं महोल्कामित्र दीप्तिदीप्ताम् । कुमारसंभव - महाशिवपुराणयोः हर्षाश्रुभिः सह समस्त दिगीश्वराणां शोकोष्णबाप्पसलिलैः सह दानवानाम् । शक्तया हृतासुरसुरेश्वरमापतन्तं कल्पान्तवातहतभिन्नमि वाशिङ्गम् । इत्येवमुक्ता स तदा महाबलः कुमारमुद्दिश्य ययौ च योद्धुम् । जग्राह शक्ति परमाद्भुतां च स तारको देववरान्बभाषे । कुमारो मेऽग्रतश्चाद्य भवद्भिश्च कथं कृतः । यूयं गतत्रपा देवा विशेषाच्छक मेश्वरौ ( ? ) । इत्येवमुक्त्वा तु विधूय पुण्यं निजं स तन्निंदनकर्मणा वै । जग्राह शक्ति परमाद्भुतां च स तारको युद्धवतां वरिटः । तं बालान्तिकमायान्तं तारकासुरमोजसा । आजधान च वज्रेग शक्रो गुहपुरस्सरः | तं तारकं हंतुमना: करशक्तिर्महाप्रभुः । विरराज महावीरः कुमार शम्भुबालकः | शक्या तथा जघानाथ कुमारस्तारकासुरम् । तेजसाढ्यः शंकरस्य लोक्लेशकरं च तम् । पपात सद्यः सहसा विशीर्णागोऽसुरः क्षितौ । तारकाख्यो महावीरः सर्वामुरगणाधिपः । हते तम्तिन्महादेत्ये तारकाख्ये महाबले । क्षयं प्रणीता बहवोऽसुरा देवगणैस्तदा । हिमालयस्तदागत्य म्वपुत्रैः परिवारितः । सबंधुः सानुगः शंभुस्तुष्टाव च शिवा गुहम् | स्नेहान्वितो भुजगभोगयुतो हि साक्षा- त्सर्वेश्वरो हरिवृतः प्रमथैः परेशः । तदा नीराजितो देवैः सकलत्रैर्मुदान्वितैः । जयशब्देन महता व्याप्तमासीन्नभस्तलम् । कुमारः स्वगणैः सार्धमाजगाम शिवालयम् । त्रिभुवनवरशल्ये प्रोद्धृते दानवेन्द्रे । सर्वे प्रसन्नतां याता विशेषाञ्च शिवाशिवौ । बलरिपुरथ नाकस्याधिपत्यं प्रपद्य ततः स भगवान् रुद्रो भवान्या जगदम्बया । व्यजयत सुरचूडारनघृष्टाग्रपादः । सर्वैः स्तुतो जगामाथ स्वगिरिं स्वगणैर्वृषः । दृष्ट्वा प्ररूढपुलकाञ्चितचारुदेहा देवाः प्रमोदमगमंस्जिदशेन्द्र- मुख्याः । इति विषमशरारे: सूनुना जिष्णुनाजौ कविकुलचूडामणि-कालिदासकृतीनां सर्वशास्त्र - समृद्धत्वपरिचयः । · नाट्यशास्त्रम् तौ संधिषु व्यञ्जितवृत्तिभेदं रसान्तरेषु प्रतिबद्धरागम् । अपश्यतामप्सरसां मुहूर्तं प्रयोगमाद्यं ललिताङ्गहारम् ( कुमार ७१९१ ) पुराणस्य कवेत्तस्य वर्णस्थानसमीरिता । बभूव कृतसंस्कारा चरितार्थैव भारती ॥ - मीमांसाशास्त्रम् - ( रघु. १०३३६ ) तस्मै जयाशीः ससृजे पुरस्तात्सप्तांषभिस्तान्स्मितपूर्वमाह । विवाहयज्ञे विततेऽत्र यूयमध्वर्यवः पूर्ववृता मयेति (कुमार, ७१४७) - योगशास्त्रम् - - ततो॒ भुजंगाधिपतेः फणाग्रैरधः कथंचिद्धृतभूमिभागः । शनैः कृतप्राण विमुक्तिरीशः पर्यङ्कबन्धं निबिडं बिभेद (कुमार. ३१५९) पर्यङ्गबन्धस्थिरपूर्वकायमृज्वायतं संनमितोभयांसम् । उत्तानपाणिद्वय संनिवेशात्मकुदराजीवमिवाकमध्ये ॥ ( कुमार. ३१४५ ) - वेदान्तशास्त्रम् - ( कुमार. २.१० ) ( कुमार. २.१३ ) आत्मानमात्मना वेत्सि सृजस्यात्मानमात्मना । आत्मना कृतिना च त्वमात्मन्येच प्रलीयसे | उद्धातः प्रणवो यासां न्याय स्त्रिभिरुदीरणम् । कर्म यज्ञः फलं स्वर्गस्तासां त्वं प्रभवो गिराम् ॥ ( कुमार.२.१२ ) त्वामामनन्ति प्रकृति पुरुषार्थप्रवर्तिनीम् । तद्दर्शिनमुदासीनं त्वामेव पुरुषं विदुः || द्रवः संघातकठिनः स्थूलः सूक्ष्मो लघुर्गुरुः । व्यक्तो व्यक्ततरश्वासि प्राकाम्यं ते विभूतिषु ॥ ( कुमार. २.११ ) स्वकालपरिमाणेन व्यस्तरात्रंदिवस्य ते । यौ तु स्वप्नावबोधौ तौ भूतानां प्रलयोदयौ । स्त्रीपुंसावात्मभागौ ते भिन्नमूर्तः सिसृक्षया । प्रसूतिभाजः सर्गस्य तावेव पितरौ स्मृतौ ॥ नमस्त्रिमूर्तये तुभ्यं प्राक्सृष्टेः केवलात्मने । गुणत्रयविभागाय पश्चाद्भेदमुपेयुषे | ( कुमार. २.८ ) ( कुमार. २.७ ) ( कुमार. २.४ ) २ तिसृभिस्त्वमवस्थाभिर्महिमानमुदीरयन् । प्रलय स्थितिसर्गाणामेकः कारणतां गतः । ( कुमार. २.६ ) - घमशास्त्रम् - दृढभक्तिरिति ज्येष्ठे राज्यतृष्णापराङ्मुखः ।. मातुः पापस्य भरतः प्रायश्चित्तमिवाकरोत् ( रघु. १२।१५ ) समुद्रव्यवहारी सार्थवाहो धनमित्रो नाम नौव्यसने विपन्न: । अनपत्यश्च किल नपस्त्री | राजगामी तस्यार्थसंचय इत्येतदमायेन लिखितम् । देव ! दाणि एव्व साकेदअस्स संहिणी दुहिआ णिव्युत्तपुंसवणा जाआ से मुणी आदि । राजा-ननु गर्भः पित्र्यं रिक्थमर्हति । (शाकु ६ अंकः ) अस्मात्परं बत यथाश्रुति संभृतानि को नः कुले निवपनानि नियच्छतीति । नूनं प्रसूतिविकलेन मया प्रसिक्तं धौताश्रुशेषमुदकं पितरः पिवन्ति ( शाकु. ६३२५ ) नूनं मत्तः परं वंश्याः पिण्डविच्छेददर्शिनः । न प्रकामभुजः श्राद्धे स्वधासङ्ग्रहनत्पराः ॥ मत्परं दुर्लभं मत्वा नूनमावर्जितं मया । पयः पूर्वैः स्वनिःश्वासः कवोष्णमुपभुज्यते ॥ ( रघु. १९६६-६७ ) - ज्योतिषशास्त्रम् - उपरागान्ते शशिनः समुपगता रोहिणी योगम् ( शाकु. ७७२२ ) निर्विष्ठ॒मारां पितृभिर्हिमांशोरन्त्यां कलां दर्श इवौषधीषु (रघु. १४१८० ) ग्रस्ततः पञ्चभिरञ्चसंश्रयैरसूर्यगैः सूचितभाग्यसंपदम् । असून पुत्रं समये शचीसमा त्रिसाधना शक्तिरिवार्थमक्षयम् ( रघु. ३॥ १३ ) पुपोष वृद्धि हरिदश्वदीधितेरनुप्रवेशादिव बालचन्द्रमाः ॥ ( रघु. ३|२२ ) जाव अंगारवो रासिं विअ अणुकं परिगमणं ण करेदि | ( माल० ३ अंक: ) तिम्रंत्रिलोकप्रथितेन सार्धमजेन मार्गे वसतीरुषित्वा । तम्मादपावर्तत कुण्डिनेशः पर्वात्यये सोम इवोष्णरश्मे: ( रघु. ७७३३ ) 1 तुलनात्मकदृष्ट्या सुविमृश्यै वामावास्याविषये हि पाश्चात्य विदुषामितो विसंवादिनीयं विचारसरणिः -- "The sun to me is dark and silent as the moon When she deserts the night, hid in her vacant cave. -Milton. ततः प्रतस्थे कौबेरी भास्वानिव रघुर्दिशम् । शरैम्स्त्रेरिघोदीच्या नुद्धरिष्यन् रसानिव ( रघु ४१६६ ) संध्यात्रक पिशस्तस्य विराधो नाम राक्षसः | अतिष्ठन्मार्गमात्य रामस्यन्दोरिव ग्रहः ( रघु. १२१२८ ) स जहार तयोर्मध्ये मैथिली लोकशोपणः | नभोनभस्ययोईष्टिमवग्रह इवान्तरे | ( रघु. १२/२९ ) अगस्त्य चिह्नादयनात्समीपं दिगुत्तरा भास्वति संनिवृत्ते । आनन्दशीतामिव वाष्पवृष्टिं हिमस्रुति हैमवतीं ससर्ज । ( रघु. १६१४४ ) तौ विदेह नगरीनिवासिनां गां गताविव दिवः पुनर्धसू मन्यते स्म पिवतां विलोचनैः पक्ष्मपातमपि वञ्चनां मनः । ( रघु. ११:३६ ) जिगमिपुर्धनदाध्युषितां दिशं रथयुजा परिवर्तितवाहनः । दिन मुखानि र विर्हि मनिग्रहैमिलयन्मलयं नगमत्यजत् (रघु.२५ :) तस्य प्रभानिर्जितपुष्परागं पौष्यां तिथा पुष्यमसूत पत्नी । तम्मिन्नपुष्यन्नुदितं समग्रां पुष्टि जनाः पुष्य इव द्वितीये । (रघु. १८०२२) दोपातनं बुधवृहस्पतियोगदृश्य- स्तारापतिस्तरलविद्युदिवाभ्रवृन्दम् । (रघु. १३१७६ ) ब्राह्म मुहूर्ते किल तस्य देवी कुमारकल्पं सुषुवे कुमारम् । अतः पिता ब्रह्मण एव नाम्ना तमात्मजन्मानमजं चकार ॥ ( रघु. ५१३६ तारागणश्वरभूषणमुद्वहन्ती मेघावरोधपरिमुक्तशशाङ्कवक्त्रा । ज्योत्स्नादुकूलममलं रजनी दधाना वृद्धिं प्रयात्यनुदिनं प्रमदेव वाला || ( ऋतु. ३१७ ) दक्षिणां दिशमृक्षेषु वार्षिकेष्विव भास्करः । (रघु. १२ २५ ) तस्यालमेषा क्षुधितस्य तृप्त्यै प्रदिष्टकाला परमेश्वरेण । उपस्थिता शोणितपारणा मे सुरद्विषश्चान्द्रमसी सुधेव । (रघु. २१३९ ) काप्यभिख्या तयोरासीद्वजतोः शुद्धवेषयोः | हिमनिर्मुक्तयोर्योगे चित्रा चन्द्रमसोरिव ॥ ( रघु. १९४६ ) दृष्टिप्रपातं परिहृल्य तस्य कामः पुरः शुक्रमिव प्रयाणे । प्रान्तेषु संसक्तनमेरुशाखं ध्यानास्पदं भूतपतेर्विवेश || ( कुमार. ३|४३ ) - नीतिशास्त्रम् - उपगतोऽपि च मण्डलना भितामनुदितान्यसितातपवारणः । श्रियमवेक्ष्य स रन्ध्रचलामभूदनलसोऽनल सोमसमद्युतिः॥ (रघु.९।१५) - व्याकरणशास्त्रम् - ता नगविपसुता नृपात्मजैस्ते च ताभिरगमकृतार्थताम् । सोऽभवद्वरवधूसमागमः प्रत्ययप्रकृतियोगसंनिभः ( रघु. ११९५६ ) रामादेशादनुगता सेना तस्यार्थसिद्धये । पश्चादध्ययनार्थस्य धातोरधिरिवाभवत् ( रघु. १५१९ ) स हत्वा वालिनं वीरस्तपदे चिरकाङ्क्षिते । धातोः स्थान इचादेशं सुग्रीवं संन्यवेशयत् ( रघु. १२१५८ ) परमेक: परंतपः | यः श्वन अपवाद इवोत्सर्ग व्यावर्तयितुमीवरः ( रघु. १५१७) - आयुर्वेदः तस्यास्तितै वनगजमदेर्वासितं वान्तवृष्टि- र्जम्बूकुञ्ज प्रतिहतरयं तोयमादाय गच्छेः । अन्तःसारं घन ! तुलयितुं नानिलः शक्ष्यति त्वां रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय || ( मेघ. पू. २० ) जानकी विषवल्लीभिः परीतंत्र महौषधिः ( रघु. १२/६१) शरीरसादादसमग्रभूषणा मुखेन साऽलक्ष्यत लोधपाण्डुना । ( रघु. ३१२ ) - कोकशास्त्रम् - पत्युः शिरश्चन्द्रकलामनेन स्पृशेति संख्या परिहासपूर्वम् । सारअयित्वा चरणां कृताशीमध्येन तां निर्वचनं जघान (कुमार ७११९ ) तस्य सावरणदृष्टसंवयः काम्यवस्तुषु नवेषु सङ्गिनः । वल्लभाभिरुपसृत्य चक्रिरे सामिभुक्तविषयाः समागमा: ( रघु. १९।१६ ) नाम वल्लभजनस्य ते मया प्राप्य भाग्यमपि तस्य काङ्क्षयते । लोलुपं ननु मनो ममेति त गोत्रविस्खलितमूचुरङ्गना: ( रघु. १९२४ ) चूर्णबभ्रु लुलितसगाकुलं छिन्नमेखलमलक्तकाङ्कितम् । उत्थितस्य शयनं विलासिनस्तस्य विभ्रमरतान्यपावृणोत् (रघु. १९/२५ ) मित्रकृत्यमपदश्य पार्श्वतः प्रस्थितं नमनवस्थितं प्रियाः । विद्म हे शठ | पलायनच्छलान्यञ्जसेति मधुः कः (रघु. १९३१) - सांख्य शास्त्रम्- + - ब्राह्मं सरः कारणमाप्तवाचो बुद्धेरिवाव्यक्तमुदाहरन्ति । ( रघु. १३१६० ) अलं. स. उ. उत्तर. ऋ. पेत. क.ठोप. काव्या. काव्या. सू. कौषी. ग. गरुड. छां. अभिधानम् अभिनवगुप्तः अमरकोशः कारसर्वस आगमः आचार्या: ABBREVIATIONS अलंकारसर्वस्वम् | तैत्ति. उणादिसूत्रम् द. रू. उत्तररामचरितम् | पञ्च. ऋग्वेदसंहिता | पा. ऐतरेयोपनिषत् उणादिसूत्रम् उत्तररामचरितम् मनु. कठोपनिषत् : याज्ञ. काव्यादर्श: उत्पलमाला ऋग्वेदसंहिता ऐतरेयोपनिषत् रघु. काव्यालंकारसूत्राणि कौषी तक्युपनिषत् वा. AUTHORS AND WORKS QUOTED OR REFERRED TO BY MALLI NATHA IN HIS SANJĪVINĪ ON THE KUMĀRASAMBHAVA. शिक्षा. गणसूत्रम् गरुडपुराणम् श्वेता. छान्दोग्योपनिषत् शाकु. १६७ कठोपनिषत् ६ कामशास्त्रम् ८, ९, ११ काव्यादर्शः काशिका २,६,२०,२ ३७ : कैयट: आश्वलायनगृह्यसूत्रम् १६८, १७२, १७६ | कोशः काहलः २१,१३९ | कौटिल्यः १२२ । क्षीरस्वामी १२ | गजायुर्वेदः १४ तैत्तिरीयोपनिषत् दशरूपकम् पञ्चतन्त्रम् पाणिनीयं सूत्रम् मनुस्मृतिः याज्ञवल्क्यस्मृतिः गणव्याख्यानम् गणसूत्रम् रघुवंशम् वार्तिकम् शिक्षा श्वेताश्वतरोपनिषत् शाकुन्तलम् ३३ १,४,१३,१६ is a ५७,६१,६४ १२० १४, ११३ गरुडपुराणम् गीता गोनर्दः छान्दोग्योपनिषत् जैमिनीयं सूत्रम् ज्यौतिषिकाः नैत्तिरीयोपनिषत् दशरूपकम् नाथः नानार्थकोशः न्यासकारः पञ्चतन्त्रम् पाणिनीय सूत्रम् प्रमाणम् बृहस्पतिस्मृतिः ब्रह्माण्डपुराणम् भरतः भूपाल: भोजराजः मनुस्मृतिः याज्ञवल्क्यस्मृतिः यादवः योगसारः रघुवंशम् रघुवंशसंजीविनी J ५ : राजकंदर्पः १३८ ! लोकवादः १७६ ! वचनम् ३१ वल्लभदेवः १२२ | वसिष्ठः ( स्मृतिः) ९ ३१ ४ वामनः ( काव्यालङ्कारसूत्राणि ) १७ ३३, ४४,६७, ७५, १९७ वार्तिकम् ( कात्यायनीयम् ) विश्वः ५५ विष्णुपुराणम् वृत्तरत्नाकरः वृत्तिकारः २ वैजयन्ती ३ शब्दार्णवः १८८ शास्त्रम् २,१० : सामान्यशास्त्राणि १७६ | शाश्वतः १७४ शिक्षा १३१ १०० १४९ ४६ ! शिशुपालवधम् २९,३०,६२ | श्रुतिः ९४,१२१ | श्रौतलिङ्गम् ६, २५ | श्वेताश्वतरोपनिषत् ६४,६५ सामुद्रिकाः १४१ स्मृतिः १७० हलायुधः १३ २५,४१, ४६, ५४ २, ३, ९, १० २,४८ ९,२५,४६, ७२, ५७ १७३ ७७ ९४ ३३,४३ ८४

३८,१०७,१५०

श्रीः

संजीविनीव्याख्यासमेतं

कुमारसंभवम्


प्रथमः सर्गः

   मातापितृभ्यां जगतो नमो वामार्धजानये ।
   सद्यो दक्षिणदृक्पातसंकुचद्वामदृष्टये ॥
 अन्तरायतिमिरोपशान्तये शान्तपावनमचिन्त्यवैभवम् ।
 तं नरं वपुषि कुञ्जरं मुखे मन्महे किमपि तुन्दिलं महः ॥
 शरणं करवाणि शर्मदं ते चरणं वाणि चराचरोपजीव्यम् ।
 करुणामसृणैः कटाक्षपातैः कुरु मामम्ब कृतार्थसार्थवाहम् ॥
  इहान्वयमुखेनैव सर्वं व्याख्यायते मया ।
  नामूलं लिख्यते किंचिन्नानपेक्षितमुच्यते ॥
  भारती कालिदासस्य दुर्व्याख्याविषमूर्च्छिता ।
  एषा संजीविनी व्याख्या तामद्योज्जीवयिष्यति ॥

 तत्रभवान्कालिदासः कुमारसंभवं काव्यं चिकीर्षुः 'आशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुखम्' (काव्या. १।१४) इति शास्त्रात्काव्यादौ वक्ष्यमाणार्थानुगुणं वस्तु निर्दिशति--

अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः ।
पूर्वापरौ तोय[१]निधी व[२]गाह्य स्थितः पृथिव्या इव मानदण्डः ॥ १ ॥

 अस्तीति ॥ उत्तरस्यां दिशि । अनेनास्य देवभूमित्वं सूच्यते । देवताऽऽत्माधिष्ठाता यस्य सः । एतेनास्य वक्ष्यमाणमेनकापरिणयपार्वतीजननादिचेतनव्यवहार


योग्यत्वः । हिमस्यालयः स्थानमिति हिमालयो नाम हिमालय इति सूचितम्

प्रसिद्धः। अधिको राजाधिराजः। 'राजाहःसखिभ्यष्टच्' (पा. ५।४।९१) । न गच्छन्तीति नगा अचलाः, तेषामधिराजो नगाधिराजोऽस्ति । कथंभूतः ? पूर्वापरौ प्राच्यपश्चिमौ तोयनिधी समुद्रौ वगाह्य प्रविश्य, अत एव पृथिव्या भूमेर्मानं हस्तादिना परिच्छेदः । भावे ल्युट् तस्य दण्डः । यद्वा,-मीयतेऽनेनेति मानम् । करणे ल्युट्, स चासौ दण्डश्च स इव स्थितः, आयामपरिच्छेदकदण्ड इव स्थित इत्यर्थः। पूर्वापरसागरावगाहित्वं चास्य हिमालयस्यास्त्येव । उक्तं च ब्रह्माण्डपुराणे- 'कैलासो हिमवांश्चैव दक्षिणे वर्षपर्वतौ । पूर्वपश्चायतावेतावर्ण वान्तर्व्यवस्थितौ ॥' अत्र हिमाचलस्योभयाब्धिव्याप्तिसाम्यान्मानदण्डत्वेनोत्प्रेक्षणादुत्प्रेक्षालंकारः । 'प्रकृतेऽप्रकृतगुणक्रियादिसंबन्धादप्रकृतत्वेन प्रकृतस्य संभावनमुत्प्रेक्षा' इत्यलंकारसर्वस्वकारः । अस्मिन्सर्गे प्रायेण वृत्तमुपजातिः । क्वचिदिन्द्रवज्रोपेन्द्रवज्रे च । तल्लक्षणं तु-'स्यादिन्द्रवज्रा यदि तौ जगौ गः' । 'उपेन्द्रवज्रा जतजास्ततो गौ'। 'अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः' इति ॥ ३॥

 इतः परं षोडशभिः श्लोकैर्हिमालयं वर्णयति । तत्र नगाधिराजत्वं निर्वोढुमाह-

यं सर्वशैलाः परिकल्प्य वत्सं मेरौ स्थिते दोग्धरि दोहदक्षे ।
भास्वन्ति रत्नानि महौषधीश्च पृथूपदिष्टां दुदुहुर्धरित्रीम् ।।२।।

 यमिति ॥ सर्वे च ते शैलाश्च सर्वशैलाः । 'पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन' (पा.२|१|४९) इति समासः । यं हिमालयं वत्सं परिकल्प्य विधाय दोहदक्षे दोहनसमर्थे मेरौ दोग्धरि स्थिते सति । 'यस्य च भावेनभावलक्षणम्' (पा.२।३।३७) इति सप्तमी । पृथूपदिष्टां पृथुना वैन्येनोपदिष्टामीहत्तया प्रदर्शितां धरित्रीम्, गोरूपधरामिति शेषः। 'गौर्भूत्वा तु वसुंधरा' इति विष्णुपुराणात् । अकथितं च' (पा. १।४।५१) इति कर्मत्वम् ।भास्वन्ति च भास्व त्यश्च भास्वन्ति द्युतिमन्ति । ओषधिविशेषणं चैतत् । 'नपुंसकमनपुंसकेन-


टिप्प०-1 केचित्वत्र 'अनामनगाधिराजः' इति पाठमादृत्य 'नास्ति नामो नमनं यस्येत्यनामः, स चासौ नगाधिराजश्चेति स तथा कर्मधारयः । 'अनाम' सविशेषणेना स्योन्नतिमत्त्वमुक्तम्' इत्याहुः । अत्र २ 'अस्ति'पदस्यादौ प्रयोगात्तेनैव परमात्मनः प्रतिपादनाच्च मङ्गलमाचरितवान्कालिदास इत्यवसेयम् । (पा.१।२।६९) इत्यादिना नपुंसकैकशेषः। रत्नानि मणीञ्जातिश्रेष्ठवस्तूनि च । 'रत्नं श्रेष्ठे मणावपि' इति विश्वः । 'जातौ जातौ यदुत्कृष्टं तद्रत्नमिति कथ्यते' इति यादवः । महौषधीश्च संजीवनीप्रभृतीश्च । क्षीरत्वेन परिणता इति शेषः । 'ताः क्षीरपरिणामिनी:' (१।१३।७८) इति विष्णुपुराणात् । दुदुहुः । 'दुहियाचि-'(वा० १०९०।११००) इत्यादिना द्विकर्मकत्वम् । अत्र प्रयोजकत्वेऽपि शैलानां 'पञ्चभिर्हलैः कर्षति ग्रामं ग्रामणीः' इतिवत्तत्समर्थाचरणात्कर्तृत्वेन व्यपदेशः । दुहेः स्वरितेत्त्वेऽप्यकर्त्रभिप्रायविवक्षायां परस्मैपदम् । अत्रार्थे प्रमाणम्- 'गौर्भूमिरचलाः सर्वे कर्तारोऽत्र पयांसि च । ओषध्यश्चैव भास्वन्ति रत्नानि विविधानि च ॥ वत्सश्च हिमवानासीद्दोग्धा मेरुर्महागिरिः ॥' इति । एतेन वत्सस्य मातुः प्रेमास्पदत्वादस्य सारग्राहित्वं गम्यते । तथा चास्य नगस्य रत्नविशेषभोक्तृत्वान्नगाधिराजत्वं युक्तमिति भावः । अत्र हिमवद्वर्णनस्य प्रकृतत्वात्तद्गतौषधिरत्नानां द्वयानामपि प्रकृतत्वात्तेषां दोहनक्रियारूपसमानधर्मसंबन्धादौपम्यस्य गम्यत्वात्केवलप्राकरणिकविषयस्तुल्ययोगितानामालंकारः । तदुक्तम्-'प्रस्तुतानां तथान्येषां केवलं तुल्यधर्मतः । औपम्यं गम्यते यत्र सा मता तुल्ययोगिता ॥' न चात्र रूपकपरिणामाद्यलंकारशङ्का कार्या, तेषामारोपहेतुत्वात् हिमहेमाचलादिषु वत्सत्वदोग्धृत्वादीनामागमसिद्धत्वेनानारोप्यमाणत्वादिति ॥२॥

 ननु हिमदोषदूषितस्य तस्यात्यन्तमनभिगम्यत्वाच्छृित्रिण इव सर्वमपि सौभाग्यं विफलमित्याशङ्क्याह-

अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम् ।
एको हि दोषो गुणसंनिपाते निमजतीन्दोः किरणेष्विवाङ्कः ॥३॥

 अनन्तेति ॥ प्रभवत्यस्मादिति प्रभवः कारणम् । अनन्तानामपरिमितानां रत्नानां श्रेष्ठवस्तूनां प्रभवस्य यस्य हिमाद्रेर्हिमम् । कर्तृ । सुभगस्य भावः सौभाग्यम् । 'हृद्भगसिन्ध्वन्ते पूर्वपदस्य च' (पा. ७।३।१९) इत्युभयपदवृद्धिः । तद्विलुम्पतीति सौभाग्यविलोपि सौन्दर्यविघातकं न जातं नाभूत् । तथा हि-एको


टिप्प०-1 श्लोकार्धमिदं दूषितं केनचिद्दारिद्द्र्य पीडितेन कविवराकेण-एको हि दोषो गुणसन्निपाते निमज्जतीन्दोरिति यो बभाषे। नूनं न दृष्टं कविनापि तेन दारिद्र्यदोषोगुणराशिनाशी' इति ।

दोषो गुणसंनिपात इन्दोः किरणेष्वङ्क इव निमज्जति, अन्तर्लीयत इत्यर्थः । न हि स्वल्पो दोषोऽमितगुणाभिभावकः, किंतु कश्चिदिन्दुकलङ्कादिवद्गुणैरभिभूयते; अन्यथा सर्वरम्यवस्तुहानिप्रसङ्गादिति भावः । अत्रोपमानुप्राणितोऽर्थान्तरन्यासालंकारः। तल्लक्षणं तु-(काव्या.२११६९) 'ज्ञेयः सोऽर्थान्तरन्यासो वस्तु प्रस्तुत्य किंचन । तत्साधनसमर्थस्य न्यासो योऽन्यस्य वस्तुनः ॥ इति दण्डी ॥ ३ ॥

यश्चाप्सरोविभ्रममण्डनानां संपादयित्रीं शिखरैर्बिभर्ति ।
बलाहकच्छेदविभक्तरागामकालसंध्यामिव धातुमत्ताम् ॥ ४ ॥

 यश्चेति ॥ किंचेति चकारार्थः । यो हिमाद्रिरप्सरसां विभ्रममण्डनानि विलासालंकरणानि । अथवा विभ्रमो विपरीतन्यासः । 'विभ्रमस्त्वरयाऽकाले भूषास्थानविपर्यये' (द० रू० २।३९) इति दशरूपकात् । तेन मण्डनानि तेषां संपादयित्रीम् । एतद्धातुरागदर्शिन्योऽप्सरसः संध्याभ्रमेण प्रसाधनाय त्वरयन्तीति भावः। तथात्वे भ्रान्तिमदलंकारोव्यज्यते । 'कर्तृकर्मणोः कृति' (पा.२।३।६५) इति कर्मणि षष्ठी । वारिणां वाहका बलाहकाः। पृषोदरादित्वात्साधुः। तेषां छेदेषु खण्डेषु विभक्तः संक्रमितो रागो यया ताम् । एतेनाद्रेरभ्रंकषत्वं गम्यते । इदं विशेषणद्वयं संध्यायामपि योज्यम् । धातवः सिन्दूरगैरिकादयोऽस्य सन्तीति धातुमान् । नित्ययोगे मतुप् । तस्य भावो धातुमत्ता ताम् । धातुयोगित्वमिति संबन्धोऽपि वाच्यार्थः 'समासकृत्तद्धितेषु संबन्धाभिधानं भावप्रत्ययेन' इति वचनात् । लक्षणया नित्यानुषङ्गिकधातुमित्यर्थः । अकालसंध्यामिवानियतकाल प्राप्तसंध्यामिव शिखरैर्बिभर्ति धत्ते । अत्र 'संध्या'शब्दस्य जातिवाचित्वाज्जात्युत्प्रेक्षा ॥४॥

आमेखलं संचरतां घनानां छायामधःसानुगतां निषेव्य ।
उद्वेजिता वृष्टिभिराश्रयन्ते शृङ्गाणि यस्यातपवन्ति सिद्धाः॥५॥


पाठा०-१ छायामिषे सानुगताम् ; छायामधः सानुगता। टिप्प०---1 नारायणपण्डितस्तु 'वस्तुतस्त्वत्र विकस्वरालङ्कार एव । यत्र कस्यचिद्विशेषस्य समर्थनार्थं सामान्यं विन्यस्य तत्प्रसिद्धावाप्यपरितुष्यता कविना तत्समर्थनाय पुनर्विशेषान्तरन्यासविधया विन्यस्यते तत्र विकस्वरालङ्कारः।' इत्याह ।  आमेखलमिति ॥ सिद्धा अणिमादिसिद्धा देवयोनिविशेषाश्च । 'पिशाचो गुह्यकः सिद्धो भूतोऽमी देवयोनयः' इत्यमरः। आ मेखलाभ्य आमेखलं नितम्बपर्यन्तम् । 'मेखला खड्गबन्धे स्यात्काचीशैलनितम्बयोः' इति विश्वः । 'आङ् मर्यादाभिविध्योः' (पा.२।१।१३) इत्यव्ययीभावः। संचरतां धनानां मेघा- नामधःसानूनि मेघमण्डलादधस्तटानि गतां प्राप्ताम् । 'द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः' (पा. २।१।२४) इति समासः। छायामनातपम्। 'छाया सूर्य- प्रिया कान्तिः प्रतिबिम्बमनातपः' इत्यमरः । निषेव्य वृष्टिभिरुद्वेजिताः क्लेशिताः सन्तः । 'उद्वेगः स्तिमिते क्लेशे भये मन्थरगामिनि' इति शब्दार्णवः । यस्य हिमाद्रेरातपवन्ति सातपानि शृङ्गाण्याश्रयन्ते, आश्रित्य स्थिता इत्यर्थः । अतिमेघमण्डलमस्यौनत्यमिति भावः ॥ ५ ॥

पदं तुषारस्रुतिधौतरक्तं यस्मिन्नदृष्ट्वापि हतद्विपानाम् ।
विदन्ति मार्गं नखरन्ध्रमुक्तैर्मुक्ताफलैः केसरिणां किराताः ॥६॥

 पदमिति ॥ यस्मिन्नद्रौ किरातास्तुषारस्रुतिभिर्हिमनिस्यन्दैधौतं क्षालितं रक्तं शोणितं यस्य तत्तथोक्तम् । अतो दुर्ग्रहमिति भावः । हता द्विपा गजा यैस्तेषां हतद्विपानां केसरिणां सिंहानां पदं पादप्रक्षेपस्थानमदृष्ट्वापि नखरन्धैर्नखद्रोणि- भिर्मुक्तैर्मुक्ताफलैर्मार्गं विदन्ति जानन्ति । अत्र व्याधाः सिंहघातिनो गजेन्द्राश्च मुक्ताकरा इति भावः । 'करीन्द्रजीमूतवराहशङ्खमत्स्याहिशुक्त्युद्भववेणुजानि । मुक्ताफलानि प्रथितानि लोके तेषां तु शुक्त्युद्भवमेव भूरि' (गरुड. ६९।१) इति ॥ ६ ॥

न्यस्ताक्षरा धातुरसेन यत्र भूर्जत्वचः कुञ्जरबिन्दुशोणाः।
व्रजन्ति विद्याधरसुन्दरीणामनङ्गलेखक्रिययोपयोगम् ॥७॥

 न्यस्ताक्षरा इति । यत्र हिमाद्रौ धातुरसेन सिन्दूरादिद्रवेण । 'शृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रसः' इत्यमरः । न्यस्ताक्षरा लिखितवर्णा अत एव


पाठा०‌-१ विन्दन्ति|


टिप्प-1 'अणिमा महिमा चैव लघिमा गरिमा तथा। प्राप्तिः प्राकाम्यमीशित्वं वशित्वं चाष्टसिद्धयः' इत्यष्टसिद्धियुक्ताः । सिमलक्षणं चोक्तम्-'अवाप्ताष्टगुणैश्वर्याः सिद्धाः सद्भिरुदाहृताः । तेषां कुलेऽपि ये जातास्तेऽपि सिद्धाः प्रकीर्तिताः' इति ।

कुञ्जरस्य ये बिन्दवः काये वयोविशेषभाविनः पद्मकाख्याः । 'पद्मकं विन्दुजालकम्' इत्यमरः । त इव शोणा रक्तवर्णाः लिखितभागेष्विति शेषः। भूर्जत्वचो भूर्जपत्रवल्कलानि । 'भूर्जपत्रो भुजो भूर्जो मृदुत्वक्चर्मिका अपि' इति यादवः विद्याधरसुन्दरीणाम् । लिख्यन्ते येषु ते लेखाः पत्रिकाः । अनङ्गस्य लेखास्तेषां क्रियया, कामव्यञ्जकलेखकरणेनेत्यर्थः । उपयोगमुपकारं व्रजन्ति । दिव्याङ्गनाविहारयोग्योऽयं शैल इति भावः ॥ ७ ॥

यः पूरयन्कीचकरन्ध्रभागान् दरीमुखोत्थेन समीरणेन ।
उद्गास्यतामिच्छति किंनराणां तानप्रदायित्वमिवोपगन्तुम् ॥८॥

 य इति॥यो हिमाद्रिः दरी गुहा सैव मुखं तस्मादुस्थेनोत्पनेन । 'आतश्चोपसर्गे' (पा. ३।१३१३६) इति कप्रत्ययः। समीरणेन वायुना कीचका वेणुविशेषाः । 'वेणवः कीचकास्ते स्युर्य स्वनन्त्यनिलोद्धताः' इत्यमरः । तेषां रन्ध्रभागान्छिद्रप्रदेशानू । पूरयन्धमयन् । 'वांशिकोऽपि वंशरन्ध्राणि मुखमारुतेन पूरयति' इति प्रसिद्धिः । उद्गास्यतां देवयोनित्वादुच्चैर्गान्धारग्रामेण गानं करिष्यताम् । उक्तं च नारदेन-'षड्जमध्यमनामानौ ग्रामौ गायन्ति मानवाः । न तु गान्धारनामानं स लभ्यो देवयोनिभिः ॥' इति । किंनराणां देवगायकानां तानप्रदायित्वम् । तानो नाम स्वरान्तरप्रवर्तको रागस्थितिप्रवृत्त्यादिहेतुरंशापरनामा वंशवाद्यसाध्यः प्रधानभूतः स्वरविशेषः। 'तानस्त्वंशस्वरो मतः' इत्यभिनवगुप्तः। ‘गाता यं यं स्वरं गच्छेत्तं तं वंशेन तानयेत्' इति भरतः । तत्प्रदानशीलत्वं तानप्रदायित्वंचांशिकत्वमुपगन्तुमिच्छतीवेत्युत्प्रेक्षा । सा च दरीमुखोत्थेनेत्येकदेशविवर्तिरूपकोजीविता, मुखसाध्यत्वात्तानप्रदायित्वस्य । यत्रावयवरूपणादवयविरूपणं गम्यते तदेकदेशविवर्ति रूपकम् । गम्यते चात्रावयविनः पुंसो रूपणं यच्छब्द- निर्दिष्टे हिमाद्रावित्यलं बहुना ॥८॥

कपोलंकण्डू करिभिर्विनेतुं विघट्टितानां सरलद्रुमाणाम् ।
यत्र स्रुतक्षीरतया प्रसूतः सानूनि गन्धः सुरभीकरोति ॥ ९॥

 कपोलेति ॥ यत्र हिमाद्रौ करिभिर्गजैः । कपोलकण्डूर्गण्डस्थलकण्डूर्विनेतुमपनेतुं विघट्टितानां धर्षितानां सरलद्रुमाणां संबन्धि स्रुतानि करिकपोलघर्ष- णाक्षरितानि क्षीराणि येषां तेषां भावसत्ता तया हेतुना प्रसूत उत्पनो गन्धः


पाठा०-१ स्थान. २ कण्डम्. ३ समीरः. ४ गन्धैः. सानूनि सुरभीकरोति । एतेनास्य गजाकरत्वं गम्यते। तथा च गजायुर्वेदे- 'हिमवद्विन्ध्यमलया गजानां प्रभवा नगाः' इति ॥ ९॥

वनेचराणां वनितासखानां दरीगृहोत्सङ्गनिषक्तभासः।
भवन्ति यत्रौषधयो रजन्यामतैलपूराः सुरतप्रदीपाः ॥१०॥

 वनेचराणामिति ॥ यत्र हिमाद्रौ रजन्यां दर्यः कन्दरा एव गृहास्तेषामुत्सङ्गेष्वभ्यन्तरेषु निषक्ताः संक्रान्ता भासो यासां ता ओषधयस्तृणज्योतींषि| 'अग्नावोषधिषु च तेजो निधाय रविरस्तं याति' इत्यागमः । वनितानां सखायो वनितासखाः । 'राजाहःसखिभ्यष्टच्' (पा.५।४।९१) । तेषाम् , रममाणानामित्यर्थः । वने चरन्तीति वनेचराः किराताः। 'चरेष्टः' (पा.३।२।१६) इति टप्रत्ययः । तत्पुरुषे कृति बहुलम्' (पा. ६।३।१४) इत्यलुक् । तेषां वनेचराणाम् । अतैलपूराः, अनपेक्षिततेलसेका इत्यर्थः । सुरते सुरतकर्मणि प्रदीपा भवन्ति । अत्रौषधीप्वारोप्यमाणस्य प्रदीपत्वस्य प्रकृतसुरतोपयोगित्वात्परिणामालंकारः । तदुक्तम् -'आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणामः' (अलं. १६) इति । तथा प्रदीपकारणतैलपूरणनिषेधादकारणकार्योत्पत्तिलक्षणा विभावना चेत्युभयोः संसृष्टिः ॥ १० ॥

उद्वेजयत्यङ्गुलिपार्णिभागान्मार्गे शिलीभृतहिमेऽपि यत्र ।
न दुर्वहश्रोणिपयोधरार्ता भिन्दन्ति मन्दां गतिमश्वमुख्यः ॥११॥

 उद्वेजयतीति ॥ यत्र हिमाद्रौ, शिलीभूतं घनीभूतं हिमं यत्र तस्मिन् । अत एवाङ्गुलीनां पार्ष्णीनां च भागान्प्रदेशानुद्वेजयत्यतिशैत्यात्लेशयत्यपि मार्गे । श्रोणयश्च पयोधराश्च श्रोणिपयोधरम् । दुर्वहेण दुर्धरेण श्रोणिपयोधरेणार्ताः पीडिताः।आइपूर्वादृच्छतेः क्तः। 'उपसर्गारति धातौ' (पा.६।११९१) इति वृद्धिः। अश्वानां मुखानीव मुखानि यासां ता अश्वमुख्यः किंनरस्त्रियः । उष्ट्रमुखवत्स- मासः । 'स्यात्किनरः किंपुरुषस्तुरंगवदनो मयुः' इत्यमरः । मन्दां मन्थरां गतिं न भिन्दन्ति, न त्यजन्तीत्यर्थः । पादपीडाकरेऽप्यतिभारभङ्गुरशरीरतया न शीघ्रं गन्तुं शक्यत इति भावः ॥११॥

दिवाकराद्रक्षति यो गुहासु लीनं दिवाभीतमिवान्धकारम् ।
क्षुद्रेऽपि नूनं शरणं प्रपन्ने ममत्वमुचैःशिरसां सतीव ॥१२॥

दिवाकरादिति ॥ यो हिमाद्विर्दिवा दिवसे भीतं भयाविष्टमिव । उलृक-

पाठा०-१ अतीव. मिवेति च ध्वनिः । गुहासु लीनमन्धकारं ध्वान्तम् । दिवा दिनं करोतीति दिवाकरस्तस्माद्दिवाकरात् । 'दिवाविभानिशाप्रभाभास्कर-' (पा. ३।२।२१) इत्यादिना टप्रत्ययः । 'भीत्रार्थानां भयहेतुः' (पा. १।४।२५) इत्यपादानत्वात्पञ्चमी । रक्षति त्रायते। ननु क्षुद्रसंरक्षणमनहमित्याशङ्कयाह-क्षुद्र इति । उच्चैःशिरसा- मुन्नतानां शरणं प्रपन्ने शरणागते क्षुद्रे नीचेऽपि सति सज्जन इव नूनं ममत्वं ममायमित्यभिमानः, अस्तीति शेषः । 'मम'शब्दात्त्वप्रत्ययः। अर्थान्तरन्यासोऽलंकारः ॥ १२॥

लाङ्गूलविक्षेपविसर्पिशोभैरितस्ततश्चन्द्रमरीचिगौरैः।
यस्यार्थयुक्तं गिरिराजशब्दं कुर्वन्ति वालव्यजनैश्चमर्यः॥१३॥

 लाङ्गूलेति ॥ चमर्यो मृगीविशेषाः। इतस्ततो लाङ्गलानि वालधयः । 'पुच्छोऽस्त्री लोमलाङ्कले वालहस्तश्च वालधिः' इत्यमरः । तेषां विक्षेपैर्विधूननैर्विसर्पिण्यो विसृमराः शोभाः कान्तयो येषां तैश्चन्द्रमरीचिभिरिव गौरैः शुभैः । 'गौरः करीषे सिद्धार्थे शुक्ले पीतेऽरुणेऽपि च' इति यादवः । 'उपमानानि सामान्यवचनैः' (पा. २१११५५) इति समासः । वालव्यजनैश्चामरैर्यस्य हिमाद्रे- गिरिराजशब्दं 'गिरिराज' इति नामार्थयुक्तमभिधेयवन्तं कुर्वन्ति । राजानो हि छत्रचामरादिचिह्निता इति भावः॥ १३ ॥

यत्रांशुकाक्षेपविलञ्जितानां यदृच्छया किंपुरुषाङ्गनानाम् ।
दरीगृहद्वारविलम्बिबिम्बास्तिरस्करिण्यो जलदा भवन्ति ॥१४॥

 यत्रेति ॥ यत्र हिमाद्रौ, अंशुकाक्षेपेण वस्त्रापहरणेन विलज्जितानां किंपुरुपाङ्गनानां किंनरस्त्रीणां यदृच्छया देवगत्या दरीगृहद्वारेषु विलम्बिविम्बा लम्बमानमण्डला जलदास्तिरस्करिण्यो जवनिका भवन्ति । 'प्रतिसीरा जवनिका स्यात्तिरस्करिणी च सा' इत्यमरः । 'तिरसोऽन्यतरस्याम्' (पा. ८।३।४२) इति सत्वम् । अत्र जलदेष्वारोप्यमाणस्य तिरस्करिणीत्वस्य प्रकृतोपयोगित्वात्परिणामालंकारः॥१४॥


पाठा०-१चान्द्र. २ द्वारि.


टिप्प०-1 अयं श्लोको मम्मटेम दूषित:-'अत्राचेतनस्य तमसो दिवाकरात्रासो न संभवतीति कुत एव तत्प्रयोजितमद्रिणा परित्राणम् । संभावितेन तु रूपेण प्रतिभा-

समानस्यास्य न काचिदनुपत्तिरवतरतीति व्यर्थ एव तत्समर्थनायां यत्न इति ।

भागीरथीनिर्झरसीकराणां वोढा मुहुः कम्पितदेवदारुः ।
यद्वायुरन्विष्टमृगैः किरातैरासेव्यते भिन्नशिखण्डिबर्हः ॥१५॥

 भागीरथीति ॥ भागीरथी निर्झरसीकराणां गङ्गाप्रवाहपयःकणानाम् । कर्मणि पष्ठी। वोढा प्रापकः । वहेस्तृच । मुहुः पुनःपुनः सद्यो वा । 'पौनःपुन्ये भृशार्थे च सद्यो वा स्यान्मुहुःपदम्' इति वैजयन्ती । कम्पिता देवदारवो येन स तथोक्तः । भिन्नानि विश्लेषितानि शिखण्डिनां बर्हाणि गतिलाघवार्थं किरात- कटिबद्धानि येन स तथोक्तः । क्रमाद्विशेषणत्रयेण शैन्यसौरभ्यमान्यान्युक्तानि । यस्य हिमादेर्वायुः । अन्विष्टमृगैमर्गितमृगैः। श्रान्तैरिति भावः । 'अन्विष्टं मार्गितं मृगितम्' इत्यमरः । किरातैरासेव्यते ॥ १५ ॥

सप्तर्षिहस्तावचितावशेषाण्यधो विवस्वान्परिवर्तमानः ।
पद्मानि यस्याग्रसरोरुहाणि प्रबोधयत्यूर्ध्वमुखैमयूखैः ॥ १६ ॥

 सप्तर्षीति ॥ सप्त च ते ऋषयश्च सप्तर्षयः । दिक्संख्ये संज्ञायाम्' (पा.२।११५०)इति समासः । तेषां हम्तैरवचितेभ्यो लूनेभ्योऽवशेषाण्यवशिष्टानि । शेषोऽप्रधानसंतापे त्रिवन्यत्रोपयुज्यते' इति केशवः । कर्मण्यणप्रत्ययः । अनेन पद्मानां साफल्यं सूचितम् । यस्य हिमाद्रेः । रोहन्तीति रुहाणि । 'इगुपधज्ञाप्रीकिरः कः' (पा.३।१।१३५) इति कप्रत्ययः। अग्र उपरि यानि सरांसि तेषु रुहाणि पद्मान्यधः परिवर्तमानो भ्रमन्विवस्वान्सूर्य ऊर्ध्वमुखैमयूखैः प्रबोधयति विकासयति । न कदाचिदधोमुखैः। अतिमार्तण्डमण्डलत्वादग्रभूमेरिति भावः । 'सप्तर्षिमण्डलं ध्रुवादप्यूर्ध्वम्' इति ज्योतिषिकाः । अतस्तेषामग्रसरोरुहभागित्वं युक्तम् ॥ १६॥

यज्ञाङ्गयोनित्वमवेक्ष्य यस्य सारं धरित्रीधरणक्षमं च ।
प्रजापतिः कल्पितयज्ञभागं शैलाधिपत्यं खयमन्वतिष्ठत् ॥१७॥

 यज्ञाङ्गेति ॥ यस्य हिमाद्रेर्यज्ञाङ्गानां यज्ञसाधनानां सोमलतादीनां योनिः  प्रभवस्तस्य भावस्तत्वम् । 'यज्ञाङ्गार्थं मया सृष्टो हिमवानचलेश्वरः' इति विष्णुपुराणात् । धरित्रीधरणक्षमं भूभारधरणयोग्यं सारं बलं च । 'सारो बले स्थिरांशे च' इत्यमरः । भवेक्ष्य ज्ञात्वा प्रजापतिः स्वयमेव कल्पितो यज्ञभागो यस्मिंस्त-


पाठा०-१ आचरित.

त्तथोक्तम् । 'सोमस्य राज्ञः कुरङ्ग इन्दोः शृङ्गी समुद्रस्य शिशुमारो हिमवतो हस्ती' इति श्रुतेरिति भावः । शैलानामाधिपत्यमधिपतित्वम् । 'पत्यन्तपुरोहितादिभ्यो यक्' (पा. ५३१११२८) इति यक्प्रत्ययः । अन्वतिष्ठत् , ददाति स्मेत्यर्थः । उक्तं च ब्रह्माण्डपुराणे- 'शैलानां हिमवन्तं च नदीनां चैव सागरम् । गन्धर्वाणामधि- पतिं चक्रे चित्ररथं विधिः' इति ॥ १७ ॥

 संप्रति कथां प्रस्तौति-

स मानसीं मेरुसखः पितॄणां कन्यां कुलस्य स्थितये स्थितिज्ञः ।
मेनां मुनीनामपि माननीयामात्मानुरूपां विधिनोपयेमे ॥१८॥

 स इति ॥ मेरोः सवा मेरुसग्वः । बन्धुसंपन्न इति भावः । स्थितिजोमर्यादाभिज्ञः । अनेन श्रुतसंपत्तिः सूच्यते । स हिमवान्पितॄणां मानसीं मन:संकल्पजन्यां मुनीनामपि माननीयाम् । योगिब्रह्मवादिभ्यां पूज्यामित्यर्थः । उक्तं च विष्णुपुराणे (१:१०,१८-१९)---'तेभ्यः शुभास्पदं जज्ञे मेनका हरिणी तथा । ते उभे ब्रह्मवादिन्यौ योगिन्यौ चाप्युभे द्विज ॥' इति । आत्मानुरूपां कुलशीलसौन्दर्यादिभिः सदृशीं मेनां मेनकादेवीति नामवतीं कन्यां कुलस्य स्थितये प्रतिष्ठायै विधिना यथाशास्त्रेणोपयेमे परिणीतवान् । 'उपाद्यमः स्वीकरणे' (पा. १।३।५६) इत्यात्मनेपदम् । तेषां तु मानसी कन्या मेना नाम महागिरेः । पत्नी हिमवतो यस्याः पुत्रो मैनाक उच्यते ॥” इति ब्रह्माण्डपुराणात् ॥ १८ ॥

कालक्रमेणाथ तयोः प्रवृत्ते स्वरूपयोग्ये सुरतप्रसङ्गे ।
मनोरमं यौवनमुद्वहन्त्या गर्भोऽभवद्भूधरराजपत्न्या ॥ १९ ॥

 कालक्रमेणेति ॥ अथ कालक्रमेण, गच्छता कालेनेत्यर्थः । तयोर्मेनकाहिमवतोः स्वरूपयोग्ये सौन्दर्यानुगुणे। यद्वा, रूप्यते निश्चीयतेऽनेनेति रूपं ज्ञानं तद्योग्ये, शास्त्रानुसारिणीत्यर्थः । सुरतप्रसङ्गे सुरतकर्मणि प्रवृत्ते सति मनोरमं यौवनमुद्वहन्त्या भूधरराजपल्या मेनकाया गर्भोऽभवत् ॥ १९ ॥

असूत सा नागवधूपभोग्यं मैनाकमम्भोनिधिबद्धसख्यम् ।
क्रुद्धेऽपि पक्षच्छिदि वृत्रशत्राववेदनाज्ञं कुलिशक्षतानाम् ॥२०॥

 असूतेति ॥ सा मेना नागवधूपभोग्यम्, नागकन्यापरिणेतारमित्यर्थः । अम्भोनिधिना बद्धसख्यं समुद्रकृतमैत्रीकम् । सख्यमूलं सूचयति-पक्षच्छिदि पक्षच्छेत्तरि । 'सत्सूद्विष-' (पा.३।२।६१) इत्यादिना विप्प्रत्ययः । वृत्रशत्रौ क्रुद्ध कुपिते सत्यपि कुलिशक्षतानां वज्रप्रहाराणाम् । संबन्धसामान्ये षष्ठी। जाना- तीति ज्ञः । 'इगुपधज्ञा-' (पा.३।१।१३५) इति कप्रत्ययः । वेदनानां ज्ञः । अथवा वेदनां जानातीति वेदनाज्ञः । 'आतोऽनुपसर्गे कः' (पा.३।२।३) इति कप्रत्ययः । 'उपपदमतिङ्' (पा.२।२।१९) इति समासः। स न भवतीत्यवेदनाज्ञस्तम् , कुलिश- क्षतवेदनानभिज्ञमित्यर्थः । सापेक्षत्वेऽपि गमकत्वात्समासः । पक्षच्छेदोद्यत- शक्रात्राणाय शरणागमनमनयोः सख्यमूलमिति भावः । मैनाकं पुत्रमसूत । सर्वपर्वतपक्षच्छेदेऽप्ययमच्छिन्नपक्ष एवेति मैनाकस्योत्कर्षः । तादृक्पुत्रवत्वं हिमाद्रेरिति सार्थकं मैनाकस्य वर्णनम् । 'पिता न ज्ञायते यस्या भ्राता यदि न विद्यते । नोपयच्छेत्तु तां कन्यां धर्मलोपभयात्सुधीः ॥' इत्यभ्रातृककन्यापरिणय. निषेधात्प्रकृते पार्वती भ्रातृमत्येवेति सूचनार्थं मैनाकवर्णनमिति तात्पर्यार्थः ॥२०॥

अथावमानेन पितुः प्रयुक्ता दक्षस्य कन्या भवपूर्वपत्नी ।
सती सती योगविसृष्टदेहा तां जन्मने शैलवधू प्रपेदे ।। २१ ॥

 अथेति ॥ अथ मैनाकजननानन्तरं दक्षस्य प्रजापतः कन्या भवस्य महादेवस्य पूर्वपत्नी पूर्वभार्या सती पतिव्रता। 'सती साध्वी पतिव्रता' इत्यमरः । सती नाम देवी। पितुर्दक्षस्य । कर्तरि षष्ठी। अवमानेन स्वभर्त्रवज्ञया प्रयुक्ता प्रेरिता योगेन योगमार्गेण विसृष्टदेहा त्यक्तदेहा सती । जन्मने पुनरुद्भवाय तां शैलवधूं मेनका प्रपेदे । अत्र पुरा किल सती देवी दक्षाध्वरे तत्कृतां स्वभर्त्रवज्ञामसहमाना पितरं प्रसूं चोपेक्ष्य मत्कर्तव्यकार्य त्वजामातैव करिष्यतीति निर्धाय देवकार्याणि साधयितुं च योगाग्निना स्वशरीरं ददाहेति पुरावृत्तकथानुसंधेया ॥२१॥

सा भूधराणामधिपेन तस्यां समाधिमत्यामुदपादि भव्या ।
सम्यक्प्रयोगादपरिक्षतायां नीताविवोत्साहगुणेन संपत् ।। २२ ।।

 सेति ॥ भव्या कल्याणी सा सती भूधराणामधिपेन हिमवता समाधिमत्यां


पाठा०-१अपमानेन|


टिप्प०-1 पर्वतानां पक्षच्छेदश्चोक्त:-सर्वेऽपि पर्वताः पूर्वं पक्षवन्तः किला- भवन् । ततस्तेषामवस्थानैर्वेगैः पक्षसमीरणैः। चूर्णीभूताञ्जनपदानवलोक्याथ वृत्रहा। क्रुद्धः कुलिशमादाय पक्षच्छेदेन पर्वतान् । क्षणेन स्थावरीचक्रे' इत्यादिना ।

नियमवत्यां तस्यां मेनकायां सम्यक्प्रयोगात्साध्वाचरणाद्धेतोरपरिक्षतायाम- भ्रष्टायां नीतावुत्साहगुणेनोत्साहशक्त्या कर्त्रा। संपदिवोदपाद्युत्पादिता । उत्पद्य- तेर्ण्यन्ताकर्मणि लुङ् । 'चिण्भावकर्मणोः' (पा. ३।१।६६) इति चिण्प्रत्ययः। 'चिणो लुक्' (पा.६१४।१०४) इति तस्य लुक् ॥ २२ ॥

प्रसन्नदिक्पांसुविविक्तवातं शङखनानन्तरपुष्पवृष्टि ।
शरीरिणां स्थावरजंगमानां सुखाय तज्जन्मदिनं बभूव ॥ २३ ॥

 प्रसन्नेति ॥ प्रसन्ना निर्मला दिशो यस्मिंस्तत्प्रसन्नदिक् । पांसुविविक्ता रजोरहिता वाता यस्मिंस्तत्तथोक्तम् । शङ्खस्य स्वनात् स्वनस्य वाऽनन्तरं पुष्पवृष्टियस्मिस्तत्तथोक्तम् , तस्याः पार्वत्या जन्मदिनम् । स्थितिशीलाः स्थावराः शैलवृक्षादयः । 'स्थेशभासपिसकसो वरच्' (पा. ३।१।६६) इति वरच्प्रत्ययः । जंगम्यन्ते भृशं गच्छन्तीति जंगमा दवतिर्यङ्मनुग्यादयः। स्थावराश्च जंगमाश्च तेषां द्वयानामपि शरीरिणां सुखायानन्दाय बभूव ।। २३ ॥

तया दुहित्रा सुतरां सवित्री स्फुरत्प्रभामण्डलया चकासे ।
विदूरभूमिनवमेघशब्दादुद्भिन्नया रत्नशलाकयेव ॥ २४ ॥

 तयेति ॥ स्फुरत्प्रभामण्डलया तया दुहित्रा सवित्री जनयित्री । 'स्वरतिमूतिसूयतिधञूदितो वा' (पा. ७|२|६४४) इतीडागमः । विदूरस्याद्रेः प्रान्तभूमिर्विदूरभूमिः । 'अविदूरे विदूरस्य गिरेरुत्तुङ्गरोधसः । काकतालीयसीमान्ते मणीनामाकरो भवेत् ॥' इति बुद्धः । 'नवमेध'शब्दादुद्भिन्नया रत्नशलाकया रत्नाङ्कुरेणेव सुतरां चकासे रराज ॥ २४॥

दिने दिने सा परिवर्धमाना लब्धोदया चान्द्रमसीव लेखा।
पुपोष लावण्यमयान्विशेषाञ्ज्योत्स्नान्तराणीव कलान्तराणि ।।२५।।

 दिने दिन इति ॥ लब्ध उदयो यया सा लब्धोदया, उत्पनेत्यर्थः । अभ्युदितत्यन्यत्र । दिने दिने प्रतिदिनम् । 'नित्यवीप्सयोः' (पा. ८१११४) इति वीप्सायां द्विरुक्तिः। परिवर्धमाना । उभयत्र समानमेतत् । सा बाला । चन्द्रमस इयं चान्द्रमसी लेखेव लावण्यमयान्कान्तिविशेषप्रचुरान् । 'मुक्ताफलेषु छाया- यास्तरलत्वमिवान्तरा । प्रतिभाति यदङ्गेयु तल्लावण्यमिहोच्यते ॥' इति भूपालः । विशेषानवयवान् । 'विशेषोऽवयवे व्यक्तौ' इत्युत्पलमाला। ज्योत्स्नायामन्तर-


पाठा०-१ तूर्य. २ धरित्री. ३ वैदूर्यभूमिः. ४ नादात्. मन्तर्धानं येषां तानि ज्योत्स्नान्तराणि ज्योत्स्नयान्तर्हितानि, तन्मयानीति यावत् । अन्याः कलाः कलान्तराणीव । सुप्सुपेति समासः । 'स्थानात्मीयान्यतादर्थ्यरन्ध्रान्तर्धिपु चान्तरम्' इति शाश्वतः । पुपोपोपचितवती । इयं वाक्योपमेत्याह दण्डी। तल्लक्षणं तु (काव्या. २१४३)-'वाक्यार्थेनैव वाक्यार्थः कोऽपि यद्युपमीयते । एकानेकेव शब्दत्वात्सा तु वाक्योपमा द्विधा ॥' इति ॥ २५ ॥

तां पार्वतीत्याभिजनेन नाम्ना बन्धुप्रियां बन्धुजनो जुहाव ।
उमेति मात्रा तपसो निषिद्धा पश्चादुमाख्यां सुमुखी जगाम ॥२६॥

 तामिति ॥ बन्धुप्रियां तां बालां बन्धुजनः पित्रादिः। अभिजनादागतेनाभि- जनेन, पिनादिपूर्वबन्धुसंबन्धोपाधिकनेत्यर्थः । 'अभिजनाः पूर्वबान्धवाः' इति काशिका । नाम्ना। पर्वतस्यापत्यं स्त्री पार्वती । 'तस्यापत्यम्' (पा.४।१।९२) इत्यण्प्रत्ययः । इति जुहावाहूतवान् । ह्वयतेर्लिटि रूपम् । पर्वतजन्यत्वोपाधिना पार्वतीति नाम्ना प्रसिद्धिरिति भावः। पश्चादभिजननामप्रवृत्त्यनन्तरं मात्रा जनन्या । 'उ' इति संबोधने । 'उ इति वितर्कसंबोधनपादपूरणेषु' इति गणव्याख्याने । 'मा शब्दो निषेधे । उ हे वत्से ! 'मा' मा कुर्वित्येवंरूपेण । तपसस्तपश्चर्यायाः। 'वारणार्थानामीप्सितः' (पा.११४।२७) इत्यपादानत्वात्पञ्चमी । निषिद्धा निवारिता सती सुमुखी सा बाला उमाख्यां 'उमा' इत्याख्यां नामधेयं जगाम ॥२६॥

महीभृतः पुत्रवतोऽपि दृष्टिस्तस्मिन्नपत्ये न जगाम तृप्तिम् ।
अनन्तपुष्पस्य मधोर्हि चूते द्विरेफमाला सविशेषसंङ्गा ।। २७॥

 महीभृत इति ॥ पुत्राश्च दुहितरश्च पुत्राः । 'भ्रातृपुत्रौ स्वसृदुहितृभ्याम्' (पा. १।२।६८) इत्येकशेषः। तेऽस्य सन्तीति पुत्रवान् । भूमार्थे मतुप् । तस्य पुत्रवतोऽपि, बह्वपत्यस्यापीत्यर्थः । महीभृतो हिमाद्वेदृष्टिश्चक्षुस्तस्मिन्नपत्ये तोके । 'अपत्यं तोकं तयोः समे' इत्यमरः । तस्यां पार्वत्यामित्यर्थः । तृप्तिं न जगाम । तथा हि-अनन्तपुष्पस्य नानाविधकुसुमस्यापि मधोर्वसन्तस्य संबन्धिनी द्विरे- फमाला भृङ्गपतिश्रुतस्य विकारे चूते चूतकुसुमे। 'अवयये च प्राण्यौषधि- वृक्षेभ्यः' (पा.४।३।१३५) इति विकारार्थोत्पमस्याण्प्रत्ययस्य लुक्प्रकरणे पुष्पमूलेषु बहुलम्' (वा० २९५०) इति पठनाल्लुक् । सविशेषः सातिशयः सङ्गो यस्याः सा तथोक्ता, अत्यन्तासत्तेत्यर्थः ॥ २७ ॥


पाठा०-१ तपसे. २ संघा; संज्ञा.

प्रभामहत्या शिखयेव दीपस्त्रिमार्गयेव त्रिदिवस्य मार्गः।
संस्कारवत्येव गिरा मनीषी तया स पूतश्च विभूषितश्च ।। २८॥

 प्रमेति ॥ प्रभामहत्या प्रकाशाधिकया शिखया ज्यालया दीप इव । शिखादीपयोरवयवावयविभावाद्भेन व्यपदेशः। त्रयो मार्गो यस्याम्तया त्रिमार्गया मन्दाकिन्या। तृतीया द्यौर्लोक इति त्रिदिवः स्वर्गः । वृत्तिविषये 'त्रि'शब्दस्य त्रिभागवत्पूरणार्थत्वम् । पृषोदरादित्वात् 'दिव'शब्दादकारागमः । पुंस्त्वं लोकात् । दीव्यतेर्घञर्थे कविधानम्। 'दीव्यन्त्यत्र जनाः' इति क्षीरस्वामी। तस्य मार्ग इव । संस्कारो व्याकरणजन्या शुद्धिस्तद्वत्या गिरा वाचा। 'भद्रैषां लक्ष्मीर्निहिताधि वाचि' (ऋ० ८।२।२३) इति श्रुतेरिति भावः। मनस ईषा मनीषा साऽस्यास्तीति मनीषी विद्वानिव । शकन्ध्वादित्वात् (वा० ३६३२) साधुः । तया पार्वत्या स हिमवान्पूतः शोधितश्च विभूषितश्च । अत्र शिखागिरो- रविशिष्टयोरुपमानानर्हत्वान्न विशेषणाधिक्यदोषः । इयं मालोपमा ॥२८॥

मन्दाकिनीसैकतवेदिकाभिः सा कन्दुकैः कृत्रिमपुत्रकैश्च ।
रेमे मुहुर्मध्यगता सखीनां क्रीडारसं निर्विशतीव बाल्ये ॥२९॥

 मन्दाकिनीति ॥ सा पार्वती बाल्ये वयसि क्रीडानां रसः स्वादः, रुचि- रिति यावत् । तं क्रीडारसम् । 'रसो गन्धे रसः स्वादे' इति विश्वः । निर्विशतीव भुञ्जानेव । निर्वेशो भृतिभोगयोः' इति विश्वः । 'आच्छीनद्योर्नुम्' (पा.७।१६८०) इति विकल्पान्नुमभावः । सखीनां मध्यगता सती मन्दाकिन्याः सैकतेषु पुलि- नेषु वेदिकाभिः कन्दुकैः । क्रियया निवृत्तैः कृत्रिमैः । 'ड्वितः क्विः' (पा.३।३।८८) इति क्विप्रत्ययः । 'क्रेर्मन्नित्यम्' (पा.४।४।२०) इति मबागमश्च । पुत्रकैः पाञ्चालिकाभिः। 'पाञ्चालिका पुत्रिका स्याद्वस्वदन्तादिभिः कृता' इत्यमरः। 'संज्ञायां कन्' (पा.५।३।८७) इति कन्प्रत्ययः । मुहुः पुनः पुना रेमे ॥२९॥

तां हममालाः शरदीव गङ्गां महौषधि नक्तमिवात्मभासः ।
स्थिरोपदेशामुपदेशकाले प्रपेदिरे प्राक्तनजन्मविद्याः ॥ ३०॥

 तामिति ॥ स्थिरः स्थेयानुपदेशः प्राग्भवीयो यस्यास्तादृशीम् , मेधाविनी.


पाठा०-१ महौषधी. मित्यर्थः । तां पार्वतीमुपदेशकाले प्राक्तनजन्मविद्याः। पूर्वजन्माभ्यस्तविद्या इत्यर्थः । शरदि गङ्गां हंसमाला इव नक्तं रात्रौ महौषधि तृणविशेषमारमभासः स्वदीप्तय इव प्रपेदिरे। उपमानसामर्थ्यादुपदेशमन्तरेणैवेति गम्यते ॥३०॥

असंभृतं मण्डनमङ्गयष्टेरनासवाख्यं करणं मदस्य ।
कामस्य पुष्पव्यतिरिक्तमस्त्रं बाल्यात्परं साथ क्यः प्रपेदे ॥३१॥

 असंभृतमिति ॥ अथ सा पार्वती। अङ्गयष्टेरसंभृतमयनसिद्धं मण्डनं प्रसाधनमनासवाख्यमासवाख्यारहितं मदस्य करणं साधनं कामस्य पुष्पव्यति- रिक्तमस्त्रमस्त्रभूतं बाल्याच्छैशवात्परमनन्तरभावि वयो यौवनं प्रपेदे प्राप । यौवनेनैव हि युवतयः प्रसाध्यन्ते माद्यन्ते काम्यन्से चेति भावः । अत्र द्वितीय- पाद मासवरूपकारणाभावेऽपि तत्कार्यमदोक्तेर्विभावनालंकारः। तदुक्तम्- (अलं) 'कारणाभावे कार्योत्पत्तिविभावना' इति । प्रथमतृतीययोस्त्वारोप्यमाण- योर्मण्डनमदनास्त्रयोः प्रकृतोपयोगात्परिणामालंकारः । तल्लक्षणं तूक्तम् ॥ ३१ ॥

उन्मीलितं तूलिकयेव चित्रं सूर्यांशुभिर्भिन्नमिवारविन्दम् ।
बभूव तस्याश्चतुरस्रशोभि वपुर्विमक्तं नवयौवनेन ॥३२॥

 उन्मीलितमिति ॥ नवयौवनेन प्रथमयौवनेन विभक्तमभिव्यञ्जितम् । स्तनजघनादिसंस्थानमित्यर्थः। तस्याः पार्वत्या वपुस्तूलिकया कूर्चिकया, शला- कयेत्यर्थः । 'तूलिका कथिता लेख्यकूर्चिका तूलशय्ययोः' इति विश्वः। उन्मी- लितं रञ्जनद्रव्येणोद्भासितं समुत्कीर्णम् , रूपमिति यावत् । चित्रमालेख्यमिव । सूर्याशुभिभिन्नं विकसितमरविन्दं पद्ममिव । चतस्रोऽस्रयो यस्य तच्चतुरस्त्रमन्यूनातिरिक्तं यथा तथा शोभत इति चतुरस्रशोभि । ताच्छील्ये णिनिः । बभूव । चित्रारविन्दयोस्तूलिकातरणिकिरणसंबन्ध इव स्वतःसिद्धस्यैवाङ्गसौष्टवस्य यौवन- प्रादुर्भावोऽभिव्यञ्जको बभूवेत्यर्थः ॥ ३२ ॥

 देवतानां रूपं पादाङ्गुष्टप्रभृति वर्ण्यते, मानुषाणां केशादारभ्येति धार्मिकाः । संप्रति सप्तदशभिः श्लोकैः पार्वत्याः पादादिकेशान्तवर्णनमारभते-

अभ्युनताङ्गष्ठनखप्रभाभिर्निक्षेपणाद्रागमिवोद्गिरन्तौ ।
आजहतुस्तच्चरणौ पृथिव्यां स्थलारविन्दश्रियमव्यवस्थाम् ॥३३॥


पाठा०-१ साधु. २ अत्युन्नता.

 अभ्युन्नतेति ॥ अभ्युन्नतयोरङ्गुष्ठनखयोः प्रभाभिर्निमित्तेन निक्षेपणानिर्भर न्यासाद्धेतोः रागमन्तर्गतं लौहित्यम् । 'रागः क्लेशादिके रक्ते मात्सर्ये लोहितादिषु' इति शाश्वतः । उद्विरन्तौ वमन्तौ, बहिर्निःसारयन्ताविव स्थितावित्यर्थः । अत्रोद्गिरतेगौंणार्थत्वान्न ग्राम्यतादोषः, प्रत्युत गुण एव । यथाह दण्डी (कान्या. १।९५)-'निष्ठयूतोद्गीर्णवान्तादि गौणवृत्तिव्यपाश्रयम् । अतिसुन्दरमन्यत्र ग्राम्यकक्षा विगाहते ॥' इति । तस्याश्चरणौ तच्चरणौ । पृथिव्यामव्यवस्थां व्यवस्थारहिताम् , संचारिणीमित्यर्थः। स्थलारविन्दश्रियमाजहतुः । स्थलविशेषणान्नियतलौहित्यलाभः । अत्र सामुद्रिकाः-'यस्या रक्ततलौ पादावुन्नताग्रौ तलस्पृशौ । निगूढगुल्फो निहतौ सा स्यान्नृपतिसंमता ॥ इति । अत्रोपमानधर्मस्यारविन्दश्रियश्चरणयोरुपमेययोरसंभवादरविन्द श्रियमिव श्रियमिति प्रतिबिम्बीकरणाक्षेपान्निदर्शनालंकारः । सा च संबन्धेऽसंबन्धलक्षणातिशयोक्त्यनुप्राणिता; अव्यवस्थाम्' इत्यनेन स्थलारविन्दस्य स्थैर्यसंबन्धेऽप्यसंबन्धाभिधानात् । निदर्शनालक्षणं तु-'असंदर्मयोगादुपमानोपमेययोः। प्रतिबिम्बक्रिया गम्या यत्र सा स्तान्निदर्शना ॥' इति ॥ ३३ ॥

सा राजहंसैरिव संनंताङ्गी गतेषु लीलाश्चितविक्रमेषु ।
व्यनीयत प्रत्युपदेशलुब्धैरादित्सुभिर्नपुरसिञ्जितानि ।। ३४ ॥

 सेति ॥ प्रत्युपदेशलुब्धैः । 'गुरुशुश्रूपया विद्या पुष्कलेन धनेन वा । अथवा विद्यया विद्या चतुर्थी नोपपद्यते ॥' इति न्यायादिति भावः । तदेव व्यनक्ति- नूपुरसिञ्जितान्यादित्सुभिगदातुमिच्छुभिः, मञ्जीरसिञ्जितमञ्जुकूजितोपदेश- मिच्छद्भिरित्यर्थः । राजहंसैः । संनताङ्गी, कुचभारादिति भावः । सा पार्वती लीलाभिर्विलासैरञ्चिताः पूजिता विक्रमाः पादन्यासा येषु तेषु । 'अञ्चेः पूजायाम्' (पा. ७।२।५३) इतीडागमः । 'लीलाविलासक्रिययोः' इत्यमरः । गतेषु विषयेषु व्यनीयतेव विनीता किमु ? अन्यथा कथमस्या हंसगमनमित्युत्प्रेक्षा ॥ ३४ ॥

वृत्तानुपूर्वे च न चातिदीर्घे जङ्घे शुभे सृष्टवतस्तदीये ।
शेषाङ्गनिर्माणविधौ विधातुलावण्य उत्पाद्य इवास यत्नः॥३५॥

 वृत्तेति ॥ वृत्ते वर्तुले पूर्वमनुगतेऽनुपूर्वे, गोपुच्छाकार इत्यर्थः । वृत्ते च


पाठा०-१ संनतांसा. २ विभ्रमेषु. ३ लब्धैः. तेऽनुपूर्वे च वृत्तानुपूर्वे । नातिदीर्घे च । महाविभाषया न समासः। नञो विशेषणत्वं 'च'शब्दप्रयोगादेव ज्ञेयम् । शुभे मङ्गले । तस्या इमे तदीये जङ्घे प्रसृते । 'जङ्घा तु प्रसृता' इत्यमरः । सृष्टवतो निर्मितवतो विधातुः स्रष्टुः शेषाङ्गनिर्माणविधौ, - जङ्घाव्यतिरिक्तावयवनिर्माणार्थमित्यर्थः । उत्पाद्ये पुनःसंपाद्ये लावण्ये कान्तिविशेषविषये । लावण्यलक्षण तूक्तम् । यत्न आसेव बभूवेवेत्युत्प्रेक्षा । उपादानमन्तरेण कार्यस्य दुष्करत्वात्तदङ्गानां च लावण्योपादानकत्वात् पूर्वसंपादितस्य च जङ्घार्थमेव कार्स्त्येन विनियोगात्पुनर्लावण्यसंपादने यत्नः स्यादेवेत्येतादृक्सौन्दर्ये तज्ज्ङ्घे इति भावः । आसेति बभूवार्थे ‘तिङन्तप्रतिरूपकमव्ययम्' इत्याह शाकटायनः । वल्लभस्तु-"न तिङन्तप्रतिरूपकमव्ययम् , 'अस्तेर्भूः' (पा.२।४।५२) इति भ्वादेशनियमात्तादृक्तिङन्तस्यैवाभावात् , किंतु कवीनामयं प्रामादिकः प्रयोगः” इत्याह । वामनस्तु (काव्या. सू. ५।२।२७)-- 'अस गतिदील्यादाने- ष्विति धातोलिटि रूपमिदम्' इत्याह । अस इत्यनुदात्तेतू(?) दीप्त्यर्थे । आस दिदीपे, प्रवृत्त इत्यर्थः ॥ ३५ ॥

नागेन्द्रहस्तास्त्वचि कर्कशत्वादेकान्तशैत्यात्कदलीविशेषाः ।
लब्ध्वापि लोके परिणाहि रूपं जातास्तदूर्वोरुपमानबाह्याः ॥३६॥

 नागेन्द्रेति ॥ नागेन्द्राणामैरावतादीनां हस्ताः करास्त्वचि चर्मणि कर्कशत्वात् कदलीविशेषा रामरम्भादय एकान्तशैत्यान्नियतशैत्याद्धेतोः लोके परिणाहि वैपुल्ययुक्तम् । 'परिणाहो विशालता' इत्यमरः । रूपं लब्ध्वापि । 'अपि'शब्दात् करिकदलीमात्रस्य तादृक्परिणाहो नास्तीति भावः । तस्या ऊर्वोस्तदूर्वोरुप- मानबाह्या जाता उपमानक्रियानर्हा बभूवुः । तदूर्वोर्न कार्कश्यं नाप्येकान्तशैत्य- मिति भावः ॥३६॥

एतावता नन्वनुमेयशोभि काञ्चीगुणस्थानमनिन्दितायाः।
आरोपितं यद्गिरिशेन पश्चादनन्यनारीकमनीयमङ्कम् ॥ ३७॥.

 एतावतेति ॥ अनिन्दिताया अनवद्यायाः पार्वत्याः काञ्चीगुणस्थानं नितम्बबिम्बम् , एतावता नन्वेतावतैव । 'प्रश्नावधारणानुज्ञानुनयामत्रणे ननु' इत्यमरः । शोभत इति शोभि । आवश्यके णिनिः, ततस्स्वप्रत्ययः । अनुमेयं शोभित्वं शोभा यस्य तदनुमेयशोभि । 'त्वप्रत्ययस्तु गतार्थत्वान्न प्रयुक्तः' इत्याह वामनः । पश्चादादौ नैःस्पृशेऽपि पश्चात् , तपश्चर्यानन्तरमित्यर्थः । गिरौ शेत इति गिरिशः


पाठा०-१ कान्ति. २ कु. सं.

शिवः । 'गिरौ डश्छन्दसि' (वा० ४९९९) इति डप्रत्ययः । भाषायामपि क्वचिदिष्यते । अथवा,-गिरिः कैलासोऽस्यास्तीति गिरिशः । लोमादित्वाच्छप्रत्ययः । तेन गिरिशेन । अन्यासां नारीणां कमनीयः कामयितुं शक्यो न भवतीत्यनन्यनारीकमनीयस्तमङ्कं निजोत्सङ्गमारोपितमधिरोपितमिति यत् । एतावता लिङ्गेनेति पूर्वेणान्वयः । रोहतेर्ण्यन्ताकर्मणि क्तः । 'रुहः पोऽन्यतरस्याम्' (पा. ७।३।४३) इति हकारस्य पकारः। गत्यर्थविवक्षायां द्विकर्मकत्वम् । प्रधाने कर्मणि क्तः । गिरिजानितम्बबिम्बं विश्वातिशायि सौन्दर्यं गिरिशाङ्कारूढत्वाव्यतिरेकेण नार्य- न्तरनितम्बबिम्बवत् । विपक्षे हेत्वनुक्तिरेव बाधिका । दाक्षायणीनितम्बबिम्बस्य तु पक्षसपक्षयोरन्यतरभावानतिवृत्तेर्निष्कलङ्कमनुमानमित्यलमस्थानसंरम्भेण ॥३७॥

तस्याः प्रविष्टा नतनाभिरन्धं रराज तन्वी नवलोमराजिः।
नीवीमतिक्रम्य सितेतरस्य तन्मेखलामध्यमणेरिवार्चिः॥३८॥

 तस्या इति ।। नीवीं वस्त्रग्रन्थिम् । 'स्त्रीकटीवस्त्रबन्धेऽपि नीवी परिपणेऽपि च' इत्यमरः । अतिक्रम्यातीत्य नतं निम्नं नाभिरन्धं प्रविष्टा प्रविशन्ती तन्वी सूक्ष्मा तस्याः पार्वत्या नवलोमराजिः सितेतरस्यासितस्य, इन्द्रनीलस्येत्यर्थः । तस्याः पार्वत्या मेखला तन्मेखला । 'तस्याः' इत्यनुवृत्तौ पुनस्तच्छब्दोपादानं वाक्यान्तरत्वात्सोढव्यम् । यद्वा,-तस्या नीव्या मेखला तन्मेखला, तत्र तद- वस्थानात् । तस्या मध्यमणेरर्चिः प्रभेव रराज । 'ज्वालाभासोर्नपुंस्वर्चिः' इत्यमरः ॥ ३८॥

मध्येन सा वेदिविलग्नमध्या चलित्रयं चारु बभार बाला ।
आरोहणार्थं नवयौवनेन कामस्य सोपानमिव प्रयुक्तम् ॥ ३९ ॥

 मध्येनेति ॥ 'वेदिः परिष्कृता भूमिः' इत्यमरः । वेदिविलग्नमध्या वेदिवत्


पाठा०-१ नीला. २ राजी. ३ गम्भीरनाभीह्रदसंनिधाने रराज नीला नवलोमराजिः । मुखेन्दुभीरुस्तनचक्रवाकचञ्चुच्युता शैवलमञ्जरीव ॥ (१ नाभि. २ भीतं.) ४ नवयौवनस्य कामेन.


टिप्प-1 मेखलामध्यवर्तिनो नायकमणेरचिरेव नीवीमतिक्रम्य नतनामिरन्ध्र प्रविष्टेवेत्यर्थः । अत्र वर्णसाम्यादिकमुत्प्रेक्षाहेतुः । नेयमुपमा, अर्चिषो नीम्यतिक्रमासंभवात्' इति नारायण० । कृशमध्या, तनुमध्येति यावत् । सा बाला पार्वती । मध्येन मध्यभागेन चारु सुन्दरं वलित्रयं कामस्यारोहणार्थं नवयौवनेन प्रयुक्तं रचितं सोपानमिव बभारेत्युत्प्रेक्षा ॥ ३९ ॥

अन्योन्यमुत्पीडयदुत्पलाक्ष्याः स्तनद्वयं पाण्डु तथा प्रवृद्धम् ।
मध्ये यथा श्याममुखस्य तस्य मृणालसूत्रान्तरमप्यलभ्यम् ॥४०॥

 अन्योन्यमिति ॥ अन्योन्यं परस्परम् । 'कर्मव्यतिहारे सर्वनाम्नो द्वे वाच्ये' (वा० ४७००) इति द्विरुक्तिः । -समासवच्च बहुलम्' (वा० ४७००) इति बहुलवचनादसमासपक्षेऽपि पूर्वपदस्थस्य सुपः सुर्वक्तव्य इति तत्रत्यवार्ति- कम् । उत्पीडयदुपरुन्धत्पाण्डु गौरमुत्पलाक्ष्याः स्तनद्वयं तथा तेन प्रकारेण प्रवृद्धम् । कर्तरि क्तः । श्याममुखस्य कृष्णचूचुकस्येति स्वरूपवर्णनम् । तस्य स्तनद्वयस्य मध्ये यथा येन प्रकारेण मृणालसूत्रान्तरं बिसतन्तुमात्रावकाशोऽप्यलभ्यं लब्धुमशक्यम् । 'अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थे' इत्यमरः । अत्र संबन्धेऽसंबन्धरूपातिशयोक्त्यलंकारः । कुचयोः पीवरत्वातिशयार्थमवकाशसंब- न्धेऽप्यसंबन्धाभिधानादिति ॥ ४० ॥

 लोके सुकुमारत्वमेव कुसुमास्त्रस्य साधकत्वमिति स्थिते सत्याह-

शिरीषपुष्पाधिकसौकुमार्यौ बाहू तदीयाविति मे वितर्कः ।
पराजितेनापि कृतौ हरस्य यौ कण्ठपाशौ मकरध्वजेन ।। ४१॥

 शिरीषेति ॥ तस्या इमौ तदीयौ बाहू शिरीषपुष्पादधिकं सौकुमार्य मार्दवं ययोस्तथोक्ताविति मे वितर्क ऊहः । कुतः ? यो बाहू पराजितेनापि पूर्वं निर्जितेनापि मकरध्वजेन कामेन हरस्य कण्ठपाशौ कण्ठबन्धनरज्जू कृतौ, कण्ठालिङ्गनं प्रापितावित्यर्थः । तदसाध्यसाधनात्तत आधिक्यमिति भावः । अत्र बाह्वोरारो- पितकण्ठपाशत्वस्य प्रकृतवैरनिर्यातनोपयोगात् परिणामालंकारः ॥ ४१ ।।


पाठा०-१ चारु. २ विवृद्धम्. ३ मालाधिक. ४ प्रतर्कः ५ निर्भसिता- शोकदलप्रसूति पाणिद्वयं चारुनखं तदीयम् । नवोदितेन्दुप्रतिमस्य शोभा व्योन्नः प्रदोषे विफलीचकार ।


टिप्प०-1 यो मकरध्वजः पूर्व दर्पाद्देवमासाद्य विफलीकृतसुकुमारतरपूर्वोपकरणो स एव याभ्यां पशुमिव रज्वा कण्ठे निबध्यात्मविधेयं चकार, तयोः सौकुमार्य कथं शिरीषकुसुमादिभिरुपमातुं शक्यम् । अत्र व्यतिरेकोऽलंकारः' इति नारायण०।

कण्ठस्य तस्याः स्तनबन्धुरस्य मुक्ताकलापस्य च निस्तलस्य ।
अन्योन्यशोभाजननाद्बभूव साधारणो भूषणभूष्यभावः ॥४२॥

 कण्ठस्येति ॥ स्तनाभ्यां बन्धुरस्योन्नतस्य तस्याः पार्वत्याः कण्ठस्य गलस्य निस्तलस्य वर्तुलस्य मुक्ताकलापस्य मुक्ताभूषणस्य च । 'वर्तुलं निस्तलं वृत्तं बन्धुरं तूम्नतानतम्' । 'कलापो भूषणे बर्हे तूणीरे संहतावपि' इति चामरः । अन्योन्यशोभाजननाद्भूषणभूष्यभावोऽलंकारालंकार्यभावः साधारणः समानो बभूव, उभावप्यन्योन्यस्य भूष्यौ भूषणे च बभूवनुरित्यर्थः । अत्र कण्ठमुक्ता- कलापयोः शोभाक्रियाद्वारेणान्योन्यभूषाजनकत्वादन्योन्यालंकारः । तदुक्तम् ( अलं. स.)-'परस्परं क्रियाजननमन्योन्यम्' इति ॥ ४२ ॥

 इदानीं पार्वतीवदनं चन्द्रकमलसदृशमित्येतदेव वचोभङ्याह-

चन्द्रं गता पद्मगुणान्न भुङ्क्ते पद्माश्रिता चान्द्रमसीमभिख्याम् ।
उमामुखं तु प्रतिपद्य लोला द्विसंश्रयां प्रीतिमवाप लक्ष्मीः॥४३।।

 चन्द्रमिति ॥ लोला चपला, परिभ्रमणशीलेत्यर्थः । लक्ष्मीः कान्त्यभिमानिनी देवता चन्द्रं गता प्राप्ता सती पद्मगुणान्सौगन्ध्यादीन्न भुङ्क्ते नानुभवति । पद्माश्रिता सती चन्द्रमस इमां चान्द्रमसीमभिख्यां शोभाम् । 'अभिख्या नाम शोभयोः' इत्यमरः । अमृतवदानन्दिनीं न भुङ्क्ते; उमामुखं प्रतिपद्य तु द्वे चन्द्रपद्मे संश्रयः कारणं यस्यास्तां द्विसंश्रयां प्रीतिमानन्दमवाप, तत्रोभयगुणसंभवादिति भावः । अत्रोपमानभूतचन्द्रपद्मापेक्षयोपमयस्योमामुखस्याधिकगुणवत्त्वोक्त्या व्यतिरेकालंकारः । तदुक्तम् ( अलं. स.)-- 'भेदप्राधान्येनोपमानादुपमेयस्याधिक्ये विपर्यये वा व्यतिरेकः' इति ॥ ४३ ॥

पुष्पं प्रवालोपहितं यदि स्यान्मुक्ताफलं वा स्फुटविद्रुमस्थम् ।
ततोऽनुकुर्याद्विशदस्य तस्यास्ताम्रौष्ठपर्यस्तरुचः स्मितस्य ॥४४॥

 पुष्पमिति ॥ पुष्पं पुण्डरीकादिकं प्रवाले बालपल्लवे उपहितं निहितं स्याद्यदि, 'प्रवालो वल्लकीदण्डे विद्रुमे बालपल्लवे' इति विश्वः । मुक्ताफलं वा स्फुटे निर्मले विद्रुमे तिष्ठनीति स्फुटविद्रुमस्थं स्याद्यदि ततस्तर्हि विशदस्य शुभ्रस्य ताम्रे अरुणे ओष्ठे पर्यस्ता प्रसृता रुक्कान्तिर्यस्य तथोक्तस्य तस्याः पार्वत्याः


पाठा०-१ ताम्रोष्ठ. स्मितस्यानुकुर्यात् , स्मितमनुकुर्यादित्यर्थः । अत्र 'माषाणामश्नीयात्' इतिवत्संबन्धमात्रविवक्षया षष्ठी । अत्र पुष्पप्रवालयोर्मुक्ताविद्रुमयोश्चासंबन्धेऽपि संबधोक्त्यातिशयोक्तिः । सा च 'संभावना' इत्यलंकारसर्वस्वकारः। विशेषतस्तु पुष्पमुक्ताफलयोरुपमानयोः प्रकृतोत्कर्षार्थमुपमेयताकल्पनात्प्रतीपालंकारः । तदुक्तम् ( अलं. स.)--'उपमानस्याक्षेप उपमेयताकल्पनं वा प्रतीपः' इति लक्षणात् । स च पूर्वोक्तातिशयोक्त्यनुप्राणित इति ॥ ४४ ॥

स्वरेण तस्याममृतस्त्रुतेव प्रजल्पितायामभिजातवाचि ।
अप्यन्यपुष्टा प्रतिकूलशब्दा श्रोतुर्वितन्त्रीरिव ताड्यमाना ॥४५॥

 स्वरेणेति ॥ अभिजातवाचि मधुरभाषिण्यां तस्यां पार्वत्याममृतस्रुतामृतस्राविणेव । क्विप् । स्वरेण नादेन प्रजल्पितायामालपन्त्याम् । कर्तरि क्तः । अन्यैः काकादिभिः पुष्टाऽन्यपुष्टा कोकिलापि । मुख्यया वृत्त्या जातिवचनत्वाभावान्ङीवभावः । ताड्यमाना वाद्यमाना विपमबद्धा तन्त्रीवितन्त्रीरिव । 'अवितृस्तृतत्रिभ्य ई:' (उ० ४३८) इति तन्त्रिधातोरौणादिक ईप्रत्ययः । ङीबभावान्न 'हल्ङ्याभ्यः-' (पा.६।१।६८) इति सुलोपः । तदुक्तम् –'अवीलक्ष्मीतरीतन्त्रीधीह्रीश्रीणामुणादिषु । स्त्रीलिङ्गानाममीषां तु न सुलोपः कदाचन ॥' इति । एते डीबन्ता न भवन्तीत्यर्थः। श्रोतुर्जनस्य प्रतिकूलशब्दाः कर्णकठोरनादा भवन्तीति शेषः ॥ ४॥

प्रवातनीलोत्पलनिर्विशेषमधीरविप्रेक्षितमायताक्ष्या ।
तया गृहीतं नु मृगाङ्गनाभ्यस्ततो गृहीतं नु मृगाङ्गनाभिः॥४६॥

 प्रवातेति ॥ प्रवाते प्रभूतवातस्थले यन्नीलोत्पलं ततो निर्विशेषं निर्भेदम् ,


पाठा०-१ अन्यपुष्टाः.२ शब्दाः.३ कर्णद्वयस्थं नगराजपुत्र्यास्ताटङ्कयुग्मं सुतरां रराज । मत्वा भवित्रीं त्रिपुरारिपत्नीं तो सेवमानाविव पुष्पवन्तौ ॥ (१ नितरां बभास. २ ज्ञात्वा. ३ सेवासमेतो.) टिप्प.-1 'अत्र यदि-शब्दबलादसिद्धार्थस्य कल्पनात् “यद्यथोक्तौ च कल्पनम्" इत्युक्तोऽतिशयालंकारः' इति नारायण० । 2 'अत्र "अमृतस्रृतेव" इत्युत्प्रेक्षा माधुर्यसौकुमार्यादिगुणैः परभृताविरुताद्देवीसंजल्पितस्य व्यतिरेकं द्योतयति । "प्रतिकूल' शब्दश्च तमभिद्योतयतीति व्यतिरेकालंकारो ध्वन्यते' इति नारायण०। तत्सदृशमित्यर्थः । अधीरविप्रेक्षितं चकितविलोकितम् । आयताक्ष्या विशालनेत्रया तया पार्वत्या मृगाङ्गनाभ्यो हरिणीभ्यो गृहीतमभ्यस्तं नु ? अथवा मृगाङ्गनाभिस्ततस्तस्याः पार्वत्याः । पञ्चम्यास्तसिल् । गृहीतं नु ? अत्र विवक्षितस्य परस्परग्रहणस्योत्प्रेक्षणादुत्प्रेक्षेति केचित् । तदुपजीविसंदेहालंकार इत्यन्ये । उभयोः संकर इत्यपरे ॥ ४६ ॥

तस्याः शलाकाञ्जननिर्मितेव कान्तिभ्रुवोरायतलेखयोर्या ।
तां वीक्ष्य लीलाचतुरामनङ्गः स्वचापसौन्दर्यमदं मुमोच ॥४७॥

 तस्या इति ॥ आयतलेखयोर्दीर्घरेखयोस्तस्याः पार्वत्या भ्रुवोः संबन्धिनी शलाकयाञ्जनेन निर्मितेव स्थिता या कान्तिीलाचतुरां विलाससुभगां तां कान्तिं वीक्ष्यानङ्गः स्वचापसौन्दर्येण यो मदस्तं मुमोच । इह सौन्दर्यातिशयोक्तिः ॥४७॥

लजा तिरश्वां यदि चेतसि स्यादसंशयं पर्वतराजपुत्र्याः ।
तं केशपाशं प्रसमीक्ष्य कुर्युर्बालप्रियत्वं शिथिलं चमर्यः॥४८॥

 लज्जेति॥ तिरश्चां तिर्यग्जातीनां चेतसि लज्जा स्याद्यदि। संशयाभावोऽसंशयम्, संदेहो नाम्नीत्यर्थः। पर्वतराजपुत्र्याः । 'शार्ङरवाद्यञो डीन्' (पा. ४१११७३) इति ङीन् । तं प्रसिद्ध केशपाशं केशवकलापम् । 'पाशः पक्षश्च हस्तश्च कलापार्थाः कचात्परे' इत्यमरः । प्रसमीक्ष्य दृष्ट्वा चमर्यो मृगीविशेषा बालाः प्रिया यासामिति विग्रहे बालप्रियास्तासां भावो बालप्रियत्वम् , प्रियबालत्वमित्यर्थः । आहितान्यादिपाठाद्वा परनिपातः । 'त्वतलोर्गुणवचनस्य' (वा० ३९२७) इति पुंवद्भावः । शिथिलं कुर्युः, निर्लज्जत्वान्न शिथिलयन्तीत्यर्थः । अत एवात्र निर्लज्जत्वकरणहतोराद्यपादे वाक्यार्थत्वेनोक्त्या काव्यलिङ्गाख्योऽलंकारः। तदुक्तम्- 'हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गमुदाहृतम्' इति ॥ ४८ ॥

सर्वोपमाद्रव्यसमुच्चयेन यथाप्रदेश विनिवेशितेन ।
सा निर्मिता विश्वसृजा प्रयत्नादेकस्थसौन्दर्यदिदृक्षयेव ।। ४९ ॥

 सर्वोपमेति ॥ किंबहुना सा पार्वती विश्वसृजा विधात्रा। एकत्र तिष्ठती-


पाठा०-१ लोलाम्. २ ताटङ्कपत्रं विरराज तस्याः शैलात्मजायाः श्रवणद्वयस्थम् । मत्वा भवित्रीं मदनारिपनी सेवासमेताविव पुष्पवन्तौ ॥ (१ युग्मम्. २ पुष्पदन्तौ.) त्येकस्थं, तस्य सौन्दर्यस्य सर्ववस्तुगतस्येत्यर्थः । दिदृक्षयेव प्रयत्नाद्यथाप्रदेश क्रमाद्विनिवेशितेन स्थापितेन सर्वेषामुपमाद्रव्याणां चन्द्रारविन्दाधुपमानवस्तूनां समुच्चयेन समाहारेण निर्मिता । 'दिदृक्षयेव' इति फलोत्प्रेक्षा दर्शनार्थित्वाद्विश्वसृज इति ॥ ४९॥

तां नारदः कामचरः कदाचित् कन्यां किल प्रेक्ष्य पितुः समीपे ।
समादिदेशैकवधूं भवित्रीं प्रेम्णा शरीरार्धहरां हरस्य ॥ ५० ॥

तामिति ॥ कामेनेच्छया चरतीति कामचरो नारदः। कदाचित्पितुर्हिमवतः समीपे कन्यां तां पार्वतीं प्रेक्ष्य किल, प्रेम्णा न त्वन्यथा, हरस्य शिवस्यार्धं हरतीत्यर्धहरा । 'हरतेरनुद्यमनेऽच्' (पा.३।२।९) इत्यच्प्रत्ययः । शरीरस्यार्धहरां शरीरार्धहराम् । कुलधुरंधरादिवदवयवद्वारा समुदायविशेषकत्वात्समासः । अन्यथा त्वर्धस्य समप्रविभागवचनत्वात् 'अर्धं नपुंसकम्' (पा. २।२।२ ) इत्यशरीरेति स्यात् । एकवधूमसपत्नीकां भार्याम् । 'पूर्वकाल-' (पा. २।११४९ ) इत्यादिना समासः। भवित्रीं भाविनीं समादिदेश, हरस्यार्धाङ्गहारिण्येकपत्नी भविष्यतीत्या- दिष्टवानित्यर्थः ॥ ५० ॥

गुरुः प्रगल्भेऽपि वयस्यतोऽस्यास्तस्थौ निवृत्तान्यवराभिलाषः ।
ऋते कृशानोर्न हि मन्त्रपूतमर्हन्ति तेजांस्यपराणि हव्यम् ॥५१॥

 गुरुरिति ॥ गुरुः पिता । 'गुरू गीष्पतिपित्राद्यौ' इत्यमरः । अतो नारदवच- नावेतोरस्याः पार्वत्याः प्रगल्भे वयस्यपि यौवने सत्यपि निवृत्तोऽन्यस्मिन्वरे जामातर्यभिलाषो यस्य स तथोक्तः सन् । 'वरो ना रूपजामात्रोः' इति वैज- यन्ती। तस्थौ, वरान्तरं नान्विष्टवानित्यर्थः । ननु कुतोऽसौ निर्बन्ध इत्यत आह-ऋत इति । तथा हि-मन्त्रैः पूतं संस्कृतं हूयत इति हव्यमाज्यादिकं कृशानोः पावकाहते कृशानुं विना । 'अन्यारादितरते-' (पा.२।३।२९) इत्यादिना पञ्चमी । अपराणि तेजांसि सुवर्णादीनि नार्हन्ति, न भजन्तीत्यर्थः । ईश्वरादन्यस्य तद्योग्यस्याभावादुपेक्षेति भावः ॥५१॥

 तर्हि तमेवाहूय दीयतामित्याशङ्कयाह-

अयाचितारं न हि देवदेवमद्रिः सुतां ग्राहयितुं शशाक ।
अभ्यर्थनाभङ्गभयेन साधुर्माध्यस्थ्यमिष्टेऽप्यवलम्बतेऽर्थे ॥५२॥


पाठा०-१ एकवधूः. २ अन्यतर.  अयाचितारमिति ॥ अद्रिर्हिमवानयाचितारमयाचमानं देवदेवं महादेवं सुतां पार्वतीं ग्राहयितुं स्वयमाहूय परिग्राहयितुं न शशाक नोत्सेहे । तथा हि-साधुः सज्जनः । 'साधुर्वार्धषिके चारौ सजने चाभिधेयवत्' इति विश्वः । अभ्यर्थनाभङ्गभयेन याजावैफल्यभीत्येष्टेऽप्यर्थे विषये माध्यस्थ्यमौदासीन्य- मवलम्बते ॥ ५२॥

 न च तथैव स्थितः किं तूपायान्तरं चिन्तितवानिति वक्तुं प्रस्तौति-

यदैव पूर्वे जनने शरीरं सा दक्षरोपात्सुदती ससर्ज ।
तदाप्रभृत्येव विमुक्तसङ्गः पतिः पशूनामपरिग्रहोऽभूत् ॥५३॥

 यदेति ॥ शोभना दन्ता यस्याः सा सुदती । 'वयसि दन्तस्य दतृ' (पा.५।४।१४१) इति दत्रादेशः। 'उगितश्च' (पा.४।१।६) इति ङीप् । सा पार्वती पूर्वे जनने पूर्वस्मिञ्जन्मनि। 'पूर्वादिभ्यो नवभ्यो वा' (पा. ७।१।१६) इति स्मिन्नादेशविकल्पः। पूर्वज्वलने' इति पाठे पूर्वं दाक्षायणीत्वे ज्वलने योगाग्नौ। यदा यस्मिन्काले दक्षरोपाच्छरीरं देहं ससर्ज तत्याज, तदाप्रभृत्येव तदाद्येव यथा तथा पशूनां पतिः शिवो विमुक्तसङ्गस्त्यक्तविषयासङ्गः सन् , अपरिग्रहोऽपत्नी. कोऽभूत् रूयन्तरं न परिजवाहेत्यर्थः । 'पत्नीपरिजनादानमूलशापाः परिग्रहाः' इत्यमरः ॥ ५३॥

स कृत्तिवासास्तपसे यतात्मा गङ्गाप्रवाहोक्षितदेवदारु ।
प्रस्थं हिमाद्रेर्मुगनाभिगन्धि किंचित्क्वणत्किनरमध्युवास।। ५४॥

 स इति ॥ कृत्तिवासाश्चर्माम्बरः । 'अजिनं चर्म कृत्तिः स्त्री' इत्यमरः । यतात्मा नियतचित्तः स पशुपतिस्तपसे तपोर्थं गङ्गाप्रवाहेणोक्षिताः सिक्ता देवदारवो यस्मिंस्तत्तथोक्तम् । मृगनाभिगन्धि कस्तूरीगन्धवत् , कस्तूरीमृग- संचारादिति भावः । 'मृगनाभिर्मगमदः कस्तूरी चाथ कोलकम्' इत्यमरः ।


पाठा०-१ खयमुत्ससर्ज. २ ततःप्रभृति. ३ जितात्मा. टिप्प.---] 'अत्र “गतिबुद्धि-" (पा.११४१५२) इत्यादिसूत्रे ग्रहेरनुपादानादेव प्रतिग्राहयितुमिति द्वितीयानुपपत्तेः प्राप्त्यर्धत्वमेव युक्तम् । तत्तु प्रत्युपसर्गादिति दक्षिणावर्तः । नाथस्तु निरुपसर्गस्यापि ग्रहे: प्राप्त्यर्थत्वमुक्तवान्' इति नारायण० । क्वणन्तो गायन्तः किंनरा यस्मिंस्तत्तथोक्तम् । किंचित्किमपि हिमाद्रेः प्रस्थं सानुमध्युवास, कुत्रचित्प्रस्थ उवासेत्यर्थः । 'उपान्वध्याङ्सः' (पा.१॥४१४८) इत्याधारस्य कर्मत्वम् । 'प्रस्थोऽस्त्री सानुमानयोः' इत्यमरः ॥ ५४ ॥

गणा नमेरुप्रसवावतंसा भूर्जत्वचः स्पर्शवतीर्दधानाः ।
मनःशिलाविच्छरिता निषेदुः शैलेयनद्धेषु शिलातलेषु ।। ५५ ॥

 गणा इति ॥ गणाः प्रमथगणाः । 'गणाः प्रमथमंख्यौघाः' इति वैजयन्ती। नमेरुप्रसवावतंसाः सुरपुंनागकुसुमशेखराः । 'नमेरुः सुरपुंनागः' इनि विश्वः । स्पर्शवतीः सुखस्पर्शाः, मृद्वीरित्यर्थः। प्रशंसायां मतुप्। भूर्जत्व वो भूर्जवल्कलानि दधानाः, वसाना इत्यर्थः । मनःशिलाभिर्धातुविशेषैविच्छुरिता अनुलिप्ताश्च सन्तः । शिलायां भवं शैलेयम् । गन्धौपधिविशेषः । शिलायाः 'स्त्रीभ्यो ढक्' (पा.४।१।१२०) इति भवार्थे ढक् । 'शिलाजतु च शैलेयम्' इति यादवः । तेन नद्धेषु व्याप्तेषु शिलातलेपु निषेदुः, उपविविशुरित्यर्थः ॥ ५५ ॥

तुषारसंघातशिलाः खुराग्रैः समुल्लिखन्दर्पकलः ककुद्मान् ।
दृष्टः कथंचिद्गवयैर्विविग्नैरसोहसिंहध्वनिरुन्ननाद ॥ ५६ ॥

 तुषारेति ॥ तुषारसंघाता हिमवनास्त एव शिलास्ताः खुराग्रैः समुल्लिखन्विदारयन्दर्पण कलो मधुरध्वनिर्यस्य स दर्पकलो विविग्नैर्भीतैर्गोसदशमृगविशेषैः कथंचित्कृच्छ्रेण दृष्टः । ककुदमस्यास्तीति ककुद्मान्वृषभोऽसोढः सिंहानां ध्वनिर्येन स सिंहध्वनिमसहमानः सन् । उन्ननादोच्चैर्ननाद, जगर्जेत्यर्थः । स्वभावोक्तिरलंकारः । तदुक्तम् –'स्वभावोक्तिरसौ चारु यथावद्वस्तुवर्णनम्' इति ॥ ५६ ॥


पाठा०--१ वसानाः, टिप्प०-1 'रमणीयवस्तुसंनिधानेऽपि समाधिभङ्गशंका नाभूदिति द्योत्यते । उक्तं च

शाकुन्तले ( ११२ ) 'प्राणानामनिलेन वृत्तिरुचिता सत्कल्पवृक्षे वने तोये काञ्चनपद्मरेणुकपिशे धर्माभिषेकक्रिया। ध्यानं रत्नशिलातलेषु विबुधस्त्रीसंनिधौ संयमो यत्कांक्षन्ति तपोभिरन्यमुनयस्तस्मिस्तपस्यन्त्यमी ।।' इति नारायण० ।

तत्राग्निमाधाय समित्समिद्धं स्वमेव मूर्त्यन्तरमष्टमूर्तिः ।
स्वयं विधाता तपसः फलानां केनापि कामेन तपश्चचार ॥५७॥

 तत्रेति ॥ तपसः फलानामिन्द्रत्वादीनां स्वयं विधाता जनयिता, दातेत्यर्थः । अष्टौ मूर्तयो यस्य सोऽष्टमूर्तिरीश्वरः । 'भूतार्कचन्द्रयज्वानो मूर्तयोऽष्टौ प्रकी- र्तिताः' इति । तत्र प्रस्थे स्वं स्वकीयमेव मूर्त्यन्तरं मूर्तिभेदं समिद्भिः समिद्धं दीपितमग्निमाधाय प्रतिष्ठाप्य केनापि कामेन कयापि फलकामनया तपश्चचार चक्रे । 'प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते' इति न्यायात्कामेनेत्युक्तम् । तस्यावाप्तसमस्तकामत्वाकेनापीत्युक्तम् ॥ ५७ ॥

अनर्ध्यमर्ध्येण तमद्रिनाथः स्वौकसामर्चितमर्चयित्वा ।
आराधनायास्य सखीसमेतां समादिदेश प्रयतां तनूजाम् ॥५८॥

 अनर्घ्यमिति ॥ अद्रीणां नाथोऽद्रिनाथो हिमवान् , अर्धं मूल्यमर्हतीत्यर्यः। 'मूल्ये पूजाविधावर्धः' इत्यमरः । दण्डादिभ्यो यः' (पा.५:१।६६) इति यप्रत्ययः। अर्ध्यो न भवतीत्यनर्ध्यस्तमनर्ध्यम् , अमूल्यमित्यर्थः । स्वर्ग ओकः स्थानं येषां तेषां स्वर्गौकसां देवानामर्चितम् । देवैः पूज्यमानमित्यर्थः । 'मतिबुद्धिपूजार्थेभ्यश्च' (पा.३।२।१८८) इति वर्तमाने क्तः। 'क्तस्य च वर्तमाने' (पा.२।३।६७) इति षष्ठी। तमीश्वरमर्ध्येण पूजार्थोदकेन । 'पादार्घाभ्यां च' (पा.५।४।२५) इति यत्प्रत्ययः। 'षट् तु त्रिष्वर्ध्यमर्घार्थे पाद्यं पादाय वारिणि' इत्यमरः । अर्चयित्वा पूजयित्वास्येश्वरस्याराधनाय सखीभ्यां जयाविजयाभ्यां समेत प्रयतां नियतां तनूजां सुतां समादिदेशाज्ञापयामास ॥ ५८ ॥

प्रत्यर्थिभूतामपि तां समाधेः शुश्रूषमाणां गिरिशोऽनुमेने ।
विकारहेतौ सति विक्रियन्ते येषां न चेतांसि त एव धीराः ॥५९॥

 प्रत्यर्थीति ॥ गिरिशः शिवः समाधेः प्रत्यर्थिभूतां प्रतिपक्षभूतामपि। सुप्सुपेति


पाठा०-१ अथ. २ समृद्धम्. टिप्प०-1 कालिदासकृतमष्टमूर्तिवर्णनं यथा शाकुन्तले (१११)-'या सृष्टिः सृष्टुराद्या वहति विधिहुतं या हविर्या च होत्री ये द्वे कालं विधत्तः श्रुतिविषयगुणा या स्थिता व्याप्य विश्वम् । यामाहुः सर्वभूतप्रकृतिरिति यया प्राणिनः प्राणवन्तः प्रत्यक्षामिः प्रपन्नस्तनुभिरवतु वस्ताभिरष्टाभिरीशः' इति । समासः । श्रोतुमिच्छन्ती शुश्रूषमाणां सेवमानाम् । सेवका हि सेव्ये दत्तकर्णा भवन्ति । इच्छार्थे सन्प्रत्ययः । 'ज्ञाश्रुस्मृदृशां सनः' (पा. ११३।५७) इत्यात्मनेपदम् । तां पार्वतीमनुमेनेऽङ्गीचकार, न प्रतिषिद्धवानित्यभिप्रायः । न चैतावता धीरस्य कश्चिद्विकार इत्याशयः । धीरत्वमेवार्थान्तरन्यासेनाह-विकारेति। विकारस्य प्रकृतेरन्यथात्वस्य हेतौ स्त्रीसंनिधानादिकारणे सति विद्यमानेऽपि येषां चेतांसि न विक्रियन्ते न विकृति नीयन्ते, त एव धीराः। विक्रियन्ते इति कर्मणि लट् ॥ ५९॥

 शुश्रूषाप्रकारमेवाह-

  अवचितबलिपुष्पा वेदिसंमार्गदक्षा
   नियमविधिजलानां बर्हिषां चोपनेत्री।
  गिरिशमुपचचार प्रत्यहं सा सुकेशी
   नियमितपरिखेदा तच्छिरश्चन्द्रपादः॥६॥

 अवचितेति ॥ सुकंशी शोभनमूर्धजा । 'स्वाङ्गाञ्चोपसर्जनादसंयोगोपधात्' (पा.४।१।५४) इति ङीप् । सा पार्वती । अवचितानि लृनानि बलिपुष्पाणि पूजाकुसुमानि यया सा। वेदेर्नियमवेदिकायाः संमार्गे संमार्जने दक्षा । नियमविधेर्नित्यकर्मानुष्ठानस्य यानि जलानि तेषां बर्हिषां कुशानां चोपनेत्र्यानेत्री सती। तस्य गिरिशस्य शिरसि चन्द्रस्य पादै रश्मिभिः। 'पादा रश्म्यङ्घ्रितुर्यांशाः' इत्यमरः। नियमितपरिखेदा निवर्तितपरिश्रमा सती। अहन्यहनि प्रत्यहम् । 'अव्ययं विभक्तिसमीपसमृद्धि-' (पा.२।१।६) इत्यादिना नियतार्थेऽव्ययीभावः। 'नपुंसकादन्यतरस्याम्' (पा.५।४।१०९) इति टच्प्रत्ययः। गिरिशमुपचचार शुश्रूषांचके ॥ ६॥

इति श्रीमन्महोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीविनीसमाख्यया व्याख्यया समेतः श्रीकालिदासकृतौ कुमारसंभवे महाकाव्य
उमोत्पत्तिर्नाम प्रथमः सर्गः।

द्वितीयः सर्गः


  तस्मिन्विप्रकृताः काले तारकेण दिवौकसः ।
  तुरासाहं पुरोधाय धाम स्वायंभुवं ययुः ॥१॥

 तस्मिन्निति ॥ तस्मिन्काले पार्वतीशुश्रूषाकाले तारकेण तारकनाम्ना वज्रणखपुत्रेण केनचिदसुरेण विप्रकृता उपप्लुताः। दिवमोकः स्थानं येषां ते दिवौकसो देवाः । 'दिवं स्वर्गेऽन्तरिक्षे च' इति विश्वः । द्यौरोक इति पक्षे पृषोदरादित्वात्साधुः। तुरं त्वरितं साहयत्यभिभवतीति तुराषाट् । साहयतेश्चौरादिकात्क्विप् । 'नहिवृतिवृषि-' (पा.६।३।११६) इत्यादिना पूर्वपदस्य दीर्घः । प्रकृतिग्रहणे प्रातिपदिकस्यापि ग्रहणात् । मुग्धबोधकारस्तु तुराशब्दष्टाबन्त इत्याचष्टे । तं तुरासाहं देवेन्द्रम् । अजादिषु साड्रूपत्वाभावात् 'सहेः साडः सः' (पा.८।३।५६) इति षत्वं न भवति । पुरोधाय पुरस्कृत्य । स्वयंभुवो ब्रह्मण इदं स्वायंभुवम् । संज्ञापूर्वकविधेरनित्यत्वात् 'ओर्गुणः' (पा.६१४११४६) इति गुणो न। धाम स्थानं ययुः, ब्रह्मलोकं जग्मुरित्यर्थः ॥ १॥

  तेषामाविरभूद्ब्रह्मा परिम्लानमुखश्रियाम् ।
  सरसा सुप्तपद्मानां प्रातर्दीधितिमानिव ॥ २ ॥

 तेषामिति ॥ परिम्लाना परिक्षीणा मुखश्रीर्मुग्वकान्तिर्येषां तथोक्तानां तेषां देवानां ब्रह्मा । सुप्तपद्मानां मुकुलितारविन्दानां सरसां प्रातर्दीधितिमान्सूर्य इवाविरभूत् , प्रकाशोऽभूदित्यर्थः। 'प्रकाशे प्रादुराविः स्यात्' इत्यमरः । सूर्योपमानेन तेषां म्लानिहरत्वं सूचितम् । अत्रोपमालंकारः। तल्लक्षणं तु-'स्वतः सिद्धेन भिन्नेन संमतेन च धर्मतः। साम्यमन्येन वर्ण्यस्य वाच्यं चैकपदोपमा॥' इति ॥२॥

  अथ सर्वस्व धातारं ते सर्वे सर्वतोमुखम् ।
  वागीशं वाग्मिराभिः प्रणिपत्योपतस्थिरे ॥३॥

 अथेति ॥ अथाविर्भावानन्तरं सर्वे ते देवाः सर्वतः समन्ततो मुखानि यस्य तं सर्वतोमुखम् , चतुर्मुखमित्यर्थः। वाचां विद्यानामीशं वागीशं सर्वस्य जगतो धातारं स्रष्टारं ब्रह्माणं प्रणिपत्य नमस्कृत्य । अर्थादनपेताभिरर्थ्याभिः, अर्थयुक्ताभिरित्यर्थः । 'धर्मपथ्यर्थन्यायादनपेते' (पा.४।४।९२) इति यत्प्रत्ययः। वाग्मिरुपतस्थिरे, तुष्टुवुरित्यर्थः । 'उपाद्देवपूजासंगतिकरणमित्रकरणपथिष्विति वक्तव्यम् ' (वा० ९१४) इत्यात्मनेपदम् ॥३॥

 स्तुतिप्रकारमाह 'नमः' इत्यादिभिर्द्वादशभिः श्लोकैः-

  नमस्त्रिमूर्तये तुभ्यं प्राक्सृष्टेः केवलात्मने ।
  गुणत्रयविभागाय पश्चाद्भेदमुपेयुषे ॥४॥

 नम इति ॥'हे भगवन्' इत्यध्याहार्य व्याख्येयम् । सृष्टेः प्राक् । 'अन्यारात्-' (पा.२।३।२९) इत्यादिनाऽञ्चत्तरपदयोगे पञ्चमी । केवलात्मन एकरूपाय । 'आत्मा वा इदमेक एवाग्र आसीत्' (ऐत० १११) इति श्रुतेः। 'निर्णीते केवलमिति त्रिलिङ्गं त्वेककृत्स्नयोः' इत्यमरः । पश्चात्सृष्टिप्रवृत्तिकाले। विभज्यतेऽनेनेति विभागः। गुणानां सत्त्वादीनां त्रयमेव विभागो यस्य तस्मै । 'गुणाः सत्त्वं रजस्तमः' इत्यमरः। भेदमुपाधिम् , स्रष्टत्वादिकमित्यर्थः। उपेयुषे प्राप्तवते । 'उपेयिवाननाश्वाननूचानश्च' (पा.३।२:१०९) इति निपातः । अत एव त्रिमूर्तये ब्रह्मविष्णुरुद्ररूपिणे तुभ्यं नमः ! 'नमःस्वस्ति-' (पा.२।३।१३) इत्यादिना चतुर्थी। उक्तं च-'नमो रजोजुषे सृष्टौ स्थितौ सत्त्वमयाय च। तमोरूपाय संहारे त्रिरूपाय स्वयंभुवे ॥' इति ॥ ४॥

  यदमोघमपामन्तरुतं बीजमज ! त्वया ।
  अतश्चराचरं विश्वं प्रभवस्तस्य गीयसे ॥५॥

 यदिति ॥ न जायत इत्यजः, हे अज! अपां जलानामन्तस्त्वया यदमोघमवन्ध्यं बीजं वीर्यमुतं निक्षिप्तम् । 'मुक्तम्' इति पाठे विसृष्टमित्यर्थः । 'शुक्रं तेजोरेतसी च बीजवीर्येन्द्रियाणि च' इत्यमरः। अतस्ते बीजाचराचरं स्थावरजंगमात्मकम् । समाहारे द्वन्द्वैकवद्भावः । विश्वं जगत् , उत्पन्नमिति शेषः । तस्य विश्वस्य । प्रभवत्यस्मादिति प्रभवः कारणं गीयसे । 'अदश्चराचरं विश्वं प्रसवस्तस्य गीयते' इति पाठे अद इदं चराचरं विश्वं तस्य बीजस्य प्रसवो गीयते, लोके इति शेषः । अत्र मनुः ( १।८-९)-अप एव ससर्जादौ तासु वीर्यमवासृजत् । तदण्डमभवद्धैमं सहस्रांशुसमप्रभम् ॥' इति ॥ ५ ॥

  तिसृभिस्त्वमवस्थाभिर्महिमानमुदीरयन् ।
  प्रलयस्थितिसर्गाणामेकः कारणतां गतः॥६॥

 तिमृभिरिति ॥ एकः सृष्टेः प्राक्केवलस्त्वं तिसृभिरवस्थाभिस्वैगुण्यमयीभिहरिहरब्रह्मस्वरूपाभिर्महिमानं निजशक्तिमुदीरयन्विजम्भयन् प्रलयस्थितिसर्गा- णामन्तस्थित्युत्पत्तीनां कारणतां गतः । इदं 'पश्चाबेदमुपेयुषे' (२।४) इत्यस्य विवरणमतो न गतार्थत्वदोषः ॥ ६॥

 भूतसृष्टिकर्तृत्वमुक्त्वा मिथुनसृष्ट्यर्थ मूर्तिमतो ब्रह्मणो भेदमाह-

  स्त्रीपुंसावात्मभागौ ते भिन्नमूर्तेः सिसृक्षया ।
  प्रसूतिभाजः सर्गस्य तावेव पितरौ स्मृतौ ॥७॥

 स्त्रीपुंसाविति ॥ स्त्री च पुमांश्च स्त्रोपुंसौ। अचतुर-' (पा.५१४।७७) इत्यादिनाच्ऽप्रत्ययान्तो निपातः । सिसृक्षया स्रष्टुमिच्छया भिन्नमूर्तेर्द्विधाकृतविग्रहस्य ते तवात्मनो देहस्य भागावात्मभागौ। 'आत्मा जीवे धृतौ देहे स्वभावे परमात्मनि' इति विश्वः। तावेव भागौ प्रसूतिभाज उत्पत्तिभाजः। सृज्यत इति सर्गस्तस्य, निजसृष्टेरित्यर्थः । माता च पिता च पितरौ । 'पिता मात्रा' (पा.१।२।७०) इत्येकशेषः । स्मृतौ । वृद्धैरिति शेपः अत्र मनुः ( १:३२ )-'द्विधा कृत्वात्मनो देह- मर्धेन पुरुषोऽभवत् । अर्धेन नारी तस्यां स विराजमसृजत्प्रभुः ॥' इति ॥७॥

  स्वकालपरिमाणेन व्यस्तरात्रिंदिवस्य ते ।
  यो तु स्वप्नावबोधौ तौ भूतानां प्रलयोदयौ ॥८॥

 स्वकालेति ॥ स्वकालस्य परिमाणेन 'चतुर्युगसहस्राणि ब्रह्मणो दिनमुच्यते' इत्युक्तरूपेण व्यस्ते विभक्तं रात्रिंदिवं रात्र्यहनी यस्य तस्य । यद्यपि 'अचतुर-' (पा.५।४।७७) इत्यादिसूत्रेण रात्रौ च दिवा च रात्रिंदिवमिति सप्तम्यर्थे वृत्तौ द्वन्द्व इत्युक्तं तथापि 'दोषामन्यमहः, दिवामन्या रात्रिः' इत्यादौ कर्मवदत्रापि प्रातिपदिकार्थवृत्तित्वं कथंचित्प्रयोगबलादाश्रयणीयम् । ते तव यौ तु स्वप्नावबोधौ तावेव भूतानां प्रलयोदयौ संहारसृष्टी । यदाहुः (मनु. ११५२)-'यदा स देवो जागर्ति तदैव चेष्टते जगत् । यदा स्वपिति शान्तात्मा तदा सर्वं प्रलीयते ॥' इति । एतच्च दैनंदिनसृष्टिप्रलयाभिप्रायकं, महाप्रलयस्य ब्रह्मणो वर्षशतान्ते भावित्वात् ॥८॥


पाठा०-१ भावौ. २ परिणामेन. ३ यो स्वप्नबोधौ तावेव; स्वप्नावबोधौ

भूतानां तावेव.

  जगद्योनिरयोनिस्त्वं जगदन्तो निरन्तकः ।
  जगदादिरनादिस्त्वं जगदीशो निरीश्वरः ॥९॥

 जगदिति ॥ हे भगवन् ! त्वं जगद्योनिर्जगत्कारणं स्वयमयोनिरनादित्वादकारणकस्त्वम् । अन्तयतीत्यन्तः । पचाद्यच् । जगतोऽन्तर्जगत्संहर्ता स्वयं निरन्तको नित्यत्वादन्तरहितः। त्वं जगतामादिर्जगदादिः, सृष्टेः प्रागपि सन्नित्यर्थः। अत एव त्वमनादिरादिरहितः । जगतामीशो नियन्ता स्वयं निरीश्वरः, अनियम्य इत्यर्थः । 'यतो वा इमानि भूतानि जायन्ते' (तैत्ति० ३।१।१) इत्यादिश्रुतिरेवान प्रमाणम् । अत्र 'अयोनिः' इत्यादौ नञ्तत्पुरुषाश्रयणे विरोधः, बहुव्रीहिणा तु तत्परिहार इति विरोधाभासालंकारः। यथाहुः-'विरोधाभासत्वे विरोधः' इति ॥९॥

 तव तु न प्रपञ्चस्येव जन्मतिरोधानज्ञानेषु परापेक्षेत्याह-

  आत्मानमात्मना वेत्सि सृजस्यात्मानमात्मना ।
  आत्मना कृतिना च त्वमात्मन्येव प्रलीयसे ॥१०॥

 आत्मानमिति ॥ हे भगवन् ! स्वमात्मानं लोकानुग्रहार्थं ब्रह्मरूपेणोत्पिपादयिषितं स्वस्वरूपमात्मनैव वेत्सि जानासि। सर्वापि क्रिया कर्तव्यार्थज्ञानपूर्विकेति भावः । तथात्मानमात्मनैव । आत्मन्येवेत्यत्रापि संबध्यते । स्वस्मिन्नेव सृजसि, अधिष्ठानमपि स्वयमेवेत्यर्थः । 'स्वे महिम्नि प्रतिष्ठितम्' (छां ० ७।२४।१) इति श्रुतेः। कृतिना समर्थेन । इदं सर्वत्र संबध्यते। आत्मना स्वेनैवात्मन्येव प्रलीयसे स्वस्मिन्नेव प्रलीनो भवसि । लीयतेर्दैवादिकात्कर्तरि लट् । 'प्रकृत्यादिभ्य उपसंख्यामम्' (वा० १४६६) इति वार्तिकात्सर्वत्रात्मनेति तृतीया। न हि ते प्रपञ्चस्येव ज्ञानोत्पत्तिलयेषु परापेक्षेति फलितार्थः ॥ १० ॥

  द्रवः संघातकठिनः स्थूलः सूक्ष्मो लघुर्गुरुः ।
  व्यक्तो व्यक्तेतरश्चासि प्राकाम्यं ते विभूतिषु ॥ ११ ॥

 द्रव इति ॥ त्वम्' इत्यनुषज्यते । हे भगवन् ! त्वं द्रवः सरित्समुद्रादिवद्र-


पाठा०-१ अनन्तो जगदन्तकः; जगदन्तोऽप्यनन्तकः, २ जगदीशोऽप्यनी- श्वरः. ३ गुरुर्लघुः. टिप्प०-1 'अत्र स्वाधीनात्मसर्गस्थितिप्रलयस्यास्य ब्रह्मणः पराधीनसर्गादेः प्रपञ्चनाद्व्यतिरेकोक्तिः' इति नारायण० । सात्मकोऽसि । संघातेन निबिडसंयोगेन कठिनो महीधरादिवत् । स्थूल इन्द्रियग्रहणयोग्यो घटादिवत् । सूक्ष्मोऽतीन्द्रियः परमाण्वादिवत् । लधुरुत्पतनयोग्यस्तूलादिवत् । गुरुहेमाद्रिवदचलनीयः । व्यक्तः कार्यरूपोऽसि । व्यक्तेतरः कारणरूपश्चासि । एवं विभूतिप्वणिमादिषु ते तव । प्रकामस्य भावः प्राकाम्यं यथाकामत्वम् ॥ ११ ॥

  उद्धातः प्रणवो यासां न्यायैस्त्रिभिरुदीरणम् ।
  कर्म यज्ञः फलं स्वर्गस्तासां त्वं प्रभवो गिराम् ॥ १२ ॥

 उद्धात इति ॥ हे भगवन् ! यासां गिरां वाचामुद्धात उपक्रमः प्रणव ओंकारात्मकः। 'ओंकारप्रणवौ समौ' इति। 'स्यादभ्यादानमुद्धा आरम्भः' इति चामरः । इदमुपसंहारस्याप्युपलक्षणम् । 'ब्रह्मणः प्रणवं कुर्यादादावन्ते च सर्वतः । दहत्येनः कृतं पूर्वं परस्ताच्च विशेषतः ॥' इति निरुक्तपरिशिष्टयोर्यास्कः। नीयन्त एभिरर्थविशेषा इति न्यायाः स्वराः। उक्तं च-'स्वरविशेषादर्थप्रतिपत्तिः'। 'यथेन्द्रशत्रुः स्वरतोऽपराधात्' (शिक्षा० ५२) इति । यासां गिरा त्रिभिर्न्यायरुदात्तानुदात्तस्वरितैः स्वरैरुदीरणमुच्चारणम् । यासां कर्म, प्रतिपाद्यमित्यर्थः। यज्ञो ज्योतिष्टोमादिः, न तु चैत्यवन्दनादिरिति भावः। फलं स्वर्गः । कर्मद्वारेति शेषः। कर्मस्वगौं ब्रह्मापवर्गयोरप्युपलक्षणे । त्वं तासां गिराम् , वेदानामित्यर्थः । प्रभवत्यस्मादिति प्रभवः कारणम् । प्रणेता स्मर्ता वा मतभेदेन ॥ १२ ॥

 सांख्यमतेन स्तुवन्ति-

  त्वामामनन्ति प्रकृतिं पुरुषार्थप्रवर्तिनीम् ।
  तद्दर्शिनमुदासीनं त्वामेव पुरुषं विदुः॥१३॥

 त्वामिति ॥ हे भगवन् ! त्वां पुरुषस्यार्थो भोगापवर्गरूपस्तदर्थ प्रवर्तत इति पुरुषार्थप्रवर्तिनीं तां प्रकृतिं त्रैगुण्यात्मकं मूलकारणम् । 'प्रकृतिः पञ्चभूतेषु प्रधानं भूलकारणम्' इति यादवः । आमनन्ति कथयन्ति । 'म्ना अभ्यासे' इति धातोर्लट् । 'पाघ्राध्मास्थाना-' (पा.७।३।७८) इत्यादिना मनादेशः । प्रकृतिपुरुष-


पाठा०-१ उद्गीथः. टिप्प०-1 सप्तविभूतयस्तु-'अणिमा लघिमा प्राप्तिः प्राकाम्यं महिमा तथा । ईशित्वं च वशित्वं च तथा कामावसायिता ॥' इत्यादिनोक्ताः । मेदाग्रहणात्प्रकृतिपुरुषाभेदव्यपदेशः। त्वामेव तां प्रकृतिं साक्षित्वेन पश्यतीति तहर्शिनमुदासीनं कूटस्थं पुरुषं विदुर्विदन्ति । 'विदो लटो वा' (पा.३।४।८३) इति शेर्जुसादेशः 'अजामेकां लोहित शुक्लकृष्णाम्' (श्वेता० ४१५) इति श्रुतिरत्र प्रमाणम् ॥ ३॥

  त्वं पितृणामपि पिता देवानामपि देवता ।
  परतोऽपि परश्वासि विधाता वेधसामपि ॥१४॥

 त्वमिति ॥ हे भगवन् ! त्वं पितृणामग्निष्वात्तादीनामपि पिता, तेषामपि तर्पणीय इत्यर्थः । देवानामिन्द्रादीनामपि देवता, तेषामपि यजनीय इत्यर्थः । परतोऽपि परश्चासि, सर्वोत्तरोऽसीत्यर्थः । 'इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः । मनसश्च परा बुद्धिर्बुद्धेरात्मा महान्परः ॥ महतः परमव्यक्तमव्यक्तात्पुरुषः परः। पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः ॥' (कठोप० १।३।११) इति सर्वोत्तरत्वाभिधानात् । वेधसां दक्षादीनामपि विधाता स्रष्टाऽसि ॥१४॥

  त्वमेव हव्यं होता च भोज्यं भोक्ता च शाश्वतः।
  वेद्यं च वेदिता चासि ध्याता ध्येयं च यत्परम् ॥१५॥

 त्वमेवेति ॥ शश्वत्सिद्धः शाश्वतः । शैषिकोऽण्प्रत्ययः । यद्यपि 'कालाट्ठञ्' (पा.४।३।११) इति ठञपवादः। अत एव सूत्रकारस्यापि प्रयोगः-'येषां च विरोधः शाश्वतिकः' (पा.२।४।९) इति। तथापि प्रयोगवशात्साधुरिति वामन इत्याह-'शाश्वतमिति प्रयुक्तेः' (काव्या.सू.५।२।५१) 'इति । शाश्वतस्त्वमेव । हूयत इति हव्यं हविराज्यादिकम् । जुहोतीति । होता यजमानश्चासि। भोज्यमभ्यवहार्यमन्नम्। 'भोज्यं भक्ष्ये' (पा.७३।६९) इति निपातनात्कुत्वाभावः। भोक्ताऽxदश्चासि । वेद्यं साक्षात्कार्यं वस्तु, वेदिता साक्षात्कर्ता चासि । ध्याता स्मर्ता च । यत्परं वस्तु ध्येयं तxसि । साक्षात्कारसाधनभूतप्रत्ययविशेषप्रवाहो ध्यानम् ॥ १५॥

  इति तेभ्यः स्तुतीः श्रुत्वा यथार्था हृदयंगमाः।
  प्रसादाभिमुखो वेधाः प्रत्युवाच दिवौकसः॥१६॥


पाठा०-१ दैवतम्. २ शाश्वतम्. ३ वेद्यं वेदयिता; वेद्यश्च वेदिता. ४ यथार्थ. ५ब्रह्मा.  इतीति ॥ वेधा ब्रह्मेति तेभ्यो देवेभ्यः। 'आख्यातोपयोगे' (पा.१।१।२९) इत्यपादानत्वात्पञ्चमी। यथार्थाः सत्या अत एव हृदयं गच्छन्तीति हृदयंगमा मनोहराः। खच्प्रकरणे 'गमेः सुप्युपसंख्यानम्' (वा० २००९) इति खच्प्रत्ययः । 'अरुषिदजन्तस्य मुम्' (पा.६।३।६७) इति मुमागमः । स्तुतीः स्तोत्राणि श्रुत्वा प्रसादाभिमुखोऽनुग्रहप्रवणः सन् । दिवौकसो देवान्प्रत्युवाच ॥ १६ ॥

अथ कविराह-

  पुराणस्य कवेस्तस्य चतुर्मुखसमीरिता ।
  प्रवृत्तिरासीच्छब्दानां चरितार्था चतुष्टयी ॥१७॥

 पुराणस्येति ॥ द्रव्यगुणक्रियाजातिभेदेन चत्वारोऽवयवा यस्या इति चतुष्टयी चतुर्विधा। 'संख्याया अवयवे तय' (पा.५।२।४२) इति तयप्। 'टिड्ढाणन्द्वयसच्' (पा.४।१।१५) इत्यादिना डीप्। शब्दानां प्रवृत्तिवैंखरीप्रमुखा वाग्वृत्तिः । उक्तंच- 'वैखरी शब्दनिष्पत्तिर्मध्यमा श्रुतिगोचरा। द्योतितार्था च पश्यन्ती सूक्ष्मा वागनपायिनी ॥' इति । पुराणस्य पुरातनस्य । पृषोदरादित्वात्साधुः । कवेः कवयितुस्तस्य ब्रह्मणश्चतुर्भिर्मुखैः समीरिता सती । तद्धितार्थ-' (पा.२।१।५१) इत्यादिनोत्तरपदसमासः । समाहारे चतुर्मुखीति स्यात् । चरितार्थान्वर्थासीत् । चतुर्मुखोच्चारणाच्चातुर्विध्यं सफलमासीदित्यर्थः ॥ १७ ॥

 भगवानाह-

  स्वागतं स्वानधीकारान प्रभावैरवलम्ब्य वः।
  युगपद्युगबाहुभ्यः प्राप्तेभ्यः प्राज्यविक्रमाः ! ॥१८॥

 स्वागतमिति ॥ हे प्राज्यविक्रमाः प्रभूतपराक्रमा देवाः! 'प्राज्यं भूरि प्रभूतं च' इति यादवः । स्वान्स्वकीयानधीकारान्नियोगान् । 'उपसर्गस्य घञि-' (पा.६।३।१२२) इति वा दीर्घः। प्रभावैः सामथ्र्यैरवलम्ब्यास्थाय, यथाधिकारं स्थित्वापीत्यर्थः। युगपत्समकालं प्राप्तेभ्यः, युगप्राप्त्या महत्कार्यमनुमीयत इति भावः। युगबाहुभ्यः, दीर्घबाहुभ्य इत्यर्थः । आजानुबाहुत्वं भाग्यलक्षणम् , वो युष्मभ्यम् । 'बहुवचनस्य वस्नसौ' (पा.८।११२१) इति वसादेशः । 'कर्मणा यमभिप्रैति-' (पा.१।४।३२) इत्यत्र कर्मपदेन क्रियाग्रहणासंप्रदानत्वम् । स्वागतं

शोभनमागमनम् ? काकुरत्रानुसंधेया ॥ १८ ॥

  किमिदं द्युतिमात्मीयां न विभ्रति यथा पुरा ।
  हिमक्लिष्टप्रकाशानि ज्योतींषीव मुखानि वः ॥ १९ ॥

 किमिति ॥ 'वत्साः' इत्युत्तरश्लोकीय (२।२८) संबोधनमत्राप्यनुषञ्जनीयम् । हे वत्साः पुत्रकाः! हिमेन नीहारेण क्लिष्ट प्रकाशानि मन्दप्रभाणि ज्योतींषि नक्षत्राणीव । 'दीप्तिताराहुताशेषु ज्योतिः' इति शाश्वतः । वो युष्माकं मुखानि पुरा यथा पूर्वमिवात्मीयां द्युति न बिभ्रति । इदं किम् ? किंनिबन्धनमित्यर्थः । किमिदमित्यनेन वाक्यार्थः परामृश्यते ॥ १९ ॥

उक्तमेव प्रपञ्चयति सप्तभिः श्लोकैः-

  प्रशमादर्चिषामेतदद्गीर्णसुरायुधम् ।
  वृत्रस्य हन्तुः कुलिशं कुण्ठिताश्रीव लक्ष्यते ॥ २० ॥

 प्रशमादिति ॥ अर्चिषां तेजसा प्रशमान्निर्वाणाद नुद्गीर्णसुरायुधम् । अनुदितचित्रप्रभमित्यर्थः । एतदृत्रस्य हन्तुरिन्द्रस्य कुलिशं वज्रम् । कुण्ठिता अश्रयो यस्य तत्कुण्ठिताश्रि कुण्ठितकोटीव लक्ष्यते दृश्यते ॥ २० ॥

  किं चायरिदुर्वारः पाणौ पाशः प्रचेतसः ।
  मत्रेण हतवीर्यस्य फणिनो दैन्यमाश्रितः ॥ २१ ॥

 किं चेति॥ किं च, अयमरिदुर्वारो रिपुदुष्प्रधर्षः प्रचेतसो वरुणस्य । 'प्रचेता वरुणः पाशी' इत्यमरः। पाणौ पाशो रज्जुरायुधविशेषः। मन्त्रेण गारुडेन हतवीर्यस्य प्रतिबद्धशक्तेः फणिनः सर्पस्य दैन्यं शोच्यत्वमाश्रितः। अत्र फणि निष्ठदैन्यस्य पाशेऽसंभवाद्दैन्यमिव दैन्यमिति कल्पनादसंभवद्वस्तुसंबन्धो निदर्शनालंकारः॥२३॥

  कुबेरस्य मनःशल्यं शंसतीव पराभवम् ।
  अपविद्धगदो बाहुर्भग्नशाख इव द्रुमः ॥ २२ ।।

 कुबेरस्येति ॥ अपविद्धा त्यक्ता गदा येन सोऽपविद्धगदः । अत एवं भग्नशाखो द्रुम इव स्थितः कुबेरस्य बाहुर्मनःशल्यम् , दुःखहेतुत्वान्मनसः शल्यप्रायत्वमित्यर्थः । पराभवम् , शत्रुकृतमिति शेषः। शंसतीव कथयतीव, लक्षणयाऽनुमापयतीत्यर्थः। बाहौ मुख्यकथनस्यासंभवादिवशब्दोऽप्यत एव ॥२०॥


पाठा०-१ यथापुरम्. २ इमाम् ; इति. ३ प्रभावानि. ४ अनुदूर्णः, अनुगूर्ण,

५ कुण्ठितश्रीव. ६ अपि.

  यमोऽपि विलिखन् भूमिं दण्डेनास्तमितत्विषा ।
  कुरुतेऽस्मिन्नमोघेऽपि निर्वाणालातलाघवम् ।। २३ ॥

 यम इति ॥ अस्तं नाशमिताः प्राप्ताः, अस्तमिति मकारान्तमव्ययम् । तस्य 'द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापनैः' (पा.२।१।२४) इति समासः। अस्तमितास्त्विषो यस्य तेन निस्तेजस्केन दण्डेन यमोऽपि भूमिं विलिखन्नमोघेऽपि । प्रागिति भावः । अस्मिन्दण्डे निर्वाणालातस्य शान्तोल्मुकस्य । अलातं नाम भूलेखनशलाका, तस्य यल्लाघवं क्लैब्यं तत्कुरुते । ‘अलातमुल्मुकं ज्ञेयम्' इति हलायुधः । 'निर्वाणोऽवाते' (पा.८१२५०) इति निपातनान्निष्ठानस्वम् । अत्रापि लाधवमिव लाघवमिति कल्पनान्निदर्शनालंकारः ॥ २३ ॥

  अमी च कथमादित्याः प्रतापक्षतिशीतलाः ।
  चित्रन्यस्ता इव गताः प्रकामालोकनीयताम् ॥ २४ ॥

 अमी इति ॥ प्रतापक्षत्या तेजसां क्षयेण शीतला अमी आदित्याश्च । द्वादशेति शेषः । कथम् , केन हेतुनेत्यर्थः । चित्रन्यस्ताश्चित्रलिखिता इव । प्रकाममत्यन्तमालोकनीयतां दृश्यतां गताः प्राप्ताः? ॥ २४ ॥

  पर्याकुलत्वान्मरुतां वेगभङ्गोऽनुमीयते ।
  अम्भसामोघसंरोधः प्रतीपगमनादिव ॥ २५ ॥

 पर्याकुलेति ॥ मरुतां वायूनाम् । सप्तसप्तानामिप्ति शेषः । पर्याकुलस्वात्स्खलितगतित्वाद्धेतोर्वेगस्य भङ्गोम्भसां जलानां प्रतीपगमनात् , उत्तानावरोहादित्यर्थः । ओधस्य संरोधः प्रवाहप्रतिबन्ध इवानुमीयते ॥ २५ ॥

  आवर्जितजटामौलिविलम्बिशशिकोटयः।
  रुद्राणामपि मूर्धानः क्षतहुंकारशंसिनः ॥ २६ ॥


पाठा०-१ क्षितिशीतलाः. २ आयाताः. ३ दर्शिनः, दर्शनम्. ४ अहंकार. टिप्प०-1 ते च-'धाता मित्रोऽर्यमा रुद्रो वरुणः सूर्य एव च । भगो विवस्वान् पूषा च सविता दशमः स्मृतः। एकादशस्तथा त्वष्टा विष्णुर्द्वादश उच्यते ॥' इत्यनेनोक्ताः। 2 सप्तमरुतस्तु-'आवद्धः प्रवहश्चैव संवहश्चोद्वहस्तथा। विवहाख्यः परिवहः परावह इति क्रमात् ॥' इति ।  आवर्जितेति ॥ आवर्जितेषु परिभवदुःखावनम्रेषु जटानां मौलिषु जटाजूटेषु विलम्बिन्यः स्त्रंसिन्यः शशिकोटयश्चन्द्ररेखा येषां ते तथोक्ताः । रुद्राणामपि, एकादशानामिति शेषः। मूर्धानः क्षत हुंकार शंसन्तीति तथोक्ताः, हुंकारक्षत्यनुमापका इत्यर्थः । हुंकारशस्त्रा हि रुद्रा इति भावः ॥ २६ ॥

  लब्धप्रतिष्ठाः प्रथमं यूयं किं बलवत्तरेः ।
  अपवादैरिवोत्सर्गाः कृतव्यावृत्तयः परैः ॥ २७ ॥

 लब्धेति ॥ प्रथमं पूर्वं लब्धप्रतिष्ठा लब्धस्थितयः । लब्धावकाशा इत्यन्यत्र । यूयं बलवत्तरैः पौरुषातिरेकारप्रबलतरैः । निरवकाशैरित्यपरत्र । परैः शत्रुभिरुत्सर्गाः सामान्यशास्त्राणि ‘मा हिंस्यात्' इत्येवमादीनि । अपोद्यन्त एभिरित्यपवादैः 'गामालभेत' इत्यादिभिर्विशेषशास्त्रैरिव । किं कृतव्यावृत्तयः कृतप्रतिष्ठाभङ्गाः? कृतविषयसंकोचरूपबाधा इत्यन्यत्र । 'विषयसंकोच एव बाधः' इत्याचार्याः । निषेधशास्त्रस्यावैदिकहिंसापरिहारेण लौकिकमात्रे व्यवस्थापनाद्विषयसंकोच इत्य. लमतिगहनावगाहनेन ॥२७॥

  तद्बूत वत्साः ! किमितः प्रार्थयध्वं समागताः ।
  मयि सृष्टिर्हि लोकानां रक्षा युष्मास्ववस्थिता ।। २८ ॥

 तदिति ॥ तत्तस्मात्कारणात् । हे वत्साः पुत्रकाः ! 'वत्सस्त्वर्भकपुत्राद्योवर्षे वत्सं तु वक्षसि' इति विश्वः । स्वयं पितामहत्वाद्वत्सा इत्यामन्त्रयते। संभूयागताः समागता इतो मत्तः किं प्रार्थयध्वम् ? किमिच्छतेत्यर्थः । ब्रूत । लोकरक्षणे यूयमेव कर्तार इत्याह-मयि लोकानां सृष्टिः । रक्षा युष्मास्ववस्थिता, अतस्तदर्थमपि नास्ति मदपेक्षेत्यर्थः ॥ २८ ॥

  ततो मन्दानिलोद्भूतकमलाकरशोभिना ।
  गुरुं नेत्रसहस्रेण नोदयामास वासवः ॥ २९ ॥

 तत इति ॥ ततो भगवत्प्रश्नानन्तरं वासव इन्द्रो गुरुं बृहस्पतिम् । 'गुरूगीष्पतिपित्राद्यौ' इत्यमरः । मन्दानिलोद्धृतो यः कमलाकरः स इव शोभत इति तेन तथोक्तेन नेत्राणां सहस्त्रेण नोर्दयामास प्रेरयामास । सहस्रग्रहणमास्थातिशयार्थम् । अनिमेषाणामपि प्रयत्नवशादक्षिस्पन्दो न विरुध्यते ॥२१॥


पाठा०-१ न खलु स्थ बलोत्तरः. २ प्रार्थयध्वे. ३ भूतानाम्. ४ चोदयामास;

प्रेरयामास. ५ वृत्रहा.

  स द्विनेत्रं हरेश्चक्षुः सहस्रनयनाधिकम् ।
  वाचस्पतिरुवाचेदं प्राञ्जलिजलजासनम् ॥३०॥

 स इति ॥ हरेरिन्द्रस्य । 'इन्द्रो दुश्च्यवनो हरिः' इति हलायुधः । सहस्रान्नयनेभ्योऽधिकं सहस्रनयनाधिकम् , तदगोचरदर्शित्वादिति भावः । द्वे नेत्रे यस्य तद्विनेत्रम् , प्रसिद्धाञ्चक्षुषोऽयं विशेष इत्यर्थः । चक्षुश्चक्षुर्भूतः । चक्षुष्ट्वारोपस्य प्रकृतोपयोगात्परिणामालंकारः। स वाचस्पतिः। कस्कादित्वादलुक्सत्वे। षष्ट्याः पतिपुत्र-' (पा.८।३।५३) इत्यादिना सत्वमिति स्वामी,-तन्न; छन्दोविषयत्वात् । प्राञ्जलिः सन् । जलजासनं ब्रह्माणमिदमुवाच ॥३०॥

  एवं यदात्थ भगवन्नामृष्टं नः परैः पदम् ।
  प्रत्येकं विनियुक्तात्मा कथं न ज्ञास्यसि प्रभो ॥३१॥

 एवमिति ॥ हे भगवन् षड्गुणैश्वर्यसंपन्न ! यदात्थ 'कृतव्यावृत्तयः परैः' (२।२७) इति यद्ब्रवीषि । 'ब्रुवः पञ्चानाम्' (पा.३।४।८४) इत्यादिनाहादेशः। 'वर्तमानसामीप्ये वर्तमानवद्वा' (पा.३।३।१३१) इति वर्तमानप्रयोगः । वामनस्तु भ्रान्तोऽयं प्रयोग इत्याह-'आहेति भूते णलन्तभ्रमात्-' (काव्या.सू.५।२।४४) इति । आहेत्युपलक्षणम् । तदेव सत्यम् । नोऽस्माकं पदमधिकारः परैः शत्रुभिरामृष्टमाक्षिप्तम्। हे प्रभो! प्रत्येकं प्रतिपुरुषं विनियुक्तात्मा प्रवेशितस्वरूपः, सर्वान्तर्यामीत्यर्थः । कथं न ज्ञास्यसि न वेत्सि? वर्तमानेऽपि वचनभङ्गया भविष्यन्निर्देशः प्रसिद्धः। 'अपह्नवे ज्ञः' (पा.११३।४४) 'अकर्मकाच' (पा.१।३।२६) इत्यात्मनेपदविकल्पः ॥३१ ॥

 उक्तमेव प्रपञ्चयति-

  भवल्लब्धवरोदीर्णस्तारकाख्यो महासुरः ।
  उपप्लवाय लोकानां धूमकेतुरिवोत्थितः ॥३२॥

 भवदिति ॥ भवतस्त्वत्तो लब्धेन वरेणोदीर्ण उद्धतः तारक इत्याख्या


पाठा०-१द्विनेत्रः. २ दशचक्षुःशताधिकम्. ३ यथा. ४ ज्ञास्यात प्रभुः. ५ त्वया दत्त; भवद्दत्त. टिप्प०--1 'ऋ गतौ इत्यस्य निष्ठा लिङ्सिचोरात्मनेपदम्-' इति विकल्पटूकत्वात् 'यस्य विभाषा' इतीडभावः' इति बालबोधिनी। 2 सेयं कथा महाभारतात् ( कर्णपर्वणस्त्रयस्त्रिंशाध्यायात् ) अनुसंधेया। नामधेयं यस्य स तारकाख्यः। महानसुरो महासुरः । 'सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः' (पा.२३११६१) इति तत्पुरुषः। धूमकेतुरुत्पातविशेष इव लोकानामुपप्लवायोपद्वायोत्थित उत्पन्नः ॥ ३२॥

  पुरे तावन्तमेवास्य तनोति रविरातपम् ।
  दीर्घिकाकमलोन्मेषो यावन्मात्रेण साध्यते ॥३३॥

 पुर इति॥ अस्य तारकस्य पुरे रविः सूर्यस्तावन्तं तावन्मानमेवातपं तनोनि। यावन्मात्रेण यावतैव । यावती मात्रा मितिर्यस्य यावन्मात्रं तेन वा, अल्पपरिमाणेनेत्यर्थः । 'मात्रा परिच्छदे। अल्पे च परिमाणे सा मात्रं कात्सर्येऽवधारणे' इत्यमरः। दीर्घिकासु क्रीडावापीपु कमलानामुन्मेषो विकासः साध्यते निष्पाद्यते । कठोरकिरणोऽपि मन्दोष्णः सन्नेव तद्भीत्या पुरे प्रकाशत इत्यभिप्रायः ॥ ३३ ॥

  सर्वाभिः सर्वदा चन्द्रस्तं कलाभिनिषेवते ।
  नादत्ते केवलां लेखां हरचूडामणीकृताम् ॥३४॥

 सर्वाभिरिति ॥ चन्द्रस्तं तारकं सर्वदा, कृष्णपक्षेऽपीत्यर्थः। सर्वाभिः कलाभिर्निषेवते। 'कला तु षोडशो भागः' इत्यमरः । केवलां हरचूडामणीकृतां शिवशिरोमणीकृतां लेखां नादत्ते न गृह्णाति ॥ ३४ ॥

  व्यावृत्तगतिरुद्याने कुसुमस्तेयसाध्वसात् ।
  न वाति वायुस्तत्पार्श्वे तालवृन्तानिलाधिकम् ॥ ३५ ॥

 व्यावृत्तेति ॥ वायुः स्तेनस्य भावः कर्म वा स्तेयं चौर्यम् । स्तेनाद्यन्नलोपश्च' (पा.५।१।१२५) इति यत्प्रत्ययो नलोपश्च । कुसुमानां स्तेयं तस्मात्स्तेयाभियोगाद्दण्डाद्वा साध्वसं भयं तस्माद्वेतोरुधाने व्यावृत्तगतिः। निवृत्तोद्यानसंचार: सन्नित्यर्थः । सापेक्षत्वेऽपि गमकत्वात्समासः। तत्पार्श्व तत्समीपे । तालस्य वृन्तैरुद्वथ्यते। तालस्येव वृन्तमस्येति वा तालवृन्तं तस्यानिलाब्द्यजनसंचारपवनादधिकं यथा तथा न वाति । 'व्यजनं तालवृन्तकम्' इत्यमरः ॥ ३५ ॥

  पर्यायसेवामुत्सृज्य पुष्पसंभारतत्पराः ।
  उद्यानपालसामान्यमृतवस्तमुपासते ॥ ३६॥

 पर्यायेति ॥ ऋतवः षड्वसन्तादयः पर्यायसेवां क्रमसेवामुत्सृज्य पुष्पाणां


पाठा०-१ करोति. संभारे संग्रहे तत्पराः, आसक्ताः सन्त इत्यर्थः । 'तत्परे प्रसितासक्तौ' इत्यमरः । उद्यानपालैरुधानाधिकृतैः सामान्यं साधारणं यथा भवति तथा तं तारकमुपासते सेवन्ते, शीतोष्णादिदोषप्रकाशनं तु दुरापास्तमित्यर्थः ॥ ३६ ॥

  तस्योपायनयोग्यानि रत्नानि सरितां पतिः ।
  कथमप्यम्भसामन्तराऽऽनिष्पत्तेः प्रतीक्षते ॥ ३७॥

 तस्येति ।। सरितां पतिः समुद्रस्तस्य तारकस्योपायनानां प्राभृतानां योग्यानि । 'प्राभृतं तु प्रदेशनम् । उपायनम्' इत्यमरः । रत्नान्यम्भसामन्तः आनिष्पत्तेः परिपाकपर्यन्तम् । विकल्पादसमासः । कथमपि महता यत्नेन प्रतीक्षते, कदा वा परिपच्येरन्नित्यैकाग्र्येण पालयतीत्यर्थः ।। ३७ ॥

  ज्वलन्मणिशिखाश्चैनं वासुकिप्रमुखा निशि ।
  स्थिरप्रदीपतामेत्य भुजंगाः पर्युपासते ।। ३८ ॥

 ज्वलदिति ॥ किंचेति चार्थः । ज्वलन्त्यो मणीनां शिरोरत्नानां शिखा ज्वाला येषां ते वासुकिप्रमुखा भुजंगाः सर्पाः सिद्धाश्च ध्वन्यन्ते । 'भुजंगः षिङ्गसर्पयोः' इत्यमरः । निशि स्थिरप्रदीपतामनिर्वाणदीपत्वमेत्यैनं तारकं पर्युपासते परिवृत्य सेवन्ते ॥ ३८ ॥

  तत्कृतानुग्रहापेक्षी तं मुहुर्दूतहारितैः ।
  अनुकूलयतीन्द्रोऽपि कल्पडुमविभूषणैः ।। ३९ ॥

 तत्कृतेति ॥ इन्द्रोऽपि तेन तारकेण कृतं तत्कृतमनुग्रहं प्रसादमपेक्षत इति तथोक्तः सन् । मुहुर्दूतहारितैर्दूतप्रापितैः कल्पद्रुमाणां विभूषणैः, तत्प्रसूनैरि- त्यर्थः । तं तारकमनुकूलयत्यनुकूलं करोति ॥ ३९ ॥

  इत्थमाराध्यमानोऽपि क्लिश्नाति भुवनत्रयम् ।
  शाम्येत्प्रत्यपकारेण नोपकारेण दुर्जनः ॥ ४० ॥

 इत्थमिति ॥ इत्थमुक्तप्रकारेण रविशशिपवनोदधिभुजंगसुरेन्द्रराराध्यमानोऽपि भुवनत्रयं क्लिश्नाति पीडयति । तथा हि-दुर्जनः प्रत्यपकारेण प्रतीकारेणैव शाम्येच्छान्तो भवेत् ; उपकारेण तु न शाम्येत् , प्रत्युत प्रकुप्यतीति भावः ॥ १०॥


पाठा०-१ प्रहिताः. २ प्रत्यहम्. ३ खर्गद्रुम. ४ प्रत्युपकारेण.

  तेनामरवधूहस्तैः सदयालूनपल्लवाः ।
  अभिज्ञाश्छेदपातानां क्रियन्ते नन्दनद्रुमाः ।। ४१ ॥

 तेनेति ॥ तेन तारकेणामरवधूहस्तेः, सुकुमारैरिति भावः । तैरपि सदयमालूना अवतंसार्थं छिन्नाः पल्लवा येषां ते नन्दनद्रुमाः । छेदाश्च पाताश्च छेदपातास्तेषाम् । अभिजानन्तीत्यभिज्ञाः । कृद्योगात्कर्मणि पष्ठी । क्रियन्ते ॥ ४१॥

  वीज्यते स हि संसुप्तः श्वाससाधारणानिलैः ।
  चामरैः सुरबन्दीनां बाष्पशीकरवर्षिभिः ।। ४२ ॥

 वीज्यत इति ॥ हि यस्मात्कारणात्स तारकः संसुप्तः सन् । श्वाससाधारणो निःश्वाससमानोऽनिलो येषां तैः, ततोऽप्याधिक्ये निद्राभङ्गभयादिति भावः। बाष्पशीकरवर्षिभिः, तासां स्त्रीणां रोदनस्यायमवसर इति भावः । सुरबन्दीनां सुरप्रग्रहस्त्रीणां संबन्धिभिः । 'प्रग्रहापग्रहौ बन्द्याम्' इत्यमरः । चामरैर्वीज्यते ॥ ४२॥

  उत्पाट्य मेरुशृङ्गाणि क्षुण्णानि हरितां खुरैः ।
  आक्रीडपर्वतास्तेन कल्पिताः स्वेषु वेश्मसु ॥ ४३ ॥

 उत्पाट्येति ॥ तेन तारकेण हरितां सूर्याश्वानाम् । 'हरित् सूर्ये च सूर्याश्वे वर्णे च हरिते दिशि' इति विश्वः । खुरैः शर्फः क्षुण्णानि चूर्णितानि । एतेन तेषामत्योन्नत्यं सूचितम् । मेरुशृङ्गाण्युत्पाव्य स्वंपु वेश्मसु । 'वेश्मसु' इति बहुवचनेनास्य भुवनत्रयनिवासः सूचितः। आक्रीडन्त एप्वित्याक्रीडाः, ते च ते पर्वताः कल्पिताः कृताः ॥ ४३ ॥

  मन्दाकिन्याः पयः शेषं दिग्वारणमदाविलम् ।
  हेमाम्भोरुहशस्यानां तद्वाप्यो धाम सांप्रतम् ॥४४॥

 मन्दाकिन्या इति ॥ सांप्रतं संप्रति मन्दाकिन्या भागीरथ्या दिग्वारणानां दिग्गजानां मदैराविलं कलुषं पयो जलमेव शिष्यत इति शेषं शिष्टम् । कर्मणि घञ्प्रत्ययः ।'-त्रिष्वन्यत्रोपयुज्यते' इति नपुंसकत्वम् । तर्हि कनककमलानि क्व गतानीत्याह-हेमेति । हेमाम्भोरुहाण्येव शस्यानि तेषां तु तस्य वाप्यस्तद्वाप्य एव धाम स्थानम् । सर्वाण्यप्युत्पाठ्य स्वदीर्धिकास्वेव प्रतिरोपितवानित्यर्थः॥४॥


पाठा०-१ हस्तसदया.

  भुवनालोकनप्रीतिः स्वर्गिभिर्नानुभूयते ।
  खिलीभृते विमानानां तदापातभयात्पथि ॥ ४५ ॥

 भुवनेति ॥ तस्य तारकस्यापातात् समापत्तेर्भयाद्विमानानां पथि खिलीभूते अप्रहतीभूते सति । 'द्वे खिलाप्रहते समे' इत्यमरः । स्वर्गिभिर्देवैर्भुवनानामालोकने प्रीतिर्नानुभूयते ॥ ४५ ॥

  यज्वभिः संभृतं हव्यं विततेष्वध्वरेषु सः ।
  जातवेदोमुखान्मायी मिषतामाच्छिनत्ति नः ॥ ४६॥

 यज्वभिरिति ॥ यज्वभिर्विधिवदिष्टवद्भिः । 'यज्वा तु विधिनेष्टवान्' इत्यमरः । 'सुयजोर्ङ्वनिप् (पा.३।२।१०३) इति ङ्वनिप्प्रत्ययः । विततेष्वध्वरेषु यज्ञेषु संभृतं दत्तं हव्यं हविर्मायी मायावी । व्रीह्यादित्वादिनिप्रत्ययः। स तारको नोऽस्माकं मिपतां पश्यताम् , पश्यत्सु सत्स्वित्यर्थः । 'षष्ठी चानादरे' (पा.२।३।३८) इति षष्टी । जातवेदा वह्निरेव मुखं तस्माज्जातवेदोमुखादाच्छिनत्ति, आक्षिप्य गृह्णातीत्यर्थः ॥ ४६ ॥

  उच्चैरुच्चैःश्रवास्तेन हयरत्नमहारि च ।
  देहबद्धमिवेन्द्रस्य चिरकालार्जितं यशः ॥४७॥

 उच्चैरिति ॥ किं चेति चार्थः । तेन तारकेणोच्चैरुन्नत उच्चैःश्रवा नाम हयो रत्नमिव हयरत्नमश्वश्रेष्ठः । 'रत्नं श्रेष्ठे मणावपि' इति विश्वः । अस्य शुभ्रत्वादुस्प्रेक्षते-देहबद्धं बद्धदेहम् , मूर्तिमदित्यर्थः । आहिताग्न्यादित्वान्निष्ठायाः परनिपातः । चिरकालार्जितमिन्द्रस्य यश इव । अहार्यपहृतम् ॥ ४७ ॥

 तर्हि सामाद्युपायास्तत्र कथं न प्रयुक्ता इत्यत्राह--

  तस्मिन्नुपायाः सर्वे नः क्रूरे प्रतिहतक्रियाः ।
  वीर्यवन्त्यौपधानीव विकारे सांनिपातिके ॥४८॥

 तस्मिन्निति ॥ क्रूरे घातुके । 'नृशसो धातुकः क्रूर' इत्यमरः । तस्मिन्नसुरे नोऽस्माकं सर्वे उपायाः संनिपातदोषत्रयस्य प्रकोपजे सांनिपातिके विकारे ज्वरादौ । 'संनिपाताच' (वा० ३०३४) इति वक्तव्याट्ठक् । वीर्यवन्ति सारवन्त्यौ- षधानीव प्रतिहतक्रिया विफलप्रयोगा भवन्ति ॥ ४८॥


पाठा०-१ पिबताम्. 1  तदेव प्रतिहतक्रियत्वमाह-

  जयाशा यत्र चास्माकं प्रतिघातोत्थितार्चिषा ।
  हरिचक्रेण तेनास्य कण्ठे निष्कमिवार्पितम् ।। ४९ ॥

 जयाशेति ॥ किंचेति चार्थः । नूनमनेन हरिचक्रेण वयं जेष्याम इति यत्र हरिचक्रेऽस्माकं जयाशा विजयाशंसा, आसीदिति शेषः । प्रतिघातेन प्रतिहत्योत्थिताचिषोद्गततेजसा तेन हरिचक्रेण विष्णोः सुदर्शनेनास्य तारकस्य कण्टे निष्कमुरो भूषणमर्पितमिवेत्युत्प्रेक्षा, स्वयमेव निष्कमिव स्थितमित्यर्थः । तारकशिरश्छेदाय हरिणा चक्रं त्यक्तं तदपि नष्टशक्ति जातमिति भावः। 'साष्टे शते सुवर्णानां हेम्न्युरोभूषणे पले । दीनारेऽपि च निष्कोऽस्त्री' इत्यमरः ॥ ४९ ॥

  तदीयास्तोयदेष्वद्य पुष्करावर्तकादिषु ।
  अभ्यस्यन्ति तटाघातं निर्जितैरावता गजाः ॥ ५० ॥

 तदीया इति ॥ अद्य संप्रति निर्जित ऐरावतो यैस्ते तथोक्ताः । तस्य तारकस्येमे तदीया गजाः पुष्कराश्चावर्तकाश्च नामादयो येषां तेयु तोयदेषु मेघेषु तटाघातं वप्रक्रीडामभ्यस्यन्ति ॥ ५० ॥

  तदिच्छामो विभो ! स्रष्टुं सेनान्यं तस्य शान्तये ।
  कर्मबन्धच्छिदं धर्मं भवस्येव मुमुक्षवः ।। ५१ ॥

 तदिति ॥ तत्तस्मात्कारणात् । हे विभो स्वामिन् ! मोक्तुं भवं त्यक्तुमिच्छवो मुमुक्षवो विरक्ता भवस्य संसारस्य शान्तये निवृत्तये कर्मैव बन्धस्तं छिनत्तीति कर्मबन्धच्छित् तं धर्ममिव, आत्मज्ञानहेतुभूतमिति शेषः। 'तमेव विदित्वातिमृत्युमेति' (श्वेता०३६८) इति ज्ञानादेव मुक्तिः । तस्य तारकस्य शान्तये नाशाय । सेनां नयतीति सेनानीश्चमपतिः । 'सत्सूद्विष-' (पा.३।२।६१) इत्यादिना क्विप् । तं सेनान्यं कंचित्स्रष्टुमिच्छामः, वयमिति शेषः ॥ ५१ ॥

 सेनानीसृष्टेः फलमाह--

  गोप्तारं सुरसैन्यानां यं पुरस्कृत्य गोत्रभित् ।
  प्रत्यानेष्यति शत्रुभ्यो बन्दीमिव जयश्रियम् ।। ५२ ।।


पाठा०-१ निष्कः. २ अर्पितः. ३ तटाघातान्.


टिप्प०-1 "स्रष्टुम्" इति वा पाठे त्वयेति शेषः । “स्त्रष्टुं" इति केचनापपाठं मन्यन्ते' इति बाल०।  गोतारमिति ॥ सुरसैन्यानां देवतासेनानां गोप्तारं रक्षितारं यं सेनान्यं पुरस्कृत्य पुरोधाय । 'पुरोऽव्ययम्' (पा.१।४।६७) इति गतित्वात् 'नमस्पुरसो- र्गस्योः' (पा.८।३।४०) इति सकारः । गां पृथ्वीं त्रायन्त इति गोत्रास्तान् भिनत्तीति गोत्रभिदिन्द्रो जयश्रियं बन्दीमिव बन्दीकृतां स्त्रियमिव शत्रुभ्यः सकाशात् प्रत्यानेष्यति प्रत्याहरिप्यति । तं स्रष्टुमिति पूर्वेण संबन्धः ॥ ५२ ॥

  वचस्यवसिते तस्मिन्ससर्ज गिरमात्मभूः ।
  गर्जितानन्तरां वृष्टिं सौभाग्येन जिगाय सा ॥ ५३ ॥

 वचसीति ॥ तस्मिन्बार्हस्पत्ये वचस्यवसिते परिसमाप्ते सति आत्मभूर्ब्रह्मा गिरं वाचं ससर्ज । जगादेत्यर्थः । सा गीः सौभाग्येन मनोहरत्वेन । 'हृद्भगसिन्ध्वन्ते पूर्वपदस्य च' (पा.७१३।१९) इत्युभयपदवृद्धिः। गर्जिताद्गर्जितस्य वानन्तरं प्रवृत्तां वृष्टिं जिगाय जितवती । गर्जितपरत्वाद्वृष्टेरिव तद्विज्ञापनफलत्वाद्गिरः सुभगत्वमिति भावः ।। ५३ ॥

  संपत्स्यते वः कामोऽयं कालः कश्चित्प्रतीक्ष्यताम् ।
  न त्वस्य सिद्धौ यास्यामि सर्गव्यापारमात्मना ॥ ५४ ।।

 संपत्स्यत इति ॥ अयं वो युष्माकं कामो मनोरथः सेनानीरूपः संपत्स्यते सेत्स्यति । कश्चित्कियानपि कालः प्रतीक्ष्यताम् , तु किंतु तस्य सेनान्यः सिद्धौ विषय आत्मना स्वयं सर्गः सृष्टिरेव व्यापारस्तं न यास्यामि, नाहं स्रक्ष्यामीत्यर्थः ॥ ५४॥

 कुत इत्याशङ्कयाह-

  इतः स दैत्यः प्राप्तश्रीर्नेत एवार्हति क्षयम् ।
  विपवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसांप्रतम् ॥ ५५ ॥

 इत इति ॥ इतो मत्त एव प्राप्तश्रीलब्धोदयः स दैत्यस्तारकासुर इतो मत्त एव क्षयं नाशं नार्हति । तथा हि-अन्यो वृक्षस्तावदास्ताम् । विषस्य वृक्षो विषवृक्षोऽपि संवर्ध्य कुतश्चित्कारणात्सम्यग्वर्धयित्वा स्वयं छेत्तुमसांप्रतमनर्हः । 'असांप्रतम्' इत्यनेन निपातेनाभिहितत्वावृक्ष इति द्वितीयान्तो न भवति, अनभिहिते कर्मणि द्वितीयाभिधानात् । यथाह वामनः (काव्या.सू.५।२।२२)- 'निपातेनाप्यभिहिते कर्मणि न विभक्तिः, परिगणनस्य प्रायिकत्वात्' इति ॥५५॥


पाठा०-१ उपरते. २ तस्य. ३ या. ४ सिद्ध्ये.

  वृतं तेनेदमेव प्राञ्जया चास्मै प्रतिश्रुतम् ।
  वरेण शमितं लोकानलं दग्धुं हि तत्तपः ॥ ५६ ॥

 वृतमिति ॥ प्राक्पूर्वं तेनासुरेणेदमेव देवैरवध्यत्वमेव वृतं प्रार्थितम् । मया चास्मै तारकाय प्रतिश्रुतं प्रतिज्ञातम् । 'प्रत्याभ्यां श्रुवः पूर्वस्य कर्ता' (पा. १।४।४०) इति संप्रदानत्वाच्चतुर्थी । कर्तव्यं चैतदित्याह-लोकान् दग्धुमलं शक्तम् । 'पर्याप्तिवचनेष्वलमर्थेषु' (पा. ३।४।६६) इति तुमुन्प्रत्ययः। तस्य तपस्तत्तपो वरेण वरदानेन शमितं हि, मयेति शेषः ॥ ५६ ।।

  संयुगे सांयुगीनं तमुद्यतं प्रसहेत कः ।
  अंशाहते निषिक्तस्य नीललोहितरेतसः ॥ ५७ ॥

 संयुग इति ॥ संयुगे युद्ध उद्यतं व्याप्रियमाणम् । संयुगे साधु सांयुगीनम् । 'प्रतिजनादिभ्यः खञ्' (पा.४।४।९९) इति खञ्प्रत्ययः ।तं तारकं निषिक्तस्य कृषिक्षेत्रे क्षरितस्य । 'नीलः कण्टे लोहितश्च केशेष्विति नीललोहित इति पुराणम्' इति स्वामी। तस्य नीललोहितस्य धूर्जटे रेतसः शुक्रस्यांशादृतेंऽशं विनाऽन्यः कः प्रसहेताभिभवेत् ? 'प्रसहनमभिभवः' इति वृत्तिकारः ॥ ५७ ॥

 कथमसावीदृक्शक्तिरित्याह--

  स हि देवः परं ज्योतिस्तमःपारे व्यवस्थितम् ।
  परिच्छिन्नप्रभावर्द्धिर्न मया न च विष्णुना ॥ ५८ ॥

 स इति ॥ स देवो नीललोहितस्तमसः पारे परतो व्यवस्थितं तमोगुणा- तीतं परं ज्योतिः परमात्मा हि । अत एव मया परिच्छिन्नप्रभावर्द्धिरवगाढमहिमातिशयो न भवति, तथा विष्णुना च न, अतस्तस्यासाध्यं नास्तीत्यर्थः ॥ ५८ ॥


पाठा०-१ वृतः. २ अहम् ; आदौ. ३ अशमितम्. ४ उद्यन्तम् ; युध्य- न्तम्. ५ प्रतिष्ठितम्. टिप्प.--1 'तपसो ह्यवश्यं फलेन भाव्यम् , तत् वरेण यदि न शाम्येत्तदाधिकोपद्रवाय क्षमं स्यात्' इति बाल०। 2 'ज्योतिः-शब्दस्य नित्यनपुंसकत्वेन विशेषणविशेष्यभावेऽप्यदोषः, "वेदाः प्रमाणम्" इतिवत्' इति खाल०।  संप्रति तदंशोत्पत्तावुपायं दर्शयति-

  उमारूपेण ते यूयं संयमस्तिमितं मनः ।
  शंभोर्यतध्वमाक्रष्टुमयस्कान्तेन लोहवत् ॥ ५९॥

 उमेति ॥ ते कार्यार्थिनो यूयं संयमस्तिमितं समाधिनिश्चलं शंभोर्मन उमा- रूपेणोमासौन्दर्येण । 'रूपं स्वभावे सौन्दर्ये नाणके पशुशब्दयोः । ग्रन्थावृत्तौ नाटकादावाकारश्लोकयोरपि ॥' इति विश्वः । अयस्कान्तेन मणिविशेषेण । 'कस्कादिषु च' (पा.८।३।४८) इति सकारः । लोहवदयोधातुमिव । 'तेन तुल्यं क्रिया चेद्वतिः' (पा.५:१६११५) इति वतिप्रत्ययो मृग्यः । आक्रष्टुमाहर्तुं यतध्वमुद्युक्ता भवत ॥ ५९॥

न च गत्यन्तरमस्तीत्याह-

  उभे एव क्षमे वोढुमुभयोर्बीजमाहितम् ।
  सा वा शंभोस्तदीया वा मूर्तिर्जलमयी मम ॥ ६ ॥

 उभे इति ॥ उभयोः शंभोर्मम चाहितं निषिक्तं बीजं तेजो वोढुं सा वोमा शंभोरष्टमूर्तेस्तस्येयं तदीया जलमयी मूर्तिर्वा मम, उभे एव क्षमे, न तृतीयेत्यर्थः । 'वा'शब्दो द्वन्द्वार्थे, न त्वन्यार्थे । एतदेवोदाहृत्येत्थमेव व्याख्यातं गणव्याख्याने । अत्र दीपकालंकारः। प्राकरणिकयोरुमामहेश्वरयोरप्राकरणिकयोब्रह्मजलमूत्योश्चौपम्यस्य गम्यत्वात् । यथाह भोजराजः- 'प्रस्तुतानामप्रस्तुतानां चौपम्यस्य गम्यत्वे दीपकम्' इति । न चेयं तुल्ययोगिता, तस्याः केवलप्रस्तुतविषयत्वेन केवलाप्रस्तुतविषयत्वेन चोत्थानादिति ॥ ६० ॥

  तस्यात्मा शितिकण्ठस्य सैनापत्यमुपेत्य वः।
  मोक्ष्यते सुरवन्दीनां वेणीवीर्यविभूतिभिः ।। ६१ ॥

 तस्येति ।। तस्य शितिकण्ठस्याष्टमूर्तेरामा, पुत्र इत्यर्थः । ‘आत्मा वै पुत्रनामासि' (कौषी० २।११) इति श्रुतेः । वो युष्माकं सेनापतेर्भावः सैनापत्यम् । 'पत्यन्तपुरोहितादिभ्यो यक्' (पा.५११२८) इति यक्प्रत्ययः । उपेत्य प्राप्य वीर्य-


पाठा०--१ सोढुम्. २ सेनापत्यम्. ३ वेणीबन्धानदूषितान्.


टिप्प०-1 'वा-शब्दोऽत्र प्रथमोऽत्यन्तान्यसंयोगवारणाय, अन्यस्तु समुच्चये । तदीया शांभवी जलमयी जलप्रधाना मूर्तिरष्टमूर्तिमध्ये जलस्य पठितत्वात्' इति बाल०। विभूतिभिः शौर्यसंपत्तिभिः सुरबन्दीनां वेणीमॊक्ष्यते विलंसयिष्यति । तारकासुरं हनिष्यतीति भावः ॥ ६ ॥

  इति व्याहृत्य विबुधान्विश्वयोनिस्तिरोदधे ।
  मनस्याहितकर्तव्यास्तेऽपि देवा दिवं ययुः ॥ २ ॥

 इतीति ॥ विश्वस्य योनिः कारणम् । 'योनिः स्त्रीणां स्थानभेदे कारणे तान्त्रिके पणे' इति वैजयन्ती । विबुधान्सुरानिति व्याहृत्याभिधाय तिरोदधेऽन्तर्हितवान् । ते देवा अपि मनस्याहितं कर्तव्यं यैस्तै तथोक्ताः सन्तो दिवं स्वर्गं ययुः प्रापुः ॥६२॥

  तत्र निश्चित्य कंदर्पमगमत् पाकशासनः ।
  मनसा कार्यसंसिद्धौ स्वराद्विगुणरंहसा ॥ ६३ ॥

 तत्रेति ॥ पाको नाम कश्चिदसुरस्तस्य शासन इन्द्रस्तस्य हरचित्ताकर्षणकृत्ये कंदर्प निश्चित्य, साधकत्वेनेति शेषः । कार्यसंसिद्धौ त्वरयौत्सुक्येन द्वौ गुणौ यस्य तद्द्विगुणं द्विरावृत्तं रंहो वेगो यस्य तेन तथोक्तेन । 'गुणस्तु वृत्तिशब्दादिज्येन्द्रियामुख्यतन्तुषु' इति वैजयन्ती । मनसाऽगमत् , सस्मारेत्यर्थः । गमेर्लुङ् । लूदित्त्वाच्च्लेरङादेशः ॥ ६३ ॥

  अथ स ललितयोषिद्भूलताचारुशृङ्गं
   रतिवलयपदाङ्के चापमासज्य कण्ठे ।
  सहचरमधुहस्तन्यस्तचूताङ्कुरास्त्रः
   शतमखमुपतस्थे प्राञ्जलिः पुष्पधन्वा ॥ ६४ ॥

 अथेति ॥ अथ स्मरणानन्तरम् , स स्मृत इत्यर्थः । पुष्पं धनुर्यस्य स पुष्पधन्वा कामः । 'वा संज्ञायाम्' (पा. ५१४।१३३) इत्यानङ् । 'ललितं त्रिषु सुन्दरम्' इत्यमरः । ललितायाः सुन्दर्या योषितो भ्रुवौ लते इव चारुणी शृङ्गे कोटी यस्य तत्तथोक्तं चापम् । रतिः स्मरप्रिया। रतिः स्मरप्रिया' इत्यमरः। तस्या वलयपदानि


पाठा०-१ प्रति. २ कर्मसंसिद्धि; कार्यसंसिद्ध्यै कार्यसंसिद्धित्वरा. ३ सुललित. ४ शार्ङ्गम्. ५ पुष्पकेतुः. टिप्प०---1 'अत्र लता-शब्दः प्राशस्त्यवचनः; अन्यथा भ्रू-शब्दग्रहणेनैव सिद्धे लताशब्दस्याचारितार्थं स्यात्' इति बाल० । कङ्कणस्थानान्यङ्कश्चिन्हं यस्य स तथोक्ते कण्ठ आसज्य लगयित्वा । चापकण्ठविशेषणाभ्यां शृङ्गारैकनिधेस्त्रिभुवनैकवीरस्य शृङ्गारवीरोपकरणेषु तुल्यरसत्वं व्यज्यते। सहचरस्य सख्युर्मधोर्वसन्तस्य हस्ते न्यस्तं चूताङ्कुरमेघास्त्रं यस्य स तथोक्तः प्राञ्जलिः कृताञ्जलिः सन् । शतमखमिन्द्रमुपतस्थे संगतवान् । संगतिकरणार्थादात्मनेपदम् । अत्र स्वभावोक्तिः, 'स्वभावोक्तिरसौ चारु यथावद्वस्तुवर्णनम्' इति ।मालिनीवृत्तमेतत् -'ननमयययुत्तेयं मालिनी भोगिलोकैः' इति लक्षणात् ॥ ६४ ॥

इति श्रीमन्महोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीविनीसमा-
ख्यया व्याख्यया समेतः श्रीकालिदासकृतो कुमारसंभवे महाकाव्ये
ब्रह्मसाक्षात्कारो नाम द्वितीयः सर्गः ।

तृतीयः सर्गः ।


 तस्मिन्मघोनस्त्रिदशान्विहाय सहस्रमक्ष्णां युगपत्पपात ।
 प्रयोजनापेक्षितया प्रभूणां प्रायश्चलं गौरवमाश्रितेषु ॥१॥

 तस्मिन्निति ॥ भघोन इन्द्रस्याक्षणां सहस्रं त्रिरावृत्ता दश परिमाणमेषामिति त्रिदशान्देवान् । 'संख्ययाव्ययासन्नादूराधिकसंख्याः संख्येये' (पा. २।२।२५) इति बहुव्रीहिः । 'बहुबीहौ संख्येये-' (पा. ५।४।७३) इति डच्प्रत्ययः । उक्तार्थत्वात्सुचो निवृत्तिः । विहाय त्यक्त्वा तमिन्कामे युगपत्पपात । सहस्त्रेणाक्षि- भिरद्राक्षीदित्यादरातिशयोक्तिः । ननु सुचिरपरिचितानेकसुरपरित्यागेन भगवतो महेन्द्रस्य कथमकाण्डे तस्मिन्नेकस्मिन्पक्षपात इत्याशङ्कद्यार्थान्तरं न्यसति-प्रायो भूम्ना प्रभूणामाश्रितेषु सेवकेषु विषये गौरवमादरः प्रयोजनापेक्षितया कार्यार्थि- त्वेन हेतुना चलं चञ्चलम् । फलतन्त्राःप्रभवः, न तु गुणतन्त्रा इति भावः॥ १ ॥

 स वासवेनासनसंनिकृष्टमितो निषीदेति विसृष्टभूमिः ।
 भर्तुः प्रसादं प्रतिनन्द्य मूर्धा वक्तुं मिथः प्राक्रमतैवमेनम् २

 स इति ॥ स कामो वासवेनेन्द्रेणासनस्य सिंहासनस्य संनिकृष्टं संनिहितमासनसंनिकृष्टं यथा तथा । शेषषष्ठ्यायं समासः । कृद्योगलक्षणया तु न; 'न


पाठा०-१ निसृष्ट. २ प्रतिवन्द्य. लोकाव्ययनिष्ठाखलर्थतनाम्' (पा. २।३।६९) इति षष्ठीनिषेधात् । इतो निषीदेहोपविशेति विसृष्टभूमिर्दत्तावकाशः सन् । भर्तुः स्वामिनः प्रसादमनुग्रहं मूर्धा प्रतिनन्ध संभाव्य मिथो रहसि । 'मिथोऽन्योन्यं रहस्यपि' इत्यमरः । एनमिन्द्रमेवं वक्ष्यमाणप्रकारेण वक्तुं प्राक्रमतोपक्रान्तवान् । 'प्रोपाभ्यां समर्थाभ्याम्' (पा. १।३।४२) इत्यात्मनेपदम् ॥ २॥

 आज्ञापय ज्ञातविशेष ! पुंसां लोकेषु यत्ते करणीयमस्ति ।
 अनुग्रहं संस्मरणप्रवृत्तमिच्छामि संवर्धितमाज्ञया ते ॥३॥

 आज्ञापयेति ॥ हे पुंसां ज्ञातविशेष ज्ञातसार ! ज्ञातपुंविशेषेत्यर्थः । सापेक्षस्वेऽपि गमकत्वात्समासः। आज्ञापय, तदिति शेषः । उत्तरवाक्ये यच्छब्दप्रयोगान्न पूर्ववाक्ये तच्छब्दप्रयोगनिर्बन्धः । किं तदित्याह-लोकेषु ते तव यत्क- रणीयं कर्तन्यमस्ति । संस्मरणेन प्रवृत्तमुत्पन्नं ते तवानुग्रहं प्रसादमाज्ञया नियोगेन संवर्धितं वृद्धि गमितमिच्छामि । संस्मरणकृतमनुग्रहं केनचिन्नियोगेन वर्धय, कचित्कर्मणि नियुङ्क्ष्वेत्यर्थः । अन्यथा मे नास्ति परितोष इति भावः । तुमुन्नन्त- पाठे णिजर्थे यत्रः कार्यः ॥३॥

 न च मे किंचिदसाध्यमस्तीत्याह-

 केनाभ्यसूया पदकाङ्क्षिणा ते नितान्तदीर्धैर्जनिता तपोभिः ।
 यावद्भवत्याहितसायकस्य मत्कार्मुकस्यास्य निदेशवर्ती ॥४॥

 केनेति ॥ पदकाक्षिणा स्वाराज्यकामेन केन पुंसा नितान्तदीर्धैरतिप्रभूतैस्तपोभिस्ते तवाभ्यसूयेर्ष्या जनिता ? तं ब्रूहीति शेषः । किमर्थम् ? यावद्यतः स भवद्वैरी। अहितसायकस्य संहितबाणस्यास्य मत्कार्मुकस्य निदेशे वर्तत इति निदेशवर्त्याज्ञावशो भवति, अविलम्बेनैव भविष्यतीत्यर्थः । 'वर्तमानसामीप्ये वर्तमानवद्वा' (पा. ३।३।१३१) इति लद ॥ ४ ॥

 संप्रति चतुर्वर्गे मोक्षमधिकृत्याह-

 असंमतः कस्तव मुक्तिमार्गं पुनर्भवक्लेशभयात्प्रपन्नः।
 बद्धश्चिरं तिष्ठतु सुन्दरीणामारेचितभ्रूचतुरैः कटाक्षैः॥५॥

 असंमत इति ॥ तवासंमतः कः ? पुनर्भवः पुनरुत्पत्तिः, संसार इति


पाठा०-१ संवर्धितुम्. २ फलकाङ्क्षिणा. ३ आरोपितः. ४ विलासैः. ४ कु० सं० यावत् । तत्र ये क्लेशा जन्मजरामरणादयस्तेभ्यो भयान्मुक्तिमार्गं प्रपन्नस्तं वद । यतः सोऽप्यारेचिताभिरेकैकशो विवर्तिताभिर्भूमिश्चतुरैः सुन्दरीणां कटाक्षैर्बद्धश्चिरं तिष्ठतु । आरेचितलक्षणं तु- स्याद्भ्रुवोर्ललिताक्षेपादेकस्या एव रेचितम् । तयोर्मूलसमुत्क्षेपं कौटिल्याद्भ्रुकुटिं विदुः ॥ इति ॥ ५॥

 धर्मार्थावधिकृत्याह-

 अध्यापितस्योशनसापि नीतिं प्रयुक्तरागप्रणिधिर्द्विषस्ते ।
 कस्यार्थधर्मों वद पीडयामि सिन्धोस्तटावोघ इव प्रवृद्धः ॥६॥

 अध्यापितस्येति ॥ उशनसा शुक्रेण नीति नीतिशास्त्रमध्यापितस्यापि । 'अपि'शब्दाच्छुक्रशिष्याणामप्रधृष्यत्वं गम्यते । 'गतिबुद्धि-' (पा.१।४।५२) इत्यादिना द्विकर्मकादिधातोर्ण्यन्तात्प्रधाने कर्मणि क्तः । 'अप्रधाने दुहादीनां ण्यन्ते कर्तुश्च कर्मणः' इति वचनात् । ते द्विषस्तव शत्रोः कस्यार्थधर्मौ प्रयुक्तः प्रहितो रागो विषयाभिलाष एवं प्रणिधितो येन सोऽहम् । 'प्रणिधिः प्रार्थने चरे' इति यादवः । प्रवृद्ध ओघः प्रवाहः सिन्धोर्नधास्तटाविव पीडयामि ? वद ॥६॥

 काममधिकृत्याह-

 कामेकपत्नीव्रतदुःखशीला लोलं मनश्चारुतया प्रविष्टाम् ।
 नितम्बिनीमिच्छसि मुक्तलज्जां कण्ठे स्वयंग्राहनिषक्तबाहुम् ।।७॥

 कामिति ॥ एकः पतिर्यस्याः सैकपत्नी पतिव्रता । 'नित्यं सपत्न्यादिषु' (पा. ४।११३५) इति ङीप् । तस्या व्रतं पातिव्रत्यं तेन दुःखशीला दुःखस्वभावाम् , दृढव्रतामित्यर्थः । 'शीलं स्वभावे सद्वृत्ते' इत्यमरः । चारुतया सुन्दरत्वेन हेतुना लोलं मनस्त्वञ्चित्तं प्रविष्टां कां नितम्बिनीं मुक्तलजां सतीं कण्ठे स्वयंग्राहनिषक्तबाहुम् । स्वयं गृह्णातीति स्वयंग्राहा । 'विभाषा ग्रहः' (पा. ३।१।१४३) इति णप्रत्ययः । न च जलचर एव ग्राह इति नियमः । जलचरे ग्राह एवेति नियमादिति । स्वयंग्राहा च सा निषक्तबाहुश्च तां तथाभूतामिच्छसि, त्वदर्थे पतिव्रतामपि व्रताद्भ्रंशयिष्यामीत्यर्थः । एतच्चेन्द्रस्य पारदारिकत्वादुक्तम् । तथा च श्रुतिः-अहल्यायै जारः' इति ॥ ७ ॥


पाठा०-१ प्रणिधे.  त्रिविधा नायिका स्वकीया परकीया साधारणी चेति । तत्र परकीयां प्रत्युक्तम् । इतरे प्रत्याह-

 कयासि कामिन् ! सुरतापराधात्पादानतः कोपनयावधूतः ।
 यस्याः करिष्यामि दृढानुतापं प्रवालशय्याशरणं शरीरम् ॥८॥

 कयेति ॥ हे कामिन्कामुक ! सुरतापराधात् , अन्यासङ्गादित्यर्थः । पादानतः प्रणतः सन् । कोपनया कोपनशीलया कया स्त्रियावधूतस्तिरस्कृतोऽसि ? तस्याः शरीरं दृढानुतापं गाढपश्चात्तापमत एव प्रवालशय्याशरण करिष्यामीति ॥८॥

 प्रसीद विश्राम्यतु वीर ! वज्रं शरैर्मदीयैः कतमः सुरारिः ।
 बिभेतु मोघीकृतबाहुवीर्यः स्त्रीभ्योऽपि कोपस्फुरिताधराभ्यः ९

 प्रसीदेति ॥ हे वीर ! प्रसीद प्रसन्नो भव । वज्रं कुलिशं विश्राम्यतु, उदास्तामित्यर्थः । मदीयैः शरैर्मोघीकृतबाहुवीर्यो विफलीकृतभुजशक्तिः कतमो दैत्यदानवादिषु यः कश्चन सुरारिः । 'वा बहूनां जातिपरिप्रश्ने डतमच्' (पा. ५।३।९३) इति डतमच्प्रत्ययः। कोपेन स्फुरिताधराभ्यः स्त्रीभ्योऽपि बिभेतु, किमु वक्तव्यं पुंभ्य इत्यर्थः । सकृद्धीतः सर्वतो बिभेतीति भावः । 'भीत्रार्थानां भयहेतुः' (पा. ११४।२५) इत्यपादानत्वात् पञ्चमी ॥ ९ ॥

 तव प्रसादात्कुसुमायुधोऽपि सहायमेकं मधुमेव लब्ध्वा ।
 कुर्यां हरस्थापि पिनाकपाणेर्धैर्यच्युति के मम धन्विनोऽन्ये ॥१०॥

 तवेति ॥ किं बहुना, तव प्रसादादनुग्रहात् कुसुमायुधोऽप्यतिदुर्बलास्त्रोऽप्यहमेकं मधु वसन्तमेव सहायं लब्ध्वा पिनाकः पाणौ यस्य स पिनाकपाणिः । 'प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ भवतः' (वा. १४२५) तस्य हरस्यापि । हरः पिनाकी चेत्यतिदारुण इति भावः । धैर्यच्युतिं धैर्यहानि कुर्याम्, कर्तुं शक्नुयामित्यर्थः । 'शकि लिङ् च' (पा. ३।३।१७२) इति शक्याथै लिङ् । अन्ये धन्विनो धनुर्भूतो मम के , न केऽपीत्यर्थः । 'किं'शब्दः कुत्सायाम् । 'कुत्साप्रश्नवितर्केषु क्षेपे किंसब्द इष्यते' इति शाश्वतः ॥ १० ॥


पाठा०-१ सहसापराधात्, २ तस्याः.

 अथोरुदेशादवतार्य पादमाक्रान्तिसंभावितपादपीठम् ।
 संकल्पितार्थे विवृतात्मशक्तिमाखण्डलः काममिदं बभाषे ॥११॥

 अथेति ॥ अथ स्मरवाक्यश्रवणानन्तरमाखण्डलः सहस्राक्ष ऊरुदेशात्पादमाक्रान्त्याऽऽक्रमणेन संभावितं पादपीठं यस्मिंस्तद्यथा तथावतार्य संकल्पितार्थे हरचित्ताकर्षणरूपे विषये विवृतात्मशक्तिम् । 'कुर्यां हरस्थापि-' (३।१०) इत्यादिना प्रकटीकृतस्वसामर्थ्यं कामं स्मरमिदं वक्ष्यमाणं बभाषे ॥ ११ ॥

 सर्वं सखे ! त्वय्युपपन्नमेतदुभे ममास्त्रे कुलिशं भवांश्च ।
 वज्रं तपोवीर्यमहत्सु कुण्ठं त्वं सर्वतोगामि च साधकं च ॥१२॥

 सर्वमिति ॥ हे सखे ! 'सखे' इति संबोधनं गौरवार्थम् । सर्वमेतत्त्वय्युपपन्नं सिद्धम् । मम कुलिशं वज्रं भवांश्चोभे अस्त्रे, तत्र वज्रं तपोवीर्येण तपोबलेन महत्सु प्रबलेषु कुण्ठं प्रतिबद्धप्रसरम् ; त्वमस्त्रं सर्वतोगामि च साधकं च, तापसेष्वप्यकुण्ठमित्यर्थः ।। १२ ॥

 अवैमि ते सारमतः खलु त्वां कार्ये गुरुण्यात्मसमं नियोक्ष्ये ।
 व्यादिश्यते भूधरतामवेक्ष्य कृष्णेन देहोद्वहनाय शेषः ॥१३॥

 अवैमीति ॥ हे सखे ! ते सारं बलमवैमि वेद्मि; अतः खल्वत एवात्मसमं मत्तुल्यं त्वां गुरुणि महति कार्ये 'तस्मै हिमाद्रेः-'(३।१६) इति वक्ष्यमाणे नियोक्ष्ये । 'स्वराद्यन्तोपसर्गादिति वक्तव्यम्' (वा. ९३९) इति वार्तिकादात्मनेपदनियमः । तथा हि-सारपरीक्षापूर्वक एव सर्वत्र नियोग इत्याह-कृष्णेन विष्णुना । धरतीति धरः । पचाद्यच् । भुवो धरो भूधरस्तस्य भावस्तत्तां भूधरताम् , भूधरणशक्तिमित्यर्थः । अवेक्ष्य ज्ञात्वा । शेषः सर्पराजो देहोद्वहनाय स्वदेहमुद्वोढुम् । 'क्रियार्थोपपदस्थ-' (पा.२।३।१४) इत्यादिना चतुर्थी । व्यादि- श्यते नियुज्यते । शेषशायी हि भगवान् ॥ १३ ॥

 नियोगाङ्गीकारं सिद्धवत्कर्तुमाह-

 आशंसता बाणगतिं वृषाङ्के कार्यं त्वया नः प्रतिपन्नकल्पम् ।
 निबोध यज्ञांशभुजामिदानीमुच्चैर्द्विषामीप्सितमेतदेव ॥ १४ ॥

 आशंसतेति ॥ वृषाके हरे बाणगति बाणप्रसरमाशंसता कथयता । 'कुर्यां


पाठा०-१ अक्रान्ति. २ संकल्पितेऽर्थे. ३ यज्ञाङ्ग. ४ अर्थमंत्रम्. हरस्यापि पिनाकपाणेः' (३।१०) इत्यादिनेति शेषः । त्वया नोऽस्माकं कार्यं प्रतिपन्नकल्पमङ्गीकृतप्रायम् । 'ईषदसमाप्तौ-' (पा.५।३।६७) इत्यादिना कल्पप्प्रत्ययः । कथमेतदत आह-इदानीमुच्चैरुन्नता द्विषो येषां तेषामुच्चैर्दिषां यज्ञांशभुजां देवानाम् । एतेन द्विषल्लुप्तयज्ञभागत्वं सूच्यते । ईप्सितमाप्नुमिष्टमेतदेव हरे बाणप्रयोगरूपमेव निबोध, हरायत्तं बुध्यस्वेत्यर्थः । 'बुध बोधने' इति धातोर्लोट् । अत्र 'आशंसता प्रार्थयमानेन' इति नाथच्याख्यानमनाथव्याख्यानम् । आङ्पूर्वयोः शास्तिशंसत्योरिच्छार्थत्वे आत्मनेपदनियमात् , याज्जार्थत्वस्यामामाणिकत्वात् , 'कुर्यां हरस्यापि --' (३।१०) इत्यत्रानयोरभावादयोगाच्चेति ॥ १४ ॥

 किं तत्कार्यं, कथं वा तस्य हरायत्तत्वं, कुतो वा मदपेक्षेत्यत्राह-

 अमी हि वीर्यप्रभवं भवस्य जयाय सेनान्यमुशन्ति देवाः ।
 स च त्वदेकेषुनिपातसाध्यो ब्रह्माङ्गभूर्बह्मणि योजितात्मा ॥१५॥

 अमी इति ॥ हि यस्मादमी देवा जयाय शत्रुजयार्थं भवस्य हरस्य वीर्यप्रभवं तेजःसंभूतं सेनान्यं सेनापतिमुशन्ति कामयन्ते । 'वश कान्तौ' इति धातोर्लट् । ब्रह्मणां सद्योजातादिमन्त्राणामङ्गानां हृदयादिमन्त्राणां भूः स्थानं ब्रह्माङ्गभूः, कृतमव्रन्यास इत्यर्थः । ब्रह्मणि निजतत्त्वे 'वेदस्तत्त्वं तपो ब्रह्म ब्रह्मा' इत्युभयत्राप्यमरः । योजितात्मा नियमितचित्तः, मन्त्रन्यासपूर्वकं ब्रह्म ध्यायन्नित्यर्थः । स भवश्च त्वदेकेषोस्तवैकबाणस्य निपातेन साध्यः, अनन्यसाध्योऽयमस्मिन्नवसर इति भावः ॥ १५ ॥

 तस्मै हिमाद्रेः प्रयतां तनूजां यतात्मने रोचयितुं यतस्व ।
 योषित्सु तद्वीर्यनिषेकभूमिः सैव क्षमेत्यात्मभुवोपदिष्टम् ॥१६॥

 तस्मा इति ॥ यतात्मने नियतचित्ताय तस्मै भवाय । 'रुच्यर्थानां प्रीयमाणः' (पा.१।४।३३) इति संप्रदानत्वाच्चतुर्थी । प्रयतां हिमाद्रे स्तनूजां पार्वतीं रोचयितुं यतस्व । भवितव्यं चात्र पार्वत्यैवेत्याह --योषित्सु स्त्री पु मध्ये । 'यतश्च निर्धारणम्' (पा.२।३।४१) इति सप्तमी । क्षमा शक्ता तस्य हरस्य वीर्यं रेतस्तस्य निषेकः क्षरणं तस्य भूमिः क्षेत्रं सा पार्वत्येवेत्यात्मभुवा ब्रह्मगोपदिष्टम् । 'उभे एव क्षमे वोढुम्' (२।६०) इत्यादिनोक्तमित्यर्थः ॥ १६ ॥


पाठा०-१ ब्रह्मनियोजितात्मा. २ जितात्मने. ३ योजयितुं.  सापीदानीं संनिकृष्टैव तस्येत्याह-

 गुरोनियोगाच्च नगेन्द्रकन्या स्थाणुं तपस्यन्तमधित्यकायाम् ।
 अन्वास्त इत्यप्सरसां मुखेभ्यः श्रुतं मया मत्प्रणिधिः स वर्गः १७

 गुरोरिति ॥ नगेन्द्र कन्या पार्वती च गुरोः पितुर्नियोगाच्छासनादधित्यकायां हिमाद्रेरूर्ध्वभूमौ । 'भूमिरूर्ध्वमधित्यका' इत्यमरः । 'उपाधिभ्यां त्यकन्नसन्नारूढयोः' (पा. ५।२।३४) इति त्यकन्प्रत्ययः । तपस्यन्तं तपश्चरन्तम् । 'कर्मणो रोमन्थतपोभ्यां वर्तिचरोः' (पा. ३।१।१५) इति क्यङ्प्रत्ययः,ततः शतृप्रत्ययः । स्थाणुं रुद्रमन्वास्ते, उपास्त इत्यर्थः। इतीदं मयाप्सरसां मुखेभ्यः श्रुतम् । न चैतदैतिह्यमात्रमित्याह-स वर्गः सोऽप्सरसां गणो मत्प्रणिधिर्मम गूढचरः । 'प्रणिधिः प्रार्थने चरे' इति यादवः ॥ १७ ॥

 तद्गच्छ सिद्ध्यै कुरु देवकार्यमर्थोऽयमर्थान्तरभाव्य एव ।
 अपेक्षते प्रत्ययमुत्तमं त्वां बीजाङ्कुरः प्रागुदयादिवाम्भः ॥१८॥

 तदिति ॥ तत्तस्मास्तिद्ध्यै कार्यसिद्ध्यर्थं गच्छ देवकार्यं कुरु। आशिषि लोट् । अयमर्थः प्रयोजनमर्थान्तरभाव्यः कारणान्तरसाध्य एव; तच्च कारणान्तरं पार्वतीसंनिधानमिति भावः । 'अर्थः प्रकारे विषये वित्तकारणवस्तुषु । अभिधेये च शब्दानां वृत्तौ चापि प्रयोजने ॥' इति विश्वः । तथापि बीजसाध्योऽङ्कुरो बीजाङ्कुर उदयादुत्पत्तेः प्रागम्भ इव त्वामुत्तमं प्रत्ययं चरमं कारणमपेक्षते । 'प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु' इत्यमरः । तस्मादस्मिन्नर्थे तव चरमसहकारित्वादनन्यसाध्योऽयमर्थ इति भावः ॥ १८ ॥

 तस्मिन्सुराणां विजयाभ्युपाये तवैव नामास्त्रगतिः कृती त्वम् ।
 अप्यप्रसिद्धं यशसे हि पुंसामनन्यसाधारणमेव कर्म ॥१९॥

 तस्मिन्निति ॥ सुराणां विजयाभ्युपाये जयस्योपायभूते तस्मिन्हरेऽस्त्रगतिरस्त्रप्रसरस्तवैव नाम । 'नाम' इति संभावनायाम् । अन्येषां तु संभावनापि नास्तीति भावः । अतस्त्वं कृती कृतमस्यास्तीति कृती कृतार्थः । तथा हि- अप्रसिद्धमप्यनन्यसाधारणमेव कर्म पुंसां यशसे हि; इदं तु प्रसिद्धमसाधारणं चेत्यतियशस्करमिति भावः ॥ १९॥


पाठा०-१ अध्यास्त. २ लभ्य. ३ प्रत्ययसङ्गलब्धौ. ४ अस्मिन्. ५ काम. ।  प्रोत्साहनार्थं स्तौति-

 सुराः समभ्यर्थयितार एते कार्यं त्रयाणामपि विष्टपानाम् ।
 चापेन ते कर्म न चातिहिंस्रमहो बतासि स्पृहणीयवीर्यः ॥२०॥

 सुरा इति ॥ एते सुराः समभ्यर्थयितारो याचितारः । कार्यं प्रयोजनं त्रयाणां विष्टपानामपि संबन्धि, सर्वलोकार्थमित्यर्थः । कर्म ते तव चापेन, न त्वन्येनेति भावः। अतिहिंस्रमतिघातुकं च न । 'अहो बत' इति संबोधने । 'अहो बतानुकम्पायां खेदे संबोधनेऽपि च' इति विश्वः । अथवा अहो आश्चर्ये । 'बत' इत्यामन्त्रणे संतोषे चेति । 'बतामन्त्रणसंतोषखेदानुक्रोशविस्मये' इति विश्वः । स्पृहणीयवीर्योऽस्याश्चर्यविक्रमोऽसि । 'आश्चर्यं स्पृहणीयं च' इति नानार्थकोशः ॥ २० ॥

 मधुश्च ते मन्मथ ! साहचर्यादसावनुक्तोऽपि सहाय एव ।
 समीरणो नोदयिता भवेति व्यादिश्यते केन हुताशनस्य ॥२१॥

 मधुरिति ॥ हे मन्मथ ! असौ मधुश्च वसन्तोऽपि ते साहचर्यात्सहचरत्वादेवानुक्तोऽप्यप्रेरितोऽपि सहायः सहकार्येव । तथा हि-समीरणो वायुर्हुताशनस्याग्नेर्नोदयिता प्रेरको भवेति केन व्यपदिश्यते ? अत्र मधुसमीरणयोरुक्तिमन्तरेण सहायताकरणं सामान्यधर्मः । स च वाक्यद्वये वस्तुप्रतिवस्तुभावेन पृथङ्निर्दिष्ट इति प्रतिवस्तूपमालंकारोऽयम् । तदुक्तम्- “यत्र सामान्यनिर्देशः पृथग्वाक्यद्वये यदि । गम्यौपम्याश्रिता सा स्यात्प्रतिवस्तूपमा मता ॥" इति ॥ २१ ॥

 तथेति शेषामिव भर्तुराज्ञामादाय मूर्धा मदनः प्रतस्थे ।
 ऐरावतास्फालनकर्कशेन हस्तेन पस्पर्श तदङ्गमिन्द्रः ॥ २२ ॥


पाठा०-१ समीरणश्चोदयिता; समीरणः प्रेरयिता. २ मालामिव. ३ दिग्वारणा.


टिप्प०-1 विवरणकारास्तु 'उपमायां तु पदार्थयोः साम्यम् , तच्च वाच्यम् , अत्र (प्रतिवस्तूपमायां) तु वाक्यार्थयोः; तदपि गम्यमेवेति ततो भेदः। साम्यप्रतिपादकानां इवादीनां पदत्वेन तैः पदार्थयोरेव साम्यं बोध्यते "पदार्थः पदार्थेनान्वेति" इति नियमात्' इत्याहुः।  तथेति ॥ तथास्त्विति भर्तुः स्वामिनः शेषामिव प्रसाददत्तां मालामिव । 'प्रसादान्निजनिर्माल्यदाने शेषेति कीर्तिता' इति विश्वः । 'माल्याक्षतादिदाने स्त्री शेषा' इति वैजयन्ती-केशवौ । आज्ञां मूर्ध्नादाय शिरसा गृहीत्वा मदनः प्रतस्थे । 'समवप्रविभ्यः स्थः' (पा. १।३।२२) इत्यात्मनेपदम् । इन्द्र ऐरावतास्फालनेन प्रोत्साहनार्थेन ताडनेन कर्कशेन परुषेण हस्तेन तदङ्गं मदनदेहं पस्पर्श, हस्तस्पर्शेन संभावयामासेत्यर्थः । 'शेषामिवाज्ञाम्' इत्यत्र साधकबाधकप्रमाणाभावादुपमोत्प्रेक्षयोः संदेहसंकर इति । यदि भर्त्रा शेषापि दत्ता तदा तामाज्ञामिवेत्यु- पमा । अथ न दत्ता तर्हि शेपात्वेनोत्प्रेक्षिता । शेषादानं तु संदिग्धमिति ॥२२॥

 स माधवेनाभिमतेन सख्या रत्या च साशङ्कमनुप्रयातः ।
 अङ्गव्ययप्रार्थितकार्यसिद्धिः स्थाण्वाश्रमं हैमवतं जगाम ॥२३॥

 स इति । स मदनोऽभिमतेन प्रियेण सख्या सुहृदा माधवेन वसन्तेन रत्या स्वदेव्या च साशङ्कं अतिसंकटमापतितम्' इति सभयमनुप्रयातः सन् । तथाङ्गस्य व्ययेनापि प्रार्थिता कार्यसिद्विर्येन स तथोक्तः, शीर्वा मृत्वापि सर्वथा देवकार्यं साधयिष्यामीति कृतनिश्चयः सन्नित्यर्थः । हैमवतं हिमवति भवं स्थाणो रुद्रस्याश्रमं जगाम ॥२३॥

 तस्मिन्वने संयमिनां मुनीनां तपःसमाधेः प्रतिकूलवर्ती ।
 संकल्पयोनेरभिमानभूतमात्मानमाधाय मधुर्जजृम्भे ॥ २४॥

 तस्मिन्निति ॥ तस्मिन्वने स्थाण्वाश्रमे संयमिनां समाधिमतां मुनीनां तपसः समाधेरेकाग्रतायाः प्रतिकूलं वर्तत इति प्रतिकूलवर्ती विरोधी मधुर्वसन्तः संकल्पयोनेर्मनोभवस्याभिमानभूतम् , गर्वहेतुभूतमित्यर्थः । कार्यकारणयोरभेदोपचारः । आत्मानं निजं स्वरूपमाधाय संनिधाय जजृम्भे प्रादुर्बभूव, वसन्तधर्मान्प्रवर्तयामासेत्यर्थः ॥ २४ ॥


पाठा०-१ कर्मसिद्धिः. २ तपःसमाधिप्रतिकूलवी. ३ आदाय,


टिप्प०-1 बालबोधिनीकारस्तु 'मालां' इति पाठमादृत्य 'शिरसा मालामिव मालेव माल्यं मंगलार्थ प्रसन्नस्रजमलंकारतामप्युपादायेत्यर्थः । प्रयाणकाले हि मंगलार्थं माला दीयते इति शिष्टाचारः' इत्याह ।  वसन्तधर्मानाह-

 कुबेरगुप्तां दिशमुष्णरश्मौ गन्तुं प्रवृत्ते समयं विलङ्घ्य ।
 दिग्दक्षिणा गन्धवह मुखेन व्यलीकनिश्वासमिवोत्ससर्ज ॥२५॥

 कुबेरेति ॥ उष्णरश्मौ सूर्ये साहसिके च नायके समयं दक्षिणायनकालं संगमकालं च विलङ्घ्याकाण्डे व्यतिक्रम्य कुबेरगुप्तां धनपतिपालितां कुत्सितशरीरेण केनचिद्रक्षितां च । दिशमुदीचीं स्त्रीलिङ्गाक्षिप्तां कांचिन्नायिकां च । गन्तुं चलितुं संगन्तुं च प्रवृत्ते सति दक्षिणा दिग्दाक्षिण्यवती नायिका च मुखेनाप्रभागेण वक्त्रेण च । वहतीति वहः । पचाद्यच् । गन्धस्य वहं गन्धवहमनिलं व्यलीकेन दुःखेन निश्वासस्तं व्यलीकनिश्वासमिव । 'दुःखे वैलक्ष्ये व्यलीकमप्रियाकार्यवस्तुनोः' इति वैजयन्ती। उत्ससर्ज प्रवर्तयामास । स्वभर्तरि समयोल्लङ्घनेन पराङ्गनासंगति प्रवृत्ते सति स्त्रियो दाक्षिण्यादकिंचिद्वदा दुःखान्निश्वसन्तीति भावः । उत्तरायणे सति मलयानिलाः प्रवृत्ता इति वाक्यार्थः । अत्रोत्प्रेक्षालंकारः । न च समासोक्तिरेवेयमुत्प्रेक्षानुप्रविष्टेति शङ्कितव्यम् । केवलविशेषणसामर्थ्यादेवाप्रस्तुतप्रतीतौ सोत्तिष्टते; अत्र तु दक्षिणेति विशेष्यसामर्थ्यादपि नायिका प्रतीयते । न च श्लेष एव प्रकृताप्रकृतविषयः, उभयश्लेषे श्लिष्टविशेष्यानङ्गीकारात् । तस्माच्छब्दशक्तिमूलोऽयं ध्वनिः । स च व्यलीकनिश्वासरूपचेतनधर्मसंभावनार्थं दक्षिणस्या दिशो नायिकया सहाभेदमासादयन्नभेदलक्षणातिशयोक्त्युपजीविनीं निश्वासमिवेति वाच्योत्प्रेक्षां निर्वहतीति वाच्यसिद्ध्यङ्गभूत इत्युत्पश्यामः ॥ २५ ॥

 असूत सद्यः कुसुमान्यशोकः स्कन्धात्प्रभृत्येव सपल्लवानि ।
 पादेन नापैक्षत सुन्दरीणां संपर्कमासिञ्जितनू पुरेण ॥ २६ ॥

 असूतेति ॥ अशोको वृक्षविशेषः, सद्यः स्कन्धात्प्रकाण्डात्प्रभृत्येव, स्कन्धादारभ्येत्यर्थः । भाष्यकारवचनात्प्रभृतियोगे पञ्चमीति कैयटः । भाष्यं च 'मूलाप्रभृत्यग्राद्वृक्षांस्तक्ष्णुवन्ति' इति 'कार्तिक्याः प्रभृत्याग्रहायणी मासे'


पाठा०-१ जुष्टाम्, नाथाम्.


टिप्प०-1 'वसन्ते हि रविरुदीची गच्छति, तदा तु दक्षिणायनत्वात् समयाभावः' इति बाल०। इत्यादि । सपल्लवानि कुसुमान्यसूत , उभयमप्यजीजनदित्यर्थः । आसिञ्जितो नृपुरो यस्य तेन । सिञ्जधातोरकर्मकात् 'गत्यर्थाकर्मक-' (पा. ३।४।७२) इत्यादिना कर्तरि क्तः । सुन्दरीणां पादेन संपर्क ताडनं नापैक्षत । 'सनूपुररवेण स्त्रीचरणेनाभिताडनम् । दोहदं यदशोकस्य ततः पुष्पोद्गमो भवेत् ॥' इति । तथा हि- 'पादाहतः प्रमदया विकसत्यशोकः शोकं जहाति बकुलो मुखसीधुसिक्तः। आलो कितः कुरबकः कुरुते विकासमालोडितस्तिलक उत्कलिको विभाति' इति ॥२६॥

 सद्यः प्रवालोद्गमचारुपत्रे नीते समाप्ति नवचूतबाणे ।
 निवेशयामास मधुर्द्धिरेफान्नामाक्षराणीव मनोभवस्य ॥ २७ ॥

 सद्य इति ॥ मधुर्वसन्त एवेषुकारः प्रवालोद्गमाः पल्लवाङ्कुरा एव चारूणि पत्राणि पक्षा यस्थ तस्मिन् । 'पत्रं वाहनपक्षयोः' इत्यमरः । नवं चूतं चूतकुसुमं तदेव बाणस्तस्मिन्नवचूतबाणे समाप्तिं नीते सति सद्यो मनोभवस्य धन्विनो नामाक्षराणीव द्विरेफान्भ्रमरान्निवेशयामास निदधौ । अत्र 'प्रवालपत्रे' इत्याद्येकदेशविवर्तिरूपकं मधोरिषुकारत्वरूपं यन्नामाक्षराणीवेत्युत्प्रेक्षायां निमित्तमित्येकदेशविवर्तिरूपकोत्थापितेयमुत्प्रेक्षा ॥ २७ ॥

 वर्णप्रकर्षे सति कर्णिकारं दुनोति निर्गन्धतया स्म चेतः ।
 प्रायेण सामग्र्यविधौ गुणानां पराङ्मुखी विश्वसृजः प्रवृत्तिः ॥२८॥

 वर्णेति ॥ कर्णिकारं कर्णिकारकुसुमम् । 'अवयवे च प्राण्योषधिवृक्षेभ्यः' (पा. ४।३।१३५) इत्युत्पन्नस्य तद्धितस्य 'पुष्पमूलेषु बहुलम्' (वा. २९५०) इति लुक् । एवमन्यत्रापि द्रष्टव्यम् । वर्णप्रकर्षे वर्णोत्कर्षे सत्यपि निर्गन्धतया हेतुना चेतो दुनोति स्म पर्यतापयत् । 'लट् स्मे' (पा. ३।२।११८) इति भूतार्थे लट् । तथा हि-प्रायेण विश्वसृजो विधातुः प्रवृत्तिर्गुणानां सामग्र्यविधौ साकल्यसंपादनविषये पराङ्मुखी । सर्वत्रापि वस्तुनि किंचिद्वैकल्यं संपादयति, यथा चन्द्रे कलङ्कः । अतः कर्णिकारेऽपि नैर्गन्ध्यं युज्यत इति भावः । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासोऽलंकारः ॥ २८ ॥


पाटा०- १ सख्युः. २ निगन्धमिति.


टिप्प०---1 'शरा हि स्वामिनामाङ्किता भवन्ति । मनोभवस्येति काकाक्षिगोलकन्यायेनोभयत्र संबन्धः' इति बाल० ।

 बालेन्दुवक्राण्यविकासभावाद्बभुः पलाशान्यतिलोहितानि ।
 सद्यो वसन्तेन समागतानां नखक्षतानीव वनस्थलीनाम् ॥२९॥

 वालेन्द्विति ॥ अविकासभावान्निर्विकासत्वान्मुकुल भावाद्धेतोर्बालेन्दुरिव वक्राण्यतिलोहितान्यतिरक्तानि पलाशानि किंशुकपुष्पाणि । 'पलाशे किंशुकः पर्णः' इत्यमरः । वसन्तेन पुंसा समागतानां संगतानां वनस्थलीनां स्त्रीणां सद्यः सद्योदत्तानि, पुराणेष्वतिलौहित्याभावादिति भावः । नखक्षतानीव बभुः । अत्र वसन्तस्य वनस्थलीनां च विशेषणसाधारण्यान्नायकव्यवहारप्रतीतेः समासोक्तिस्ताव- दस्ति । 'नखक्षतानीव' इति जातिस्वरूपोत्प्रेक्षा वक्रत्वलौहित्यगुणनिमित्ता जागर्ति । सा च नायकव्यवहाराश्रितसमासोक्तिगर्भिण्येवोत्तिष्ठत इत्युभयोरेककालतैव । 'विशेषणसामर्थ्यादप्रस्तुतस्य गम्यत्वे समासोक्तिरिष्यत' इति हि लक्षणम् ॥२९॥

 लग्गद्विरेफाञ्जनभक्तिचित्रं मुखे मधुश्रीस्तिलकं प्रकाश्य ।
 रागेण बालारुणकोमलेन चूतप्रवालोष्ठमलंचकार ॥ ३० ॥

 लग्नेति ॥ मधुश्रीर्वसन्तलक्ष्मीलग्नद्विरेफा एवाञ्जनभक्तयः कज्जलरचनास्ताभिश्चित्रं चित्रवर्ण तिलकं पुष्पविशेषमेव तिलकं विशेषकम् । मुखं प्रारम्भस्तस्मिन्नेव मुखे वक्रे प्रकाश्य प्रकटय्य बालारुणकोमलेन बालार्कसुन्दरेण रागेणारुणिम्ना तेनेव लाक्षारागेण चूतप्रवाल एवोष्ठस्तं चूतप्रवालोष्ठमलंचकार प्रसाधया- मास ॥ अन्न रूपकालंकारः ॥ ३०॥

 मृगाः प्रियालद्रुममञ्जरीणां रजःकणैर्विध्नित दृष्टिपाताः ।
 मदोद्धताः प्रत्यनिलं विचेरुर्वनस्थलीर्मर्मरपत्रमोक्षाः॥३१॥

 मृगा इति ॥ प्रियालद्रुमा राजादनवृक्षाः । 'राजादनः प्रियालः स्यात्' इत्यमरः । तेषां मार्यस्तासां रजःकणैर्विनिताः संजातविना दृष्टीनां पाताः प्रसादा येषां ते तथोक्ताः, मदोद्धता मृगाः प्रत्यनिलमनिलाभिमुखं मर्मरा मर्मर-


पाठा०-१ निवेश्य. २ प्रियालु पियाल.


टिप्प०-1 'असूत सद्यः' (३४२६) इत्यत आरभ्यात्रावधि वसन्तर्तुतुभूतं स्थावराणां विकारं वर्णयामास कालिदाप्तः। 2 इतःपरं वसन्तर्तुहेतुकं जङ्गमानां विकारं वर्णयति । शब्दवन्तः पत्रमोक्षा जीर्णपर्णपाता यासु ता वनस्थलीर्विचेरुर्वनप्रदेशेषु चरन्तिस्म । 'देशकालाध्वगन्तव्याः कर्मसंज्ञा ह्यकर्मणाम्' (ह० का०) इति चरतेः सकर्मकत्वम् ॥ ३१ ॥

 चूताङ्कुरास्वादकषायकण्ठः पुंस्कोकिलो यन्मधुरं चुकूज ।
 मनस्विनीमानविघातदक्षं तदेव जातं वचनं स्मरस्य ।। ३२ ॥

 चूताङ्कुरेति ॥ चूताङ्कुराणामास्वादेन कषायकण्ठो रक्तकण्ठः । 'रसभावपटौ रक्ते कषायः' इति केशवः । पुमान्कोकिलः पुंस्कोकिलः । पुंग्रहणं प्रागल्भ्यद्योतनार्थम् । 'मधुरं चुकूजे' इति यत्तत्कूजनमेव मनस्विनीनां मानविधाते रोषनिरासे दक्षं स्मरस्य वचनं 'मानं त्यजत' इत्याज्ञावचनं जातम् , कोकिलकूजितश्रवणानन्तरं स्मराज्ञप्ता इव मानं जहुरित्यर्थः ॥ ३२ ॥

 हिमव्यपायाद्विशदाधराणामापाण्डरीभूतमुखच्छवीनाम् ।
 स्वेदोद्गमः किंपुरुषाङ्गनानां चक्रे पदं पत्रविशेषकेषु ॥ ३३ ॥

 हिमेति ॥ हिमस्य व्यपायादपगमाद्विशदा नीरुजा अधरा ओष्ठा यासां तासामापाण्डरीभूतमुखच्छवीनाम् , कुङ्कुमपरिहारादिति भावः । किंपुरुषाङ्गनानां पत्रविशेषकेषु पत्ररचनासु स्वेदोद्गमः पदं चक्रे, धर्मोदयात्स्वेदोदयोsभूदित्यर्थः । विशदाधरत्वं मधूच्छिष्टराहित्यादिति भावः । हेमन्तेषु नार्यो बिम्बोष्ठेषु मधूच्छिष्टं शीतभयाद्दधतीति प्रसिद्धम् ॥ ३३ ॥

 तपखिनः स्थाणुवनौकसस्तामाकालिकीं वीक्ष्य मधुप्रवृत्तिम् ।
 प्रयत्नसंस्तम्भितविक्रियाणां कथंचिदीशा मनसां बभूवुः ॥३४॥

 तपस्विन इति ॥ स्थाणोर्वनमोको येषां ते तपस्विनस्तत्रत्या मुनयः । समाकाल आद्यन्तावस्या आकालिकी। अकालभवत्वादुत्पत्त्यनन्तरविनाशिनीभित्यर्थः । 'आकालिकडाद्यन्तवचने (पा.५।१।११४) इति समानकालादिकट्प्रत्ययः,


पाठा०-१ आपाण्डरीभूत.


टिप्प०-1 'हिमेनोष्ठा अभिहता विकीर्णाश्च भवन्तीति प्रसिद्धम् । ननु आकस्मिकवसन्तप्रवृत्तेः पूर्वं कथं तुषारधर्मवर्णनम् १ सत्यम् ; पूर्वरूपक्षयमात्रेऽसमयत्वमभिधायानन्तरं सामान्यरूपेण वर्णनमित्यदोषः' इति बाल०। प्रकृतेराकाल आदेशश्च निपातितः। 'टिड्डाणञ्-' (पा.४।१।१५) इत्यादिना डीप् । केचिदकालाद्देहादध्यात्मादित्वाद्भवार्थे ठगित्याहुः । तामाकालिकीं मधुप्रवृत्तिं वीक्ष्य प्रयत्नेन संस्तम्भितविक्रियाणां निरुद्धविकाराणां मनसां कथंचिदीशा नियन्तारो बभूवुः ॥ ३४ ॥

 तं देशमारोपितपुष्पचापे रतिद्वितीये मदने प्रपन्ने ।
 काष्ठागतस्नेहरसानुविद्धं द्वन्द्वानि भावं क्रियया विवव्रुः ॥ ३५ ॥

 तमिति ॥ आरोपितमधिज्यं कृतं पुप्पचापं येन तस्मिन्नतिर्द्वितीया यस्य तस्मिन्नतिसहाये मदने तं देशं स्थाण्वाश्रमं प्रपन्ने प्राप्ते सति, द्वन्द्वानि स्थावराणि जंगमानि च मिथुनानि, काष्टोत्कर्षः। 'काष्टोत्कर्षे स्थितौ दिशि' इत्यमरः । तां गतो यः स्नेह इष्टसाधननिबन्धनः प्रेमापरनामा ममताभिमानः । 'प्रेमा ना प्रियता हादं प्रेमः स्नेहः' इत्यमरः । स एव रसस्तेनानुविद्धं संपृक्तं भावं रत्याख्यं शृङ्गारभावं क्रियया कार्यभूतया चेष्टया विवव्रुः प्रकटीचक्रुः, शृङ्गारचेष्टाः प्रावर्तन्तेत्यर्थः ॥ ३५ ॥

 ताश्चेष्टा आह 'मधु' इत्यादिभिश्चतुर्भिः-

 मधु द्विरेफः कुसुमैकपात्रे पपौ प्रियां स्वामनुवर्तमानः ।
 शृङ्गेण च स्पर्शनिमीलिताक्षीं मृगीमकण्डूयत कृष्णसारः ।। ३६ ॥

 मध्विति ॥ द्वौ रेफौ वर्णविशेषौ यस्य स द्विरेफो भ्रमरः । उपचारात्तदर्थोऽपि द्विरेफ उच्यते । यथाह कैयटः—'शब्दधर्मेणाप्यर्थस्य व्यपदेशो दृश्यते, यथा भ्रमरशब्दस्य द्विरेफत्वाविरेफो भ्रमरः' इति । कुसुममेवैकं साधारणं पात्रं तस्मिन् , मधु मकरन्दम् । 'मधु मद्ये पुष्परसे' इति विश्वः । स्वां प्रियां भृङ्गीमनुवर्तमानोऽनुसरन् पपौ, तत्पीतशेषं पपावित्यर्थः । कृष्णश्चासौ सारः शबलश्च कृष्णसारः कृष्णमृगः। 'वर्णो वर्णेन' (पा.२।११६९) इति समासः । स्पर्शेन स्पर्शसुखेन निमीलिताक्षीं मृगीं शृङ्गेणाकण्डूयत घर्षितवान् । 'कण्ड्वादिभ्यो यक्' (पा.३।१।२७) इति यक् । ततः कर्तरि लङ् ॥ ३६ ॥

 ददौ रसात्पङ्कजरेणुगन्धि गजाय गण्डूपजलं करेणुः ।
 अर्धोपमुक्तेन बिसेन जायां संभावयामास रथाङ्गनामा ॥३७॥


पाठा०-१ संस्पर्श. २ सरःपङ्कज.  ददाविति ॥रसादतिरागात् करेणुः करिणी । 'करेणुरिभ्यां स्त्री नेभे' इत्यमरः । पङ्काज्जायत इति पङ्कजं तस्य रेणुः पङ्कजरेणुः, तस्य गन्धोऽस्यास्तीति पङ्कजरेणुगन्धि गण्डूषजलं मुखान्तर्धृतजलं गजाय ददौ । रथाङ्गनामा चक्रवाकोऽध यथा तथोपभुक्तेनार्धजग्धेन बिसेन जायां संभावयामास, स्वजग्धशेषं ददावित्यर्थः ॥३७॥

 गीतान्तरेषु श्रमवारिलेशैः किंचित्समुच्छवासितपत्रलेखम् ।
 पुष्पासवाघूर्णितनेत्रशोभि प्रियामुखं किंपुरुषश्चुचुम्बे ॥ ३८ ॥

 गीतान्तरेष्विति ॥ किंपुरुषः किंनरः श्रमवारिलेशैः स्वेदोदबिन्दुभिः किंचिदीषत्समुच्छवासिता विश्लेषिताः पत्रलेखा यस्य तत् । पुष्पाणामासवो मद्य पुष्पासवः, पुष्पोद्भवमद्यमित्यर्थः । वसन्ते मधूकस्य संभवात् । पुष्पवासितमिति केचित् । तेनाघूर्णिताभ्यामुभ्द्रान्ताभ्यां नेत्राभ्यां शोभत इति तथोक्तं प्रियामुखं गीतान्तरेषु गीतमध्येषु चुचुम्बे चुचुम्ब ॥ ३८ ॥

 पर्याप्तपुष्पस्तबकस्तनाभ्यः स्फुरत्प्रवालौष्ठमनोहराभ्यः ।
 लतावधूभ्यस्तरवोऽप्यवापुर्विनम्रशाखाभुजबन्धनानि ॥ ३९ ॥

 पर्याप्तेति ॥ पर्याप्ताः समग्राः पुष्पस्तबका एव स्तना यासां ताभ्यः । 'स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्' (पा. ४११:५४) इति चिकल्पान ङीष् । स्फुरन्तः प्रवालाः पल्लवा एवौष्ठास्तैर्मनोहराभ्यो लता एव वध्वस्ताभ्यः सकाशात्तरवोऽपि। लिङ्गादेव पुंस्त्वं गम्यते। विनम्राः शाखा एव भुजास्तैर्बन्धनान्यवापुः, ताभिरालिङ्गिता इत्यर्थः । स्थावराणामपि मदनविकारोऽभूत् , किमुतान्येषामिति भावः। एतच्च तरुलतानामपि चेतनत्वादुक्तम् । यथाह मनुः (१।४९)- 'अन्तःसंज्ञा भवन्त्येते सुखदुःखसमन्विताः' इति । अत्र रूपकालंकारः ॥ ३९ ॥

 श्रुताप्सरोगीतिरपि क्षणेऽस्मिन्हरः प्रसंख्यानपरो बभूव ।
 आत्मेश्वराणां न हि जातु विनाः समाधिभेदप्रभवो भवन्ति ॥४०॥


पाठा०-१ चुचुम्ब. टिप्प०-1 श्लोकेनानेन 'सज्जितानि सुरभीण्यथ यूनामुल्ललन्नयनवारिरुहाणि । आययुः सुमधुराणि सुरायाः पात्रतां प्रियतमावदनानि ॥' इति माघ (१०११) श्लोकस्तुलनामहति ।  श्रुतेति ॥ अस्मिन्क्षणे वसन्ताविर्भावकाले भगवान्हरः श्रुताप्सरोगीतिरपि, दिव्याङ्गनागानमाकर्णयन्नपीत्यर्थः । प्रसंख्यानपर आत्मानुसंधानपरो बभूव । तथा हि-आत्मनश्चित्तस्येश्वराणां नियन्तृणाम् , वशिनामित्यर्थः । विहन्यन्त एभिरिति विघ्नाः प्रत्यूहाः । घञथै कप्रत्ययः । जातु कदाचिदपि समाधिभेदे समाधिभञ्जने प्रभवः समर्था न भवन्ति ॥ ४० ॥

 लतागृहद्वारगतोऽथ नन्दी वामप्रकोष्ठापितहेमवेत्रः ।
 मुखार्पिकाङ्गुलिसंज्ञयैव मा चापलायेति गणान्व्यनैपीत् ॥४१॥

 लतेति । अथ लतागृहद्वारं गतो वामे प्रकोष्ठेऽर्पितहेमवेत्रो धारितहेमदण्डो नन्दी नन्दिकेश्वरः । 'नन्दी भृङ्गिरिटस्तण्डुनन्दिनौ नन्दिकेश्वरे' इति कोशः। मुखेऽर्पितायाः सरोपविस्मयस्तिमितावलोकं निहिताया एकस्या अङ्गुलेस्तर्जन्याः संज्ञया सूचनयैव । 'संज्ञा स्यान्चेतना नाम हस्ताद्यैश्वार्थसूचना' इत्यमरः । गणाप्रमथांश्चापलाय चापलं कर्तुं मा भवतेति । 'क्रियार्थोपपदस्य-(पा.२।३।१४) इत्यादिना चतुर्थी । व्यनैपीच्छिक्षितवान् ॥ ४ ॥

 न केवलं गणा एव विनीताः, किंतु जरायुजादिचतुर्विधं प्राणिजातमपीत्याह-

 निष्कम्पवृक्षं निभृतद्विरेफं मूकाण्डजं शान्तमृगप्रचारम् ।
 तच्छासनात्काननमेव सर्वं चित्रार्पितारम्भमिवावतस्थे ॥ ४२ ॥

 निष्कम्पेति ॥ निष्कम्पवृक्षम् , इदमुद्भिज्जोपलक्षणम् । निभृतद्विरेफं निश्चलभृङ्गम् , स्वेदजोपलक्षणमेतत् । मूकाण्डजं निःशब्दपक्षिसरीसृपादिकम् , एतेनाण्डजजातिरुक्ता । शान्तमृगप्रचारम् , जरायुजोपलक्षणमेतत् । सर्वमेव काननं तच्छासनान्नन्दीश्वराज्ञया चित्रार्पितारम्भं चित्रलिखितारम्भमिवावतस्थे । 'नृगवाद्या जरायुजाः । स्वेदजाः कृमिदंशाद्याः पक्षिसदियोऽण्डजाः । उद्भिदस्तरुगुल्माद्याः' इत्यमरः ॥ ४२ ॥

 दृष्टिप्रपातं परिहत्य तस्य कामः पुरःशुक्रमिव प्रयाणे ।
 प्रान्तेषु संसक्तनमेरुशाखं ध्यानास्पदं भूतपतेर्विवेश ।। ४३ ॥

 दृष्टिप्रपातमिति ॥ कामः प्रयाणे यात्रायां पुरोगतः शुक्रो यस्मिन्देशे तं पुरःशुक्रं देशमिव । 'प्रतिशुक्रं प्रतिबुधं प्रत्यङ्गारकमेव च । अपि शक्रसमो राजा हतसैन्यो निवर्तते ॥' इति प्रतिषेधात् । तस्य दृष्टिप्रपातं दृग्विषयं परिहृत्य प्रान्तेषु पार्श्वदेशेषु संसक्ता अन्योन्यसंसृष्टा नमेरूणां सुरपुंनागानां शाखा यस्य तत् । तिरोधानयोग्यमिति भावः । भूतपतेः शिवस्य ध्यानास्पदं समाधिस्थानम् , 'आस्पदं प्रतिष्टायाम्' (पा. ६।१।१४६) इति निपातः । विवेश ॥ ३ ॥

 सदेवदारुद्रुमवेदिकायां शार्दूलचर्मव्यवधानवत्याम् ।
 आसीनमासन्नशरीरपातस्त्रियम्बकं संयमिनं ददर्श ॥४४॥

 स इति ॥ आसन्नशरीरपात आसन्नमृत्युः स कामः शार्दूलचर्मणा व्यवधानवत्याम् , व्याघ्रचर्मास्तृतायामित्यर्थः । 'मोक्षश्रीार्ष्याघ्रचर्मणि' इति प्राशस्त्यादिति भावः । देवदारुद्रुमवेदिकायामासीनमुपविष्टं संयमिनं समाधिनिष्ठं त्रियम्बकं त्रिनेत्रं ददर्श। केचित्साहसिकाः 'त्रिलोचनम्' इति पेठुः । 'त्र्यम्बकम्' इत्युक्ते पादपूरणव्यत्यासात् 'त्रियम्बकम्' इति पादपूरणाथोऽयमियङादेशश्छान्दसः, महाकविप्रयोगादभियुक्तैरङ्गीकृतः ॥ ४४ ॥

 तमेव देवं षड्भिः श्लोकैर्वर्णयति-

 पर्यङ्कबन्धस्थिरपूर्वकायमृज्वायतं संनमितोभयांसम् ।
 उत्तानपाणिद्वयसंनिवेशात्प्रफुल्लराजीवमिवाङ्कमध्ये ॥ ४५ ॥

 पर्यङ्केति ॥ पर्यङ्कबन्धेन वीरासनेन स्थिरपूर्वकायं निश्चलोत्तरार्धमृजरायतश्च ऋज्वायतस्तं, संनमितावुभावसौ यस्य तं तथोक्तम् । 'वृत्तिविषये उभशब्दस्थान उभयशब्दप्रयोगः' इत्युक्तं कैयटेन । उत्तान ऊर्ध्वतलो यः पाणिद्वयस्य संनिवेशः संस्थानं तस्मादङ्कमध्ये प्रफुल्लं राजीवं पङ्कजं यस्य तमिव स्थितम् । वीरासने वसिष्टः-'एकं पादमथैकस्मिन्विन्यस्योरौ तु संस्थितम् । इतरस्मिंस्तथैवोरुं वीरासनमुदाहृतम् ॥' इति ।

तथा योगसारे-'उत्तानिते करतले करमुत्तानितं परम् ।

मादायाङ्कगतं कृत्वा ध्यायेद्यस्तस्य सोऽन्तरम् ॥' इति ॥ ४५ ॥

 भुजंगमोन्नद्धजटाकलापं कर्णावसक्तद्विगुणाक्षसूत्रम् ।
 कण्ठप्रभासङ्गविशेषनीलां कृष्णत्वचं ग्रन्थिमती दधानम्॥४६॥

 भुजंगमेति ॥ भुजंगमेनोन्नद्ध उन्नमय्य बद्धो जटाकलापो येन तं तथोक्तम् ।


पाठा०--१ त्रिलोचनम्. २ उद्बद्धः; आबद्ध. ३ कर्णावतंस. ४ मृगत्वचम्, कर्णावसक्तम् , कर्णावलम्बीत्यर्थः । अत एव द्विगुणं द्विरावृत्तमक्षसूत्रमक्षमाला यस्य तम् , कण्ठप्रभाणां स न मिश्रणेन विशेषनीलामतिनीलां प्रन्थिमतीं बन्धनयुक्तां

कृष्णत्वचं कृष्णमृगाजिनं दधानम् ॥ ४६ ॥

 किंचित्प्रकाशस्तिमितोग्रतारैर्भ्रूविक्रियायां विरतप्रसङ्गैः ।
 नेत्रैरविस्पन्दितपक्ष्ममालैर्लक्ष्यीकृतघ्राणमधोमयूखैः ॥ ४७ ॥

 किंचिदिति ॥ किंचित्प्रकाशा ईषत्प्रकाशाः स्तिमिता निश्चला उग्राश्च ताराः कनीनिका येषां तैः । 'तारकाऽक्ष्णः कनीनिका' इत्यमरः । भ्रूविक्रियायां भ्रूविक्षेपे विरतप्रसङ्गैः प्रसक्तिरहितैरविस्पन्दितपक्ष्ममालैरचलितपक्ष्मपतिभिरधःप्रसृता मयूखा येषां तैरधोमयूखैनत्रैः । त्रिनेत्रत्वाद्बहुवचनम् । लक्ष्यीकृतघ्राणं, नासाग्रनिविष्टदृष्टिमित्यर्थः । 'करणान्यबहिष्कृत्य स्थाणुवन्निश्चलारमकः । आत्मानं हृदये ध्यायेन्नसाग्रन्यस्तलोचनः ॥' इति योगसारे ॥ ४७ ॥

 अवृष्टिसंरम्भमिवाम्बुवाहमपामिवाधारमनुत्तरंगम् ।
 अन्तश्चराणां मरुतां निरोधानिवातनिष्कम्पमिव प्रदीपम् ॥४८॥

 अवृष्टीति ॥ अन्तश्चरन्तीत्यन्तश्चरास्तेषां मरुतां प्राणादीनां निरोधाद्धेतोरवृष्टिसंरम्भमविद्यमानवर्षसंभ्रममम्बुवाहमिव स्थितम् । एतेन प्राणनिरोधः सूचितः। अनुत्तरंगमनुद्भूततरंगमपामाधारं हृदमिव स्थितम् , एतेनापाननि- रोधः सूचितः । तथा निवाते निर्वातदेशे निष्कम्पं निश्चलं प्रदीपमिव स्थितम् । एतेन शेषवायुनिरोधः सूचितः । 'निवातावाश्रयावातौ' इत्यमरः ॥ १८ ॥

 कपालनेत्रान्तरलब्धमार्गैज्योतिःप्ररोहैरुदितैः शिरस्तः ।
 मृणालसूत्राधिकसौकुमार्यां बालस्य लक्ष्मीं ग्लपयन्तमिन्दोः॥४९॥

 कपालेति ॥ कपालनेत्रान्तरेण ब्रह्मकरोटिनेत्रविवरेण लब्धमार्गैः, शिरस्तो ब्रह्मरन्ध्रात् । पञ्चम्यास्तसिलू । उदितैरुद्भूतैर्ज्योतिःप्ररोहैस्तेजोङ्करैर्मृणालसूत्राधिकं सौकुमार्य मार्दवं यस्यास्तां बालस्येन्दोः शिरश्चन्द्रस्य लक्ष्मीं ग्लपयन्तम् ॥४९॥

 मनो नवद्वारनिषिद्धवृत्ति हृदि व्यवस्थाप्य समाधिवश्यम् ।
 यमक्षरं क्षेत्रविदो विदुस्तमात्मानमात्मन्यवलोकयन्तम् ॥ ५० ॥


पाठा०-१ विगत. २ लक्षीकृत. ३ निर्वात. ४ वेदविदः. ५ कु. सं०  मन इति ॥ नवभ्यो द्वारेभ्यो निषिद्धा निवर्तिता वृत्तिः संचारो यस तत्तथोक्तम् । समाधिना प्रणिधानेन वश्यं वशंगतम् । यत्प्रत्ययः । 'प्रणिधानं समाधानं समाधिश्च समाश्रयः' इति हलायुधः । मनो हृदि हृदयाख्येऽधिष्ठाने व्यवस्थाप्य । तथा च वसिष्ठः-'यतो निर्याति विषयान् यस्मिंश्चैव प्रलीयते । हृदयं तद्विजानीयान्मनसः स्थितिकारणम् ॥' इति । क्षेत्रविदः क्षेत्रज्ञाः पुरुषाः यं न क्षरतीत्यक्षरमविनाशिनं विदुर्विदन्ति । 'विदो लटो वा' (पा. ३।४।८३) इति झेर्जुस् । तमात्मानमात्मनि स्वस्मिन्नवलोकयन्तं साक्षात्कुर्वन्तम् , स्वाति- रेकेण परमात्मनोऽभावादिति भावः ॥ ५० ॥

 स्मरस्तथाभूतमयुग्मनेत्रं पश्यन्नदूरान्मनसाप्यधृष्यम् ।
 नालक्षयत्साध्वससनहस्तः त्रस्तं शरं चापमपि स्वहस्तात् ॥५१॥

 स्मरेति ॥ स्मरः कामस्तथाभूतं पूर्वोक्तरूपं मनसाप्यस्यमयुग्मनेत्रं विषमाक्षमदुरात्पश्यन् । साध्वसेन सन्नहस्तो विश्लथपाणिः सन् । स्वहस्तात्स्रस्तं शरं चापमपि चापं च नालक्षयन्न विवेद, भीतो मुद्यतीति भावः ॥ ५१ ॥

 निर्वाणभूयिष्ठमथास्य वीर्य संधुक्षयन्तीव वपुर्गुणेन ।
 अनुप्रयाता वनदेवताभ्यामदृश्यत स्थावरराजकन्या॥५२॥

 निर्वाणेति ॥ अथ निर्वाणेन नाशेन भूयिष्ठं निर्वाणभूयिष्ठम् , नष्टप्रायमित्यर्थः । अस्य स्मरस्य वीर्यं बलं वपुर्गुणेन सौन्दर्येण संधुक्षयन्तीव पुनरुज्जीवयन्तीव स्थिता, वनदेवताभ्यां सखीभूताभ्यामनुप्रयाताऽनुगता स्थावरराजकन्या पार्वत्यदृश्यत दृष्टा ॥ ५२ ॥

 तामेवाह चतुर्भिः-

 अशोकनिर्भर्हितपद्मरागमाकृष्टहेमद्युतिकर्णिकारम् ।
 मुक्ताकलापीकृतसिन्दुवारं वसन्तपुष्पाभरणं वहन्ती ॥५३॥

 अशोकेति ॥ अशोकपुष्पेण निसितास्तिरस्कृताः पारागा येन तत्तथोकम् । आकृष्टहेमद्युतीन्याहृतस्वर्णाभरणवर्णानि कर्णिकाराणि यस्मिंस्तत्तथोक्तम् । मुक्ताकलापीकृतानि सिन्दुवाराणि निर्गुण्डीकुसुमानि यस्मिंस्तत् । 'सिन्दुवारेन्द्रसुरसौ निर्गुण्डीन्द्राणिकेत्यपि' इत्यमरः । वसन्तपुष्पाण्येवाभरणं वहन्ती॥५३॥


पाठा०-१ सिन्धुवार.

 आवर्जिता किंचिदिव स्तनाभ्यां वासो वसाना तरुणार्करागम् ।
 पर्याप्तपुष्पस्तबकावनम्रा संचारिणी पल्लविनी लतेव ॥५४॥

 आवर्जितेति ॥ स्तनाभ्यां किंचिदावर्जितेवेषदानमितेव । तरुणार्कस्य राग इव रागो यस्य तत्, बालार्कारुणमित्यर्थः । उपमानपूर्वपदो बहुव्रीहिरुत्तरपदलोपश्च । वासो वसानाच्छादयन्ती । अत एवं पर्याप्तपुष्पस्तबकावनम्रा पल्लविनी किसलयवती संचारिणी लतेव, स्थितेति शेषः ॥ ५४॥

 स्रस्तां नितम्बादवलम्बमाना पुनः पुनः केसरदामकाञ्चीम् ।
 न्यासीकृतां स्थानविदा स्मरेण मौवीं द्वितीयामिव कार्मुकस्य ॥५५।।

 रस्तामिति ॥ स्थानविदा निक्षेपयोग्यस्थानवेदिना स्मरेण न्यासीकृतां निक्षेपीकृताम् । कर्मणि प्रभवतीति कार्मुकं धनुः, 'कर्मण उका' (पा. ५।१६१०३) इत्युकन्प्रत्ययः । तस्य द्वितीयां मौर्वीमिव स्थिताम् । अत्र हि न्यस्ता मौर्युत्तरत्र हरवैरनिर्यातनायोपयुज्यत इति भावः । नितम्बात्स्रस्तां चलितां कसरदाम बकुलमाला सैव काञ्ची तां पुनःपुनरवलम्बमाना हस्तेन धारयन्ती ॥ ५५ ॥

 सुगन्धिनिश्वासविवृद्धवृष्णं बिम्बाधरासन्नचरं द्विरेफम् ।
 प्रतिक्षणं संभ्रमलोलदृष्टिर्लीलारविन्देन निवारयन्ती ॥ ५६ ॥

 सुगन्धीति ॥ सुगन्धिभिर्निश्वासैर्विवृद्धतृष्णम् । बिम्बतुल्योऽधरो बिम्बाधरः । 'बिम्बाधर इति वृत्तौ मध्यपदलोपः स्यात्' (काव्या. सू. ५।२।१४) इति वामनः। तस्यासन्नचरं संनिकृष्टचरं हिरेफं भृङ्गं प्रतिक्षणं संभ्रमेण लोलदृष्टिश्चञ्चलाक्षी सती लीलारविन्देन निवारयन्ती ॥ ५६ ॥

 तां वीक्ष्य सर्वावयवानवद्यां रतेरपि ह्रीपदमादधानाम् ।
 जितेन्द्रिये शूलिनि पुष्पचापः खेकार्यसिद्धिं पुनराशशंसे ॥५७।।

 तामिति ॥ सर्वावयवेष्वनवद्यामगर्ह्याम् । 'अवधपण्य-' (पा. ३।१।१०१) इति निपातः । रतेः कामकलत्रस्यापि ह्रीपदं लज्जानिमित्तमादधानाम् , न्यूनतामावहन्तीमित्यर्थः । तां पार्वती वीक्ष्य पुष्पचापः कामो जितेन्द्रिये, दुर्जये-


पाठा०~१ सुजातपुष्प. २ पुष्पकाञ्चीम्. ३ द्वितीयमौर्वीमिव. ४ पुष्पकेतु. ५ खकर्मसिद्धिम्. ६ आशशंस. ऽपीत्यर्थः । शूलिनि शिवे विषये स्वकार्यसिद्धिं पुनराशशंसे चकमे । पूर्व 'साध्वससनहस्तः' (३५१) इत्यादिना कार्यसिद्धरुन्मूलितत्वाभिधानादिह 'पुनः' इत्युक्तम् ॥ ५७ ॥

 भविष्यतः पत्युरुमा च शंभोः समाससाद प्रतिहारभूमिम् ।
 योगात्स चान्तः परमात्मसंज्ञं दृष्ट्वा परं ज्योतिरुपारराम ॥ ५८॥

 भविष्यत इति ॥ उमा च भविष्यतः पत्युः शंभोः प्रतिहारभूमि द्वारदेशं समाससाद । 'स्त्री द्वाद्वारं प्रतीहारः' इत्यमरः । स शंभुश्चान्तः परमात्मेति संज्ञा यस्य तत्परं मुख्यम् । 'परं दूरान्यमुख्येषु' इति यादवः । ज्योतिर्दृष्ट्वा साक्षात्कृत्य योगाद्यानात् । 'योगः संनहनोपायध्यानसंगतियुक्तिषु' इत्यमरः । उपाररामोपारतः । 'व्याङ्परिभ्यो रमः' (पा. ११३१८३) इति परस्मैपदम् ॥ ५८ ॥

 ततो भुजंगाधिपतेः फणाग्रैरधः कथंचिद्धृतभूमिभागः ।
 शनैः कृतप्राणविमुक्तिरीशः पर्यङ्कबन्धं निबिडं बिभेद ।। ५९ ॥

 तत इति ॥ ततो भुजंगाधिपतेः शेषस्य फणाग्रैरधो भूमेरधः कथंचिदतियत्नेन तो भूमिभागः स्वोपवेशनभूभागो यस्य स तथोक्तः । वायुधारणाहितलाधवनिवृत्त्या भगवतो गुरुत्वादिति भावः । शनैः कृता प्राणानां प्राङ्गिरूद्धानां विमुक्तिः पुनःसंचारो येन स कृतप्राणविमुक्तिः, ईशो निबिडं दृढं पर्यङ्कबन्धं वीरासनं बिभेद शिथिलीचकार ॥ ५९ ॥

 तस्मै शशंस प्रणिपत्य नन्दी शुश्रूषया शैलसुतामुपेताम् ।
 प्रवेशयामास च भर्तुरेनां भ्रक्षेपमात्रानुमतप्रवेशाम् ॥ ६ ॥

 तस्मा इति । अथ नन्दी तस्मै भगवते। क्रियाग्रहणाचतुर्थी । प्रणिपत्य नमस्कृत्य शुश्रूषया सेवया निमित्तेनोपेताम् , सेवार्थमागतामित्यर्थः । शैलसुतां शशंस निवेदयामास । भर्तुः स्वामिनो भूक्षेपमात्रेण भूसंज्ञयैवानुमतप्रवेशामङ्गीकृतप्रवेशामेनां शैलसुतां प्रवेशयामास च ॥ ६ ॥

 तस्याः सखीभ्यां प्रणिपातपूर्व स्वहस्तलूनः शिशिरात्ययस्य ।
 व्यकीर्यत त्र्यम्बकपादमूले पुष्पोच्चयः पल्लवभङ्गभिन्नः ॥६१ ।।


पाठा०~१ उपासितुं सा च पिनाकपाणिम्. २ अन्तर्गतम्. ३ अनुमित.  तस्या इति ॥ तस्याः पार्वत्याः सखीभ्यां पूर्वोक्ताभ्यां स्वहस्तेन लून उपचितः पल्लवभङ्गभिन्नः किसलयशकलमिश्रः शिशिरात्ययस्य वसन्तस्य संबन्धी पुष्पोच्चयः पुष्पप्रकरः । 'हस्तादाने चेरस्तेये' (पा. ३।३।४०) इति घञ्विषयत्वास्कवीनामयं प्रामादिकः प्रयोग इति वल्लभः। त्र्यम्बकपादमूले प्रणिपातपूर्वं नमस्कारपूर्वकं व्यकीर्यत विक्षिप्तः ॥ ६१ ॥

 उमापि नीलालकमध्यशोभि विस्रंसयन्ती नवकर्णिकारम् ।
 चकार कर्णच्युतपल्लवेन मूर्ध्ना प्रणामं वृषभध्वजाय ॥ ६२ ॥

 उमेति ॥ उमापि नीलालकानां मध्ये शोभत इति तत्तथोक्तम् , अलकन्यस्तमित्यर्थः । नवकर्णिकारं विसंसयन्ती कर्णाच्युतः पल्लवो यस्य तेन मूर्ध्ना वृषभध्वजाय प्रणामं चकार । क्रियाग्रहणासंप्रदानत्वम् ॥ ६२ ॥

 अनन्यभाजं पतिमाप्नुहीति सा तथ्यमेवाभिहिता भवेन ।
 न हीश्वरव्याहृतयः कदाचित्पुष्णन्ति लोके विपरीतमर्थम् ॥१३॥

 अनन्येति ॥ सा कृतप्रणामा देवी भवेन हरेण । अन्यां न भजतीति तमनन्यभाजम् ।

'भजो ण्विः' (पा. ३।२।६२) इति ण्विप्रत्ययः । सर्वनाम्नो वृत्तिमात्रे

पूर्वपदस्य पुंवद्भावः । पतिमाप्नुहीति तथ्यं सत्यमेवाभिहितोक्ता । उत्तरत्र तथैव संभवादिति भावः । अभिदधातेर्ब्रुवर्थस्य दुहादित्वादप्रधाने कर्मणि क्तः । तथा हि-ईश्वरव्याहृतयो महापुरुषोक्तयः कदाचिदपि लोके भुवने । 'लोकस्तु भुवने जने' इत्यमरः । विपरीतं विसंवादिनमर्थमभिधेयं न पुष्णन्ति, न बोधयन्तीत्यर्थः॥ ६३ ॥

 कामस्तु बाणावसरं प्रतीक्ष्य पतङ्गव्दह्निमुखं विविक्षुः ।
 उमासमक्षं हरबद्धलक्ष्यः शरासनज्यां मुहुराममर्श ।। ६४ ॥

 कामस्त्विति ॥ कामस्तु बाणावसरं प्रतीक्ष्य, उमासंनिधानादयमेव बाणप्रयोगसमय इति ज्ञात्वा पतङ्गेन तुल्यं पतङ्गवच्छलभवत् । 'समौ पतङ्गशलभौ' इत्यमरः । 'तेन तुल्यं क्रिया चेद्वतिः' (पा. ५।१।११५) इति वतिप्रत्ययः । वह्निमुखं विविक्षुः प्रवेष्टुमिच्छुः । विशतेः सन्नन्तादुप्रत्ययः । उमायाः समक्षमक्ष्णः समीपमुमासमक्षम् । 'अव्ययीभावे शरत्प्रभृतिभ्यः' (पा. ५।४।१०७) इति समासान्तोऽप्रत्ययः। हरे बद्धलक्ष्यः सन् । शरासनस्य ज्यां मौवीं

मुहुराममर्श परामृष्टवान् ॥ ६४ ॥

 अथोपनिन्ये गिरिशाय गौरी तपस्विने ताम्ररुचा करेण ।
 विशोषितां भानुमतो मयूखैर्मन्दाकिनीपुष्करवीजमालाम् ॥६५॥

 अथेति । अथ गौरी । तपोऽस्यास्तीति तपस्वी । 'अस्मायामेधास्त्रजो विनिः' (पा. ५।२।१२१) इति विनिप्रत्ययः । तस्मै तपस्विने गिरिशाय ताम्ररुचा रक्तवर्णेन करेण भानुमतोऽशुमतो मयूखैर्विशोषितां मन्दाकिन्याः पुष्कराणि पद्मानि तेषां बीजानि तेषां मालां जपमालिकामुपनिन्ये समर्पितवती ॥ ६५ ॥

 प्रतिग्रहीतुं प्रणयिप्रियत्वात्रिलोचनस्तामुपचक्रमे च ।
 संमोहनं नाम च पुष्पधन्वा धनुष्यमोघं समधत्त बाणम् ॥६६॥

 प्रतिग्रहीतुमिति ॥ त्रिलोचनश्च प्रणयिप्रियत्वादर्थिप्रियत्वात्तामक्षमालां प्रतिग्रहीतुं स्वीकर्तुमुपचक्रमे । पुष्पं धनुर्यस्य स पुष्पधन्वा कामश्च । 'वा संज्ञायाम्' (पा. ५।४।१३३) इत्यनकादेशः । संमोह्यतेऽनेनेति संमोहनं नाम । नामेति प्रसिद्धौ । अमोघं बाणं सायकं धनुषि समधत्त संहितवान् ॥ ६६ ॥

 हरस्तु किंचित्परिलुप्तधैर्यश्चन्द्रोदयारम्भ इवाम्बुराशिः।
 उमामुखे बिम्बफलाधरोष्ठे व्यापारयामास विलोचनानि ॥६७।।

 हर इति ॥ हरस्तु हरोऽपि चन्द्रोदयारम्भेऽम्बुराशिरिव किंचिदीषत्परिलुप्तधैर्यः, न तु प्राकृतजनवदत्यन्तलुप्तधैर्य इति भावः। बिम्बफलतुल्योऽधरोष्ठो यस्य तस्मिन्नुमामुखे विलोचनानि व्यापारयामास, त्रिभिरपि लोचनैः साभिलाषमद्राक्षीदित्यर्थः । एतेन भगवतो रतिभावोदय उक्तः ॥ ६७ ॥

 विवृण्वती शैलसुतापि भावमङ्गैः स्फुरद्वालकदम्बकल्पैः ।
 साचीकृता चारुतरेण तस्थौ मुखेन पर्यस्तविलोचनेन ॥ ६८ ॥

 विवृण्वतीति। शैलसुतापि स्फुरद्वालकदम्बकल्पैर्विकसकोमलनीपसदृशैः, पुलकितैरित्यर्थः । 'ईषदसमाप्तौ-' (पा. ५।३।६७) इत्यादिना कल्पप्प्रत्ययः । अङ्गैर्भावं रत्याख्यं विवृण्वती प्रकाशयन्ती चारुतरेण पर्यस्तविलोचनेन व्रीडा-


पाठा०-१ परिवृत्त. टिप्प०--1 'कदंबो वृक्षविशेषः, अङ्गानां रोमाञ्चितत्वादत्र तत्सादृश्यम् । बालशब्देन देव्या यौवनावस्था दर्शिता' इति नारायण । विम्रान्तनेत्रेण मुखेनासाचि साचि संपद्यमाना साचीकृता तिर्यकृता । 'तिर्यगर्थे साचि तिरः' इत्यमरः । तस्थौ, हिया मुखं साचीकृत्य स्थितेत्यर्थः । न केवलं हरस्यैव, देव्या अप्युदितो रतिभाव इति भावः ॥ ६८ ॥

 अथेन्द्रियक्षोभमयुग्मनेत्रः पुनर्वशित्वाद्द्भलवन्निगृह्य ।
 हेतुं स्वचेतोविकृतेर्दिदृक्षुर्दिशामुपान्तेषु ससर्ज दृष्टिम् ॥ ६९ ।।

 अथेति ॥ अथायुग्मानि नेत्राणि यस्य सोऽयुग्मनेत्रभिनेत्रो वशित्वाजिते- न्द्रियत्वादिन्द्रियक्षोभं पूर्वोक्तमिन्द्रियविकारं पुनर्बलवदृढं निगृह्य निवार्य स्व- चेतोविकृतेः स्वचित्तविकारस्य हेतुं कारणं दिद्रक्षुर्द्रष्टुमिच्छुर्दिशामुपान्तेषु दृष्टिं ससर्ज प्रसारयामास ॥ ६९॥

 स दक्षिणापाङ्गनिविष्टमुष्टिं नतांसमाकुश्चितसव्यपादम् ।
 ददर्श चक्रीकृतचारुचापं प्रहर्तुमभ्युद्यतमात्मयोनिम् ।। ७० ॥

 स इति ॥ स भगवान् दक्षिणापाङ्गे निविष्टा स्थिता मुष्टिर्यस्य तं नतांसमा- कुञ्चितः सव्यपादो यस्य तम् , आलीढाख्यस्थानके स्थितमित्यर्थः । चक्रीकृत- चारुचापं मण्डलीकृतसौम्यकोदण्डं प्रहर्तुमभ्युद्यतमात्मयोनिं मनोभवं ददर्श । आलीढलक्षणमाह यादवः-'स्थानानि धन्विनां पञ्च तत्र वैशाखमस्त्रियाम् । वितस्स्यन्तरगौ पादौ मण्डलं तोरणाकृती ॥ समानौ स्यात्समपदमालीढं पदम- ग्रतः । दक्षिणं वाममाकुङ्ग्य प्रत्यालीढं विपर्यय ः ॥' इति ॥ ७० ॥

 तपःपरामर्शविवृद्धमन्योर्भ्रूभङ्गदुष्प्रेक्ष्यमुखस्य तस्य ।
 स्फुरन्नुदर्चिः सहसा तृतीयादक्ष्णः कृशानुः किल निष्पपात ७१

 तप इति ॥ तपःपरामर्शन तपस आस्कन्दनेन विवृद्धमन्योः प्रवृद्धकोपस्य भ्रूभङ्गेन दुष्प्रेक्ष्यं दुर्दर्शं मुखं यस्य तस्य हरस्य तृतीयादक्ष्णः स्फुरन्नुद्दीप्यमान उदर्चिरद्भूतज्वालः कृशानुरग्निः सहसाऽतर्कितमेव । 'अतर्किते तु सहसा' इत्य- मरः । निष्पपात किल निश्शकाम खलु ॥ ७१ ॥

 क्रोधं प्रभो! संहर संहरेति यावद्गिरः खे मरुतां चरन्ति ।
 तावत्स वह्विर्भवनेत्रजन्मा भस्मावशेषं मदनं चकार ॥ ७२ ॥

 क्रोधमिति ॥ हे प्रभो स्वामिन् ! क्रोधं संहर संहर निवर्तय निवर्तय । 'चापले द्वे भवत इति वक्तव्यम्' (वा० ४६९४) इति वार्तिकेन द्वित्वम् । 'संभ्र- मेण वृत्तिश्चापलम्' इति काशिका । इत्येवं मरुतां देवानां गिरो वाचः खे व्योम्नि यावच्चरन्ति प्रवर्तन्ते तावत्तत्कालमेव भवस्य नेत्राजन्म यस्य स भवनेत्रजन्मा । 'अवर्ज्यो बहुव्रीहिर्व्यधिकरणो जन्माद्युत्तरपदः' ( काव्या.सू. ५।२।१९ ) इति वा- मनः। स वह्निर्मदनं भस्मैवावशेषो यस्य तं भस्मावशेषं चकार, ददाहेत्यर्थः॥७२॥

 तीव्राभिपङ्गप्रभवेण वृत्तिं मोहेन संस्तम्भयतेन्द्रियाणाम् ।
 अज्ञातभर्तृव्यसना मुहूर्तं कृतोपकारेव रतिर्बभूव ।। ७३ ॥

 तीब्रेति ॥ तीव्राभिषङ्गप्रभचेणातिदुःसहाभिभवसंभवेन । 'अभिषङ्गस्त्वभि- भवे सङ्ग आक्रोशनेऽपि च' इति वैजयन्ती। इन्द्रियाणां चक्षुरादीनां वृत्तिं व्यापारं संस्तम्भयता प्रतिबघ्नता मोहेन मूर्च्छया कर्त्रा । रतिर्मदनभार्या मुहूर्त- मज्ञातं भर्तृव्यसनं भर्तृनाशो यया सा तथोक्ता सती कृतोपकारेव बभूव, सहसा दुःखोपनिपातान्मुमूच्छेत्यर्थः । मोहेन दुःखसंवेदनाभावात्तस्योपकारक- त्वोक्तिः ॥ ७३ ॥

 तमाशु विघ्नं तपसस्तपस्वी वनस्पतिं वज्र इवावभज्य ।
 स्त्रीसंनिकर्षं परिहर्तुमिच्छन्नन्तर्दधे भूतपतिः सभूतः ॥ ७४ ॥

 तमिति ॥ तपस्वी तपोनिष्टो भूतपतिः शिवस्तपसो विघ्नमन्तरायभूतं ते काममाशु वज्रोऽशनिर्वनस्पतिं वृक्षमिवावभज्य भङ्त्वा स्त्रीसंनिकर्ष स्त्रीसं- निधानं परिहर्तुमिच्छन् , तस्यानर्थहेतुत्वादिति भावः। सभूतः सगणः सा- न्तर्दधे ॥ ७४ ॥

  शैलात्मजापि पितुरुच्छिरसोऽभिलाषं
   व्यर्थं समर्थ्य ललितं वपुरात्मनश्च ।
  सख्योः समक्षमिति चाधिकजातलज्जा
   शून्या जगाम भवनाभिमुखी कथंचित् ॥ ७५ ॥

 शैलात्मजेति ॥ शैलात्मजा पार्वत्यप्युच्छिरस उन्नतशिरसो महतः पितुर- भिलाषं 'हरो वरोऽस्तु' इति मनोरथं ललितं सुन्दरमात्मनो वपुश्च व्यर्थं निष्फलं


पाठा०-१ परिहर्तुकामः सोऽन्तर्दधे. समर्थ्य विचार्य सख्योः समक्षं पुर इति च हेतुनाधिकं जातलज्जा । समानजनसम- क्षमवमानस्यातिदुःसहत्वादिति भावः । शून्या निरुत्साहा सती कथंचित्कृच्छ्रेण भवनस्याभिमुखी जगाम ॥ ७५ ॥

  संपदि मुकुलिताक्षीं रुद्रसंरम्भभीत्या
   दुहितरमनुकम्प्यामद्रिरादाय दोर्भ्याम् ।
  सुरगज इव बिभ्रत्पद्मिनीं दन्तलग्नां
   प्रतिपथगतिरासीद्वेगदीर्घी/कृताङ्गः ॥ ७६ ॥

 सपदीति ॥ सपद्यद्रिर्हिमवान् रुद्रस्य संरम्भात्कोपाद्भीत्या । 'संरम्भः संभ्रमे कोपे' इति विश्वः । मुकुलिताक्षीं निमीलितनेत्राम् । 'बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्पच्' (पा.५।४।११३) इति षष्प्रत्ययः । 'षिद्गौरादिभ्यश्च' (पा.४।११४१) इति डीए । अनुकम्पितुमर्हामनुकम्प्याम् । 'ऋहलोर्ण्यत्' (पा.३।१।१२४) इति ण्यत्प्रत्ययः। दुहितरं दोर्भ्यामादाय दन्तयोर्लग्नां दोर्भ्यामादाय पद्मिनीं नलिनीं बिभ्रत्सुरगज इव वेगेन रयेण दीर्घाकृताङ्ग आयतीकृतशरीरः सन् । पन्थानं प्रति गता मार्गानुसारिणी गतिर्यस्य स प्रतिपथगतिरासीत् , पन्थानमनुसृत्य जगामेत्यर्थः ॥ ७६ ॥

इति श्रीमन्महोपाध्यायकोलाचलमल्लिनाथसृरिविरचितया संजीविनीसमाख्यया
व्याख्यया समेतः श्रीकालिदासकृतौ कुमारसंभवे महाकाव्ये
मदनदहनो नाम तृतीयः सर्गः ।


चतुर्थः सर्गः ।


 मूर्च्छिता रतिरित्युक्तम् , संप्रति तद्वृत्तान्तमेवाह-

 अथ मोहपरायणा सती विवशा कामवधूर्विबोधिता ।
 विधिना प्रतिपादयिष्यता नववैधव्यमसह्यवेदनम् ॥१॥

 अथेति ॥ अथानन्तरं मोहो मूर्च्छा परमयनमाश्रयो यस्याः सा मोहपरायणा मोहैकशरणा सती । 'परायणमभिप्रेते तत्परे परमाश्रये' इति यादवः । विवशा


पाठा०-१ अथ स. २ दीर्घाकृतात्मा. - मूढत्वान्निश्चेष्टा कामवधू रतिः । असह्या दुःसहा वेदना यस्मिंस्तत्तथोक्तम् । विधवाया गतभर्तृकाया भावो वैधव्यम् । नवं च तद्वैधव्यं चेति नववैधव्यम् । 'नव'ग्रहणं दुःसहत्वद्योतनार्थम् । प्रतिपादयिष्यताऽनुभावयिष्यता। क्रियार्थ- क्रियायां लृट् । विधिना दैवेन । 'विधिर्विधाने देवे च' इत्यमरः । विबोधिता, वैधव्यानुफलोऽयं विधिरिति भावः । अस्मिन्सर्गे वियोगिनीवृत्तानि–'विषमे ससजा गुरुः समे सभरा लोऽथ गुरुर्वियोगिनी' इति लक्षणात् ॥ १॥

 अवधानपरे चकार सा प्रलयान्तोन्मिपिते विलोचने ।
 न विवेद तयोरतृप्तयोः प्रियमत्यन्तविलुप्तदर्शनम् ॥ २॥

 अवधानेति ॥ सा रतिः प्रलयान्ते मूर्छावसाने । 'प्रलयो नष्टचेष्टता' इत्य- मरः । उन्मिषिते उन्मीलिते विलोचने । अवधानं परं प्रधानं ययोस्तेऽवधानपरे दिद्दक्षयाऽवहिते चकार । द्रष्टव्याभावात्तु न विवेदेत्याह-नेति । प्रियं कामम- तृप्तयोस्तृप्तिं न गतयोः, नित्यदिदृक्षमाणयोरित्यर्थः । तयोर्लोचनयोः । दर्शनक्रिया- पेक्षया संबन्धे षष्टी । अत्यन्तविलुप्तं दर्शनं स्वलोचनयोः करणयोर्यस्य कर्मभूतस्य तमत्यन्तविलुप्तदर्शनं सन्तं न विवेद न ज्ञातवती । प्रियनाशापरिज्ञानाद्दिद्दक्षां चक्र इति तात्पर्यार्थः ॥ २ ॥

 अयि जीवितनाथ ! जीवसीत्यभिधायोत्थितया तया पुरः ।
 ददृशे पुरुषाकृति क्षितौ हरकोपानलभस्म केवलम् ॥ ३॥

 अयीति ॥ 'अयि' इति प्रश्ने । 'अयि प्रश्नानुनययोः' इति विश्वः । अयि जीवितनाथ ! जीवसि प्राणिषि कच्चित् ? इत्यभिधायोस्थितया तया रत्या पुरोऽमे क्षितौ पुरुषस्याकृतिरिवाकृतिर्यस्य तत्पुरुषाकृति केवलमेकं हरकोपानलभस्म ददृशे दृष्टम् , न तु पुरुष इति भावः ॥ ३ ॥

 अथ सा पुनरेव विह्वला वसुधालिङ्गनधूसरस्तनी ।
 विललाप विकीर्णमूर्धजा समदुःखामिव कुर्वती स्थलीम्॥४॥

 अथेति ॥अथ भस्मदर्शनानन्तरं पुनरेव विह्वला विक्लवा वसुधालिङ्गनधूसर- स्तनी वसुधालिङ्गनेन क्षितिलुण्ठनेन धूसरौ धूसरवर्णौ स्तनौ कुचौ यस्याः सा


पाठा०-१ निमम. २ धूसराकृतिः. तथोक्ता । 'स्वाङ्गाचोपसर्जनादसंयोगोपधात्' (पा.४।१।५४) इति ङीष् । विकीर्ण- मूर्धजा विकीर्णा विक्षिप्ता मूर्धजाः केशा यस्याः सा तथोक्ता सा रतिः स्थलीं वनभूमिम् , तन्नत्यान्प्राणिन इत्यर्थः । 'जानपदकुण्डगोणस्थल-' (पा. ४।१।४२) इत्यादिना ङीष् । समदुःखां स्वतुल्यशोकां कुर्वतीव विललाप परिदेवितवती । 'विलापः परिदेवनम्' इत्यमरः ॥ ५ ॥

 उपमानमभूद्विलासिनां करणं यत्तव कान्तिमत्तया ।
 तदिदं गतमीदृशीं दशां न विदीर्ये कठिनाः खलु स्त्रियः॥५॥

 उपेति ॥ तब यत्करणं गात्रम् । 'करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि' इत्यमरः । कान्तिमत्तया सौन्दर्येण हेतुना विलासिनां विलसनशीलानाम् । 'वौ कपलस-' (पा. ३।२।१४) इत्यादिना घिनुष्प्रत्ययः । उपमीयते येन तदुपमान- मभूत् । तत्करणमिदमीद्दशीम् दशामवस्थां गतम् , भस्मीभूतमित्यर्थः । तथापि न विदीर्ये न विदीर्णा भवामि। कर्मकर्तरि लट् । तथा हि-स्त्रियः कठिनाः खलु, कठिनत्वादविदीर्यमाणत्वमित्यर्थः । कारणात्कार्यसमर्थनरूपोऽर्थान्तरन्यासः। 'धीरसंचारिणी दृष्टिगतिर्गोवृषभाच्चिता । स्मितपूर्वं तथालापो विलास इति कीर्तितः ॥ इति ॥ ५॥

 क्व नु मां त्वदधीनजीवितां विनिकीर्य क्षणभिन्नसौहृदः ।
 नलिनीं क्षतसेतुबन्धनो जलसंघात इवासि विद्रुतः ॥ ६ ॥

 क्केति ॥ हे प्रिय ! क्षतसेतुबन्धनो भग्नसेतुबन्धो जलसंघातो जलौघो नलि- नीमिव, जलैकायत्तजीवितामिति शेषः । त्वदधीनजीवितां त्वदायत्तप्राणां मां क्व नु विनिकीर्य कुत्र वा निक्षिप्य क्षणभिन्नसौहृदः क्षणत्यक्तसौहार्दः सन् विद्रुतः पलायितोऽसि ? सेतुसौहृदयोः स्थितिहेतुत्वेन साम्यम् । सुहृदो भावः सौहृदम् । युवादित्वादण्प्रत्ययः । 'हृदयस्य हृल्लेखयदण्लासेषु' (पा. ६।३।५०) इति हृदा- देशः । अणि हृद्भावाम 'हृद्भगसिन्ध्वन्ते पूर्वपदस्य च' (पा. ७।३।१९) इत्यु- भयपदवृद्धिः। हृद्भूतस्याण्विधाने तूभयपदवृद्धिः स्यात् । यथा सुहृदो भावः सौहार्दमिति । तदेवाह वामनः (काव्या.सू. ५।२।८३)–'सौहृददौर्ह्दशब्दावणि

हद्भावात्' इति ॥ ६॥

 कृतवानसि विप्रियं न मे प्रतिकूलं न च ते मया कृतम् ।
 किमकारणमेव दर्शनं विलपन्त्यै रतये न दीयते ॥ ७ ॥

 कृतेति ॥ हे प्रिय ! त्वं मे मम विप्रियमप्रियं कृतवान्नासि; मया च ते तव प्रतिकूलमप्रियं न कृतम् । अकारणं निष्कारणमेव, परस्परापकाररूपकारणाभा- वेऽपीत्यर्थः । क्रियाविशेषणमेतत् । विलपन्त्यै, त्वद्दर्शनार्थिन्या अपीति भावः । रतये किं कथं दर्शनं न दीयते ? क्रियाग्रहणाचतुर्थी ॥ ७ ॥

 विप्रियमाशङ्कते-

 स्मरसि स्मर ! मेखलागुणैरुत गोत्रस्खलितेषु बन्धनम् ।
 च्युतकेशरदूषितेक्षणान्यवतंसोत्पलताडनानि वा ॥८॥

 स्मरसीति ॥ हे स्मर ! गोत्रस्खलितेषु नामव्यत्यासेषु । 'गोत्रं नाभ्यचले कुले' इति विश्वः । मेखलागुणैर्बन्धनं स्मरस्युत स्मरसि वा ? 'विकल्पे किं किमूत च' इत्यमरः । च्युतकेशरैर्धष्टकिञ्जल्कैर्दूषिते ईक्षणे येषु तान्यवतंसोत्पल- ताडनानि, सधूलिक्षेपताडनानीत्यर्थः । स्मरसि वा ? अपकारस्मरणादिदमदर्श- नमिति भावः ॥ ८॥

 हृदये वससीति मत्प्रियं यदवोचस्तदवैमि कैतवम् ।
 उपचारपदं न चेदिदं त्वमनङ्गः कथमक्षता रतिः ॥९॥

 हृदय इति ॥ 'हृदये वससि' इति स्मरवाक्यानुवादः । इत्येवंरूपं मत्प्रियं यदवोच उक्तवानसि । ब्रूजो लुङि 'वच उम्' (पा. ७।४।२०) इत्युमागमः । तत्कैतवमवैमि मिथ्येति मन्ये । इदं वचनमुपचारपदं परस्य रञ्जनार्थं यदसत्य- भाषणं स उपचारस्तस्य पदं स्थानम् , कैतवस्थानमिति यावत् ; न चेत्त्वमन-


पाठा०-१ ताडनानि च. टिप्प०-1 रघुवंशगतोऽजविलापः कुमारसंभवगतो रतिविलापश्चेति करुणरसपरि- प्लुतं विभिन्नभूमिकमप्येतद्विलापद्वयमविभिन्नकल्पनोपमाशब्दप्रयोगादिभिः कविकालिदासः सम्यग्भणितवान् । तत्र श्लोकेनानेन ‘मनसापि न विप्रियं मया कृतपूर्व' (रघु० ८।५२) इति श्लोको हि सर्वथार्थसाम्यमासादयति। 2 श्लोकेनानेन समं 'इयमप्रतिबोधशायिनी रशना' (रघु० ८१५८) इति श्लोकस्तुलनामर्हति । ङ्गोऽशरीरः । कथं रतिरक्षताऽविनष्टा ? आश्रयनाशेऽप्याश्रितमविनष्टमिति विरोधादिति भावः ॥ ९ ॥

 न च मे कश्चिद्विचारः, किंतु लोकः शोच्यत इत्याह--

 परलोकनवप्रवासिनः प्रतिपत्स्ये पदवीमहं तव ।
 विधिना जन एष वञ्चितस्त्वदधीनं खलु देहिनां सुखम् १०

 परलोकेति ॥ परलोकं प्रति नवप्रवासिनोऽचिरप्रोषितस्य । अनेनानुगमनकालानतिपातः सूच्यते । तव पदवीं मार्गं प्रतिपत्स्ये, त्वामनुगमिष्यामीत्यर्थः । अतो मे नास्ति विचार इति भावः । किंतु विधिना दैवेनैष जनो लोको वञ्चितः प्रतारितः । देहिनां सुखं त्वदधीनं त्वय्यधीनं खलु । अधिशब्दस्य शौण्डादित्वात् 'सप्तमी शौण्डैः' (पा. २।१।४० ) इति समासः । 'अध्युत्तरपदात्' (पा. ५।४।७) इति खप्रत्ययः । एवमन्यत्रापि । सुखप्रदाभावे कुतः सुखमिति भावः॥ १० ॥

 तदेवाह--

 रजनीतिमिरावगुण्ठिते पुरमार्गे घनशब्दविक्लवाः ।
 वसतिं प्रिय ! कामिनां प्रियास्त्वदृते प्रापयितुं क ईश्वरः ११

 रजनीति ॥ हे प्रिय ! रजनीतिमिरेणावगुण्ठित आवृते पुरमार्गे धनशब्दविक्लवा गर्जितभीताः प्रियाः कामिनां वसतिं प्रापयितुं त्वदृते त्वां विना । 'अन्यारादितरर्ते-' (पा. २।३।२९) इत्यादिना पञ्चमी । क ईश्वरः शक्तः ? न कश्चिदित्यर्थः । न हि कामान्धानां भीतिरस्तीति भावः ॥ ११ ॥

 नयनान्यरुणानि घूर्णयन्वचनानि स्खलयन्पदे पदे ।
 असति त्वयि वारुणीमदः प्रमदानामधुना विडम्बना ॥ १२ ॥

 नयनानीति ॥ अरुणानि नयनानि घूर्णयन्भ्रामयन् । तथा पदे पदे प्रतिपदम् । वीप्सायां द्विरुक्तिः । वचनानि स्खलयन्विपर्यासयन् प्रमदानां वारुणीमदो मद्यमदोऽधुना त्वय्यसति विडम्बनाऽनुकृतिमात्रम् । मदनाभावे मदस्य निष्फलत्वादिति भावः । तथा च शिशुपालवधे ( १०।३३)--'तां मदो

दयितसंगमभूषः' इति ॥ १२ ॥

 अवगम्य कथीकृतं वपुः प्रियबन्धोस्तव निष्फलोदयः।
 बहुलेऽपि गते निशाकरस्तनुतां दुःखमनङ्ग ! मोक्ष्यति ॥ १३ ॥

 अवगम्येति ॥ हे अनङ्ग अशरीर! प्रियबन्धोः प्रियसखस्य तव वपुः शरीरं कथीकृतमकथा कथा संपद्यमानं कृतं शब्दमात्रावशिष्टमवगम्य ज्ञात्वा निष्फलो. दयः उद्दीप्याभावादुद्दीपनवैफल्यमिति भावः । निशाकरश्चन्द्रो बहुले कृष्णपक्षे गतेऽपि तनुतां काश्यं दुःखं यथा तथा कृच्छ्रान्मोक्ष्यति, वृथा वृद्धिरिति दुःख- यिष्यत इत्यर्थः ॥ १३ ॥

 हरितारुणचारुबन्धनः कलपुंस्कोकिलशब्दसूचितः ।
 वद संप्रति कस्य बाणतां नवचूतप्रसवो गमिष्यति ॥ १४ ॥

 हरितेति ॥ हरितं चारुणं च । 'वर्णो वर्णेन' (पा. २।१।६९) इति तत्पुरुषः । हरितारुणं चारु बन्धनं वृन्तं पुङ्खश्च यस्य स तथोक्तः। कलेन मधुरेण पुस्को- किलशब्देन पुरुषकोकिलनादेन सूचितोऽनुमापितश्च । चूतचर्वणकार्यस्वारकल- शब्दस्येति भावः । नवचूनप्रसवो नवचूतकुसुमं संप्रति कस्य बाणतां शरत्वं गमिष्यति वद; अन्यस्य पुष्पबाणस्याभावादिति भावः ॥ १४ ॥

 अलिपङ्त्तिरनेकशस्त्वया गुणकृत्ये धनुषो नियोजिता ।
 विरुतैः करुणखनैरियं गुरुशोकामनुरोदितीव माम् ॥ १५ ॥

 अलीति ॥ त्वयाऽनेकशो बहुशो धनुषः कार्मुकस्य गुणकृत्ये मौर्वीकार्ये गुण- वत्कर्मणि च नियोजिताधिकृतेयमलिपङ्त्तिः करुणस्वनैर्दीनस्वनैर्विरुतैः कूजितैर्गुरु- शोकां दुर्भरदुःखाम् । 'गुरुस्तु गीष्पतौ श्रेष्ठे गुरौ पितरि दुर्भरे' इति शब्दा- र्णवः । मामनुरोदितीव । उपसर्गात्सकर्मकत्वम् । 'रुदादिभ्यः सार्वधातुके' (पा. ७।२।७६) इतीडागमः ॥ १५ ॥

 प्रतिपद्य मनोहरं वपुः पुनरप्यादिश तावदुत्थितः ।
 रतिदूतिपदेषु कोकिलां मधुरालापनिसर्गपण्डिताम् ॥ १६ ॥

 प्रतिपद्येति ॥ तावत्पुनरपि मनोहरं वपुः शरीरं प्रतिपद्य प्राप्योत्थितः सन् ।


पाठा०-१ चारुपल्लवः. २ स्वरैः. ३ परपुष्टा. मधुरालापेषु प्रियोक्तिषु निसर्गपण्डितां स्वभावप्रगल्भां कोकिलां रतिदूतिपदेषु सुरतदूतीस्थानेष्वादिशाज्ञापय । प्रगल्भानामेव दौत्याधिकार इति भावः । डीबन्तस्यापि 'दूती' शब्दस्य छन्दोभङ्गभयाद्रस्वः । 'अपि माषं मषं कुर्याच्छ- न्दोमङ्गे त्यजेद्विरम्' इति केचित् । 'उणादयो बहुलम्' (पा. ३॥३॥१) इति बहुलग्रहणाइस्व इति वल्लभः ॥ १६ ॥

 शिरसा प्रणिपत्य याचितान्युपगूढानि सवेपथूनि च ।
 सुरतानि च तानि ते रहः स्मर! संस्मृत्य न शान्तिरस्ति मे ॥१७॥

 शिरसेति ॥ हे स्मर! शिरसा प्रणिपत्य याचितानि सवेपथूनि सकम्पानि 'द्वितोऽथुच्' (पा. ३ ३।८९) इत्यथुच्प्रत्ययः । सात्त्विकान्तरोपलक्षणमेतत् । 'स्तम्भप्रलयरोमाञ्चाः स्वेदो वैवर्ण्यवेपथू। अश्रु वैस्चर्यमित्यष्टौ सात्त्विकाः परि- कीर्तिताः ॥' इति । उपगृढान्यालिङ्गनानि च । नपुंसके भावे क्तः । तान्यनु- भूतप्रकाराणि रह एकान्ते सुरतानि च संस्मृत्य मे शान्तिर्नास्ति । अत्र समान- कर्तृकत्वं दुर्घटं समानक्रियापेक्षाम्तीति केचित् ॥ १७ ॥

 रंचितं रतिपण्डित ! त्वया स्वयमङ्गेषु ममेदमार्तवम् ।
 ध्रियते कुसुमप्रसाधनं तव तच्चारु वपुर्न दृश्यते ॥ १८ ॥

 रचितमिति ॥ हे रतिपण्डित रतिकुशल ! त्वया ममाङ्गेष्वक्यवेषु स्वयं रचितं ऋतुरस्य प्राप्त आर्ववं वासन्तम् । 'ऋतोरण' (पा. ५।१६१०५) इत्यण्प्रत्ययः। कुसुमप्रसाधनं पुष्पाभरणमिदं ध्रियतेऽवतिष्ठते । 'पृञ् अवस्थाने' इति धातो- स्तौदादिकाकर्तरि लट् । तव तत्प्रसाधकं चारु सुन्दरं वपुस्तु न दृश्यते ॥ १८ ॥

 विबुधैरसि यस्य दारुणैरसमाप्ते परिकर्मणि स्मृतः ।
 तमिमं कुरु दक्षिणेतरं चरणं निर्मितरागमेहि मे ॥ १९ ॥


पाठा० -१ नवमङ्गेषु. २ विबुधैस्त्वमनङ्ग. ३ प्रतिकर्मणि. टिप्प.-1 कोकिलानां रतिदौत्ये सामर्थ्यमुक्तं कालिदासेन (रघु. ९।४७)-'त्यजत मानमलं बत विग्रहैन पुनरेति गतं चतुरं वयः । परभृताभिरितीव निवेदिते स्मरमते रमते स्म वधूजनः ॥' इति । 2 १८-१९ तमं श्लोकद्वयं मिथुनं परिकल्पितं स्वया' (खु. ८।६१-६२) इत्यादिश्लोकद्वयेन विमर्शमईति ।  विबुधैरिति ॥ दारुणैः क्रूरैः । प्राणान्तिके कर्मणि नियोगादिति भावः । विबुधैर्देवैः, अनभिज्ञत्वं च ध्वन्यते । यस्य मञ्चरणस्य परिकर्मणि प्रसाधने । 'परिकर्म प्रसाधनम्' इत्यमरः । असमाप्ते सति स्मृतोऽसि तमिमं दक्षिणेतरं वामं मे चरणं निर्मितरागं रचितलाक्षारागं कुर्वेह्यागच्छ ॥ १९ ॥

 अहमेत्य पतङ्गवर्त्मना पुनरङ्काश्रयणी भवामि ते ।
 चतुरैः सुरकामिनीजनैः प्रिय ! यावन्न विलोभ्यसे दिवि ॥२०॥

 अहमिति ॥ अहं पतङ्गवर्त्मना शलभमार्गेण, अग्निप्रवेशेनेत्यर्थः । 'पतङ्गः शलभे चाग्नौ मारिऽर्के शरे खगे' इति वैजयन्ती । एत्यागत्य पुनस्तेऽकाश्रय- ण्युत्सङ्गवर्तिनी भवामि संप्रत्येव भविष्यामि । 'वर्तमानसामीप्ये वर्तमानवद्वा' (पा. ३।३।१३१) इति लट् । हे प्रिय ! दिवि स्वर्गे चतुरैः सुरका मिनीजनैरप्स- रोगणैर्याचन्न विलोभ्यसे, विलोभयिप्यसे 'यावत्पुरानिपातयोर्लद' (पा. ३।३।४) इति लट् ॥ २० ॥

 मदनेन विनाकृता रतिः क्षणमात्रं किल जीवितेति मे ।
 वचनीयमिदं व्यवस्थितं रमण ! त्वामनुयामि यद्यपि ॥ २१ ॥

 मदनेनेति ॥ हे रमण ! त्यामनुयामि यद्यप्यनुगमिष्याम्येव । 'वर्तमानसा- मीप्ये वर्तमानवद्वा' (पा. ३।३।१३१) इति लट् । 'यद्यपीत्यवधारणे' इति केशवः। किंतु रतिर्मदनेन विनाकृता, वियोजिता सतीत्यर्थः । सुप्सुपेति समासः । क्षण- मात्रं जीविता किलेतीदं वचनीयं निन्दा मे मम व्यवस्थितं स्थिरमभूत् ॥२१॥

 क्रियतां कथमन्त्यमण्डनं परलोकान्तरितस्य ते मया ।
 सममेव गतोऽस्यतर्कितां गतिमङ्गेन च जीवितेन च ॥ २२ ॥

 क्रियतामिति ॥ परलोकेऽन्तरितस्य व्यवहितस्य, मृतस्येत्यर्थः । ते तव मयाऽन्त्यमण्डनं कथं केन प्रकारेण क्रियताम् ? क्रियतामित्यत्र कामचारे लोद बोध्यः, द्रुतदग्धस्य ते यथेच्छमण्डनमपि न संभवतीत्यर्थः । कुतः ? अङ्गेन च जीवितेन च समं सहैवातर्कितामविचारितां गतिं गतोऽसि इह मृतशरीरमपि

नास्ति, कस्य मण्डनमिति भावः ॥ २२ ॥

 ऋजुतां नयतः स्मरामि ते शरमुत्सङ्गनिष[३]ण्णधन्वनः ।
 मधुना सह सस्मितां कथां नयनोपान्तवि[४]लोकितं च यत् ॥ २३ ॥

 ऋजुतामिति ॥ शरमृजुतामार्जवं नयत उत्सङ्गे निषण्णमङ्कगतं धनुर्यस्य तस्य । 'धनुषश्च' (पा. ५।४।१३२) इत्यनङादेशः । ते तव मधुना वसन्तेन सह । 'मधुर्दैत्ये वसन्ते च चैत्रे च' इति विश्वः । सस्मितां कथामालापं तथा यन्नयनोपान्तविलोकितमपाङ्गवीक्षणम्,'ते' इत्यनुषङ्गः । तच्च स्मरामि ॥ २३ ॥

 क्व नु ते हृदयंगमः सखा कुसुमायोजितकार्मुको मधुः ।
 न खलूग्ररुषा पिनाकिना गमितः सोऽपि सुहृद्गतां गतिम् ॥ २४ ॥

 क्वेति ॥ हृदयं गच्छतीति हृदयंगमो हृद्यः । खच्प्रकरणे 'गमेः सुप्युपसंख्यानम्'(वा. २००९) इति खच्प्रत्ययः । 'अरुर्द्विषदजन्तस्य मुम्' (पा.६।३।६७) इति मुमागमः । ते तव सखा कुसुमैरायोजितमारचितं कार्मुकं येन स कार्मुकनिर्माता मधुर्वसन्तः क्व नु क्व वा ? गत इति शेषः । अथवा सोऽप्युग्ररुषा तीव्रकोपेन पिनाकिनेश्वरेण सुहृदा मदनेन गतां प्राप्तां गतिम्, भस्मतामित्यर्थः । न गमितः खलु, न प्रापितः किम् ? 'जिज्ञासानुनये खलु' इत्यमरः ॥ २४ ॥

 अथ तैः परिदेविताक्षरैर्हृदये दिग्ध[५]शरैरिवाह[६]तः ।
 रतिमभ्युपपत्तुमातुरां मधुरात्मानमदर्शयत्पुरः ॥ २५ ॥

 अथेति ॥ अथ तैः परिदेविताक्षरैर्विलापवचनैर्हृदये दिग्धशरैर्विषलिप्तमुखैः शरैरिवाहतः सन् । 'विषाक्ते दिग्धलिप्तकौ' इत्यमरः । मधुर्वसन्त आतुरामापन्नां रतिमभ्युपपत्तुमनुग्रहीतुम्, आश्वासयितुमित्यर्थः । 'अभ्युपपत्तिरनुग्रहः' इत्यमरः । आत्मानं पुरोऽदर्शयत्, आविरभूदित्यर्थः ॥ २५ ॥

 तमवेक्ष्य रुरोद सा भृशं स्त[७]नसंबाधमुरो जघान च ।
 स्वजनस्य हि दुःखमग्रतो विवृतद्वारमिवोपजायते ॥ २६ ॥

 तमिति ॥ सा रतिस्तं मधुमवेक्ष्य दृष्ट्वा भृशं रुरोद । स्तनौ संबाध्य स्तनसंबाधम् । 'परिक्लिश्यमाने च' (पा. ३।४।५५) इति णमुल् । उरो जघान


ताडितवती च । तथा हि-स्वजनस्याग्रतो दुःखं विवृतमपसारितं द्वारं कपाटं यस्य

तदिवोपजायत आविर्भवति, उच्छृङ्खलं प्रवर्तत इत्युत्प्रेक्षाभिप्रायः ॥ २६ ॥

 इति चैनमुवाच दुःखिता सुहृदः पश्य वसन्त ! किं स्थितम् ।
 तदिदं कणशो विकीर्यते पवनैर्भस्म कपोतकर्बुरम् ।। २७ ॥

 इतीति ॥ दुःखमस्याः संजातं दुःखिता, संजातदुःखेत्यर्थः । तारकादित्वादितच् । सा रतिरेनं वसन्तमित्युवाच च । चकारः पूर्वोक्तसमुच्चयार्थः । हे वसन्त ! पश्य सुहृदस्त्वत्सखस्य किं स्थितं किमुपस्थितं, तदिदं कपोतकर्बुरं पारावतशबलं कणशश्चूर्णीभूतम् । अल्पार्थाच्छस्प्रत्ययः । भस्म पवनैर्विकीर्यते विक्षिप्यते, पश्य भस्मीभूतस्ते सुहृदित्यर्थः ॥ २७ ॥

 अयि संप्रति देहि दर्शनं स्मर ! पर्युत्सुक एष माधवः ।
 दयितास्वनवस्थितं नृणां न खलु प्रेम चलं सुहृज्जने ॥ २८ ॥

 अयीति ॥ अयि स्मर! संप्रति दर्शनं देहि । एष माधवो वसन्तः पर्युत्सुकस्त्वद्दर्शनोत्कण्ठितः । त्वामप्यनादृतवतोऽस्य को माधव इत्याशङ्क्याह-नृणां पुरुषाणां दयितासु प्रेमानवस्थितमस्थिरम् , चलमित्यर्थः । सुहृजने प्रेम तु नचलं खलु ॥ २८ ॥

 ईदृशाः सुहृदः कति न सन्तीत्याशङ्क्य कोऽपीत्याह-

 अमुना ननु ! पार्श्ववर्तिना जगदाज्ञां ससुरासुरं तव ।
 बिसतन्तुगुणस्य कारितं धनुपः पेलवपुष्पपत्रिणः ।। २९ ॥

 अमुनेति ॥ ननु मदन ! पार्श्ववर्तिना सहचरेणामुना वसन्तेन ससुरासुरं सुरासुरसहितं जगत् , बिसतन्तुगुणस्य मृणालसूत्रमौर्वीकस्य पेलवानि कोमलानि पुष्पाण्येव पत्रिणो बाणा यस्य तस्य तव धनुष आज्ञां कारितम् , जगदाज्ञाकारितेत्यर्थः ।'हृक्रोरन्यतरस्याम्'(पा. ११४।५३) इति जगतः कर्मत्वम् ॥ २९ ॥

 गत एव न ते निवर्तते स सखा दीप इवानिलाहतः ।
 अहमस्य दर्शव पश्य मामविषह्यव्यसनेन धूमिताम् ॥ ३० ॥


पाठा०-१ यदिद. २ प्रकीर्यते. ३ कपोतपाण्डुरम्. ४ कोमल, पेशल.५ व्यसनप्रधूमिताम्. टिप्प०-1 श्लोकोऽयं रघुवंशस्य (८/५६) लोकेन सह तुल्ययोगितया विमर्शमर्हति ।  गत इति ॥ स ते सखाऽनिलाहतो वायुताडितो दीप इव गत एव न निवर्तते । अहमस्य दीपायमानस्य दशा वर्तिरिव, तिष्ठामीति शेषः ।'दशावर्ताववस्थायां वस्त्रान्ते स्युर्दशा अपि' इति विश्वः । कुतः ? अविषह्यव्यसनेन सोढुमशक्यदुःखप्रकर्षेण धूमितां संजातधूमां मां पश्य, धूमवत्त्वान्नष्टदीपदशा- साम्यं, धूमश्च व्यसनमेवेत्यर्थः ॥ ३० ॥

 विधिना कृतमर्धवैशसं ननु ! मां कामवधे विमुञ्चता ।
 अनपायिनि संश्रयद्रुमे गजभग्ने पतनाय वल्लरी ॥ ३१ ॥

 विधिनेति ॥ ननु वसन्त! कामवधे मदनवधे मां विमुञ्चता वर्जयता,अमारयतेत्यर्थः । विधिना दैवेन । विशसति हिनस्तीति विशसो धातुकः । पचाद्यच् । विशसस्य कर्म वैशसम् । युवादित्वादण्प्रत्ययः । अर्धवैशसमर्धवधः कृतम् । 'अर्धो वा एष आत्मनो यत्पत्नी' इति श्रुतेः । पत्युः स्वस्य चाश्रया-श्रयिभूतयोरेकपदार्थत्वाभिप्रायेणार्धोक्तिः । तथा चैकदेशवधे देशान्तरस्यापि वधनियमनान्मामपि विधिरघ्नन्नेव हतवानिति तात्पर्यम् । एतदेवोपपादयति-अनपाधिन्यनपायित्वेन विश्वस्ते संशयद्रुम आश्रयवृक्षे गजभग्ने सति वल्लरी लता पतनाय भवतीति शेषः, पतितुमेव साऽलमित्यर्थः । 'तुमर्थाच्च भाववचनात्'(पा, २/३/१५) इति चतुर्थी ॥३१॥

 संप्रत्यनन्तरकर्तव्यं प्रार्थयते--

 तदिदं क्रियतामनन्तरं भवता बन्धुजनप्रयोजनम् ।
 विधुरां ज्वलनातिसर्जनान्ननु ! मां प्रापय पत्युरन्तिकम् ॥ ३२ ॥

 तदिति ॥ तत्तस्मात्कारणादुक्तप्रकारेण, अन्यथापि मरणस्यावश्यंभावादित्यर्थः । अनन्तरं भवतेदं वक्ष्यमाणं बन्धुजनप्रयोजनं बन्धुकृत्यं क्रियताम् । प्रार्थनायां लोट् । तदेवोपदिशति-ननु वसन्त ! विधुरां विवशां मां ज्वलनाति सर्जनादग्निदानात्पत्युरन्तिकं प्रापय, अग्निप्रवेशनं कारयेत्यर्थः ॥ ३२॥


पाठा०-१ अनघापि हि. २ संश्रिता द्रुमे. ३ भर्तुः. टिप्प०----1 श्लोकेनानेन (रघु० ८।४७) 'अथवा मम' इति श्लोकः तुलनां स्मारयति ।  कर्तव्यश्चायमर्थः स्त्रीणामित्याह-

 शशिना सह याति कौमुदी सह मेघेन तडित्प्रलीयते ।
 प्रमदाः पतिवर्त्मगा इति प्रतिपन्नं हि विचेतनैरपि ॥ ३३ ॥

 शशिनेति ॥ कौमुदी चन्द्रिका शशिना सह याति, शशिन्यस्तमिते स्वयं नश्यतीत्यर्थः । तडित्सौदामिनी मेघेन सह प्रलीयते प्रणश्यति । कर्तरि लट् । प्रमदाः स्त्रियः पतिवर्त्म गच्छन्तीति पतिवर्त्मगाः पतिमार्गानुगामिन्य इत्येतद्विचतनैः, अविवेकिभिरपीत्यर्थः । प्रतिपन्नं ज्ञातम् । 'अलवणा यवागूः', 'अनुदरा कन्या' इति वदल्पत्वाभिप्रायेण विचेतनैरपीति निर्देशः । नाथस्तु 'पृथग्जनैः' इति पपाठ । पतिवर्त्म॑गा इत्यत्र स्मृतिः-'आर्तार्ते मुदिते हृष्टा प्रोषिते मलिनाकृशा । मृते म्रियेत या पत्यौ सा स्त्री ज्ञेया पतिव्रता ॥ इति ॥ ३३ ॥

 अमुनैव कषायितस्तनी सुभगेन प्रियगात्रभम्मना ।
 नवपल्लवसंस्तरे यथा रचयिष्यामि तनुं विभावसौ ॥ ३४ ॥

 अमुनेति ॥ अमुना पुरोवर्तिना सुभगेन शोभनेन प्रियगात्रभस्मनैव,एवकारो मण्डनान्तरनिवृत्त्यर्थः । कषायितस्तनी रञ्जितस्तनी । 'रागे क्वाथे कषायोऽस्त्री निर्यासे सौरभे रसे' इति वैजयन्ती ।नवपल्लवसंस्तरे यथा नवपल्लवतल्प इव विभावसौ वह्नौ तनुं शरीरं रचयिष्यामि,निधास्यामीत्यर्थः॥ ३४ ॥

 कुसुमास्तरणे सहायतां बहुशः सौम्य ! गतस्त्वमावयोः ।
 कुरु संप्रति तावदाशु मे प्रणिपाताञ्जलियाचितश्चिताम् ।। ३५ ॥

 कुसुमेति ॥ हे सौम्य साधो! त्वमावयो रतिपञ्चबाणयोर्बहुशो बहुवारं कुसुमास्तरणे पुष्पशयने सहायतां गतः । संप्रति प्रणिपाताञ्जलिना याचितः, अञ्जलिपूर्वकं प्रार्थितः सन्नित्यर्थः । आशु मे चितां काष्ठचयं कुरु कुरुष्व, यथेह तथामुत्रोपकर्तव्य मित्रेणेत्यर्थः ॥ ३५ ॥

 तदनु ज्वलनं मदर्पितं त्वरयेर्दक्षिणवातवीजनैः ।
 विदितं खलु ते यथा स्मरः क्षणमप्युत्सहते न मां विना ॥३६॥


पाठा०-१ विलीयते. टिप्प०-1 'शशिनं पुनरेति शर्वरी' (रघु. ८/५६) इति श्लोकोऽनेन तुलनामर्हति ।  तदन्विति ॥ तच्चिताकरणमन्वनन्तरं मय्यर्पितं मदर्पितं ज्वलनमग्निं दक्षिण- वातवीजनैर्मलयमारुतसंचालनैस्त्वरयेः, त्वरितं ज्वलयेत्यर्थः । त्वराहेतुमाह ते तव विदितं खलु । 'मतिबुद्धिपूजार्थेभ्यश्च' (पा. ३/२/१८८ ) इति वर्तमाने क्तः। तद्योगात्कर्तरि षष्ठी । यथा येन प्रकारेण स्मरो मां विना क्षणमपि नोत्सहते न हृष्यति, तथा त्वया ज्ञातमेवेत्यर्थः ॥ ३६॥

 इति चापि विधाय दीयतां सलिलस्याञ्जलिरेक एव नौ।
 अविभज्य परत्र तं मया सहितः पास्यति ते स बान्धवः ॥ ३७॥

 इतीति । अपि चेत्येवं विधाय कृत्वा नावावाभ्यामेक एव सलिलस्याञ्जलिर्दीयताम् । तमञ्जलिं स ते बान्धवः सखा स्मरः परत्र परलोके मया सहितोऽविभज्य पास्यति ॥३७ ॥

 परलोकविधौ च माधव! स्मरमुद्दिश्य विलोलपल्लवाः ।
 निवपेः सहकारमञ्जरीः प्रियचूतप्रसवो हि ते सखा ॥ ३८ ॥

 परलोकेति ॥ किंच हे माधव वसन्त ! परलोकविधौ पिण्डोदकादि कर्मणि स्मरमुद्दिश्य विलोलाः पल्लवा यासु ताः सहकारमञ्जरीश्चुतवल्लरीर्निवपेर्देहि । हि यस्मात्कारणात्ते सखा स्मरः प्रियाश्चुतप्रसवा यस्य स तथोक्तः ॥ ३८ ॥

 इति देहविमुक्तये स्थितां रतिमाकाशभवा सरस्वती ।
 शफरीं ह्रदशोषविक्लवां प्रथमा वृष्टिरिवान्वकम्पयत् ॥ ३९ ॥

 इतीति ॥ इति देहस्य विमुक्तये शरीरस्य विसर्गाय स्थिताम् , कृतनिश्चयामिति यावत् । रतिमाकाशभवा सरस्वत्यशरीरा वाक् । हृदशोषविक्लवां हृदस्य जलाधारस्य शोषेण विक्लवां शफरी प्रोष्ठीम् । 'प्रोष्ठी तु शफरी द्वयोः' इत्यमरः । प्रथमा वृष्टिर्वर्षमिवान्वकम्पयदनुकम्पितवती, सदयमुवाचेत्यर्थः । 'कृपा दयानुकम्पा स्यात्' इत्यमरः ॥३९॥

 कुसुमायुधपत्नि ! दुर्लभस्तव भर्ता न चिराद्भविष्यति ।
 शृणु येन स कर्मणा गतः शलभत्वं हरलोचनार्चिषि ॥४०॥


पाठा०-.१ यन्मया. २ विह्वलाम्, ३ अन्वकम्पत. ४ हरलोचनार्चिषाम्. टिप्प०-1 श्लोकेनानेन रघुवंशगत (८।६१-६२) 'मिथुनं परि-', 'कुसुमं कृतदोहदस्त्वया' इति श्लोकद्वयस्यौपम्यादिभिः साम्यं स्मारयति ।  कुसुमेति ॥ हे कुसुमायुधपत्नि रते! तव भर्ता चिराच्चिरं दुर्लभो न भविष्यति, किंत्वचिरमेव सुलभो भविष्यतीत्यर्थः । किंच शृणु, तत्कर्मेति शेषः । येन कर्मणा स ते भर्ता हरलोचनस्यार्चिर्ज्वाला। 'ज्वाला भासो न पुंस्यर्चिः' इत्यमरः । तस्मिन् शलभत्वं पतङ्गत्वं गतः । 'समौ पतङ्गशलभौ' इत्यमरः ॥४०॥

 तदेव कर्मोपाचष्टे-

 अभिलाषमुदीरितेन्द्रियः स्वसुतायामकरोत्प्रजापतिः ।
 अथ तेन निगृह्य विक्रियामभिशप्तः फलमेतदन्वभूत् ।। ४१ ।।

 अभिलाषेति ॥ उदीरितेन्द्रियः प्रेरितेन्द्रियः, स्मरेणेति शेषः । प्रजापतिर्ब्रह्मा स्वसुतायां सरस्वत्यामभिलाषमनुरागमकरोत् । अथ तेन प्रजापतिना विक्रियामिन्द्रियविकारं निगृह्य निरुध्याभिशप्तः सन् । एतत्फलं दाहात्मकं स्वकर्मफलमन्वभूत् ॥ ४१ ॥

 शापावधिरपि तेनैवोक्त इत्याह श्लोकद्वयेन-

 परिणेष्यति पार्वतीं यदा तपसा तत्प्रवणीकृतो हरः ।
 उपलब्धसुखस्तदा स्मरं वपुषा स्वेन नियोजयिष्यति ॥४२॥
 इति चाह म धर्मयाचितः स्मरंशापावधिदां सरस्वतीम् ।
 अशनेरमृतस्य चोभयोर्वशिनश्चाम्बुधराश्च योनयः ॥ ४३ ॥

 परिणेष्यतीति ॥ इतीति च ॥ धर्मेण धर्माख्यप्रजापतिना याचितःप्रार्थितः स भगवान्ब्रह्मा । तपसा कारणेन तस्यां पार्वत्यां प्रवणीकृतोऽभिमुखीकृतो हरः शिवो यदा पार्वती परिणेष्यत्युद्वक्ष्यति तदोपलब्धसुखः प्राप्तानन्दः सन् । स्मरं


पाठा०-१ स योजयिष्यति. २ स्मरशापान्तभवाम्. टिप्प०-1 प्रजापतेः सुताभिलाषविषये तु---'उदीरय पितरा जारमामगं' (क० ७. ६.१०) इति पठ्यते, ऋक्संहिताया ऐतरेय ब्राह्मणे तु–'प्रजापतिर्वै स्वां दुहितरमभ्यध्यायत् दिवमित्यन्य आहुरुषसमित्यन्येतामृश्यो भूत्वा रोहितंभूतामभ्त्यैत्' इति च पठ्यते । अत्र विषये जैमिनिसूत्रभाष्यवार्तिककारास्तु-'प्रजापतिस्तावत् प्रजापालनाधिकारादादित्य एवोच्यते, स च अरुणोदयवेलायामुषसमुद्यन्नभ्यैत् । सा तदागमनादेवोपजायतइति तद्दुहितृत्वेन व्यपदिश्यते । तस्यां चारुणकिरणाख्यबीजनिक्षेपात् स्त्रीपुरुषयोगवदुपचार इति व्याचख्युः । तस्यैतद्विसंवादिप्रवादस्स याथातथ्ये त्वभियुक्ता एव शरणम् । कामx स्वेन वपुषा नियोजयिष्यति संगमयिष्यति । इत्येवं स्मरशापस्यावधिदाम- वसानदायिनीx सरस्वती वाचं चाह, एवं शापावधिमप्युक्तवानित्यर्थः । ननु तथा क्रुद्धस्य कथमीदृशी शान्तिरत आह-वशिनो जितेन्द्रियाचाम्बुधराश्चा- शनेरमृतस्य चेत्युभयोर्योनयः प्रभवाः । वशिपक्षे-अशन्यमृतशब्दौ कोपप्रसा- दपरौ । अन्यत्र वैधुताम्युदकपरौ । युग्मकम् ॥ ४२-४३ ॥

 तदिदं परिरक्ष शोभने भवितव्यप्रियसंगमं वपुः ।
 रविपीतजला तपात्यये पुनरोधेन हि 1युज्यते नदी ॥४४॥

 तदिति ॥ हे शोभने ! तत्तस्मात्कारणाद्भवितव्यो भविष्यन् प्रियसंगमो यस्य तत्तथोक्तमिदं वपुः परिरक्ष । तथा हि-रविपीतजला नदी तपात्यये प्रावृषि। 'प्रावृट् तपात्यये' इति हलायुधः । पुनरोधेन प्रवाहेण युज्यते संगच्छते हि ॥४४॥

  इत्थं रतेः किमपि भूतमदृश्यरूपं
   मन्दीचकार मरणव्यवसायबुद्धिम् ।
  तत्प्रत्ययाच कुसुमायुधबन्धुरेना2-
   माश्वासयत्सुचरितार्थपदैर्वचोभिः ॥४५॥

 इत्थमिति ॥ इत्थमनेन प्रकारेणादृश्यरूपं किमपि भूतं कश्चित्प्राणी । 'युक्ते क्ष्मादावृते भूतं प्राण्यतीते समे त्रिषु' इत्यमरः । रतेर्मदनदाराणां मरण- व्यवसायबुद्धिं मरणोद्योगबुद्धिं. मन्दीचकार, निवारयामासेत्यर्थः 'मूढाल्पापटु- निर्भाग्या मन्दाः' इत्यमरः। अथ कुसुमायुधबन्धुर्वसन्तश्च तत्प्रत्ययात्तस्मिन्भूते विश्वासात् । 'प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु' इत्यमरः । एनां रतिं सुष्टु चरितार्थानि पदानि येषां तैर्वचोभिर्वाक्यैराश्वासयत् । सर्वथा ते देवताप्रसादा- प्रियसंगमो भविष्यतीत्यादिवचनैरस्या दुःखमपाचकारेत्यर्थः ॥ ४५ ॥

 अथ मदनवधूरुपप्लवान्तं व्यसनकृशा 3परिपालयांबभूव ।
 शशिन इव दिवातनस्य लेखा किरणपरिक्षयधूसरा प्रदोपम् ॥४६॥


पाठा०-१ पूर्यते. २ एताम्. ३ प्रतिपालयांबभूव. टिप्प०-1 विभिन्न विषयापीयमुपमा 'पतिरङ्कनिषण्णया तया' (रघु० ८।४२) इति श्लोकसाम्यं निर्दिशति।  अथेति ॥ अथानन्तरं व्यसनेन दुःखेन कृशा मदनवधू रतिरुपप्लवान्तं विपदवधिं किरणपरिक्षयेण धूसरा मलिना दिवातनस्य दिनभवस्य । 'सायंचिरम्-' (पा. ४।३।२३) इत्यादिनाव्युप्रत्ययः । शशिनश्चन्द्रस्य लेखा प्रदोषं रात्रिमिव परिपालयांबभूव प्रतीक्षांचके । पुष्पिताना वृत्तम्-'अयुजि नयुगरेफतो यकारो युजि च नजौ जरगाश्च पुष्पिताग्रा' इति लक्षणात् ॥ ४६ ॥

इति श्रीमन्महोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीविनीसमा-
ख्यया व्याख्यया समेतः श्रीकालिदासकृतौ कुमारसंभवे महाकाव्ये
रतिविलापो नाम चतुर्थः सर्गः ।

पञ्चमः सर्गः


 तथा समक्षं दहता मनोभवं पिनाकिना भग्नमनोरथा सती ।
 निनिन्द रूपं हृदयेन पार्वती 1प्रियेषु सौभाग्यफला हि चारुता ॥१॥

 तथेति ॥ पर्वतस्यापत्यं स्त्री पार्वती तथा तेन प्रकारेणाक्ष्णोः समीपे समक्षं पुरतः । 'अव्ययं विभक्तिसमीपसमृद्धि-' (पा. २।१।६) इत्यादिनाव्ययीभावः । मनोभवं मन्मथं दहता भस्मीकुर्वता पिनाकिनेश्वरेण भग्नः खण्डितो मनोरथो- ऽभिलाषो यस्याः सा तथोक्ता सती, हृदयेन मनसा रूपं सौन्दर्यं निनिन्द, 'धिङ्मे रूपं यद्धरमनोहरणाय नालम्' इति गर्हितवतीत्यर्थः। युक्तं चैतदित्याह- तथा हि-चारुता सौन्दर्यं प्रियेषु पतिषु विषये सौभाग्यं प्रियवाल्लभ्यं फलं यस्याः सा तथोक्ता । सौन्दर्यस्य तदेव फलं यद्भर्तृसौभाग्यं लभ्यते; नो चेद्वि- फलं तदिति भावः । अस्मिन्सर्गे वंशस्थं वृत्तम्-'जतौ तु वंशस्थमुदीरितं जरौ' इति लक्षणात् ॥ १ ॥

 इयेष सा कर्तुमवन्ध्यरूपतां समाधिमास्थाय तपोभिरात्मनः ।
 अवाप्यते वा कथमन्यथा द्वयं तथाविधं प्रेम पतिश्च तादृशः ॥२॥

 इयेषेति ॥ सा पार्वती समाधिमेकाग्रतामास्थायावलम्ब्य तपोभिर्वक्ष्यमाण- नियमैः करणभूतैरात्मनः स्वस्यावन्ध्यरूपतां सफलसौन्दयं कर्तुमियेषेच्छति स्म,


पाठा०-१ प्रिये हि. तपसा शिवं वशीकर्तुमुधुक्तेत्यर्थः । अन्यथा ततोऽन्यप्रकारेण कथं वा तद्वयम- वाप्यते ? । किं तद्वम् ! तथाभूता विधा प्रकारो यस्य तत्तथाविधं प्रेम स्नेहः, येनार्धाङ्गहरा हरस्य भवेदिति भावः । तादृशः पतिश्च, यो मृत्युंजय इति भावः ।। द्वयमेव खलु स्त्रीणामपेक्षितम्-यद्भर्तृवाल्लभ्यं जीवभर्तृकत्वं चेति; तच्च तपश्चर्यै- कसाध्यमिति निश्चिकायेत्यर्थः । अन मनुः ( ११।२३८)-- 'यदुष्करं यद्दुरापं यद्दुर्ग यच्च दुस्तरम् । तत्सर्वं तपसा प्राप्यं तपो हि दुरतिक्रमम् ॥' इति ॥ २॥

 निशम्य चैनां तपसे कृतोद्यमां सुतां गिरीश1प्रतिसक्तमानमाम् ।
 उवाच मेना परिरभ्य वक्षसा निवारयन्ती महतो मुनिव्रतात् ॥३॥

 निशम्येति ॥ मेना मेनका च गिरीशप्रतिसक्तमानसां हरासक्तचित्तां तपसे तपश्चरणाय कृतोद्यमां कृतोद्योगां सुतां निशम्य श्रुत्वैनां पार्वतीं वक्षसा परिरभ्यालिङ्गय महतो मुनिव्रतात्तपसो निवारयन्त्युवाच । 'मुनिव्रतात्' इत्यत्र यद्यपि मुनिव्रतस्य मेनकाया अनीप्सितत्वात् 'वारणार्थानामीप्सितः (पा.१।४।२७) इति नापादानत्वं, तथापि 'कृतोद्यमाम्' इति मानसप्रवेशोत्तत्वात् 'ध्रुवमपाये- डपादानम्' (पा. १।४।२४) इत्यपादानत्वमेव स्यात् । यथाह भाष्यकारः-'स बुद्ध्या संप्राप्य निवर्तते, तत्र ध्रुवमपायेऽपादानमिति प्रसिद्धम्' इति ॥ ३ ॥

 सामान्यनिषेधमुक्त्वा विशेषनिषेधमाह-

 मनीपिताः सन्ति 2गृहेषु देवतास्तपः क्व वत्से ! क्व च तावकं वपुः ।
 पदं सहेत भ्रमरस्य पेलवं शिरीपपुष्पं न पुनः पतत्रिणः ॥ ४ ॥

 मनीषिता इति ॥ हे वत्से ! मनस ईषिता इष्टा मनीषिताः। पृषोदरा. दित्वात्साधुः । देवताः शच्यादयो गृहेषु सन्ति, त्वं ता आराधयेति शेषः । तपः क्व? तवेदं तावकम् , 'युष्मदस्मदोरन्यतरस्यां खञ्च' (पा.४/३।१) इत्यण्प्रत्ययः । तवकममकायेकवचने (पा. ४/३/३) इति तवकादेशः। वपुश्च क्व? तथा हि-पेलवं मृदुलं शिरीषपुष्पं भ्रमरस्य भृङ्गस्य पदं पदस्थितिं सहेत, पतत्रिणः पुनः पक्षिणस्तु पदं न सहेत; अतिसौकुमार्यात् । दिव्योपभोगभोग्यं ते वपुर्न दारुणतपक्षम- मित्यर्थः । आत्र दृष्टान्तालंकारः॥४॥


पाठा०-१ गिरीशं प्रति सक्त; त्रिनेत्रं प्रति सक्त, २ गृहेऽपि.

 इति ध्रुवेच्छामनुशासती सुतां शशाक मेना न नियन्तुमुद्यमात् ।
 क ईप्सितार्थस्थिरनिश्चयं मनः पयश्च निम्नाभिमुखं प्रतीपयेत् ।।५।।

 इतीति ॥ इत्येवमनुशासत्युपदिशन्ती मेना ध्रुवेच्छां स्थिरव्यवसायां सुतां पार्वतीमुद्यमादुद्योगात्तपोलक्षणाम्नियन्तुं निवारयितुं न शशाक समर्था नाभूत् । तथा हि-ईप्सितार्थ इष्टार्थे स्थिरनिश्चयं मनो निम्नाभिमुखं पयश्च कः प्रतीपये- त्प्रतिकूलयेत् , प्रतिनिवर्तयेदित्यर्थः । निम्नप्रवणं पय इवेष्टार्थाभिनिविष्टं मनो दुर्वारमिति भावः । अत्र दीपकानुप्राणितोऽर्थान्तरन्यासालंकारः ॥ ५॥

 कदाचिदासन्नसखीमुखेन सा मनोरथज्ञं पितरं मनस्विनी ।
 अयाचतारण्यनिवासमात्मनः फलोदयान्ताय तपःसमाधये ॥६॥

 कदाचिदिति ॥ अथ कदाचिन्मनस्विनी स्थिरचित्ता सा पार्वती मनोरथ- ज्ञमभिलाषाभिज्ञं पितरं हिमवन्तमासनसख्याप्तसखी सैव मुखमुपायः । 'मुखं निःसरणे वक्त्रे प्रारम्भोपाययोरपि' इति विश्वः । तेन फलोदयः फलोत्पत्ति- रन्तोऽवधिर्यस्य तस्मै तपःसमाधये तपोनियमार्थमात्मनः स्वस्यारण्यनिवासं वनवासमयाचत । 'दुह्याच्-' (वा. १०९-११००) इत्यादिना द्विकर्मकत्वम् ॥६॥

 अथानुरूपाभिनिवेशतोपिणा कृताभ्यनुज्ञा गुरुणा गरीयसा ।
 प्रजासु पश्चात्प्रथितं तदाख्यया जगाम गौरीशिखरं शिखण्डिमत् ७

 अथेति ॥ अथ गौयनुरूपेण योग्येनाभिनिवेशेनाग्रहेण तुप्यतीति तथोक्तेन गरीयसा पूज्यतमेन गुरुणा पित्रा कृताभ्यनुज्ञा 'तपः कुरु' इति कृतानुमतिः सती, पश्चात्तपःसिद्ध्युत्तरकालं प्रजासु जनेषु तदाख्यया तस्या गौर्याः संज्ञया प्रथितम् , गौरीशिखरमिति प्रसिद्धमित्यर्थः । शिखण्डिमत्, न तु हिंस्रप्राणिप्रचुरमिति भावः । शिखरं शृङ्गं जगाम ययौ ॥ ७ ॥

 विमुच्य सा हारमहार्यनिश्चया विलोलयष्टिप्रविलुप्तचन्दनम् ।
 बबन्ध बालारुणबभ्रु वल्कलं पयोधरोत्सेधविशीर्णसंहति ॥ ८ ॥

 विमुच्येति ॥ अहार्यनिश्चयाऽनिवार्यनिश्चया सा गौरी विलोलाभिश्चलाभि- र्यष्टिमिः प्रतिसरैः प्रविलुप्तं प्रमृष्टं चन्दनं स्तनान्तरगतं येन तं तथोक्तं हारं मुक्ता-


पाठा०-१ व्रतेच्छाम्. वलीं विमुच्य विहाय बालारुणबभ्रु बालार्कपिङ्गलं पयोधरयोः स्तनयोरुत्सेधेनोच्छ्रायेण विशीर्णा विघटिता संहतिरवयवसंल्श्रेषो यस्य तत्तथोक्तं वल्कलं कण्ठलम्बि स्तनोत्तरीयभूतं बबन्ध, धारयामासेत्यर्थः ॥ ८ ॥

यथा प्रसिद्धैर्मधुरं शिरोरुहैर्जटाभिरप्येवमभूत्तदाननम् |
न षट्पदश्रेणिभिरेव पङ्कजं सशैवलासङ्गमपि प्रकाशते ॥ ९ ॥

 यथेति ॥ तस्या देव्या आननं तदाननं प्रसिद्धैर्भूषितैः । 'प्रसिद्धौ ख्यातभूषितौ' इत्यमरः । रोहन्तीति रुहाः । 'इगुपधज्ञाप्रीकिरः कः' (पा. ३।१।१३५) इति कप्रत्ययः । शिरसि रुहास्तैः शिरोरुहैर्मूर्धजैर्यथा मधुरं प्रियमभूत् । 'स्वादुप्रियौ तु मधुरौ' इत्यमरः । जटाभिरप्येवं मधुरमभूत् । तथा हि--पङ्कजं पद्मं षट्पदश्रेणिभिर्भ्रमरपङ्क्तिभिरेव न, किंतु सह शैवलासङ्गेन सशैवलासङ्गमपि । 'तेन सहेति तुल्ययोगे' (पा. २।२।२८) इति बहुव्रीहिः । प्रकाशते, शैवलेनापि शोभत एवेत्यर्थः ॥ ९ ॥

प्रतिक्षणं सा कृतरोमविक्रियां व्रताय मौञ्जीं त्रिगुणां बभार याम् ।
अकारि तत्पूर्वनिबद्धया तया सरागमस्या रशनागुणास्पदम् ॥ १० ॥

 प्रतीति ॥ सा देवी प्रतिक्षणं क्षणे क्षणे कृतरोमविक्रियां पारुष्यात्कृतरोमाञ्चां त्रिगुणां त्रिरावृत्तां यां मौञ्जीं मुञ्जमयीं मेखलां व्रताय तपसे बभार । तदेव पूर्वं प्रथमं यस्य तत्पूर्वं यथा तथा निबद्धया तया मौञ्ज्याऽस्या देव्या रशनागुणस्यास्पदं स्थानं जघनम् । सह रागेण सरागं सलोहितमकारि कृतम्, सौकुमार्यातिशयादिति भावः ॥ १० ॥

विसृष्टरागादधरान्निवर्तितः स्तनाङ्गरागारुणिताच्च कन्दुकात् ।
कुशाङ्कुरादानपरिक्षताङ्गुलिः कृतोऽक्षसूत्रप्रणयी तया करः ॥ ११ ॥

 विसृष्टेति ॥ तया देव्या विसृष्टरागात्त्यक्तलाक्षारसरञ्जनादधरादधरोष्ठान्निवर्तितः । 'निसृष्टरागात्' इति पाठे नितरां त्यक्तलाक्षारागात् । रागत्यागेन निष्प्रयोजनत्वादिति भावः । तथा स्तनाङ्गरागेणारुणितादरुणीकृतात्, पतनसमये तस्य स्तनयोरुपरोधादिति भावः । कन्दुकाच्च निवर्तितः । कुशाङ्कुराणामादानेन लवनेन परिक्षता व्रणिता अङ्गुलयो यस्य स तथोक्तः करः पाणिरक्षसूत्रप्रणय्यक्षमालासहचरः कृतः ॥ ११ ॥

महार्हशय्यापरिवर्तनच्युतैः स्वकेशपुष्पैरपि या स्म दूयते |
अशेत सा बाहुलतोपधायिनी निषेदुपी स्थण्डिल एव केवले || १२ ||

 महाहैति || महानहौ मूल्यं यस्याः सा महार्हा श्रेष्ठा या शय्या तस्यां परिवर्तनेन लुण्ठनेन च्युतैर्भ्रष्टैः स्वकेशपुष्पैरपि या देवी दूयते स्म क्लिश्यति स्म, पुष्पाधिकसौकुमार्यादिति भावः | सा देवी बाहुलतामुपधत्त उपधानी- करोतीति बाहुलतोपधायिनी सती, केवले संस्तरणरहिते स्थण्डिले भूमावेवाशेत शयितवती | तथा निषेदुप्युपविष्टा च | 'क्कसुश्च' (पा. ३|२|१०७) इति क्कसुः | 'उगितश्च' (पा. ४|१|६) इति ङीप् | भूमावेव शयनादिव्यवहारः, न जातूपरी- त्यर्थः || १२ ||

पुनर्ग्रहीतुं नियमस्थया तया द्वेयेऽपि निंक्षेप इवार्पितं द्वयम् |
लतासु तन्वीषु विलासचेप्टितं विलोलदृप्टं हरिणाङ्गनासु च || १३ ||

 पुनरिति || नियमस्थया व्रतस्थया तया देव्या द्वयेऽपि द्वयं पुनर्ग्रहीतुं पुनरानेतुं निक्षेपोऽर्पितमिव निक्षेपत्वेनार्पितं किमु ? क्वचित् 'द्वयीषु' इति प्रामादिकः पाठः | कुत्र द्वये किं द्वयमर्पितमित्याह--तन्वीषु लतासु विलास एव चेष्टितं विलासचेष्टितं, हरिणाङ्गनासु विलोलदृष्टं चञ्चलावलोकितं च | व्रतस्थायां तस्यां तयोरदर्शनाल्लतादिषु दर्शनाच्चार्पितमिवेत्युत्प्रेक्षा, न तु वस्तुतो- ऽर्पणमस्तीति भावः || १३ ||

अतन्द्रिता सा स्वयमेव वृक्षकान् घटस्तनप्रस्रवणैर्व्यवर्धयत् |
गुहोऽपि येषां प्रथमाप्तजन्मनां न पुत्रवात्सल्यमपाकरिष्यति || १४ ||

 अतन्द्रितेति || सा देवी स्वयमेवातन्द्रिताऽसंजाततन्द्रा सती | तारकादि- त्वादितच्प्रत्ययः | वृक्षकान्स्वल्पवृक्षान् | 'अल्पे' (पा. ५|३|८५) इत्यल्पार्थे कप्रत्ययः | घटावेव स्तनौ तयोः प्रस्रवणैः प्रसृतपयोभिव्यवर्धयत् | गुहः कुमा- रोऽपि प्रथमाप्तजन्मनां प्रथमलब्धजन्मनाम् , अग्रजातानामित्यर्थः | येषां वृक्षकाणां संबन्धि पुत्रवात्सल्यं सुतप्रेम नापाकरिप्यति, उत्तरत्र कुमारोदयेऽपि न तेषु पुत्रवात्सल्यं निवर्तिष्यत इत्यर्थः || १४ ||


पाठा०--१ द्वयीषु. २ निक्षेपम्. ३ दृष्टिम्.

अरण्यबीजाञ्जलिदानलालितास्तथा च तस्यां हरिणा विशश्वसुः |
यथा तदीयैर्नयनैः कुतूहलात्पुरः सखीनाममिमीत लोचने || १५ ||

 अरण्येति || अरण्यबीजानां नीवारादीनामञ्जलयस्तेषां दानेन लालिता हरिणाश्च तस्यां देव्यां तथा विशश्वसुर्विस्त्रम्भं जग्मुः | 'समौ विस्रम्भविश्वासौ' इत्यमरः | यथा कुतूहलादौत्सुक्यात्तदीयैर्हरिणसंबन्धिभिर्नयनैनैत्रैः करणैः | स्वकीये लोचने सखीनां पुरः पुरतः | अनेन तेषां संबन्धसहत्वमुक्तम् | अमि- मीत, अक्षिपरिमाणतारतम्यज्ञानाय मानं चकारेत्यर्थः | केचित्तु सा पार्वती त्वदीयैनैत्रैः कुतूहलात्पुरोऽग्रे वर्तमानानां सखीनां लोचने अमिमीत व्रतस्थत्वा- दात्मन इत्याहुः | 'माङ् माने' इत्यस्माद्धातोर्लङ् | इयमेव खलु विश्वासस्य पराकाष्ठा यदक्षिपीडनेऽपि न क्षुभ्यन्तीति भावः || १५ || तपःप्रभावमाह--

कृताभिषेकां हुतजातवेदसं त्वगुत्तरासङ्गवतीमधीनिनीम् |
दिदृक्षवस्तामृषयोऽभ्युपागमन्न धर्मवृद्धेषु वयः समीक्ष्यते || १६ ||

 कृतेति || कृताभिषेकां कृतस्नानां हुतजातवेदसं हुताग्निकाम् , कृतहोमा- मित्यर्थः | त्वचा वल्कलेनोत्तरासङ्गवतीमुत्तरीयवतीं त्वगुत्तरासङ्गवतीम् | अधीत- मस्या अस्तीत्यधीतिनीं स्तुतिपाठादि कुर्वतीम् | 'इष्टादिभ्यश्च' (पा. ५|२|८८) इतीनिप्रत्ययः | तां देवीं दिदृक्षवो द्रष्टुमिच्छव ऋपयो मुनयोऽभ्युपागमन्समुपा- गताः | न चात्र कनिष्ठसेवादोष इत्याह--धर्मवृद्वेषु वयो न समीक्ष्यते न प्रमाणीक्रियते, सति धर्मज्यैष्ठ्ये न वयोज्यैष्ठ्यं प्रयोजकमित्यर्थः | तथा च मनुः (२|१५६)--'न तेन वृद्धो भवति येनास्य पलितं शिरः | यो वा युवाप्यधीयानस्तं देवाः स्थविरं विदुः ||' इति || १६ ||

विरोधिसत्त्वोज्झितपूर्वमत्सरं द्रुमौरभीष्टप्रसवार्चितातिथि |
नवोटजाभ्यन्तरसंभृतानलं तपोवनं तच्च बभूव पावनम् || १७||

 विरोधीति || विरोधिभिः सच्वैगौव्याघ्रादिभिरुज्झितपूर्वमत्सरं त्यक्तपूर्व- वैरम्, हिंसारहितमित्यर्थः | द्रुमैरभीष्टप्रसवेनेष्टफलेनार्चिताः पूजिता अतिथयो यस्मिंस्तत्तथोक्तम् | नवानामुटजानां पर्णशालानामभ्यन्तरेषु संभृताः संचिता अनला अग्नयो यस्मिंस्तत्तथोक्तं तश्च तपोवनम् | पावयतीति पावनं बभूव,

अहिंसातिथिसत्काराग्निपरिचर्याभिर्जगत्पावनं बभूवेत्यर्थः || १७ ||

यदा फलं पूर्वतपःसमाधिना न तावता लभ्यममंस्त काक्ष्ङितम् |
तदानपेक्ष्य स्वशरीरमार्दवं तपो महत्सा चरितुं प्रचक्रमे || १८ ||

 यदेति || सा देवी यदा यस्मिन्काले तावता तावत्प्रमाणेन पूर्वतपः- समाधिना पूर्वेणानुष्ठीयमानप्रकारेण तपोनियमेन काक्ष्ङितं फलं लभ्यं लब्धुं शक्यं नामंस्त, अशक्यममस्तेत्यर्थः | तदा तत्काले, अविलम्बेनेत्यर्थः | स्व- शरीरस्य मार्दवं मृदुत्वं सौकुमार्यमनपेक्ष्याविगणय्य महौदृश्चरं तपश्चरितुं साधयितुं प्रचक्रम उपचक्रमे || १८ ||

क्लमं ययौ कन्दुकलीलयापि या तया मुनीनां चरितं व्यगाह्यत |
ध्रुवं वपुः काञ्चनपद्मनिर्मितं मृदु प्रकृत्या च ससारमेव च ||१९||

 क्लममिति || या देवी कन्दुकलीलया कन्दुकक्रीडयापि क्लमं ययौ ग्लानिं प्राप, तया देव्या मुनीनां चरितं तीव्रं तपो व्यगाह्यत प्रविष्टम् | अत्रोस्प्रेक्षते-- ध्रुवमस्या वपुः काञ्चनपद्मेन सुवर्णकमलेन निर्मितं घटितम् | अत एव प्रकृत्या पद्मस्वभावेन मृदु च सुकुमारमपि काञ्चनस्वभावेन ससारं च कठिनमेव । तथा च तदुपादानकत्वाद्देव्या वपुषः सुकुमारस्यापि तीव्रतपः क्षमत्वमित्युत्प्रेक्षार्थः ||१९||

शुचौ चतुर्णां ज्वलतां हविर्भुजां शुचिस्मिता मध्यगता सुमध्यमा |
विजित्य नेत्रप्रतिधातिनीं प्रभामनन्यदृष्टिः सवितारमैक्षत ||२०||

 शुचाविति || शुचौ ग्रीप्मे शुचिस्मिता विशदमन्दहासा सुमध्यमा पार्वती ज्वलतां दीप्तिमतां चतुर्णा हविर्भुजामग्नीनां मध्यगता सती | नेत्रे प्रतिहन्तीति तां नेत्रप्रतिघातिनीं प्रभां सावित्रं तेजो विजित्य | न विद्यतेऽन्यत्र दृष्टिर्यस्याः साऽनन्यदृष्टिः सती सवितारं सूर्यमैक्षत ददर्श | 'ग्रीप्मे पञ्चाग्निमध्यस्थो वर्षासु स्थण्डिलेशयः' इति (याश० ३।५२) स्मरणात् | पञ्चाग्निमध्ये तपश्चचारेत्यर्थः | तत्र सवितौव पञ्चमोऽग्निः— 'अग्निः सविता सवितैवाग्निः' इति श्रौतलिङ्गात् ||२०||

तथातितप्तं सवितुर्गभस्तिभिर्मुखं तदीयं कमलश्रियं दधौ |
अपाङ्गयोः केवलमस्य दीर्घयोः शनैः शनैः श्यामिकया कृतं पदम् २१


पाठा०--१ सर्वममाधिसाधनम्. २ हि च सुसारमेव. ३ तथाभितप्तम् ; तथापि तप्तम्.  तथेति ॥ सवितुः सूर्यस्य गभस्तिभिः किरणैस्तथा पूर्वोक्तप्रकारेणातितप्तं संतप्तं तस्या इदं तदीयं मुखं कमलश्रियं कमलस्य शोभा दधौ प्राप; यथा रवितापात्कमलं न म्लायति प्रत्युत विकसनि तथा तदीयं मुखमासीदिति भावः । किंत्वस्य मुखस्य दीर्घयोरपाङ्गयोः केवलं नेत्रान्तयोरेव शनैःशनैर्मन्दमन्दं श्यामि- कया कालिन्ना पदं स्थानं कृतम् , तयोः सौकुमार्यादित्यर्थः ॥ २१ ॥

अयाचितोपस्थितमम्बु केवलं रसात्मकस्योडपतेश्च रश्मयः |
बभूव तस्याः किल पारणाविधिर्न वृक्षवृत्तिव्यतिरिक्तसांधनः २२

 अयाचितेति || अयाचितोपस्थितमप्रार्थितोपनतं केवलमम्बूदकं रसात्मक- स्यामृतमयस्योडूनां नक्षत्राणां पतिश्चन्द्रस्तस्य रश्मयश्च तस्याः पार्वत्याः पारणा- विधिरभ्यवहारकर्म बभूव, तावन्मात्रसाधनकोऽभूदित्यर्थः | साध्यसाधनयोर- भेदेन व्यपदेशः साधनान्तरव्यावृत्त्यर्थः | किलेति प्रसिद्धौ | वृक्षाणां या वृत्ति- र्जीवनोपायस्तद्व्यतिरिक्तं साधनमुपायो यस्य स तथोक्तः पारणाविधिर्न बभूव | वृक्षोऽप्ययाचितोपस्थितेन मेघोदकेनेन्दुकिरणैश्च जीवतीति प्रसिद्धम् , अम्बिकापि तावन्मात्रमवालम्बतेत्यर्थः || २२ ||

निकामतप्ता विविधेन वग्न्हिना नभश्चरेणेन्धनसंभृतेन मा |
तपात्यये वारिभिरुक्षिता नवैर्भुवा सहोष्माणममुश्चदूर्ध्वगम् || २३ ||

 निकामेति || विविधेन , पञ्चविधेनेत्यर्थः | नभश्चरेण खैचरेण आदित्य- रूपेणेत्यर्थः | इन्धनसंभृतेन काष्ठसमिद्धेन वह्निना निकाममत्यन्तं तप्ता साम्बिका तपात्यये ग्रीष्मान्ते, प्रावृपीत्यर्थः | नवैर्वारिभिरुक्षिता सिक्ता सती भुवा पञ्चा- ग्नितप्तया सहोर्ध्वगमूर्ध्त्रप्रसृतमूष्माणं बाप्पममुञ्चत् | 'ग्रीप्मोष्मबाष्पमुष्माणम्' इति यादवः || २३ ||

स्थिताः क्षणं पक्ष्मसु ताडिताधराः पयोधरोत्सेधनिपातचूर्णिताः |
वलीषु तस्याः स्खलिताः प्रपेदिरे चिरेण नाभिं प्रथमोदबिन्दवः २४

 स्थिता इति || उदकस्य बिन्दव उदबिन्दवः | 'मन्यौदन-' (पा. ६|३|६७) इत्यादिनोदकशब्दस्योदादेशः | प्रथमे उदबिन्दवः | प्रथमविशेषणाद्विन्दूनां विरलस्वं बहुवचनान्नातिविरलस्वं च गम्यते | तथा च चिरत्व-नाभ्यन्तरगमन-


पाठा०--१ वृक्षवृत्तिः, २ साधनम्. ३ च. योर्निर्वाहः | तस्याः पार्वत्याः पक्ष्मसु नेत्रलोमसु क्षणं स्थिताः स्थितिं गताः | 'स्थिताः' इत्यनेन पक्ष्मणां सान्द्रत्वं 'क्षणम्' इत्यनेन स्त्रौग्ध्यं च गम्यते | अनन्तरं ताडितो व्यथितोऽधर ओष्ठो यैस्तं तथोक्ताः | एतेनाधरस्य मार्दवं गम्यते | ततः पयोधरयोः स्तनयोरुत्सेध उपरिभागे निपातेन पतनेन चूर्णिता जर्जरिताः, कुचकाठिन्यादिति भावः | तदनु वलीपूदररेखासु स्खलिताः | निग्न्नौग्नतत्वादिति भावः | इत्थं चिरेण, न तु शीघ्रम् ; प्रतिबन्धबाहुल्यादिति भावः | नाभिं प्रपेदिरे प्रविष्टाः, न तु निर्जग्मुः | एतेन नाभेर्गाम्भीर्यं गम्यते | अन्न प्रतिपदमर्थ- वत्त्वत्परिकरालंकारः || २४ ||

शिलाशयां तामनिकेतवासिनीं निरन्तरास्वन्तरवातवृष्टिषु |
व्यलोकयन्नुन्मिपितैस्तडिन्मयैर्महातपः साक्ष्य इव स्थिताः क्षपाः २५

 शिलाशयामिति || निरन्तरासु नीरन्ध्रासु | अन्तरे मध्ये वातो यासां तादृश्यो या वृष्टयस्तास्वन्तरवातवृष्टिषु | न निकेते गृहे वसतीत्यनिकेतवासिनीम् , अनावृतदेशवासिनीमित्यर्थः | शिलायां शेत इति शिलाशयां शिलातलशायिनीम् | 'अधिकरणे शेतेः' (पा. ३|२|११५) इत्यच्प्रत्ययः | तां पार्वतीं साक्षाद्रष्टा साक्षी | 'साक्षाद्रुष्टरि संज्ञायाम्' (पा.५।२|९१) इतीनिप्रत्ययः| तस्य कर्म साक्ष्यं महातपसः साक्ष्ये स्थिताः क्षपास्तडिन्मयैर्विध्युद्रुपैरुन्मिषितैरवलोकनैर्यलोकयग्निव | इवेति चक्षुषा विलोकनमेवोत्प्रेक्ष्यते | साक्ष्यं तु 'आदित्यचन्द्रावनिलोऽनलश्च द्यौर्भू- मिरापो हृदयं यमश्च | अहश्च रात्रिश्च उभे च संध्ये धर्मश्च जानाति नरस्य वृत्तम् ||' (पञ्च० १|१८२) इति प्रमाणसिद्धत्वान्नोत्प्रेक्ष्यमित्यनुसंधेयम् || २५ ||  एवं वर्षासु विहितं तपःप्रकारमुक्त्वा संप्रति हेमन्ते तपश्चरणप्रकारमाह--

निनाय सात्यन्तहिमोत्किरानिलाः सहस्यरात्रीरुदवासतत्परा |
परस्पराक्रन्दिनि चक्रवाकयोः पुरो वियुक्ते मिथुने कृपावती || २६ ||

 निनायेति || सा पार्वती || उत्किरन्ति क्षिपन्तीत्युत्किराः | 'इगुपधज्ञा-' (पा. ३|१|१३५) इत्यादिना कः | अत्यन्तं हिमानामुत्किरा अनिला यासु ताः सहस्यरात्रीः पौषरात्रीः | 'पौषे तैषसहस्यौ द्वौ' इत्यमरः | उदके वास उदवासः | 'पेषंवासवाहनधिषु च' (पा. ६|३|५८) इत्युदादेशः | उदवासे तत्परा आसक्ता,


पाठा०--१ अत्यर्थहिमोत्तरानिलाः तथा परस्परमा त्र न्दिन्यन्योन्यमाक्रोशिनि पुरोऽग्ने वियुक्ते विरहिणि, वियोगं प्राप्त इति यावत् | चक्रवाकी च चक्रवाकश्च चक्रवाकौ, तयोश्चक्रवाकयोमिथुने द्वन्द्वे कृपावती सती निनाय | दुःखिपु कृपालुत्वं महतो स्वभाव इति चक्रवाक- मिथुने कृपा, न तु कामितयेति वाच्यानवकाशः| 'अप्सु वासस्तु हेमन्ते क्रमशो वर्धयंस्तपः' इति (६।२३) मनुः ||२६||

मुखेन सा पद्मसुगन्धिना निशि प्रवेपमानाधरपत्रशोभिना |
तुपारवृष्टिक्षतपद्मसंपदां सरोजसंधानमिवाकरोदपाम् || २७ ||

 मुखेनेति || सा पार्वती निशि रात्रौ पद्मवत्सुगन्धिना सुरभिणा | 'गन्ध- स्येत्-' (पा. ५|४|१३५) इत्यादिनेकारः | प्रवेपमानः कम्पमानोऽधर ओष्ठ एव पत्रं दलं तेन शोभत इति तथोक्तेन मुखेन, तुषारवृष्ट्या तुहिनवर्षेण क्षता नाशिताः पद्मसंपदो यासां तासामपां सरोजसंधानं पद्मसंघट्टनमकरोदिव इत्युत्प्रेक्षालंकारः | पद्मान्तरं तुहिनेनोपहन्यते, तन्मुखपद्मं तु न तथेति व्यति- रेकालंकारो व्यज्यत इत्युभयोः संकरः || २७ ||

स्वयंविशीर्णद्रुभपर्णवृत्तिता परा हि काष्टा तपसस्तया पुनः |
तदप्यपाकीर्णमतः प्रियंवदां वदन्त्येपर्णेति च तां पुराविदः || २८ ||

 स्वयमिति || स्वयं विशीर्णानि स्वतश्चयुतानि द्रुमपर्णान्येव वृत्तिजीवनं यस्य तस्य भावस्तत्ता तपसः परा काष्टा परमुत्कर्षो हि | 'काष्टोत्कर्षे स्थितौ दिशि' इत्यमरः | तया देव्या पुनस्तत्पर्णवर्तनमप्यपाकीर्णभपाकृतम् | अतः पर्णापा- करणाद्धेतोः | प्रियं वदतीति प्रियंवदा | 'प्रियवशे वदः खच्' (पा. ३|२|३८) इति खच्प्रत्ययः | 'अरुर्द्विषदजन्तस्य मुम्' (पा. ६|३|६७) इति मुमागमः | तां पार्वतीं पुराविदः पुराणज्ञास्तपःकरणसमयेऽविद्यमानं पर्णभक्षणं यस्याः साऽपर्णेति वदन्ति | नामान्तरसमुच्चयार्थश्चकारः | स्वयं प्रियंवदाः परेषामपि प्रियवाद- भाजनानि भवन्तीति भावः । अत्र 'अपर्णाम्' इत्यापाठः; 'इति' शब्दाभिहिते द्वितीयानुपपत्तेः, यथाह वामनः (काव्या.सू.५|२|२१)--'निपातेनाप्यभिहिते कर्मणि न कर्मविभक्तिः, परिगणनस्य प्रायिकत्वात्' इति || २८ ||


पाठा०--१ अपर्णामिति.

७ क० सं०

मृणालिकापेलवमेवमादिभिव्रतैः स्वमङ्गं ग्लपयन्त्यहर्निशम् |
तपः शरीरैः कठिनैरुपार्जितं तपस्विनां दूरमधश्चकार सा || २९ ||

 मृणालिकेति || मृणालिकापेलवं पद्मिनीकन्दकोमलं स्वं स्वकीयमङ्गं शरीर- मेवमुक्तप्रकारतोयाग्निमध्यवासव्रतमादिर्येषां तैर्व्रतैरहश्च निशा चाहर्निशम् | समाहारे द्वन्द्वैकवद्भावः | अत्यन्तसंयोगे द्वितीया | ग्लपयन्ती कर्शयन्ति सा पार्वती | कठिनैः, क्लेशसहैरित्यर्थः | शरीरैरुपार्जितं संपादितं तपस्विनामृषीणां तपो दूरमत्यन्तमधश्चकार तिरश्चकार, अतिशिश्य इत्यर्थः | तपस्विभिरप्येवं तपः कर्तुं न शक्यत इति तात्पर्याथः || २५ ||

अथाजिनाषाढधरः प्रगल्भवाग्ज्वलन्निव ब्रह्ममयेन तेजसा |
विवेश कश्चिञ्जटिलस्तपोवनं शरीरबद्धः प्रथमाश्रमो यथा || ३० ||

 अथेति || अथानन्तरमजिनं कृष्णमृगत्वक् | आषाढः प्रयोजनमस्येत्याषाढः पालाशदण्डः | 'पालाशो दण्ड आषाढः' इत्यमरः | "विशाखाषाढादण्मन्थ- दण्डयोः' (पा. ५|१|११०) इत्यण्प्रत्ययः | तयोर्धरस्तथोक्तः प्रगल्भवाक्प्रौढवचनो ब्रह्ममयेन वैदिकेन तेजसा, ब्रह्मवर्चसेनेत्यर्थः | ज्वलन्निव स्थितः | 'इव'शब्दो निर्धारणार्थः | कश्चिदनिर्दिष्टो जटिलो जटावान् , ब्रह्मचारीति शेषः | पिच्छा- दित्वादिलच्प्रत्ययः | शरीरबद्धो बद्धशरीरः, शरीरवानित्यर्थः | वाहिताभ्यदिपु पाठास्साधुः | प्रथमाश्रमो यथा ब्रह्मचर्याश्रम इव | 'यथा'शब्द इवार्थे | तपो- वनम् , देव्या इति शेषः | विवेश प्रविष्टवान् || ३० ||

तमातिथेयी बहुमानपूर्वया सपर्यया प्रत्युदियाय पार्वती |
भवन्ति साम्येऽपि निविष्टचेतसां वपुर्विशेषेष्वतिगौरवाः क्रियाः ३१

 तमिति || अतिथिषु साध्व्यातिथेयी | 'पथ्यतिथि-' (पा. ४|४|१०४) इत्यादिना ढञ्प्रत्ययः | 'टिड्डाणज-'(पा. ४|१|१५) इत्यादिना ङप् | पार्वती तं ब्रह्मचारिणं बहुमानः पूर्वो यस्यास्तया, गौरवपूर्वयेत्यर्थः | सपर्ययाऽर्चया | 'सपर्यार्चाहणाः समाः' इत्यमरः | प्रत्युदियाय प्रत्युज्जगाम | कथं समानेऽपि


पाठा०-- १ कोमल. २ तदङ्गम्. ३ क्षपयन्ति. ४ 'सुराः समुद्वीक्ष्य नगेन्द्र- कन्यया कृतं तपः शंभुवशक्रियाक्षमम् | ययाचिरे तं प्रणिपत्य दुःखिताः पतिं चमूनां सुतमाजिहेतुम् ||' (१ तदुद्वीक्ष्य. २ हेतवे.) . तस्यास्ताहशी प्रतिपत्तिरत आह--साम्ये सत्यपि निविष्टचेतसां स्थिरचित्तानां वपुर्विशेषेषु शरीरविशेषेष्वतिशयितं गौरवं यासु ता अतिगौरवा अतिगौरव- सहिताः क्रियाश्चेष्टा भवन्ति, प्रवर्तन्त इत्यर्थः | साधवो न साम्याभिनिवेशिन इति भावः || ३१ ||

विधिप्रयुक्तां परिगृह्य सत्क्रियां परिश्रमं नाम विनीय च क्षणम् |
उमां स पश्यन्नृजुनैव चक्षुषा प्रचक्रमे वक्तुमनुज्झितक्रमः || ३२ ||

 विधीति || स ब्रह्मचारी विधिना प्रयुक्तामनुष्टितां सत्क्रियां पूजां परिगृह्य स्वीकृत्य क्षणं परिश्रमं विश्रामं च विनीय नाम | 'नाम' इत्यपरमार्थे | अथोमामृजु- नैव विलासरहितेनैव चक्षुषा पश्यन्ननुज्झितक्रमोऽत्यक्तोचितपरिपाटीकः सन् | वक्तुं प्रचक्रमे प्रारेभे || ३२ ||

अपि क्रियार्थं सुलभं समित्कुशं जलान्यपि स्नानविधिक्षमाणि ते |
अपि स्वशक्त्या तपसि प्रवर्तसे शरीरमाद्यं खलु धर्मसाधनम् || ३३ ||

 अपीति || 'अत्रपि'शब्दः प्रश्ने | क्रियार्थं होमादिकर्मानुष्ठानार्थम् | समिधश्च कुशाश्च समित्कुशम् | 'जातिरप्राणिनाम्' (पा. २|४|६) इति द्वन्द्वैकवद्भावः | सुलभमपि सुलभं कञ्चित् ? जलानि ते तव स्नानविधिक्षमाणि स्नानक्रियायोग्या- ण्यपि कच्चित् ? किंच स्वशक्त्या निजसामर्थ्यानुसारण तपसि प्रवर्तसेऽपि, देह- मपीडयित्वा तपश्चरसि कञ्चिदित्यर्थः | युक्तं च नामैतत् , यस्माच्छरीरमाद्यं खलु धर्मसाधनम् | धर्मस्तु कायेन वाचा बुद्ध्या धनादिना च बहुभिः साध्यते, तेपु च वपुरेव मुख्यं साधनम् | सति देहे धर्मार्थकाममोक्षलक्षणाश्चतुर्वर्गाः साध्यन्ते | अत एव 'सततमात्मानमेव गोपायीत' इति श्रुतिः || ३३ ||

अपि त्वदावर्जितवारिसंभृतं प्रवालमासामनुबन्धि वीरुधाम् |
चिरोज्झितालक्तकपाटलेन ते तुलां यदारोहति दन्तवाससा || ३४ ||

 अपीति || त्वयाऽऽवर्जितेन सिक्तेन वारिणा संभृतं जनितमासां वीरुधां लतानां प्रवालं पल्लवमनुबन्ध्यप्यनुस्यूतं किम् ? यत्प्रवालं चिरोज्झितश्चिरकाल- त्यक्तो लाक्षारागो येन तत्तथापि पाटलम् , स्वभावरक्तमित्यर्थः | तेन चिरोज्झि- तालक्तकपाटलेन ते तव दन्तवाससाधरेण | 'ओष्ठाधरौ तु रदनच्छदौ दशन-


पाठा०--१ प्रतिगृह्य. २ अयि. ३ अयि. ४ अयि. ५ अयि. वाससी' इत्यमरः | तुलां साम्यमारोहति, गच्छतीत्यर्थः | अत्र 'तुला'शब्दस्य सादृश्यवाचित्वात्तद्योगेऽपि 'तुल्यार्थेस्तुलोपमाभ्याम्-' (पा. २|३|७२) इति न तृतीयाप्रतिषेधः; तत्र सूत्रे सदृशवाचिन एव ग्रहणादिति || ३४ ||

अपि प्रसन्नं हरिणेषु ते मनः करस्थदर्भप्रणयापहारिषु |
य उत्पलाक्षि ! प्रचलैर्विलोचनैस्तवाक्षिसादृश्यमिव प्रयुञ्जते || ३५ ||

 अपीति || करस्थान्दर्भान् प्रणयेन स्त्रेहेनापहरन्तीति ते तथोक्तेषु, सापरा- धेष्विति भावः | 'करस्थदर्भप्रणयापराधिषु' इति पाठे दर्भाणां प्रणयेन प्रार्थनयापराधिषु हरिणेषु विषये ते मनः प्रसन्नमपि न क्षुभितं किम् ? सापरा- धेष्वपि न कोपितच्यं तपस्विभिरिति भावः | हे उत्पलाक्षि ! ये हरिणाः प्रचलै- श्वञ्चलैर्विलोचनैनैत्रैस्तवाक्षिसादृश्यं प्रयुञ्जत इवाभिनयन्तीव | प्रसन्नत्वान्मृग- नेत्राणि त्वन्ञयनैः साम्यमुपयान्तीति भावः | 'उत्पलक्षेपचलैः' इति पाठान्तर उत्पलकम्पचलै: 'भावानयने द्रव्यानयनम्' इति न्यायेन क्षिप्यमाणोत्पलचलैरि- त्यर्थः || ३५ ||

यदुच्यते पार्वति ! पापवृत्तये न रूपमित्यव्यभिचारि तद्वचः |
तथा हि ते शीलमुदारदर्शने ! तपस्विनामप्युपदेशतां गतम् || ३६ ||

 यदिति || हे पार्वति ! रूपं सौम्याकृतिः पापवृत्तये पापाचरणाय न भवतीति यदुच्यते | लोकैरिति शेपः | तद्वचो न व्यभिचरति न स्खलतीत्यव्यभिचारि सत्यम् | 'यत्राकृतिस्तत्र गुणाः', 'न सुरूपाः पापसमाचारा भवन्ति' इत्यादयो लोकवादा न विसंवादमासादयन्तीत्यर्थः | किमिति ज्ञायते ? तथा हि--हे उदारदर्शने आयताक्षि ! सुरूपे इत्यर्थः | अथवोन्नतज्ञाने ! विवेकवतीत्यर्थः | ते तव शीलं सद्वुत्तम् | 'शीलं स्वभावे सद्वृत्ते' इत्यमरः | तपस्विनामप्युप- दिश्यतेऽनेनेत्युपदेशः प्रवर्तकं प्रमाणं तत्तामुपदेशतां गतं प्राप्तम् | मुनयोऽपि स्वां वीक्ष्य स्ववृत्ते प्रवर्तन्त इति भावः || ३६ ||

पाठा०--१ अयि. २ सापत्न्यम्. टिप्प०--1 तथा चोक्तं भोजेन-सदृशपदार्थवाची सादृश्यमात्रवारी चेति द्वौ 'तुला'शब्दौ, तयोः सदृशपदार्थवाची तुलाशब्दयोग एव तृतीयाप्रतिषेधः | अत एव 'कृष्णस्य तुला नास्ति' कृष्णेन सदृशः कोऽपि नास्तीत्यर्थ इति | 2 शीलानुगुणं रूप- मिति विषयो 'न तुलाविषये तवाकृतिर्न वचोवर्मनि ते सुशीलता' (नैषध. २|५१) इत्यादिना नैषधे स्फुटीकृतः |

 विकीर्णसप्तर्षिबलि[८]प्रहासिभिस्तथा न गाङ्गैः सलिलैर्र्दिवश्चयुतैः ।
 यथा त्वदीयैश्चरितैरनाविलैर्महीधरः पावित एष सान्वयः ॥३७॥

 विकीर्णेति ॥ एष महीधरो हिमवान् । सप्त च ते ऋषयश्च सप्तर्षयः । 'दिक्संख्ये संज्ञायाम्' (पा. २।१।५०) इति समासः । विकीर्णैः पर्यस्तैः सप्तर्षीणां संबन्धिभिर्बलिभिः पुष्पोपहारैः प्रहसन्ति ये तथोक्तैर्दिवोऽन्तरिक्षाच्युतैर्गाङ्गैः सलिलैस्तथा न पावितः। अनाविलैरकलुषैस्त्वदीयैश्वरितैर्यथा सान्वयः सपुत्र- पौत्रः पावितः पवित्रीकृतः ॥ ३७ ॥

 अनेन धर्मः सविशेषमद्य मे त्रिवर्गमारः प्रतिभाति [९]भाविनि!।
 त्वया मनोनिर्विषयार्थकामया यदेक एव प्रतिगृह्य सेव्यते ॥३८॥

 अनेनेति ॥ हे भाविनि प्रशस्ताभिप्राये ! अनेन कारणेन धर्मः सविशेषं सातिशयमद्य मे त्रयाणां धर्मकामार्थानां वर्गस्त्रिवर्गः। 'त्रिवर्गो धर्मकामार्थै- श्चतुर्वर्गः समोक्षकैः' इत्यमरः । तत्र सारः श्रेष्ठः प्रतिभाति । यद्यस्मात्कारणा- न्मनसो निर्विषयावर्थकामौ यस्यास्तया त्वयैको धर्म एव प्रतिगृह्य स्वीकृत्य सेव्यते । यत्त्वयार्थकामौ विहाय धर्म एवावलम्बितः, अतः सर्वेषां नः स श्रेयानिति प्रतिपद्यत इत्यर्थः ॥ ३८ ॥

 संप्रति मनोरथं जिज्ञासुः प्रस्तौति---

 प्रयुक्तसत्कारविशेषमात्मना न मां परं संग्रतिपत्तुमर्हसि ।
 यतः[१०] सतां संनतगात्रि! संगतं मनीषिभिः साप्तपदीनमुच्यते ॥३९॥

 प्रयुक्तेति ॥ आत्मना त्वया प्रयुक्तः कृतः सत्कारविशेषः पूजातिशयो यस्य तं मां परमन्यं संप्रतिपत्तुमवगन्तुं नाहसि । हे संनतगात्रि संनताङ्गि ! 'अङ्ग- गात्रकण्ठेभ्यः' (पा. ४।१।५५) इति वक्तव्यान्डीप् । यतः कारणान्मनस ईषिभि- र्मनीषिभिर्विद्वद्भिः । शकन्ध्वादित्वात्साधुः । सतां संगतं सख्यं सप्तभिः पदैरा- पद्यत इति साप्तपदीनं सप्तपदोच्चारणसाध्यमुच्यते, तच्चावयोस्त्वत्कृतसत्कार- प्रयोगादेव सिद्धमित्यर्थः। 'साप्तपदीनं सख्यम्' (पा. ५।२।२२) इति निपात- नात्साधु ॥ ३९॥


पाठा०-१ प्रवाहिभिः. २ भामिनि. ३ यथा.

 अतोत्र[११] किंचिद्भवतीं बहुक्षमा द्विजातिभावादुपपन्नचापलः ।
 अयं जनः प्रष्टुमनास्तपोधने ! न चेद्रहस्यं [१२]प्रतिवक्तुमर्हसि ॥४०॥

 अत इति ॥ हे तपोधने ! अतः सख्या्द्धेतोरत्र प्रस्तावे बहुक्षमाम् । बहूक्ति- सहाम् , यद्वा क्षमावतीम् । भवतीं त्वां द्विजातिभावाद्ब्राह्मणत्वादुपपन्नचापलः सुलभधार्ष्ट्योऽयं जनः । स्वयमित्यर्थः । किंचित्प्रष्टुं मनो यस्य स किंचित्प्रष्टुमनाः प्रष्टुकामः । 'तुं काममनसोरपि' (वा० ) इति मकारलोपः। रहसि भवं रहस्यं गोप्यं न चेत्प्रतिवक्तमर्हसि ॥ ४० ॥

 प्रष्टव्यमाह-

 कुले प्रसूतिः प्रथमस्य वेधसस्त्रिलोकसौन्दर्यमिवोदितं वपुः ।
 अमृग्यमैश्वर्यसुखं नवं वयस्तप:फलं स्यात्किमतः परं वद ॥ ४१ ॥

 कुल इति ॥ प्रथमस्य वेधसो हिरण्यगर्भस्य कुलेऽन्ववाये प्रसूतिरुत्पत्तिः । 'यज्ञार्थं हि मया सृष्टो हिमवानचलेश्वरः' इति ब्रह्मपुराणवचनात् । वपुः शरीरं त्रयाणां लोकानां सौन्दर्यमिवोदितमेकत्र समाहृतम् । ऐश्वर्यसुखं संपरसुखम- मृग्यमन्वेषणीयं न भवति, किंतु सिद्धमेवेत्यर्थः । वयो नवम् , यौवनमित्यर्थः। अतः परमतोऽन्यस्किं तपःफलं स्यात् ? वद, अस्ति चेदिति शेषः । न किंचिद- स्तीत्यर्थः ॥४१॥

 भवत्यनिष्टादपि नाम दुःसहान्मनस्विनीनां प्रतिपत्तिरीदृशी ।
 विचारमार्गप्रहितेन चेतसा न दृश्यते तच्च कुशो[१३]दरि! त्वयि ॥४२॥

 भवतीति ॥ दुःसहात्सोढुमशक्यादनिष्टाद्भर्त्रादिकृतादपि मनस्विनीनां धीर- स्त्रीणामीदृशी तपश्चरणलक्षणा प्रतिपत्तिः प्रवृत्तिः । 'प्रतिपत्तिस्तु गौरवे । प्राप्ती प्रवृत्तौ प्रागल्भ्ये' इति केशवः । भवति नाम । 'नाम'इति संभावनायाम् । विचारमार्गे प्रहितेन चेतसा चित्तेन तदनिष्टं च । हे कृशोदरि ! त्वयि न दृश्यते, विचार्यमाणे तदपि नास्त्यसंभावितत्वादित्यर्थः ॥ ४२ ॥

 अनिष्टाभावमेव प्रपञ्चयति-

 अलभ्यशोकाभिभवेयमाकृतिर्विमानना सुभ्रु ! कुतः पितुर्गृहे ।
 [१४]राभिमर्शो न तवास्ति कः करं प्रसारयेत्पन्नगरत्नसूचये ॥४३॥


पाठा०-१ अद्य. २ प्रतिगोप्तुम्. ३ तनूदरि. ४ परावमर्शः.  अलभ्येति ॥ हे सुभ्र ! इयं स्वदीयाकृतिर्मूर्तिरलभ्यो लब्धुमनर्हः शोकेन मार्त्राद्यवमानजेन दुःखेनाभिभवस्तिरस्कारो यस्याः सा तथोक्ता, दृश्यत इति शेषः । असंभावितश्चायमर्थः इत्याह-पितुर्गृहे विमाननावमानः कुतः ? न संभाव्यत एवेत्यर्थः । 'सु भ्रू कुतस्तातगृहेऽवमाननम्' इति पाठान्तरकरणं तु साध्वसमेव; उक्तोपपत्तिसंभवात् । अन्यत्रापि 'सुश्रु त्वं कुपितेत्यपास्तमशनं त्यक्ता कथा योषिताम्' इत्यादिप्रयोगदर्शनाद्वंशस्थवृत्ते पादादौ जगणभङ्गप्रस-. ङ्गाचेत्यलं गोष्ठीभिः । न चाप्यन्यस्माद्भावीत्याह-पराभिमर्शः परधर्षणं तु तव नास्ति, पन्नगरत्नसूचये फणिशिरोमणिशलाकां ग्रहीतुमित्यर्थः । 'क्रियार्थोपपदस्य च कर्मणि स्थानिनः' (पा. २।३।१४) इति चतुर्थी । करं हस्तं कः प्रसारयेत् ? 'सुभ्र' इत्यत्र भ्रूशब्दस्योवस्थानीयत्वात् 'नेयङुवङ्स्थानावस्त्री' (पा. १।४।४) इति नदीसंज्ञाप्रतिषेधात् 'अम्बार्थनद्योर्ह्रस्वः' (वा० ७।३।१०७) इति ह्रस्वत्वं नास्ति । तेन ह्रस्वः प्रामादिक इति केचित् । अन्ये तु 'अप्राणिजातेश्चारज्ज्यादी- नाम् -' (वा० २५०२) इत्यत्र ‘अलाबूः' 'कर्कंधूः' इत्यूकारान्तादप्यूङ्प्रत्यय- मुदाजहार भाष्यकारः । एतस्मादेव नियमज्ञापकात्क्वचिदूकारान्तस्याप्यूङन्तत्वा- न्नदीत्वे हृस्वत्वमित्याहुः । अत एवाह वामनः --- 'ऊकारादप्यूङ्प्रकृतेः' (काव्या. सू. ५।२।४७) इति ॥ ४३ ॥

 किमित्यपास्याभरणानि यौवने धृतं त्वया वार्धकशोभि वल्कलम् ।
 वद प्रदोषे स्फु[१५]टचन्द्रतारका विभावरी यद्यरुणाय कल्पते ।। ४४॥

 किमिति ॥ हे गौरि ! किमिति केन हेतुना यौवने स्वयाभरणान्यपास्य विहाय । वृद्धस्य भावो वार्धकम् । मनोज्ञादित्वाद्वुप्रत्ययः । 'वार्धकं वृद्धसंघाते वृद्धत्वे वृद्धकर्मणि' इति विश्वः । तत्र शोभत इति वार्धकशोभि वल्कलं धृतम् ? प्रदोपे रजनीमुखे स्फुटाः प्रकटाश्चन्द्रस्तारकाश्च यस्याः सा स्फुटचन्द्रतारका विभावरी रात्रिररुणाय सूर्याय कल्पते यदि अरुणं गन्तुं कल्पते किम् ? वद ब्रूहि । ‘क्रियार्थोपपदस्य-' (पा. २।३।१४) इत्यादिना चतुर्थी । दीप्यमान- शशाङ्कतारके प्रदोषे यद्यरुण उदेति ततो विभूषणापहारेण तव वल्कलधारणं सं[१६]घटत इति भावः ॥ ४४ ॥


 पाठा०-विनिकीर्णतारका. २ संगच्छते.  तपःप्रयोजनं निराकतुमाह

 दिवं यदि प्रार्थयसे वृथा श्रमः पितुः प्रदेशास्तव देवभूमयः ।
 अथोपयन्तारमलं समाधिना न रत्नमन्विष्यति मृग्यते हि तत् ॥४५॥

 दिवमिति ॥ दिवं स्वर्ग प्रार्थयसे कामयसे यदि तर्हि श्रमस्तपश्चरणप्रयासो वृथा निष्फलः । यदि स्वर्गार्थं तप्यसे, ततः श्रमं मा कार्षीः । कुतः ? तव पितु- र्हिमवतः प्रदेशा देवभूमयः स्वर्गपदार्थाः, तत्रत्या इत्यर्थः । अथोपयन्तारं वरं प्रार्थयसे, तर्हि समाधिना तपसाऽलम् । न कर्तव्यमित्यर्थः । निषेध्यस्य निषेधं प्रति करणत्वात्तृतीया । तथा हि-रलं कर्तृ, नान्विष्यति न मृगयते, ग्रहीता. रमिति शेषः; किंतु तद्नत्नं मृग्यते, ग्रहीतृभिरिति शेषः । न हि वरार्थं त्वया तपसि वर्तितव्यं किंंतु तेनैव त्वदर्थमिति भावः ॥ ४५ ॥

 वरवाचकाक्षरश्रवणानन्तरमेव देव्या उष्णोच्छ्वासमालक्ष्य प्रश्नेषु च प्रत्युत्तर मनुपलभ्य स्वयमेवाशङ्कयाह-

 निवेदितं निश्वसितेन सोष्मणा मनस्तु मे संशयमेव गाहते ।
 न दृश्यते प्रार्थयितव्य एव ते भविष्यति प्रार्थितदुर्लभः कथम् ॥४६॥

 निवेदितमिति ॥ सोप्मणा निश्वसितेन निश्वासवायुना निवेदितम् , चिन्तानुभावेनोप्णोच्छासेन ने वरार्थित्वं सूचितमित्यर्थः । तर्हि किं प्रश्नव्यसने- नेत्याह-मन इति । मनस्तु तथापि मे संशयमेव गाहते प्रामोति । कुतः ? ते तव । 'कृत्यानां कर्तरि वा' (पा. २।३।७१) इति पष्ठी । प्रार्थयितव्यः प्रार्थयितु- मर्ह एव न दृश्यते । प्रार्थितदुर्लभः प्रार्थितो यो दुर्लभः स कथं भविष्यति ? नास्त्येवेत्यर्थः ॥ ४६॥

 अथ पतिप्रार्थनामेव सिद्धवत्कृत्वाह-

 अहो स्थिरः कोऽपि तवेप्सितो युवा चिराय कर्णोत्पलशून्यतां गते।
 उपेक्षते यः श्लथ[१७]लम्बिनीर्जटाः कपोलदेशे कलमाग्रपिङ्गलाः ॥४७॥

 अहो इति ॥ अहो चित्रम् । तवेप्सित आप्नुमिष्टो युवा कोऽपि स्थिरः कटिनः, वर्तत इति शेषः । कुतः ? यो युवा चिराय चिरात्प्रभृति कर्णोत्पल- शून्यतां गते प्राप्ते कपोलदेशे गण्डस्थले श्लथाः शिथितबन्धना अत एक लम्बि-


पाठा-१ बन्धनीर्जटाः कपोलदेशे; बन्धलम्बिनीर्जटाः कपोले. न्यस्ताः श्थलम्बिनीः कलमाः शालिविशेषास्तेषामग्राणि तद्वत्पिङ्गला जटा उपेक्षते, यस्त्वामीदृशीं दृष्ट्वा न व्यथते स नूनं वज्रहृदय इत्यर्थः ॥ ४७ ॥

 मुनिव्रतैस्त्वामतिमात्रकर्शितां दिवाकराप्लुष्टविभूषणास्पदाम् ।
 शशाङ्कलेखामिव पश्यतो दिवा सचेतसः कस्य मनो न दूयते ॥४८॥

 मुनिव्रतैरिति ॥ मुनिव्रतैश्चान्द्रायणादिभिरतिमात्रमत्यन्तं कर्शितां कृशी- कृतां दिवाकरेण सूर्येणाप्लुष्टानि दग्धानि वातातपसंस्पर्शान्मृदुत्वाञ् श्यामीकृतानि विभूषणास्पदानि भूषणस्थानानि यस्यास्तां तथोक्ताम् । अत एव दिवाहनि शशाङ्कलेखामिव स्थितां त्वां पश्यतः सचेवसो जीवतः कस्य पुंसो मनो न दूयते न परितप्यते ? अपि तु सर्वस्यैवेत्यर्थः ॥ ४८ ॥

 अवैमि सौभाग्यमदेन वञ्चितं तव प्रियं यश्चतुरावलोकिनः ।
 करोति लक्ष्यं चिरमस्य चक्षुषो न वक्त्रमात्मीयमरालपक्ष्मणः ४९

 अवैमीति ॥ तव प्रियं वल्लभं सौभाग्यमदेन सौन्दर्यगर्वेण का, वञ्चितं विप्रलब्धमवैमि वेद्मि । यः प्रियश्चतुरं मधुरमवलोकत इति चतुरावलोकिनो- ऽरालपक्ष्मणः कुटिलरोम्णः । 'अराल वृजिनं जिह्मम्' इत्यमरः । अस्य त्वदीयस्य चक्षुष आत्मीयं वकं मुखं चिरं लक्ष्यं विषयं न करोति, दृष्टिपथं न गच्छती- त्यर्थः । तदयं गर्वेण हतो निष्फलात्मलाभो जात इति भावः ॥ ४९ ॥

 कियच्चिरं श्राम्यसि गौरि ! विद्यते ममापि पूर्वाश्रमसंचितं तपः ।
 तदर्धभागेन लभस्व काङ्क्षितं वरं तमिच्छामि च साधु वेदितुम् ५०

 कियदिति ॥ हे गौरि! कियर्त्किंप्रमाणकम् , किमवधिकमित्यर्थः । चिरं श्राम्यसि तपस्यसि ? अत्यन्तसंयोगे द्वितीया। ममापि पूर्वाश्रमः प्रथमाश्रमो ब्रह्मचर्याश्रमस्तत्र संचितं संपादितं तपो विद्यते । अर्धश्चासौ भागश्च तेन तस्य तपसोऽर्धभागेनैकदेशेन काङ्क्षितमिष्टं वरमुपयन्तारं लभस्व । तं वरं साधु सम्य- ग्वेदितुं ज्ञातुमिच्छामि । यद्यसौ योग्यो भवति तदा ममापि संमतिरिति भावः ५०

 इति प्रविश्याभिहिता द्विजन्मना मनोगतं सा न शशाक शंसितुम् ।
 अथो वयस्यां परिपार्श्ववर्तिनीं विवर्तितानञ्जननेत्रमैक्षत ॥ ५१ ॥

 इतीति । इतीत्थं द्विजन्मना द्विजेन प्रविश्यान्तर्गत्वा, आप्तवद्रहस्यमुद्भाव्येत्यर्थः । अभिहितोक्ता सा पार्वती मनोगतं हृदिस्थं वरं शंसितुं वक्तुं न शशाक समर्था नाभूत् , लज्जयेति शेषः । अथोऽनन्तरं परिपार्श्ववर्तिनीं वयस्यां सखीं विवर्तितं विचालितमनञ्जनं व्रतवशाद्वर्जितकज्जलं नेत्रं यस्मिन्कर्मणि तत्तथैक्षत, नेत्रसंज्ञयैव प्रत्युत्तरं वाचयांचकारेत्यर्थः ॥ ५१ ॥

 सखी तदीया तमुवाच वर्णिनं निबोध साधो! तव चेत्कुतूहलम् ।
 यदर्थमम्भोजमिवोष्णवारणं कृतं तपःसाधनमेतया वपुः ॥ ५२ ॥

 सखीति ॥ तस्याः पार्वत्या इयं तदीया सखी वयस्या तम् । 'वर्णः प्रशस्तिः' इति क्षीरस्वामी। सोऽस्यास्तीति वर्णिनं ब्रह्मचारिणम् । 'वर्णाद्द्रह्मचारिणि' (पा. ५।२।१३४) इतीनिप्रत्ययः । उवाच ब्रूते स्म । किमिति ? हे साधो विद्वन् ! तव कुतूहलं चेत् , श्रोतुमस्तीति शेषः। तर्हि निबोधावगच्छ, आकर्णयेत्यर्थः । 'बुध अवगमने' इति धातोर्भौवादिकाल्लोट् । श्रोतव्यं किं तदाह-- --यस्मै लाभायेदं यदर्थम् । 'अर्थेन सह नित्यसमासः सर्वलिङ्गता चेति वक्तव्यम्' (बा० १२ ७३-७४) इति वार्तिकनियमात्क्रियाविशेषणम् । एतया पार्वत्याम्भोंजं पद्ममुष्णवारणमातपत्रमिय वपुः शरीरं तपःसाधनं कृतम् , तपःप्रवृत्तिकारण- मुच्यते श्रूयतामित्यर्थः ॥ ५२ ॥

 'दृङ्मनःसङ्गसंकल्पो जागरः कृशताऽरतिः । ह्रीत्यागोन्मादमूर्च्छान्ता इत्यनङ्ग- दशा दश ॥' इति । तत्रास्याः काश्चिद्दशाः क्रममनादृत्यैव योजयति 'इयम्' इत्यादिभिः षड्भिः श्लोकः-

 इयं महेन्द्रप्रभृतीनधिश्रियश्चतुर्दिगीशा[१८]नवमत्य मानिनी ।
 अरूपहार्य मदनस्य निग्रहात्पिनाकपाणिं पतिमाप्तुमिच्छति ।।५३।।

 इयमिति ॥ मानिनी 'इन्द्राणीप्रभृतीर्रातशय्य वर्तितव्यम्' इत्यभिमानव-. तीयं पार्वत्यथिश्रियोऽधिकैश्वर्यान्महेन्द्रप्रभृतीनिन्द्रादींश्चतसृणां दिशामीशानिन्द्र- वरुणयमकुबेरान् । 'तद्धितार्थ-' (श. २॥१॥५१) इत्यादिनोत्तरपदसमासः । अवमत्यावधूय मदनस्य निग्रहान्निबर्हणाद्धेतोः, अकामुकत्वादित्यर्थः । रूपेण सौन्दर्येण हायों वशीकरणीयो न भवतीत्यरूपहार्यं पिनाकः पाणौ यस्य तं पिनाक- पाणिं हरम् । 'प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ भवतः' (वा० १।४।२५) इति साधु । पति भर्तारमाप्तुमिच्छति । एतेन संकल्पावस्था सूचिता ॥ ५३ ॥


पाठा०-१अवमन्य.

 असह्यहुंकारनिवर्तितः पु[१९]रा पुरारिमप्राप्तमुखः शिलीमुखः ।
 इमां हृदि व्यायतपातम[२०] क्षिणोद्विशीर्णमूर्तेरपि पुष्पधन्वनः ॥५४॥

 असहोति ॥ पुरा पूर्वमसह्येन सोढुमशक्येन हुंकारेण रौद्रेण निवर्तितः । अत एव पुरारि हरमप्राप्तमुखोऽप्राप्तफलो विशीर्णमूर्तेर्नष्टशरीरस्यापि पुष्पधन्वनः कामस्य शिलीमुखो बाण इमां पार्वतीं हृदि व्यायतः, सुदूरावगाढ इति यावत् । तादृक्पातः प्रहारो यस्मिन्कर्मणि तत्तथाक्षिणोदकर्शत् । दग्धदेहस्यापि मार्गणो लग्नः । 'मृदुः सर्वत्र बाध्यते' इति भावः। अनेन 'विवृण्वती शैलसुतापि भावम्' (३।६८) इत्यत्रोक्तं चक्षुःप्रीतिमनःसङ्गाख्यमवस्थाद्वयमनन्तरावस्थोप- योगितयानूद्य कार्यावस्था सूचिता ॥ ५४ ॥

 
 तदा प्रभृत्युन्मदना पितुर्गृहे ललाटिकाचन्दनधूसरालका ।

 न जातु बाला लभते स्म निर्वृतिं तुषारसंघातशिलातलेष्वपि ॥५५।।

तदेति ॥ तदेति च्छेदः । तदा प्रभृति, तत आरभ्येत्यर्थः । सप्तम्यर्थस्यापि दाप्रत्ययस्य पञ्चम्यर्थे लक्षणा; प्रभृतियोगे पञ्चमीनियमात् । पितुर्ग्रह उन्मदनो- स्कटमन्मथा ललाटस्थालंकारो ललाटिका तिलकः । 'कर्णललाटात्कनलंकारे' (पा.४।३।३५) इति कन्प्रत्ययः । तस्याश्चन्दनेन धूसरा धूसरवर्णा अलकाश्च्वर्ण- कुन्तला यस्याः सा तथोक्ता बाला पार्वती जातु कदाचिदपि तुषारसंघातास्तु- षारधनास्त एव शिलास्तासां तलेषूपरिभागेध्वपि निवृतिं सुखं न लभते स्म । एतेनारस्यपरसंज्ञा विषयविद्वेषावस्था द्वादशावस्थापक्षे संज्वरश्च व्यज्यते ॥५५॥

 उपात्तवणे चरिते पिनाकिनः सबाष्पकण्ठस्खलितैः पदैरियम् ।
 अनेकशः किंनरराजकन्यका वनान्तसंगीतसखीररोदयत् ॥५६॥

 उपात्तेति ॥ पिनाकिनः शंभोश्चरिते त्रिपुरविजयादिचेष्टित उपात्तवर्णे प्रारब्धगीतक्रमे । 'गीतक्रमे स्तुतौ वेदे वर्णशब्दः प्रयुज्यते' इति हलायुधः । सबाष्पे गद्गदे कण्ठे स्खलितैर्विशीर्णैः पदैः सुप्तिङन्तपदैः करणैः । वनान्ते संगी- तेन निमित्तेन सखीर्वयस्याः किंनरराजकन्यका अनेकशो बहुशोऽरोदयदश्रुमोक्ष- मकारयत् । हरचरितगानजनितमदनवेदनामेनां वीक्ष्य किंनर्योऽपि रुरुदुरिति भावः । अत्र वर्णस्खलनलक्षणकार्योक्त्या पुनः पुनस्तत्कारणीभूतमूर्छावस्था


पाठा०-१ स्मरारिम्. २ अक्षणोत्. प्रादुर्भावो व्यज्यते, अन्यथा सखीरोदनानुपपत्तेरिति । द्वादशावस्थापक्षे तु प्रला- पावस्था च व्यज्यते । 'प्रलापो गुणकीर्तनम्' इत्यालंकारिकाः ॥ ५६ ॥

 त्रिभागशेषासु निशासु च क्षणं निमील्य नेत्रे सहसा व्य[२१]वुध्यत ।
 क्व नीलकण्ठ! ब्रजसीत्यलक्ष्यवागसत्यकण्ठार्पितबाहुबन्धना ।।५७॥

 त्रिभागेति ॥ किंचेति चार्थः । शिष्यत इति शेषः । कर्मणि घञ् । त्रिभ्यो भागेभ्यः शेषास्ववशिष्टासु । यद्वा,-रात्रेस्त्रियामत्वेन प्रसिद्धत्वात्तृतीयो भागस्त्रि- भागः । संख्याशब्दस्य वृत्तिविषये पूरणार्थत्वमिष्यते । यथा-'शतांशः, सहस्रांशः' इति । त्रिभागः शेषो यासां तासु निशासु क्षणं क्षणमात्रं नेग्रे निमील्य मीलयित्वा सहसा सद्यः हे नीलकण्ठ ! क्व व्रजसि कुत्र गच्छसीत्यलक्ष्या निर्विषया वाग्वचनं यस्याः सा तथोक्ता । तथाऽसत्ये मिथ्याभूने कण्टेऽर्पितं बाहुबन्धनं यस्याः सा तथा सती व्यबुध्यत विबुद्धवती । एतेन जागरोन्मादौ सूचितौ ॥ ५७ ॥

 स्वमसादृश्यप्रतिकृतिदर्शनतदङ्गस्पृष्टस्पर्शाख्याश्चत्वारो विरहिणां विनोदाः; तत्र स्वप्नसंदर्शनमुक्त्वा प्रतिकृतिदर्शनमाह-

 [२२]यदा बुधैः सर्वगतस्त्वमुच्यसे न वेत्सि भावस्थमिमं कथं जनम् ।
 इति स्वहस्तोल्लिखितश्च मुग्धया रहस्युपालभ्यत चन्द्रशेखरः ॥५८।।

 यदेति ॥ यदा, यत इत्यर्थः । यदेति हेतावित्युक्त्वा गणव्याख्यानेऽन्यत्रो-. दाहृतत्वात् । त्वं बुधैर्मनीषिभिः सर्वगतः सर्वव्यापीत्युच्यसे, तत इत्यध्या- हारः । भावे रत्याख्ये तिष्ठतीति भावस्थम् , त्वय्यनुरागिणमित्यर्थः । इमं जनम् । 'इमम्' इत्यात्मनिर्देशः । कथं न वेत्सि न जानासीति मुग्धया मूढया, अकिंचि- स्करश्चित्रगतोपालम्भ इत्यजानानयेत्यर्थः । तया स्वहस्तेनोलिखितश्चित्रे लिखित- श्चन्द्रशेखरो रहस्येकान्ते, सखीमात्रसमक्षमित्यर्थः। उपालभ्यत साधिक्षेपमुक्तश्च । उक्तसमुच्चयार्थश्चकारः । यद्यपि रहसीत्युक्तं तथापि सखीसमक्षकरणाल्लज्जात्यागो व्यज्यत एवं ॥ ५८ ॥

 यदा च तस्याधिगमे जगत्पतेरपश्यदन्यं न विधिं विचि[२३]न्वती ।
 तदा सहास्माभिरनुज्ञया गुरोरियं प्रपन्ना तपसे तपोवनम् ॥५९॥

 यदेति ॥ जगत्पतेस्तस्येश्वरस्याधिगमे प्राप्तावन्यं विधिमुपायं विचिन्वती


पाठा०-१ विबुध्यते. २ यतः. ३ वितन्वती. मृगयमाणा यदा नापश्यत्तदेयं पार्वती गुरोः पितुरनुज्ञयास्माभिः सह तपसे तपश्चरितुं तपोवनं प्रपन्ना प्राप्ता ॥ ५९ ॥

 द्रुमेषु सख्या कृतजन्ममु स्वयं फलं तपःसाक्षिषु [२४]दृष्टमेष्वपि ।
 न च प्ररोहाभिमुखोऽपि[२५]दृश्यते मनोरथोऽस्याः शशिमौलिसंश्रयः॥

 द्रुमेष्विति ॥ सख्या पार्वत्या स्वयं कृतं जन्म येषां तेषु । स्वयं रोपिते- ष्वित्यर्थः । तपसः साक्षिषु साक्षाद्द्रष्ट्टप्वेषु द्रुमेष्वपि फलं दृष्टं लब्धम् । जनित- मित्यर्थः । अस्याः पार्वत्याः शशिमौलिमंश्रयश्चन्द्रशेखरविषयो मनोरथस्तु प्ररोहाभिमुखोऽङ्कुरोन्मुखोऽपि न दृश्यते । 'प्ररोहस्त्वङ्कुरोङ्करः' इति वैजयन्ती । स्वयं रोपितवृक्षफलकालेऽप्यस्या मनोरथस्य नाङ्कुरोदयोऽप्यस्ति । फलाशा तु दूरापाम्तेत्यर्थः ॥ ६०॥

 न वेद्मि म प्रार्थितदुर्लभः कदा सखीभि[२६]रस्रोत्तरमीक्षितामिमाम् ।
 तपःकृशामभ्युपपत्स्यते सखीं वृपेव सीतां तदवग्रहक्षताम् ।।६१॥

 न वेद्मीति ॥ प्रार्थितः सन्दुर्लभः प्रार्थितदुर्लभः स देवम्तपःकृशां तपसा कृशां क्षीणामत एव सखीभिरस्रोत्तरमश्रुप्रधानं यथा भवति तथेक्षितामिमां नः सखीं तस्येन्द्रस्यावग्रहेणानावृष्ट्या क्षतां पीडिताम् । 'वृष्टिर्वर्षं तद्विधातेऽवग्राहा- वग्रही समौ' इत्यमरः। अवग्रहो वर्षप्रतिबन्ध इत्यर्थः । सीतां कृष्टभुवम् । 'सीता लाङ्गालपद्धतिः' इत्यमरः । वृषा वासव इव । 'वासवो वृत्रहा वृषा' इत्यमरः । कदाभ्युपपत्स्यते कदानुग्रहीप्यति न वेद्मि । अत्र वाक्यार्थः कर्म । ['तदवग्रहक्षताम्' इत्यत्र 'अवग्रहक्षताम्' इत्यनेनैव गतार्थत्वे तत्पदस्य वैयर्थ्या- पत्तेस्तदिति भिन्नं पदं वेद्मीत्यस्य कर्मेति युक्तमुत्पश्यामः ] ॥ ६१ ॥

 अगूढसद्भावमितीङ्गितज्ञया निवेदितो नैष्ठिकसुन्दरस्तया ।
 अयीदमेवं परिहास इत्युमामपृच्छदव्यञ्जितहर्षलक्षणः ।। ६२ ।।

 अगूढेति ॥ इङ्गितज्ञया पार्वतीहृदयाभिज्ञया। 'इङ्गितं हृद्गतो भावः' इति सज्जनः । तया गौरीसख्येत्येवमगूढसद्भावं प्रकाशितसदभिप्रायं यथा तथा निवे- दितो ज्ञापितो निष्ठा मरणमवधिर्यस्य स नैष्ठिको यावजीवब्रह्मचारी सुन्दरो विलासी । नैष्ठिकश्चासौ सुन्दरश्चेति तथोक्तः । द्वयोरन्यतरस्य विशेषणत्वविव-


पाठा०-१ बद्धम्. २ न. ३ अस्राकलम. क्षायां विशेषणसमासः। किंतु नैष्टिकत्वविशेषणेन कामिस्वविरोधः । अथवा देवस्यालौकिकमहिमत्वादुभयं तात्त्विकमिति न विरोधः। अव्यञ्जितं हर्षलक्षणं मुखरागादि हर्षलिङ्गं यस्य तथाभूतः सन् । अयि गौरि ! 'अयि' इति कोमला- मन्त्रणे । इदं त्वत्सखीभाषितमेवम् ? सत्यं किमित्यर्थः । परिहासः केलिर्वा । 'द्रवकेलिपरीहासाः' इत्यमरः । इत्येवमुमामपृच्छत्पृष्टवान् ॥ ६२ ॥

 अथाग्रहस्ते मुकुलीकृताङ्गुला समर्पयन्ती स्फटिकाक्ष[२७]मालिकाम् ।
 कथंचिदद्रस्तनया मिताक्षरं चिरव्यवस्थापितवागभाषत ॥ ६३॥

 अथेति ॥ अथानन्तरमदेस्तनया पार्वती मुकुलीकृताङ्गुलौ संपुटीकृताङ्गुलौ। अग्रश्वासौ हस्तश्चेति समानाधिकरणसमासः । 'हस्ताग्राग्रहस्तयोर्गुणगुणिनोर्भैंदा- भेदात्' इति वामनः । तस्मिन्नग्रहस्ते स्फटिकानामक्षमालिकां जपमालिकामर्पय- न्त्यामुञ्चती कथंचिन्महता कष्टेन चिरव्यवस्थापितवाक् चिरेण स्वीकृतवाक् । एतेन लज्जोपरोधो व्यज्यते । मिताक्षरं परिमितवर्णं यथा तथाऽभाषत बभाषे ॥ ६३॥

 किमुवाचेत्याह--

 यथा श्रुतं वेदविदांवर ! त्वया जनोऽयमुच्चैःपदलङ्घनोत्सुकः ।
 तपः किलेदं तदवाप्तिसाधनं मनोरथानामगतिर्न विद्यते ॥६४॥

 यथेति ॥ हे वेदविदांवर वैदिकश्रेष्ठ ! त्वया यथा श्रुतं सम्यक्श्रुतम् । श्रुतार्थमेवाह-अयं जनः । स्वयमित्यर्थः । उच्चैःपदस्य शिवलाभरूपोन्नतस्था- नस्य लङ्घन आक्रमणे उत्सुकः । किमत्रायुक्तमित्यत्राह-इदं तपस्तदवाप्तेस्त- स्योच्चैःपदस्यावाप्तेः प्राप्तेः साधनं किल । किलेत्यलीके । अतितुच्छत्वादसाधकमे- वेत्यर्थः । तर्हि त्यज्यतामित्याशङ्क्य दुराशा मां न मुञ्चतीत्याशयेनाह-मनो- रथानां कामानामगतिरविषयो न विद्यते । न हि स्वशक्तिपर्यालोचनया कामाः प्रवर्तन्त इति भावः ॥ ६४ ॥

 अथाह वर्णी विदितो महेश्वरस्तदर्थिनी त्वं पुनरेव वर्तसे |
 अमङ्गलाभ्यासर्[२८] तिं विचिन्त्य तं तवानुवृत्तिं न च कर्तुमुत्सहे ॥६५॥

 अथेति ॥ अथ वर्णी ब्रह्मचारी । 'वर्णिनो ब्रह्मचारिणः' इत्यमरः । आह, उवाचेत्यर्थः । 'आहेति भूतार्थे लट्प्रयोगो भ्रान्तिमूलः' (काव्या. सू. ५।२।४३)


पाठा०--१ मण्डलम्. २ रतम्. इत्याह वामनः । किमित्याह--महेश्वरो महादेवो विदितः, मया ज्ञायत इत्यर्थः । बुद्ध्यर्थत्वाद्वर्तमाने क्तप्रत्ययः, तद्योगात् षष्ठी च । येन त्वं प्राग्भग्नमनोरथा कृतेति भावः । पुनरेव त्वं तमीश्वरमर्थयसे तदर्थिन्येव तत्कामैव वर्तसे, तत्प्रभावमनुभूयापीति भावः । अनुसरणे को दोषस्तत्राह--अमङ्गलाभ्यासेऽमङ्गलाचारे रतिर्यस्य तं यथोक्तमीश्वरं विचिन्त्य विचार्य तवानुवृत्तिमनुसरणं कर्तुं नोत्सहे, नानुमन्तुं शक्नोमीत्यर्थः ॥ ६५ ॥

 अवस्तुनिर्बन्धपरे ! कथं नु ते करोऽयमामुक्तविवाहकौतुकः ।
 [२९]रेण शंभोर्वलयीकृताहिना सहिष्यते तत्प्रथमावलम्बनम् ॥ ६६ ॥

 अवस्त्विति ॥ अवस्तुनि तुच्छवस्तुनि निर्बन्धोऽभिनिवेशः परं प्रधानं यस्यास्तस्याः संबुद्धिरवस्तुनिर्बन्धपरे पार्वति ! आमुक्तमासञ्जितं विवाहे यत्कौतुकं हस्तसूत्रं तद्यस्य स तेऽयं करः । 'कौतुकं मङ्गले हर्षे हस्तसूत्रे कुतूहले' इति शाश्वतः । वलयीकृताहिना भूषणीकृतसर्पेण शंभोर्महादेवस्य करेण करणभूतेन । तदेव प्रथमं तत्प्रथमम् । अपरिचिततत्वादतिभयंकरमिति भावः । तच्च तदवलम्बनं ग्रहणं चेति कथं नु सहिष्यते ? न कथंचिदपि सहिष्यत इत्यर्थः । अग्रतो यद्भावि तद्दूरेऽवतिष्ठतां, प्रथमं करग्रह एवं दुःसह इति भावः ॥ ६६ ॥

 त्वमेव तावत्परिचिन्तय स्वयं कदाचिदेते यदि योगमर्हतः ।
 वधूदुकूलं कलहंसलक्षणं गजाजिनं शोणितबिन्दुवर्षि च ॥ ६७ ॥

 त्वयेवेति ॥ हे गौरि ! त्वमेव स्वयमात्मना । 'तावत्' इति मात्रार्थे, यावन्मात्रं विचारणीयं तावन्मात्रमित्यर्थः । इदमेवोदाहृतं च गणव्याख्याने । परिचिन्तय पर्यालोचय । किमिति ? कलहंसलक्षणं कलहंसचिह्नम् । 'चिह्नं लक्ष्म च लक्षणम्' इत्यमरः । वध्वा नवोढाया दुकूलं वधूदुकूलम् । 'वधूः स्नुषा नवोढा स्त्री' इति विश्वः । तथा शोणितबिन्दून्वर्षतीति तथोक्तम्, आर्द्रमित्यर्थः । गजाजिनं च कृत्तिवासश्च । तत्पिनाकिन इत्याशयः । एते कदाचिज्जात्वपि योगं संगतिमर्हतो यद्यर्हतः किम् ? एतत्त्वमेव चिन्तयेति पूर्वेणान्वयः । पाणिग्रहणणे किल वधूवरयोर्वस्त्रान्तग्रन्थिः क्रियते । कृत्तिवाससा पाणिपीडने तु

दुकूलधारिण्यास्तव कथं संघटिष्यत इति भावः ॥ ६७ ॥

 चतुष्कपुष्पप्रकरावकीर्णयोः परोऽपि को नाम तवानुमन्यते ।
 अलक्तकाङ्कानि पदानि पादयोर्विकीर्णकेशासु परेतभूमि षु॥६८॥

 चतुष्केति ॥ चतुष्के गृहविशेषे यः पुष्पप्रकरस्तत्रावकीर्णयोनर्यस्तयोः, कुसुमास्तृतदिव्यभवनभूसंचारोचितयोरित्यर्थः । तव पादयोरलक्तकाङ्कानि लाक्षा- रञ्जितानि पदानि पादाकाराणि पादन्यासचिह्नानि । “पदं शब्दे च वाक्ये च व्यवसायापदेशयोः । पादतच्चिन्हयोः' इति विश्वः । विकीर्णा विक्षिप्ताः केशाः शवशिरोरुहा यासु तासु विकीर्णकेशासु । 'अतत्स्थं तत्र दृष्टं च' इति वचनात् । 'स्वाङ्गच्चोपसर्जनादसंयोगोपधात्' (पा. ४।१।५४) इति विकल्पाक्ष ङीष् । परेत- भूमिपु प्रेतभूमिपु, श्मशानेष्वित्यर्थः । परोऽपि शत्रुरपि को नामानुमन्यते ? न कोऽपीत्यर्थः । 'नाम' इति कुत्सायाम् । पिनाकपाणिपाणिग्रहणे तस्य परेतभूमंचारि- स्वेन साहचर्यात्तवापि तत्र संचारोऽवश्यंभावीति भावः ॥ ६८ ॥

 अयुक्तरूपं किमतः परं वद त्रिनेत्रवक्षः सुलभं तवापि यत् ।
 स्तनद्वयेऽस्मिन्हरिचन्दनास्पदे पदं चिताभम्मरजः करिष्यति ॥६९॥

 अयुक्तेति ॥ त्रिनेत्रवक्षः, त्र्यम्बकालिङ्गनमित्यर्थः । तव तत्संबन्धितया सुलभमपि सुप्रापं च । भवतीति शेषः । 'तव' इति शेषे षष्टी । 'न लोकाव्यय-' (पा. २।३१६९) इत्यादिना कृद्योगलक्षणषध्या निषेधात् । अतःपरमस्माधिनेत्रवक्षो- लाभादन्यदयुक्तरूपमत्यन्तायुक्तं किं वद । न किंचिदित्यर्थः । 'प्रशंसायां रूपप्' (पा. ५।३१६६) इति रूपप्प्रत्ययः । कुतः ? यद्यस्मात्कारणाद्वरि चन्दनास्पदे हरि- चन्दनस्यास्पदे स्थानभूतेऽस्मिन्स्तनद्वये चिताभस्म श्मशानभस्म तदेव रजश्चूर्णं कर्तृ । पदं करिष्यति पदं निधास्यति, भर्तुर्भवस्य भस्माङ्गरागादिति भावः ॥६९॥

 इयं च तेऽन्या पुरतो विडम्बना यदृढया वारणराजहार्यया ।
 विलोक्य वृद्धोक्षमधिष्ठितं त्वया महाजनः स्मेरमुखो भविष्यति ७०

 इयमिति ॥ इयं च ते तव पुरत आदावेवान्या विडम्बना, परिहास इत्यर्थः । का सेत्यत्राह-ऊढया परिणीतया । वहेः कर्मणि क्तः। वारणराजहार्यया गजेन्द्रवाह्यया त्वयाधिष्टितमारूढं वृद्धमुक्षाणं वृद्धोक्षम् । 'अचतुर- (पा. ५।- ४।७७) इत्यादिना निपातः । विलोक्य महाजनः साधुजनः स्मेरमुखः स्मितमुखो


पाठा०-१ अनुमंस्यते. २ भवेत्. ३ अङ्किते. भविष्यत्युपहसिष्यति यत् । इयमिति पूर्वेण संबन्धः । स्मेरेति 'नमिकम्पिस्म्य- जस-' (पा. ३।२।१६७) इत्यादिना रप्रत्ययः ॥ ७० ॥

 द्वयं गतं संप्रति शोचनीयतां समागमप्रार्थनया पिनाकिनः ।
 कला च सा कान्तिमती कलावतस्त्वमस्य लोकस्य च नेत्रकौमुदी ७१

 द्वयमिति ॥ पिनाकिन ईश्वरस्य समागमप्रार्थनया प्राप्तिकामनया, क्रिय- माणयेति शेषः। संप्रति द्वयं शोचनीयतां शोच्यत्वं गतम् । किं तदाह-सा प्रागेव हरशिरोगता । अत्र सेति प्रसिद्ध्यर्थत्वान्न यच्छब्दापेक्षा । तदुक्तं काव्य- प्रकाशे-'प्रक्रान्तप्रसिद्धानुभूतार्थविषयस्तच्छन्दो यदुपादानं नापेक्षते' इति । कान्तिमती । नित्ययोगे मतुप् । कलावतश्चन्द्रस्य कला षोडशो भागश्चास्य लोकस्य नेत्रकौमुदी, नेत्रानन्दिनीत्यर्थः, स्वं च । कान्तिमतीव-नेत्रकौमुदीत्व- विशेषणयोरुभयत्राप्यन्वयः । प्रागेकैव शोच्या, संप्रति तु त्वमप्यपरेति द्वयं शोच्य मिति पिण्डितार्थः । शोच्यत्वं च निकृष्टाश्रयणादिति भावः ॥ ७१ ॥ 'कन्या वरयते रूपं माता वित्तं पिता श्रुतम् । बान्धवाः कुलमिच्छन्ति मिष्टान्नमितरे जनाः ॥' इति लोकानामाभाषणम् । तत्र किंचिदपि नास्तीत्याह-

 वपुर्विरूपाक्षमलक्ष्यजन्मता दिगम्बरत्वेन निवेदितं वसु ।
 वरेषु यद्धालमृगाक्षि मृग्यते तदस्ति किं व्यस्तमपि त्रिलोचने॥७२॥

 वपुरिति ॥ वपुः शरीरं तावदस्य विरूपाणि विकृतरूपाण्यक्षीणि नेत्राणि यस्य तद्विरूपाक्षम् । 'बहुदीही सक्थ्यक्ष्णोः स्वाङ्गात्पचच्' (पा. ५।४।११३) इति पच्प्रत्ययः । वैरूप्यं च त्रिनेत्रत्वादिति क्षीरस्वामी। अतो न सौन्दर्यवार्तापीत्यर्थः । अलक्ष्यमज्ञातं जन्म यस्य तस्य भावस्तत्ता, कुलमपि न ज्ञायत इत्यर्थः । 'अलक्षिता जनिः' इति पाठे-जनिरुत्पत्तिरलक्षिता न ज्ञाता । 'जनिरुत्पत्ति- रुद्भवः' इत्यमरः । वसु वित्तं दिगम्बरत्वेनैव निवेदितम् , नास्तीति ज्ञापितमित्यर्थः। यदि चित्तं भवति तदा कथं दिगम्बरो भवति ? मतो ज्ञेयं निर्धनोऽयमिति । किं बहुना, हे बालमृगाक्षि पार्वति ! वरेषु वोध्रढृषु। 'वरौ जामातृवोढारौ' इति विश्वः । यद्रूपवित्तादिकं मृग्यते कन्यातद्वन्धुभिरन्विष्यते तत्रिलोचने त्र्यम्बके व्यस्तम् , एकमपि समस्तं नाभूदिति भावः । अस्ति किम् ? नास्त्येवेत्यर्थः॥७२॥


पाठा०-१ कपालिनः.

८ कु० सं०

 निवर्तयास्मादसदीप्सितान्मनः क्क तद्विधस्त्वं क्क च पुण्यलक्षणा ।
 अपेक्ष्यते साधुजनेन वैदिकी श्मशानशूलस्य न यूपसत्किया॥७३॥

 निवर्तयेति ॥ अस्सादसदीप्सितादनिष्टमनोरथान्मनो निवर्तय निवारय । सा पूर्वोक्ता विधा प्रकारो यस्य स तथोक्तः । अमङ्गलशील इत्यर्थः । क ? मह- दन्तरमित्यर्थः । पुण्यलक्षणा प्रशस्तभाग्यचिह्वा त्वं च क ? अतो न तवायमर्हं इत्यर्थः । तथा हि-साधुजनेन । 'साधुर्वाधुषिके चारौ सज्जने चाभिधेयवत् ' इति विश्वः । श्मशानशूलस्य श्मशानभूमिनिखातस्य वध्यशङ्कोर्वैदिकी वेदोक्ता। यूपो नाम पशुबन्धनसाधनभूतः संस्कृतदारुविशेषः, तस्य सत्क्रिया प्रोक्षणाभ्यु- क्षणादिसंस्कारो यूपसत्क्रिया नापेक्ष्यते नेष्यते । यथा श्मशानशूले यूपसस्क्रिया न क्रियते, तथा त्वमपि तस्मै न घटस इति तात्पर्यार्थः ॥ ७३ ॥

 इति द्विजातौ प्रतिकूलवादिनि प्रवेपमानावरलक्ष्यकोपया ।
 विकुञ्चितब्भ्रूलतमाहिते तया विलोचने तिर्यगुपान्तलोहिते ॥७४॥

 इतीति ॥ इत्येवंप्रकारेण द्विजातौ द्विजे प्रतिकूलवादिनि सति प्रवेपमाने न चञ्चलेनाधरेणाधरोष्ठेन लक्ष्योऽनुमेयः कोपः क्रोधो यस्यास्तथोक्तया तया पार्वत्योपान्तलोहिते प्रान्तरक्ते विलोचने विकुञ्चिते कुटिलिते भ्रूलते यस्मिंस्तत्तथा, सभ्रूभङ्गमित्यर्थः । तिर्यक्साच्याहिते निहिते, अनादरात्तिर्यगैक्षतेत्यर्थः ॥ ७४ ॥

 उवाच चैनं परमार्थतो हरं न वेत्सि नूनं यत एवमात्थ माम् ।
 अलोकसामान्यमचिन्त्यहेतुकं द्विषन्ति मन्दाश्चरितं महात्मनाम् ७५

 उवाचेति ॥ अथैनं ब्रह्मचारिणमुवाच च। किमिति ? परमार्थतस्तस्वतो हरं न वेल्सि न जानासि नूनम् । कुतः ? यतो मामेवमुक्तया रीत्यास्थ ब्रवीषि । 'ब्रुवः पञ्चानामादित:-' (पा. ३।४।८४) इति रूपसिद्धिः । अज्ञानादेवायं शिवद्वेष- स्तवेत्याशयेनाह-मन्दा मूढाः ! 'मूढाल्पापटुनिर्भाग्या मन्दाः' इत्यमरः । लोक- सामान्यमितरजनसाधारणं न भवतीत्यलोकसामान्यमचिन्त्यहेतुकं दुर्योधकारणकं महात्मनां चरितम् । द्विषन्ति हेत्वपरिज्ञानाद्रूषयन्ति विद्वांसस्तु कोऽप्यत्र हेतुरस्तीति बहु मन्यन्त इत्यर्थः ॥ ७५ ॥


पाठा०-१ अपेक्षते. २ हि. ३ भ्रूलतया.  संप्रति 'अमङ्गलाभ्यासरतिम्' (५।६५) इत्याद्युक्तं दूषणजातं 'विपत्प्रतीकार- परेण' इत्यादिभिः षड्भिः श्लोकैः परिहर्तुमार्भते ‌- ‌

 विपत्प्रतीकारपरेण मङ्गलं निषेव्यते भूतिसमुत्सुकेन वा ।
 जगच्छरण्यस्य निराशिषः सतः किमेभिराशोपहतात्मव्रत्तिभिः ७६

 विपदिति ॥ विपत्प्रतीकारपरेण, अनर्थपरिहारार्थनेत्यर्थः । 'उपसर्गस्य घन्यमनुष्ये बहुलम्' (पा.६।३।१२२) इति दीर्घः । भूरिसमुत्सुकेनैश्वर्यकामेन वा मङ्गलं गन्धमाल्यादिकं निषेव्यते । शरणे रक्षणे साधुः शरण्यः । 'तत्र साधुः' (पा.४।४।९८) इति यत्प्रत्ययः । शरणं गृहरक्षित्रोः' इत्यमरः । जगतः शरण्यस्तस्य जगच्छरण्यस्य निराशिषो निरभिलाषस्य सतः शिवस्य । 'आशीरुरगदंष्ट्रायां विप्रवाक्याभिलाषयोः' इति शाश्वतः । आशया तृष्णयोपहता दूषितात्मवृत्तिर- न्तःकरणवृत्तिर्येषां तैरेभिर्मङ्गलैः किम् ? वृथेत्यर्थः । पूर्व 'मंङ्गलम्' इत्येकवचनस्य जात्यभिप्रायत्वात् 'एभिः' इति बहुवचनेन परामर्शों न विरुध्यते । इष्टावास्य- निष्टपरिहारार्थिनो हि मङ्गलाचारनिर्बन्धः । तदुभयासंसृष्टस्य तु यथाकथंचिदा- स्ताम् । को दोष इत्यर्थः । एतेन 'अमङ्गलाभ्यासरतिम्' (५।६५) इत्युक्तं प्रत्युक्तम् ॥ ७६ ॥

 अकिंचनः सन्प्रभवः स संपदां त्रिलोकनाथः पितृसङ्मगोचरः।
 स भीमरूपः शिव इत्युदीर्यते न सन्ति याथार्थ्यविदः पिनाकिनः॥

 अकिंचनेति ॥ स हरः। न विद्यते किंचन द्रव्यं यस्य सोऽकिंचनो दरिद्रः सन् संपदां प्रभवत्यस्मादिति प्रभवः कारणम् । पितृसङ्मगोचरः श्मशानाश्रयः सन् त्रयाणां लोकानां नाथः तद्धितार्थ-'(पा.२।१९५१) इत्यादिनोत्तरपदसमासः । स देवो भीमरूपो भयंकराकारः सन् शिवः सौम्यरूप इत्युदीर्यत उच्यते । अतः पिनाकिनो हरस्य यथाभूतोऽर्थः यथार्थस्तस्य भावो याथार्थ्य तत्वं तस्य विदो न सन्ति, लोकोत्तरमहिन्ना निर्लेपस्य यथाकथंचिदवस्थानं न दोषायेति भावः । एतेन 'अवस्तुनिर्बन्धपरे' (५।६६) इति श्लोकोक्तं परिहृतं वेदितव्यम् ॥ ७७ ॥ देवस्य लौकिकमलौकिकं च प्रसाधनं नास्तीत्याशयेनाह-

 विभूषणोद्भासि पिनद्धभोगि वा गजाजिनालम्बि दुकूलधारि वा ।
 कपालि वा स्यादथवेन्दुशेखरं न विश्वमूर्तेरवधार्यते वपुः ।। ७८ ॥


पाठा०-१ स लोकनाथः. २ अथ चन्द्रशेखरम्. टिप्प०-1 अनेन 'दिगंबरत्वेन निवेदितं वसु' (५।७२) इत्याक्षिप्तं परिहृतम्।  विभूषणेति ॥ विश्वं मूर्तिर्यस्येति विश्वमूर्तेरष्टमूर्तेः शिवस्य वपुः शरीरं भूषणैरुदासत इति भूषणोद्भासि स्यात् , पिनद्धभोग्यामुक्तभुजंगमं वा स्यात् । पिनद्धेति नह्यतेरपिपूर्वात् कर्मणि क्तः । 'वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः' इत्यकारलोपः । गजाजिनालम्बि स्यात् , अथवा दुकूलधारि स्यात् , कपालम- स्यास्तीति कपालि ब्रह्मशिरःकपालशेखरं वा स्यात् , इन्दुशेखरं वा स्यात् , नाव- धार्यते न निर्धार्यते, सर्वं संभवतीत्यर्थः । एतेन 'स्वमेव तावत्' (५।६७) इति श्लोकोक्तं प्रत्युक्तमिति ज्ञेयम् ॥ ७८ ॥

 'अयुक्तरूपं किमतः परं वद' (५।६९) इति श्लोकोक्तं प्रत्याह-

 तदङ्गसंसर्गमवाप्य कल्पते ध्रुवं चिताभस्मरजो विशुद्धये ।
 तथा हि नृत्याभिनयक्रियाच्युतं विलिप्यते मौलिभिरम्बरौकसां ७९

 तदिति ॥ तस्य शिवस्याङ्गं तस्य संसर्गमवाप्यासाद्य चिताभस्मैव रजो विशुद्धये कल्पते, अलं पर्यामोतीत्यर्थः । अलमर्थयोगात् 'नमःस्वस्तिस्वाहा-' (पा.२।३।१६) इत्यादिना चतुर्थी । ध्रुवं शोधकत्वम् , प्रमाणसिद्धमित्यर्थः । प्रमा- णमेवाह -तथा हि प्रसिद्धमेवेत्यर्थः । नृत्ये ताण्डवे योऽभिनयोऽर्थव्यञ्जक- चेष्टाविशेषः स एव क्रिया तया निमित्तेन च्युतं पतितम् , चिताभस्मरज इति शेषः । अम्बरौकसां देवानां मौलिभिर्विलिप्यते ध्रियते, अशुद्धं चेत्कथमिन्द्रा- दिभिर्धियेतेत्यर्थापत्तिरनुमानं वा प्रमाणमित्यर्थः ॥ ७९ ॥

 यदुक्तम् 'दिगम्बरत्वेन निवेदितं वसु' (५।७२), 'इयं च तेऽन्या पुरतो विडम्बना' (५१७०), इत्यादि च तत्रोत्तरमाह-

 असंपदस्तस्य वृषेण गच्छतः प्रभिन्नदिग्वारणवाहनो वृषा।
 करोति पादावुपगम्य मौलिना विनिद्रमन्दाररजोरुणाङ्गुली ॥८॥

 असंपद इति ॥ प्रभिन्नो मदस्त्रावी दिग्वारणो दिग्गजो वाहनं यस्य सः, ऐरावतेनोढ इत्यर्थः । वृषा देवेन्द्रोऽसंपदो दरिद्रस्य वृषेण गच्छतो वृषभारूढस्य तस्येश्वरस्य पादौ मौलिना मुकुटेनोपगम्य, प्रणम्येत्यर्थः । विनिद्राणां विकसि- तानां मन्दाराणां कल्पतरुकुसुमानां रजोभिः परागैररुणा अङ्गुलयो ययोस्तौ तथोक्तौ करोति । दिग्गजारोहिणामिन्द्रादीनामपि वन्द्यस्येन्दुमौले: किं संपदा ? वृषारोहणे वा को दोष इत्यर्थः ॥ ८॥


पाठा०‌--१ संस्पर्शम. २ विलुप्यते.  यदुक्तं 'चपुर्विरूपाक्षमलक्ष्यजन्मता' (५/७२ ) इति तत्रोत्तरमाह-

 विवक्षता दोषमपि च्युतात्मना त्वयैकमीशं प्रति साधु भाषितम् ।
 यमामनन्त्यात्मभुवोऽपि कारणं कथं स लक्ष्यप्रभवो भविष्यति ८१

 विवक्षतेति ॥ च्युतात्मना नष्टस्वभावेनात एव दोषं दूषणं विवक्षता वक्तुमिच्छतापि स्वयेशं प्रति एकम् 'अलक्ष्यजन्मता' इत्येतदेकम् , वच इत्यर्थः । साधु भाषितं सम्यगुक्तम् । कुतः ? यमीश्वरमात्नभुवोऽपि ब्रह्मणोऽपि । 'ब्रह्मा- रमभूः सुरज्येष्ठः' इत्यमरः । कारणमामनन्त्युदाहरन्ति, विद्वांस इति शेषः । 'पाघ्राध्मास्थाम्नादाण् -' (पा. ७१३:७८) इत्यादिना मनादेशः । स ईश्वरः कथं लक्ष्यप्रभवो लक्ष्यजन्मा भविष्यति ? अनादिनिधनस्य भगवतः कारणशङ्काकल- ङ्कश्च नान्विष्यत इत्यर्थः ॥ ८ ॥

 अलं विवादेन यथा श्रुतस्त्वया तथाविधस्तावदशेषमस्तु सः ।
 ममात्र भावैकरसं मनः स्थितं न कामवृत्तिर्वचनीयमीक्षते ॥८२॥

 अलमिति ॥ अथवा विवादेन कलहेनालम् । त्वया यथा येन प्रकारेण स ईश्वरः श्रुतोऽशेषं कात्स्न्य्रेन तथाविधस्तावत्प्रकार एवास्तु । मम मनस्त्वत्रेश्वरे भावः शृङ्गार एकोऽद्वितीयो रस आस्वादो यस्य तत्तथा स्थितम् । तथा हि- कामवृत्तिः स्वेच्छाव्यवहारी वचनीयमस्थानसङ्गापवादं नेक्षते न विचारयति; न हि स्वेच्छासंचारिणो लोकापवादाद्विभ्यतीति भावः ॥ ८२ ॥

 निवार्यतामालि! किमप्ययं बटुः पुनर्विवक्षुः स्फुरितोत्तराधरः ।
 न केवलं यो महतोऽपभाषते शृणोति तस्मादपि यः स पापभाक्८३

 निवार्यतामिति ॥ हे आलि सखि ! 'आलिः सखी वयस्या च' इत्यमरः । स्फुरितोत्तराधरः स्फुरणभूयिष्ठोष्टः अयं बटुर्माणवकः पुनः किमपि विवक्षुर्वक्तु- मिच्छुः । ब्रुवः समन्तादुप्रत्ययः । निवार्यताम् । तर्हि वक्तुमेव कथं न ददासी- त्याह-तथा हि-यो महतः पूज्यानपभाषतंऽपवदति न केवलं स पापभाग्भ- वति । किंतु तस्मादपभाषमाणात्पुरुषाधः शृणॉति सोऽपि पापभाक् । भवतीति शेषः । अत्र स्मृतिः (मनु. २।२००)-'गुरोः प्राप्तः परीवादो न श्रोतव्यः कथंचन । सत्र कर्णौ पिधातव्यौ गन्तव्यं वा ततोऽन्यतः ॥' इति ॥ ८३ ॥


पाठा०-१ श्रुतम् . २ महतां विभाषते.   संप्रति गन्तव्यपक्षमाश्रयते-

 इतो गमिष्याम्यथवेति वादिनी चचाल बाला स्तनभिन्नवल्कला ।
 स्वरूपमास्थाय च तां कृतस्मितः समाललम्बे वृषराजकेतनः ॥४॥

 इत इति ॥ अथवा, 'इतोऽन्यत्र गमिष्यामि' इति वादिनी वदन्ती स्तनाभ्यां भिन्नवल्कला रयवशात्कुचस्रस्तचीरा बाला पार्वती चचाल । वृषराजकेतनो वृष- भध्वजश्च स्वरूपमास्थाय निजरूपमाश्रित्य कृतस्मितः सन् तां पार्वती समाल- लम्बे जग्राह ॥ ८४ ॥

  तं वीक्ष्य वेपथुमती सरसाङ्गयष्टि-
   र्निक्षेपणाय पदमुद्धृतमुद्वहन्ती ।
  मार्गाचलव्यतिकराकुलितेव सिन्धुः
   शैलाधिराजतनया न ययौ न तस्थौ ॥ ८५॥

 तमिति ॥ तं देवं वीक्ष्य वेपथुमती कम्पवती सरसामयष्टिः स्विष्चगात्री । महादेवदर्शनेन, देव्याः सात्त्विकभावोदय उक्तः । निक्षेपणाय, अन्यत्र विन्या- सायोद्धृतमुत्क्षिप्तं पदमङ्र्गीमुद्वहन्ती शैलाधिराजतनया पार्वती मार्गेऽचलस्तस्य व्यतिकरेण समाहत्या । अवरोधनेनेति यावत् । आकुलिता संभ्रमिता सिन्धुर्न- दीव । 'देशे नदविशेषेऽब्धौ सिन्धुर्ना सरिति स्त्रियाम्' इत्यमरः । न ययौ न तस्थौ, लजयेति भावः । वसन्ततिलका वृत्तमेतत् ॥ ८५ ॥

  अद्यप्रभृत्यवनताङ्गि! तवास्मि दासः
   क्रीतस्तपोभिरिति वादिनि चन्द्रमौलौ ।
  अह्नाय सा नियमजं क्लममुत्ससर्ज
   क्लेशः फलेन हि पुनर्नवतां विधत्ते ॥ ८६ ।।

 अद्येति ॥ चन्द्रमौलौ शिवे । हे अवनताङ्गि पार्वति ! अद्यप्रभृति, अस्मा- दिनादारभ्येत्यर्थः । प्रभृतियोगादद्येति सप्तम्यर्थवाचिना पञ्चम्यर्थो लक्ष्यते। तव तपोभिः क्रीतः । 'दास्र दाने' । दासत भास्मानं ददातीति दासोऽस्मीति वादिनि


पाठा०-१ रय. २ निक्षेप एव. ३ पिधत्ते. वदति सति । सा देव्याय सपदि । 'स्त्राग्झटित्यञ्जसाह्नाय द्राङ्प्राङ्क्षु सपदि द्रुतम्' इत्यमरः । नियमजं तपोजन्यं क्लमं क्लेशमुत्ससर्ज, फलप्रास्या क्लेशं विसस्मारेत्यर्थः । तथा हि-क्लेशः फलेन फलसिया पुनर्नवतां विधत्ते पूर्ववदे- बाक्लिष्टतामापादयतीत्यर्थः । सफलः क्लेशो न क्लेश इति भावः ॥ ८६ ॥

इति श्रीमन्महोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीविनीसमा-
ख्यया व्याख्यया समेतः श्रीकालिदासकृतौ कुमारसंभवे महाकाव्ये
तपःफलोदयो नाम पञ्चमः सर्गः।

षष्ठः सर्गः ।


  अथ विश्वात्मने गौरी संदिदेश मिथः सखीम् ।
  दाता मे भूभृतां नाथः प्रमाणीक्रियतामिति ॥१॥

 अथेति ॥ अथ देवदेवानुग्रहानन्तरं गौरी पार्वती विश्वमात्मा स्वरूपं यस्येति, विश्वस्यात्मेति वा । विश्वात्मने शिवाय मिथो रहसि । 'मिथोऽन्योन्यं रहस्यपि' इत्यमरः । सखी संदिदेशातिससर्ज । क्रियामात्रप्रयोगेऽपि संप्रदानत्वा- चतुर्थी। किमिति ? भूभृतां नाथो हिमवान्मे मम दाता सन् प्रमाणीक्रियतामिति, दातृत्वेन प्रमाणीक्रियतामित्यर्थः । प्रार्थनायां लोट । पित्रा दीयमानायाः परिग्रहो मम महाननुग्रह इति भावः ॥१॥

  तया व्याहृतसंदेशा सा बभौ निभृता प्रिये ।
  चूतयष्टिरिवाभ्याशे मधौ परभृतोन्मुखी ॥२॥

 तयेति ॥ तया सख्या, सखीमुखेनेत्यर्थः । व्याहृतसंदेशोक्तवाचिका प्रिये हरविषये निभृता निश्चला, परमासक्तेत्यर्थः । सा गौरी । मधौ वसन्ते निभृता स्थिरा परभृतया कोकिलयोन्मुखी मुखरा परभृतोन्मुखी। 'मुख'शब्देनाभि- भाषणव्यापारो लक्ष्यते, तथा च परभृतामुखेन व्याहरन्तीत्यर्थः । परभृतेति क्रियाशब्दविवक्षायाम् 'जातेरस्त्री-' (पा. ४११।६३) इति ङीप्प्रत्ययो न भवति। 'तया' इस्युपमेयस्य व्यस्तत्वादुपमानवाचि 'परभृता' शब्दस्य समासः सोढव्यः। अथवा भृद्भरणम् संपदादित्वात्किप् । परैर्भ्रद्यस्यास्तया परभृतेति व्यासेन व्याख्ये- यम् । पदमञ्जरीकारस्तु-परैर्भ्रियत इति कर्मणि क्विपमाह । चूतयष्टिश्चूतशाखे- वाभ्याशेऽन्तिके बभौ । 'सदेशाभ्याशसविधसमर्यादसवेशवत् । उपकण्ठान्ति- काभ्याभ्यग्रा अप्यभितोऽव्यम् ॥' इत्यमरः ॥२॥

  स तथेति प्रतिज्ञाय विसृज्य कथमप्युमाम् ।
  ऋषीञ्ज्योतिर्मयान्सप्त सम्मार स्मरशासनः ॥३॥

 स इति ॥ स प्रकृतः । शास्तीति शासनः । बहुलग्रहणास्कर्तरि ल्युट् । स्मरस्य शासन ईश्वरस्तथेति प्रतिज्ञाय, तथा करिष्यामीत्युक्त्वेत्यर्थः । उमां कथमपि कृच्छ्रेण विसृज्य, तत्र गाढानुरागत्वादिति भावः । ज्योतिर्मयांस्तेजो- रूपान्सप्तर्षीमङ्गिरःप्रभृतीन्सस्मार स्मृतवान् ॥ ३॥

  ते प्रभामण्डलैर्व्योम द्योतयन्तस्तपोधनाः ।
  सारुन्धतीकाः सपदि प्रादुरासन्पुरः प्रभोः ॥ ४ ॥

 त इति । ते तप एव धनं येषां त तपोधनाः सप्तर्षयः प्रभामण्डलैस्तेजः- पुञ्जैर्व्योमाकाशं द्योतयन्तः प्रकाशयन्तः । अरुन्धत्या सह वर्तन्त इति सारु- न्धतीकाः सन्तः । 'नद्यतश्च' (पा. ५।४।१५३) इति कप् । सपदि प्रभोरीश्वरस्य पुरः पुरोभागे प्रादुरासन्प्रत्यक्षा बभूवुः ॥ ४ ॥

 इतः परं षभिः श्लोकैस्तानेव मुनीन्वर्णयति-

  आप्लुतास्तीरमन्दारकुसुमोत्किरवीचिषु ।
  व्योमगङ्गाप्रवाहेषु दिङ्नागमदगन्धिषु ॥ ५॥

 आप्लुता इति ॥ उत्किरन्ति विक्षिपन्तीत्युत्किराः । 'इगुपध-' (पा. ३।१।- १३५) इत्यादिना कप्रत्ययः । तीरे ये मन्दाराः कल्पवृक्षास्तेषां कुसुमानामुत्किरा वीचयस्तरंगा येषां तेषु दिङ्नागानां दिग्गजानां मदगन्धो येष्विति तथोक्तेषु व्योमगङ्गाप्रवाहेष्वाकाशगङ्गास्रोतःस्वाप्लुताः स्नाताः ॥५॥


पाठा०-१ कुसुमोत्कर. २ आकाशगङ्गास्रोतःसु. टिप्प०-1 तथा चाक्तं पाराशरसंहितायाम्-'कलया चरन्ति राशिघु दिवि ये

सप्तर्षयो मरीच्याद्याः। सूर्यादयश्च ये ते खचराः सर्वे ग्रहाः प्रोक्ताः' इति ।

  मुक्तायज्ञोपवीतानि बिभ्रतो हैम[३०]वल्कलाः ।
  रत्नाक्षसूत्राः प्रव्रज्यां कल्पवृक्षा इवाश्रिताः ॥ ६ ॥

 मुक्तेति ॥ मुक्तानां मौक्तिकानां यज्ञोपवीतानि, मुक्तामयानीत्यर्थः । बिभ्रतो दधानाः । हेममयानि वल्कलानि येषां ते हैमवल्कलाः । रत्नमयान्यक्षसूत्राणि येषां ते रत्नाक्षसूत्राः । प्रव्रज्यां प्रव्रजनम् । 'व्रजयजोर्भावे क्यप्' (पा. ३।३।९८) इति क्यप् । आश्रिताः कल्पवृक्षा इव स्थिताः । अत्र चतुर्थाश्रमवाचिना 'प्रव्रज्या' शब्देन वानप्रस्थाश्रमो लक्ष्यते । 'जहुः परिग्रहव्रीडां प्राजापत्यास्तपस्विनः' (६।३४) इति सपत्नीकत्वाभिधानात् । 'सुतविन्यस्तपत्नीकस्तया वानुगतोऽपि सन्' (याज्ञ. स्मृ. ३।४५) इति वानप्रस्थस्योभयथा स्मरणात् ॥ ६ ॥

  अधःप्रस्थापिताश्वेन समावर्जितकेतुना ।
  सहस्ररश्मिना सा[३१]क्षात्सप्रणाममुदीक्षिताः ॥ ७ ॥

 अध इति ॥ अधःप्रस्थापिताश्वेन । सूर्यमण्डलोपरिवर्तित्वात्सप्तर्षिमण्डलस्येति भावः । समावर्जितकेतुना तन्मण्डलाघातशङ्कया नमितध्वजेन सहस्ररश्मिना सूर्येण साक्षात्स्वयमेव सप्रणाममुदीक्षिताः, गमनाभ्यनुज्ञादानपर्यन्तमित्यर्थः । भगवतः सूर्यस्याप्युपास्या इति भावः ॥ ७ ॥

  आसक्तबाहुलतया सार्धमु[३२]द्धृतया भुवा ।
  महावराहदष्ट्रायां विश्रान्ताः प्रलयापदि ॥ ८ ॥

 आसक्तेति ॥ पुनः किंविधाः ? प्रलयापदि कल्पान्तसंकट आसक्तबाहुलतया, दंष्ट्रायामिति शेषः । उद्धृतया, दंष्ट्रयेति शेषः । भुवा सार्धं धरण्या सह महावराहदंष्ट्रायां विश्रान्ताः, महाप्रलयेऽप्यविनाशिन इत्यर्थः ॥ ८ ॥

  सर्गशेषप्रणयनाद्विश्वयोनेरनन्तरम् ।
  पुरातनाः पुराविद्भिर्धातार इति कीर्तिताः ॥ ९ ॥

 सर्गेति ॥ विश्वयोनेर्ब्रह्मणोऽनन्तरं सर्गशेषस्य प्रणयनात्, ब्रह्मसृष्टावशिष्ट


 टिप्प०--1 कल्पवृक्षाणां रत्नफलत्वं चोक्तं नैषधीये (११।१०)--'एषां गिरेः सकलरत्नफलस्तरुर्यः प्राग्दग्धभूमिसुरभेरिव पञ्चशाखः' इति । सृष्टेः करणाद्धेतोरित्यर्थः । पुराविद्भिः पुराणवेदिभिर्व्यासादिभिः पुरातना धातार इति कीर्तिताः । 'विश्वयोनेः' इति संबन्धमात्रे षष्टी, 'तस्यानन्तरम्' इति भाष्ये दर्शनात् । अपादानत्वविवक्षायां तु पञ्चमी । अयमदःशब्दो यथाशब्दावृत्तादनन्तरस्येति शाबरभाष्ये दर्शनात् । तथा 'अथातो धर्मजिज्ञासा' (जै. सू. १।१।१) इत्यत्र 'अथ वेदाध्ययनादनन्तरम्' इत्याचार्याः। कविश्च 'पुराणपत्रापगमादनन्तरम्' इति । एवमन्यत्रापि द्रष्टव्यम् ॥९॥

  प्राक्तनानां विशुद्धानां परिपाकमुपेयुषाम् ।
  तपसामुपभुञ्जानाः फलान्यपि तपखिनः ॥१०॥

 प्राक्तनानामिति ॥ प्राक्तनानां जन्मान्तरभवानां विशुद्धानां निर्मलानां परिपाकं फलदानोन्मुखत्वमुपेयुषां गतानां तपसां फलान्युपभुजाना अपि तपस्विनस्तपोनिष्ठाः। प्रारब्धभोगिनो निस्पृहाश्चेति भावः । कुलकम् ॥ १०॥

  तेषां मध्यगता साध्वी पत्युः पादार्पितेक्षणा ।
  साक्षादिव तपःसिद्धिर्बभासे बह्वरुन्धती ॥ ११ ॥

 तेषामिति ॥ तेषामृषीणां मध्यगता साध्वी पतिव्रता । अत एव पत्युर्वसिष्ठस्य पादयोर्पितेक्षणा निविष्टदृष्टिररुन्धती साक्षात्प्रत्यक्षा तपःसिद्धिरिव तेषामेवेति शेषः । तेषां मध्यगतेति लिङ्गवचनादिसाम्यादियमुपमा । बहु भूयिष्ठं बभासे भाति स्म ॥११॥

  तामगौरवभेदेन मुनींश्चापश्यदीश्वरः ।
  स्त्री पुमानित्यनास्थैषा वृत्तं हि महितं सताम् ॥ १२ ॥

 तामिति ।। ईश्वरो भगवांस्तामरुन्धतीं मुनींश्चागौरवभेदेन समानप्रतिपत्त्यापश्यदृष्टवान् । न चायमविवेक इत्याह-हि यस्मात् स्त्रीपुमांश्चेत्येषाऽनास्था स्त्रीपुंसभेदो न विवक्षितः । किंतु सतां साधूनां वृत्तं चरित्रमेव महितं पूज्यम् । 'गुणाः पूजास्थानं गुणिषु न च लिङ्गं न च वयः' (उत्तर. ४।११) इति भावः ॥१२॥


टिप्प॰ - अयं श्लोकः “प्राणानामनिलेन वृत्तिरुचिता सत्कल्पवृक्षे बने तोये काच्च-

मपश्चरेणुकपिशे पुण्याभिषेकक्रिया। ध्यानं रत्नशिलातलेषु विबुधस्त्रीसंनिधौ संयमो यत्काक्षंति तपोभिरन्यमुनयस्तस्मिंस्तपस्यन्त्यमी' (शाकु. ७।१२) इति श्लोकेन साम्यं बिभतिं ।

  तद्दर्शनादभृच्छंभोर्भूयान्दारार्थमादरः।
  क्रियाणां खलु धर्म्याणां सत्पत्न्यो मूलकारणम् ॥ १३ ॥

 तदिति ॥ तद्दर्शनादरुन्धतीदर्शनाच्छंभोरार्थं परिग्रहार्थमादरो भूयान्बहुसरोऽभूत् । ननु दाराः कुत्रोपयुज्यन्त इत्यत्राह- धर्म्याणां धर्मादनपेतानाम् । 'धर्मपथ्यर्थन्यायादनपेते' (पा. ४।४।९२) इति यत्प्रत्ययः । क्रियाणामिज्यादीनां सत्यः पतिव्रताः पत्न्यः सत्पत्न्यः 'पत्युनों यज्ञसंयोगे' (पा. ४।१।३३) इति ङीप् , नकारश्च । मूलकारणं खलु ॥ १३ ॥

  धर्मेणापि पदं शर्वे कारिते पार्वतीं प्रति ।
  पूर्वापराधभीतस्य कामस्योच्छ्सिे तं मनः ।। १४ ॥

 धर्मेणेति ॥ धर्मेण दारसंजिवृक्षालक्षणेनापि कर्त्रा । शर्व ईश्वरे पार्वतीं प्रति पदं कारिते सति । 'हृक्रोरन्यतरस्याम्' (पा.१।४।५३) इति शर्वस्याणिकर्तुः कर्मत्वम् । पूर्वापराधभीतस्य कामस्थ मन उच्छ्वसितम् । पुनरुज्जीवनावकाशो भवतीति सप्रत्याशमभूदित्यर्थः ॥ १४ ॥

  अथ ते मुनयः सर्वे मानयित्वा जगद्गुरुम् ।
  इदमूचुरनूचानाः प्रीतिकण्टकितत्वचः ।। १५॥

 अथेति ॥ अथानूचानाः साङ्गवेदप्रवक्तारः । 'अनूचानः प्रवचने साङ्गेऽधीती गुरोस्तु यः' इत्यमरः । 'उपेयिवाननाश्वाननूचानश्च' (पा. ३।२।१०९) इति निपातः । प्रीत्या कण्टकिताः पुलकितास्त्वचो येषां ते तथोक्ताः। ते सर्वे मुनयो जगद्गुरुं हरं मानयित्वा पूजयित्वेदं वक्ष्यमाणमूचुः ॥ १५ ॥

  यद्ब्रह्म सम्यगाम्नातं यदग्नौ विधिना हुतम् ।
  यच्च तप्तं तपस्तस्य विपक्वं फलमद्य नः॥१६॥

 यदिति ॥ ब्रह्म वेदः । वेदस्तत्त्वं तपो ब्रह्म' इत्यमरः । सम्यङ्नियमपूर्वकमान्नातमधीतमिति यत् । अग्नौ विधिना हुतमिति यत् । तपश्चान्द्रायणादिकं सप्तमिति च यत्तस्याध्ययनेज्यातपोरूपस्य, आश्रमात्रयसाध्यस्य कृत्स्नस्यापि कर्मण इत्यर्थः । समुदायाभिप्रायकमेकवचनम् ; अन्यथाऽऽवृत्त्यान्वयप्रसङ्गात् । न च


पाठा०-१ भूयः. २ साधनम्. ३ प्रथमे. ४ प्रणिपत्य. नपुंसकैकवद्भावः, अनपुंसकेनेति नियमात् । फलं कार्यमद्य नोऽस्माकं विपक्कम् सुनिष्पन्नमित्यर्थः । कर्मणि क्तः। 'पचो वः' (पा.८।२।५२) इति निष्ठातस्य वत्वम् ॥ १६ ॥

 तदेव फलमाह-

  यदध्यक्षेण जगतां वयमारोपितास्त्वया ।
  मनोरथस्याविषयं मनोविषयमात्मनः ॥ १७॥

 यदिति ॥ यद्यस्मात्कारणाज्जगतामध्यक्षेणाधिपेन त्वया वयं मनोरथस्याभिलाषस्याविषयमगोचरमात्मनः स्वस्य मनोविषयं मनोदेशमारोपिताः प्रापिताः,तस्माद्विपक्वं फलमिति पूर्वेण संबन्धः । सकलजगदन्वेष्टव्यस्य भगवतोऽपि वयमन्वेष्या भवाम इति परमोत्कृष्टा वयमिति भावः ॥ १७ ॥

 तदेवोपपादयति-

  यस्य चेतसि वर्तेथाः स तावत्कृतिनां वरः ।
  किं पुनब्रह्मयोनेर्यस्तव चेतसि वर्तते ॥१८॥

 यस्येति ॥ यस्य जनस्य चेतसि वर्तेथाः, येन स्मर्यस इत्यर्थः । स तावत्स एवं कृतिनां कृतकृत्यानां वरः श्रेष्ठः । ब्रह्मणो वेदस्य वेधसो वा योनेः कारणस्य,यद्वा वेदप्रमाणकस्य तव चेतसि यो वर्तते, त्वया स्मर्यत इत्यर्थः । किं पुनः,स कृतिनां वर इति किमु वक्तव्यमित्यर्थः ॥ १८ ॥

  सत्यमर्काच्च सोमाच्च परमध्यास्महे पदम् ।
  अद्य तूच्चैस्तरंताभ्यां स्मरणानुग्रहात्तव ॥ १९ ॥

 सत्यमिति ॥ अर्कात्सूर्याच्च सोमाच्चन्द्राच्च परमुच्चैः पदं स्थानमध्यास्महे तिष्टामः, वयमिति शेपः । सत्यम् । 'अधिशीङ्स्थासां कर्म' (पा. १।४।४६) इति कर्मत्वम् । अद्य तु तव कर्तुः। स्मरणमेवानुग्रहः प्रसादस्तस्माद्धेतोः । ताभ्यामर्केन्दुभ्यामुच्चैस्तरमत्युचं पदम् ,अध्यास्महे इति संबन्धः । उच्चैस्तरमिति द्रव्यप्रकर्षत्वान्नामुप्रत्ययः ॥ १९ ॥


पाठा०-१ अप्यपथम्. २ विश्वयोनेः. ३ तस्मात्.

  त्वत्संभावितमात्मानं बहु मन्यामहे वयम् ।
  प्रायः प्रत्ययमाधत्ते स्वगुणेषूत्तमादरः ॥ २० ॥

 त्वदिति ॥ वयं त्वया संभावितं सस्कृतं त्वसंभावितमात्मानमात्मस्वरूपं बह्वधिकं यथा तथा मन्यामहे । तथा हि-उत्तमादरः सत्पुरुषकर्तृकः सत्कारः स्वगुणेषु विषये प्रायेण भूम्ना प्रत्ययं विश्वासमाधत्ते जनयति, सर्वस्यापि महाजनपरिग्रह एव पूज्यताहेतुरित्यर्थः ॥ २० ॥

  या नः प्रीतिर्विरूपाक्ष ! त्वदनुध्यानसंभवा ।
  सा किमावेद्यते तुभ्यमन्तरात्मासि देहिनाम् ॥ २१ ॥

 येति ॥ हे विरूपाक्ष ! त्वदनुध्यानसंभवा त्वकर्तृकस्मरणजन्या नोऽस्माकं या प्रीतिः सा प्रीतिस्तुभ्यं किमावेद्यते किमर्थ निवेद्यते ? तथा हि-देहिनां प्राणिनामन्तरात्मान्तर्याम्यसि । सर्वसाक्षिणा स्वयास्मत्प्रीतिरनावेदितापि ज्ञायत एवं यतस्ततो न बुद्धबोधनं संभवतीति भावः ॥ २१ ॥

  साक्षाद्दृष्टोऽसि न पुनर्विद्मस्त्वां वयमञ्जसा ।
  प्रसीद कथयात्मानं न धियां पथि वर्तसे ॥२२॥

 साक्षादिति । हे देव ! साक्षात्प्रत्यक्षेण दृष्टोऽसि । अञ्जसा पुनस्तत्त्वतस्तु त्वां वयं न विद्मः । दृश्यमानस्य रूपस्यातात्त्विकत्वादिति भावः । अतः प्रसीदानुगृहाण, आत्मानं निजस्वरूपं कथय । न चाकथितं तत्सुबोधमित्याह-धियां बुद्धीनां पथि न वर्तसे । अतस्त्वयैव त्वद्रूपं कथनीयमित्यर्थः ॥ २२ ॥

 तात्त्विकं रूपं तावदास्तां, न दृश्यमानमपि रूपं तत्त्वतो रूपयितुं शक्यमि- त्याह-

  किं येन सृजसि व्यक्तमुत येन बिभर्षि तत् ।
  अथ विश्वस्य संहर्ता भागः कतम एष ते ॥ २३ ॥

 किमिति ॥ हे देव ! एष दृश्यमानस्ते भागो मूर्तिः किं येन भागेन व्यक्तं प्रपञ्चं सृजसि सः? यत्तदोर्नित्यसंबन्धात्सर्वत्र तच्छब्दोऽध्याहार्यः । उत येन भागेन तव्यक्तं बिभर्षि पालयसि स वा? अथ यो भागस्तस्य विश्वस्य संहर्ता


पाठा०-१ आख्यायते. २ नो विद्मः पुनः. ३ यस्तस्य. स वा? किमादयः संदेहे । कतमः? ब्रह्मविष्णुमहेश्वरेष्वयं कतमो भागस्तदु- च्यतामित्यर्थः ॥ २३ ॥

 ननु हर इत्येवं निश्चयात्कथमयं संशयस्तत्राह-

  अथवा सुमहत्येषा प्रार्थना देव ! तिष्ठतु ।
  चिन्तितोपस्थितांस्तावच्छाधि नः करवाम किम् ॥ २४ ॥

 अथवेति ॥ अथवा, हे देव! सुमहती गुह्यतमस्वादतिदुर्लभेत्यर्थः । एषा प्रार्थना निजरूपनिरूपणप्रार्थना तिष्ठतु। किंतु चिन्तितेन चिन्तिता वोपस्थिताश्चिन्तितोपस्थितास्तान्नोऽस्मांस्तावच्छाध्याज्ञापय किं करवाम । प्रार्थनायां लोट् । अलमप्रस्तुतेन, प्रस्तुते तावन्नियुङ्क्ष्वेत्यर्थः ॥ २४ ॥

  अथ मौलिगतस्येन्दोर्विशदैर्दशनांशुभिः ।
  उपचिन्वन्प्रभां तन्वीं प्रत्याह परमेश्वरः ॥ २५ ॥

 अथेति ॥ अथ परमेश्वरो मौलिगतस्येन्दोस्तन्वीमल्पाम् , कलामात्रत्वादिति भावः । प्रभा कान्ति विशदैः शुभैर्दशनांशुभिरुपचिन्वन्वर्धयन्प्रत्याह, प्रत्युवाचेत्यर्थः ॥ २५॥

  विदितं वो यथा स्वाथा न मे काश्चित्प्रवृत्तयः ।
  ननु मूर्तिभिरष्टाभिरित्थंभूतोऽस्मि सूचितः ॥ २६ ॥

 विदितमिति ॥ हे मुनयः! काश्चिदपि मे प्रवृत्तयो व्यापाराः स्वार्था न भवन्ति यथा तथा वो युष्माकं विदितम् । वाक्यार्थः कर्म । बुद्ध्यर्थत्वाद्वर्तमाने क्तः, तद्योगात्षष्ठी। प्रवृत्तिपारार्थे प्रमाणमाह-अष्टाभिमूर्तिभिरित्थंभूतं इमं प्रकारं परार्थप्रवृत्तिरूपं प्राप्तः । 'भू प्राप्तौ' इति धातोः कर्तरि क्तः । सूचितो ज्ञापितोऽस्मि, मत्स्वमूर्तिचेष्टया स्वपारार्थ्यमनुमेयमित्यर्थः ॥ २६ ॥

  सोऽहं तृष्णातुरैर्वृष्टिं विद्युत्वानिव चातकैः ।
  अरिविप्रकृतैर्देवैः प्रसूतिं प्रति याचितः ॥ २७ ॥

 सोऽहमिति ॥ स परार्थप्रवृत्तिरहं तृष्णातुरश्चातकैर्वृष्टिं विद्युत्वान्मेघ इवा-


टिप्प०-1 अष्टमूर्तयस्तु- भूमिरापोऽनलो वायुरात्मा व्योम रविः शशी । इतीमाः सर्वलोकानां प्रत्यक्षाः शिवमूर्तयः' इत्युक्ताः। रिविप्रकृतैः शत्रुपीडितैर्देवैः प्रसूतिं पुत्रोत्पादनं प्रति याचितः । याचतेढुंहादित्वादप्रधाने कर्मणि क्तः ॥ २७ ॥

  अत आहर्तुमिच्छामि पार्वतीमात्मजन्मने ।
  उत्पत्तये हविर्भोक्तुर्यजमान इवारणिम् ॥ २८ ॥

 अत इति ॥ अतः सुरप्रार्थितत्वाद्धेतोरात्मने पुत्राय, पुत्रमुत्पादयितुमित्यर्थः । 'क्रियार्थोपपदस्य-' (पा.२।३।१४) इत्यादिना चतुर्थी । पार्वती यजमानो यष्टा । 'पूङ्यजोः शानन्' (पा.३।२।१२८) इति शानन्प्रत्ययः। हविर्भोक्तुरनेरुत्पत्तयेऽरणिमग्निमन्थनदारुविशेषमिव । 'निर्मन्थ्यदारुणि त्वरणिर्द्वयोः' इत्यमरः । आहर्तुं संग्रहीतुमिच्छामि ॥ २८ ॥

  तामस्मदर्थे युष्माभिर्याचितव्यो हिमालयः।
  विक्रियायै न कल्पन्ते संबन्धाः सदनुष्ठिताः ॥ २९ ॥

 तामिति ॥ अस्मदर्थेऽस्मत्प्रयोजने निमित्ते सति युष्माभिस्तां पार्वती हिमालयो हिमवान् या1चितव्यः । याचेर्दुहादित्वादप्रधाने कर्मणि तव्यप्रत्ययः । आवश्यकं चैतदित्याह-सद्भिः सत्पुरुषैरनुष्ठिताः संघटिताः संबन्धा यौनादयो विक्रियायै वैकल्योत्पादनाय न कल्पन्ते न पर्याप्नुवन्ति, न समर्था इत्यर्थः । अलमर्थयोगाच्चतुर्थी ॥ २९ ॥

 न चाहं लौल्यास्त्रियमिच्छामि किंतु देवोपकाराय । यद्येवं निखिलदेवेषु विद्यमानेषु हिमगिरेः शिलाभूतस्य कन्यापरिणयेच्छा कथमित्युक्ते स एव मे श्लाघ्यसंबन्धोऽत्रभवान्हिमवानित्याह-

  उन्नतेन स्थितिमता धुरमुद्वहता भुवः ।
  तेन योजितसंबन्धं वित्त मामप्यवञ्चितम् ॥ ३० ॥

 उन्नतेनेति ॥ उन्नतेन प्रांशुना प्रसिद्धेन च स्थितिमता प्रतिष्ठावता भुवो धुरं भारमुद्वहता, निर्वाहकेणेत्यर्थः । तेन हिमवता योजितः संघटितः संबन्धो


पाठा०-१ हिमाचलः. टिप्प.-1 अत्रेन्द्रयाचनमेव परिणयनेच्छायाः कारणत्वेनोपन्यस्तम्, नतु देव्यास्तपः । यतः शिवपार्वती न कदाचिदपि विश्लिष्टौ, अत एव न समागमार्य देव्यास्तपः, किन्तु लोके स्त्रीधर्मशिक्षार्थ कुलीनया स्त्रिया सर्वात्मना स्वानुरूपः पतिर्लब्धम्य इति । यौनसंबन्धो यस्य तं मामप्यवञ्चितमव्यामोहितं वित्त जानीत । 'विद ज्ञाने' इति धातोलोट् ॥ ३० ॥

 तर्हि स किं वाच्य इत्याशङ्कयाह-

  एवं वाच्यः स कन्यार्थमिति वो नोपदिश्यते ।
  भवत्प्रणीतमाचारमामनन्ति हि साधवः ॥ ३१॥

 एवमिति ॥ कन्यार्थं कन्याप्रदानाय स हिमवानेवं वाच्य इति वो युष्मभ्यं नोपदिश्यते । कुतः ? हि यस्मात्साधवो विद्वांसो भवद्भिः प्रणीतं स्मृति रूपेण निबद्धमाचारमामनन्त्युपदिशन्ति, न हि स्वयमुपदेष्टारः परोपदेशमपेक्षन्त इत्यर्थः ॥ ३१ ॥

  आर्याप्यरुन्धती तत्र व्यापारं कर्तुमर्हति ।
  प्रायेणैंवविधे कार्ये पुरन्ध्रीणां प्रगल्भता ॥ ३२ ॥

 आर्येति ॥ आर्या पूज्यारुन्धत्यपि तत्र विवाहकृत्ये व्यापारं साहाय्यं कर्तुमर्हति । तथा हि-प्रायेण प्राचुर्येणैवविधे कार्ये विवाहादिकायें, दुर्घट इत्यर्थः । पुरंध्रीणां कुटुम्बिनीनाम् । 'स्यात्तु कुटुम्बिनी। पुरंध्री' इत्यमरः । प्रगल्भता चातुर्यम् । स्त्रीप्रधानेषु कृत्येषु स्त्रीणामेव घटनापाटवमिति भावः ॥ ३२ ॥

  तत्प्रयातोषधिप्रस्थं सिद्धये हिमवत्पुरम् ।
  महाकोशीप्रपातेऽस्मिन्संगमः पुनरेव नः ॥ ३३ ॥

 तदिति ॥ तत्तस्मात्कारणादोषधिप्रस्थं नाम हिमवत्पुरं हिमवन्नगरं सिद्धये कार्यसिद्यर्थं प्रयात गच्छत । अस्मिन्पुरोवर्तिनि । महाकोशी नाम तत्रत्या काचिन्नदी तस्याः प्रपाते भृगावेव । सा नदी यत्र पतति तस्मिन्नित्यर्थः । 'प्रपातस्त्वतटो भृगुः' इत्यमरः । नोऽस्माकं पुनः संगमः, अस्त्विति शेषः । भवत्समागमं प्रतिपालयन्नहमिहैव निवत्स्यामीत्यर्थः ॥ ३३ ॥

  तस्मिन्संघमिनामाये जाते परिणयोन्मुखे ।
  जहुः परिग्रहव्रीडां प्राजापत्यास्तपखिनः ॥ ३४ ॥

 तस्मिन्निति ॥ संयमिनां योगिनामाये तस्मिन्नीश्वरे परिणयोन्मुखे विवाहो


पाठा०-१ उत्सुके. २ तपोधनाः. त्सुके जाते सति प्रजापतेरिमे प्राजापत्याः । ब्रह्मपुत्रा इत्यर्थः । तपस्विनो मुनयः परिग्रहैः पत्नीभिर्व्रीडाम्, गार्हस्थ्यनिमित्तामित्यर्थः। 'पत्नीपरिजनादानमूलशापाः परिग्रहाः' इत्यमरः । जहुस्तत्यजुः । जहातेर्लिटि रूपम् । न हि समानगुणदोषेषु ब्रीडागमोऽस्तीति भावः ॥ ३४ ॥

  ततः परममित्युक्त्वा प्रतस्थे मुनिमण्डलम् ।
  भगवानपि संप्राप्तः प्रथमोद्दिष्टमास्पदम् ॥ ३५ ॥

 तत इति ॥ ततोऽनन्तरं मुनिमण्डलं मुनिसमूहः परममित्युक्त्वा 'ओम्' इत्युक्त्वा, अनुमन्येत्यर्थः । अव्ययमेतत् । 'ओमेवं परमं मतम्' इत्यमरः । प्रतस्थे । भगवानीश्वरोऽपि प्रथमोद्दिष्टं पूर्वसंकेतितमास्पदं स्थानं महाकोशीप्रपातं संप्राप्तः ॥ ३५॥

  ते चाकाशमसिश्याममुत्पत्य परमर्पयः ।
  आसेदुरोपधिप्रस्थं मनसा समरंहसः ॥ ३६॥

 त इति ॥ मनसा समरंहसो मनस्तुल्यवेगास्ते परमर्षयश्च । पूर्वश्लोकोक्तेश्वरसमुच्चयार्थश्चकारः । असिवच्छ्यामं नीलमाकाशं खं प्रत्युत्पत्यौषधिप्रस्थं हिमवत्पुरमासेदुः, सद्यः प्रापुरित्यर्थः ।। ३६ ॥

 इतः परं दशभिः श्लोकैरोषधिप्रस्थमेव वर्णयति-

  अलकामतिवाह्यैव वसतिं वसुसंपदाम् ।
  स्वर्गाभिष्यन्दवमनं कृत्वेवोपनिवेशितम् ॥ ३७॥

 अलकामिति ॥ वसुसंपदा धनसमृद्धीनां वसति स्थानमलकां कुबेरनगरीमतिवाह्य । परिच्छिद्येति यावत् । उपनिवेशितमिव स्थितम् । तथा स्वर्गस्याभिष्यन्दोऽतिरेकः । अतिरिक्तजन इति यावत् । तस्य वमनं निःसारणं कृत्वोपनिवेशितमिव स्थितम् । उभयत्रापि कौटिल्य:-'भूतपूर्वमभूतपूर्व वा जनपदं परदेशापवाहेन स्वदेशाभिष्यन्दवमनेन वा निवेशयेत्' इति । अलकामरावत्यतिशयितसमृद्धिकमित्यर्थः ॥ ३७ ॥


पाठा०-१ प्रमाणम्. २ आश्रमम्. ३ अथ. ४ इव. ५ विनिवेशितम्.

९ कु० सं०

  गङ्गास्रोतःपरिक्षिप्तं वप्रान्तर्ध्वलितौषधि ।
  बृहन्मणिशिलासालं गुप्तावपि मनोहरम् ॥ ३८ ॥

 गङ्गेति ॥ गङ्गायाः स्रोतोभिः प्रवाहैः परिक्षिप्तं परिवेष्टितम् । तैरेव सपरिखमित्यर्थः । वप्रश्चयः। प्राकारचैत्यमिति यावत् । 'स्याच्चयो वप्रमस्त्रियाम्' इत्यमरः । तस्यान्तर्मध्ये ज्वलिताः प्रकाशमाना ओषधयो यस्य तत्तथोक्तम् , ज्वलितौषधित्वाद्वात्रिषु संचारिणां दीपनिरपेक्षमित्यर्थः । बृहद्विपुलो मणिशिलानां माणिक्यानां सालः प्राकारो यस्य तत्तथोक्तम् । 'प्राकारो वरणः सालः' इत्यमरः । अत एव गुप्तावपि संवरणेऽपि मनोहरम् । अकृत्रिमदुर्गसंवरणमिति भावः ॥ ३८ ॥

  जितसिंहभया नागा यत्राश्वा बिलयोनयः ।
  यक्षाः किंपुरुषाः पौरा योपितो वनदेवताः ॥ ३९ ॥

 जितेति ॥ यत्र पुरे नागा गजा जितं सिंहेभ्यो भयं यैस्ते तथोक्ताः । सिंहाधिकबला इत्यर्थः । नाथस्तु-'पदं तुषारस्त्रुतिधौतरक्तम्' (पा. १।६) इत्येतद्विरोधभयात् 'वीतवीतभयाः' इति पपाठ । तथा न भेतव्यं, तत्र वनगजानां सिंहहतत्वाभिधानात् । अत्र त्वोपधिप्रस्थगजानां हिमवन्महिम्ना सिंहातिरेकसंभवेनाविरोधादिति । 'वीतवीतभयाः' इति पाठे वीतं विगतं वीतात्पादाङ्कुशकर्मभ्यां भयं येषां ते तथोक्ताः । स्वभावविनीता इत्यर्थः । 'पादकर्म युतं प्रोक्तं यातमङ्कुशवारणम् । उभयं वीतमाख्यातम्' इति यादवः । अश्वा बिलयोनयो बिलसंभवाः । अन्यत्र तु न तथेति वैचित्र्यम् । उक्तं च-'अमृताद्बाष्पतो

वह्नेर्वेदभ्योऽण्डाच्च गर्भतः । साम्नो हयानामुत्पत्तिः सप्तधा परिकीर्तिता ॥' इति । यक्षाः प्रसिद्धाः। किंपुरुषाः किंनराश्च पौराः पुरजनाः। वनदेवता एव

योषितः । न तु मानुष्य इत्यर्थः ॥ ३९ ॥

  शिखरासक्तमेघानां व्यज्यन्ते यत्र वेश्मनाम् ।
  नुगर्जितसंदिग्धाः करणैर्मुरजस्वनाः॥ ४० ॥

 शिखरेति ॥ यत्र पुरे शिखरेष्वासक्ता मेघा येषां तेषां वेश्मनां संबन्धिनः । अनुगर्जितानि प्रतिगर्जितानि तैः संदिग्धा मुरजस्वनाः करणैस्ताल


पाठा०-१ स्वर्गादपि. २ मन्द्रगर्जित. व्यवस्थापितैस्ताडनविशेषैः । तदुक्तं राजकंदर्पेण् -'नृत्यवादित्रगीतानां प्रयोग- वशभेदिनाम् । संस्थानं ताडनं रोधः करणानि प्रचक्षते ॥' इति । व्यज्यन्ते स्फुटीक्रियन्ते ॥ ४॥

यत्र कल्पद्रुमैरेव विलोलविटपांशुकैः । गृहयत्रपताकाश्रीरपौरादरनिर्मिता ॥४१॥</poem>}}

यत्रेति ॥ यत्र नगरे विलोलानि चञ्चलानि विटपेष्वंशुकानि येषां तैः

कल्पद्रुमैरेवापौरादरेण पौरादरं विनैव निर्मिता । अयत्नसिद्धेत्यर्थः । गृहेषु यानि

यंत्राण्याधारदारूणि तेषु पताकास्तासां श्रीः। संभवतीति शेषः । तत्र लम्बाम्बराः कल्पतरव एव वैजयन्तीति संभाव्यन्त इत्यर्थः ॥ ११ ॥

यत्र स्फटिकहर्येषु नक्तमापानभूमिषु । ज्योतिषां प्रतिबिम्बानि प्राप्नुवन्त्युपहारताम् ॥ ४२

यत्रेति ॥ यत्र पुरे नक्तं रात्रौ स्फटिकहर्म्यष्वापानभूमिषु पानगोष्ठीप्रदेशेषु ज्योतिषां नक्षत्राणां प्रतिबिम्बान्युपहारतां पुष्पोपहारत्वं मौक्तिकोपहारत्वं वा प्राप्नुवन्ति ॥ ४२ ॥

यत्रौषधिप्रकाशेन नक्तं दर्शितसंचराः । अनभिज्ञास्तमिस्राणां दुर्दिनेष्वभिसारिकाः ॥ ४३ ॥

यत्रेति ॥ यत्र पुरे दुर्दिनेषु मेघच्छन्नदिवसेषु नक्तमोषधीनां त्ऱुण ज्योतिषां प्रकाशेन संचरन्त एभिरिति संचराः पन्थानः । 'गोचरसंचर-' (पा. ३।३।११९) इत्यादिना घप्रत्ययान्तो निपातः । दर्शितसंचराः प्रकाशितमार्गा अभिसारिकाः कान्तार्थिन्यः । 'कान्तार्थिनी तु या याति संकेतं साभिसारिका' इत्यमरः । तमिस्राणां तमसाम् । कृद्योगात्कर्मणि षष्ठी । अनभिज्ञाः। तमांसि नाभिजान- न्तीत्यर्थः ॥ ४३ ॥

यौवनान्तं वयो यस्मिन्नान्तकः कुसुमायुधात् । रतिखेदेसमुत्पन्ना निद्रा संज्ञाविपर्ययः ।। ४४ ॥<

यौवनान्तमिति ॥ यस्मिन्पुरे वयो यौवनान्तं यौवनावधिकम् । सर्वेऽप्य-

पाठा०-१ पङ्क्तिषु. २ समुत्थाना. जरा इत्यर्थः। तथा कुसुमायुधात्कामात् अन्य इति शेषः । अन्तको मृत्युर्न ।अस्तीति शेषः। विरहिणां तादृग्दुःखोत्पादकत्वादन्तकत्वोपचारः । कामं विना मृत्युर्नास्तीत्यर्थः । अत एव तत्कार्यभूतमरणाभाव इत्याशयेनाह-रतीति । रतिखेदसमुत्पना निद्रा सुप्तिरेव संज्ञाविपर्ययश्चेतनापगमः । न तु दीर्घनिद्रारूप इत्यर्थः । अत्रत्याः सर्वेऽजरामरा इति श्लोकतात्पर्यार्थः । अन्तयत्यन्तं करोतीत्य- न्तकः । अन्तयतेस्तत्करोतीति ण्यन्ताद्यत्प्रत्ययः ॥ ४४ ॥

भ्ऱूभेदिभिः सकम्पोष्टललिताङ्गुलितर्जनैः । यत्र कोपैः कृताः स्त्रीणामाप्रसादार्थिनः प्रियाः ॥४५॥</poem>}}

भ्ऱुभेदिभिरिति ॥ यत्र पुरे प्रिया युवानो भूभेदिभिर्भूभङ्गवद्भिः सकम्पा ओष्ठा येषु तैर्ललितान्यङ्गुलितर्जनानि येषु तैः स्त्रीणां कोपर्मानाख्यैराप्रसादार्थिन आ प्रसादं प्रसादपर्यन्तमर्थिनो याचकाः कृताः। न तु शत्रुकोपैरिति भावः॥४५॥ संतानकतरुच्छायासुप्तविद्याधराध्वगम् । यस्य चोपवनं बाह्यं गन्धवद्गन्धमादनम् ।। ४६॥ (कुलकम्)

संतानकेति ॥ किंचेति चार्थः । संतानकतरूणां छायासु सुप्ता विद्याधरा देवताविशेषास्त एवाध्वगा यस्मिंत्तत्तथोक्तं गन्धवद्गन्धाढ्यं गन्धमादनं नाम गिरिर्यस्य पुरस्य बहिर्भवं बाह्यमुपवनमारामः । अत्र 'गन्धवद्गन्धमादनम्' इत्यागन्तुकः पाठः । प्राचीनपाठस्तु 'सुगन्धिर्गन्धमादनः' इति पुंलिङ्गान्तः । अत एव क्षीरस्वामिना 'गन्धमादनमन्ये च' इत्यत्र गन्धेन मादयतीति गन्ध. मादन इति व्याख्याय प्रयोगे च पुंलिङ्गता दृश्यत इत्याशयेनोक्तं 'सुगन्धिर्गन्धमादनः'

इति 'कालिदासः' इति । संतानकतरुच्छायेत्यत्र पूर्वपदार्थबाहुल्यसंभवेऽपि 
'शलभच्छायम्', 'इक्षुच्छायम्' इतिवत्समर्थच्छायानिष्पत्तेस्तदपेक्षाभावात्

'छाया बाहुल्ये' (पा.२।४।२२) इति नपुंसकत्वं नास्तीत्यनुसंधेयम् ॥ ४६ ॥ अथ ते मुनयो दिव्याः प्रेक्ष्य हैमवतं पुरम् । स्वर्गाभिसंधिसुकृतं वश्चनामिव मेनिरे ॥ ४७ ॥</poem>}}

अथेति ॥ अथ ते दिवि भवा दिव्या मुनयो हिमवत इदं हैमवतं पुरं प्रेक्ष्य

पाठा०--१ सुगन्धि गन्धमादनम्. २ ततस्ते. स्वर्गाभिसंधिना स्वर्गोद्देशेन यत्सुकृतं ज्योतिष्टोमाद्यनुष्ठानं तत्स्वर्गाभिसंधिसुकृतं वञ्चनां प्रतारणामिव मेनिरे, हिमवन्नगरमवेक्ष्य स्वर्गस्य पुण्यफलत्वं वदता वेदेन वयं विप्रलब्धा इत्यर्थः । स्वर्गादतिरमणीयमिति भावः ॥ ४७ ॥ ते सद्मनि गिरेर्वेंगादुन्मुखद्वाःस्थवीक्षिताः । अवतेरुजटाभारैलिखितानलनिश्चलैः ॥ ४८ ॥

त इति ॥ लिखितानलनिश्चलैः । चित्रगतज्वलननिष्पन्दैरिति वेगप्रकर्षोक्तिः।

जटाभारैरुपलक्षितास्ते मुनयः । द्वारि तिष्ठन्तीति द्वाःस्था द्वारपालकाः

'प्रतीहारे द्वारपालद्वाःस्थद्वाःस्थितदर्शकाः' इत्यमरः । उन्मुखैरूर्ध्वमुखैर्वीक्षिताः सन्तः न तु विनिवारिता इत्यर्थः । गिरेर्हिमवतः सद्मनि वेगादवतेरुरवतीर्णवन्तः॥ ४८॥

गगनादवतीर्णा सा यथावृद्धपुरस्सरा । तोयान्तर्भास्करालीव रेजे मुनिपरम्परा ॥ ४९ ॥</poem>}}

गगनादिति ॥ गगनादवतीर्णावरूढा यथावृद्धं वृद्धानुक्रमेण स्थिताः पुरःसरा

अग्रेसरा यस्यां सा तथोक्ता। अनुपसर्जनाधिकारान्न ङीप् । सा मुनिपरम्परा 

परम्परा मुनिपंक्तिस्तोयान्तस्तोयाभ्यन्तरे भास्कराली प्रतिबिम्बितार्कपङ्रिक्तिरेव रेजे। एतेन मुनीनां तेजस्वित्वेऽपि सुखसंदर्शनं सूचयति । भास्कराणां भूयिष्टत्वसंभावनार्थ

तोयान्तरित्युक्तम् । अत एव बहुत्वसिद्धिश्च ॥ ४९ ॥

तानार्घनर्घ्य॑मादाय दूरात्प्रत्युद्ययौ गिरिः । नमयन्सारगुरुभिः पादन्यासैवसुन्धराम् ।। ५०॥ तानिति ॥ गिरिहिमवानव्य॑मर्धाथ जलमादाय सारगुरुभिरन्तःसारदुर्भरैः पादन्यासैर्वसुंधरां नमयन्नधः प्रापयन् । अर्घमर्हन्तीत्यान्पूज्यान् । दण्डादित्वाद्यत्प्रत्ययः ।

तान्मुनीन्दूरात्प्रत्युद्ययौ ॥ ५० ॥

संप्रति हिमवन्तमेव जंगमस्थावररूपद्वयसाधारणैर्विशिनष्टि- धातुताम्राधरः प्रांशुर्देवदारुबृहद्भुजः । प्रकृत्यैव शिलोरस्कः सुव्यक्तो हिमवानिति ॥५१॥

धात्विति ॥ धातुवत्ताम्रोऽधरो यस्य स तथोक्तः । अन्यत्र धातुरेव ताम्रो

पाठा०-१ निश्चलाः. ऽधरो यस्य । प्रांशुरुग्नतः । उभयत्रापि समानम्। देवदारुवबृहन्तौ भुजौ यस्य स तथोक्तः। देवदारव एव बृहन्तौ भुजौ यस्येत्यन्यत्र । प्रकृत्या स्वभावेनैव शिलावदुरो यस्य स शिलोरस्कः शिलैवेत्यन्यत्र । 'उरःप्रभृतिभ्यः कप्' (पा.५।४।१५१) इति कप् । अतो हिमवानिति सुव्यक्तः। वर्तमाने क्तः । सत्यं स एवायं हिमवानिति तद्धर्मप्रत्यभिज्ञानादवधारित इत्यर्थः ॥ ५१ ॥

विधिप्रयुक्तसत्कारैः स्वयं मार्गस्य दर्शकः । स तैराक्रमयामास शुद्धान्तं शुद्धकर्मभिः ॥ ५२ ॥<

विधीति ॥ स हिमवान्विधिना शास्त्रेण प्रयुक्तसत्कारैः कृतार्चनैः शुद्धकर्मभिरदुष्टचरितैः-

शुद्धान्तप्रवेशाहरित्यर्थः । तैर्मुनिभिः स्वयं मार्गस्य दर्शयतीति

दर्शको दर्शयिता सन् । पश्यतेय॑न्तादण्प्रत्ययः। शुद्धान्तमन्तःपुरमाक्रमयामास । प्रवेशयामासेत्यर्थः । अत्र क्रमेरगत्यर्थत्वात् 'गतिबुद्धि-' (पा.१।४।५२) इत्यादिना तैरित्यस्य न कर्मत्वम् ॥५२॥

तत्र वेत्रासनासीनान्कृतासनपरिग्रहः । इत्युवाचेश्वरान्वाचं प्राञ्जलिर्भूधेरेश्वरः ।। ५३ ।।

तत्रेति ॥ वेत्रं लताविशेषः । तत्र शुद्धान्ते वेत्रासनासीनान्वेत्रमयविष्टरोपविष्टानीश्वरान्प्रभून्मुनीन्भूधरेश्वरो

हिमवान् कृतासनपरिग्रहः, उपविष्टः सन्नित्यर्थः।

प्राञ्जलिः कृताञ्जलिः सन् । इत्येवं वाचमुवाच ॥ ५३ ॥

अपमेघोदयं वर्षमदृष्टकुसुमं फलम् । अतर्कितोपपन्नं वो दर्शनं प्रतिभाति मे ॥ ५४ ॥

अपेति ॥ अतर्कितोपपन्नमविचारितमेवोपगतम् , अत्यन्तासंभावितमित्यर्थः । वो युष्माकं दर्शनमपमेघोदयं वर्षमनभ्रा वृष्टिस्तथाऽदृष्टं कुसुमं यस्य तत्तथोक्तं फलं च तन्मे प्रतिभाति, अतिदुर्लभलाभः संवृत्त इत्यर्थः । अत्र मेघोदयकुसुम-

पाठा०-1 सत्कारान् . २ देशकः. ३ तान् . ४ अनासन; नीचासन. ५ पृथिवीधरः, टिप्प.--1 अयमेवार्थः कविरत्नेन शाकुन्तले वर्णितः-'उदेति पूर्व कुसुमं ततः फलं घनोदयः प्राक्तदनन्तरं पयः । निमित्तनैमित्तिकयोरयं क्रमो भवत्प्रसादस्य पुरस्तु सम्पदः' इति । रुपकारणयोरभावेऽपि वर्षफलरूपकार्ययोरुदयाभिधानाद्विभावना। मुनिदर्शनस्य विशिष्टवृत्तित्वेन च निरूपणाद्रूपकालंकारश्चेत्युभयोः संसृष्टिः ॥ ५४ ॥

मुढं बुद्धमिवात्मानं हैमीभूतमिवायसम् । भूमेर्दिवमिवारूढं मन्ये भवदनुग्रहात् ।। ५५

मूढमिति ॥ भवदनुग्रहादात्मानं मां मूढं बुद्धिं विना कृतं बुद्धमिव मूढो भूत्वा यो बुद्धवास्तमिव । कर्तरि क्तः। आयसमयोविकारं हैमीभूतम् , अपि. सत्यं विहाय सौवर्णत्वं प्राप्तमिवेत्यर्थः । भूमेर्भूलोकाद्दिवं स्वर्गमारुढमिव मन्ये, ज्ञानरूपस्थानान्यद्य मे परमुत्कृष्यन्त इति भावः ॥ ५५ ॥ अद्यप्रभृति भूतानामधिगम्योऽस्मि शुद्धये । यदध्यासितमर्हद्भिस्तद्धि तीर्थं प्रचक्षते ॥ ५६ ॥

अद्येति ॥ अद्यप्रभृति इत आरभ्य भूतानां प्राणिनां शुद्धयेऽधिगम्योऽस्मि, शुद्ध्यार्थिनां तीर्थभूतोऽस्मीत्यर्थः । भवदागमनादिति शेषः । हि यस्मात् । यदर्हद्भिः

सद्भिरध्यासितमधिष्ठितम् , जुष्टमिति यावत् । तत्तीर्थं प्रचक्षते । निपा-

निपानागमयोस्तीर्थमृषिजुष्टजले गुरौ' इत्यमरः ॥ ५६ ॥ अवैमि पूतमात्मानं द्वयेनैव द्विजोत्तमाः!। मूर्ध्नि गङ्गाप्रपातेन धौतपादाम्भसा च वः ।। ५७ ॥

अवैमीति ॥ हे द्विजोत्तमाः ! आत्मानं मां द्वयेनैव पूतं शुद्धमवैम्यवगच्छामि ।

केन ? द्वयेन  मूर्ध्नि गङ्गाप्रपातेन मन्दाकिनीपातेन, वो युप्माकं

धौतयोः क्षालितयोः पादयोरम्भसा च । अत्र गङ्गाजलवत्पादाम्भसः पावनत्वमित्यौपम्यं

गम्यते, तञ्च 'प्रस्तुताग्रस्तुतयोः' इति दीपकालंकारः । 'प्रेयः प्रियतराख्यानम्' 
इति लक्षणात्प्रेयोलंकार इति केचित् ॥ ५७ ॥

जङ्गमं प्रैष्यभावे वः स्थावरं चरणाङ्कितम् । विभक्तानुग्रहं मन्ये द्विरूपमपि मे वपुः ॥ ५८ ॥

पाठा०-१ कृत. प्रचक्ष्यत. २ मर्त्यानां. ३ प्रेक्ष्याभावेन. ४ विरूपम् ; ५ द्वैरूप्यम् . टिप्प.---1 वस्तुतस्त्वत्र ‘धौतयुष्मत्पादांभसा' इत्येव समस्तमुचितम् , तथापि युष्मच्छब्दस्य समासात् पृथग्भावो गमकत्वादुपपन्नः । अर्थप्रतीतिरेव हि शब्देन साध्या। जङ्गममिति ॥ हे मुनयः ! द्विरूपं जंगमस्थावरात्मकत्वाद्विप्रकारकमपि मे वपुर्विभक्तानुग्रहं विभज्य कृतप्रसादं मन्ये। कुतः ? जङ्गमं वपुर्वो युष्माकं प्रैष्यभावे कैंकर्ये, स्थितमिति शेषः । 'प्रादूहोढोढ्येषैष्येषु वृद्धिर्वक्तव्या' (वा० ३६०५) इति वृद्धिः । 'नियोज्यकिंकरप्रैष्यभुजिष्यपरिचारकाः' इत्यमरः । स्थावरं वपुश्चरणाङ्कितम् । अयमेव हि महाननुग्रहो दासजनस्य यत्कर्मसु नियोजनं मूर्धनि पादन्यासश्चेति तात्पर्यार्थः ॥ ५८ ॥

भवत्संभावनोत्थाय परितोषाय मूर्च्छते । अपि व्याप्तदिगन्तानि नाङ्गानि प्रभवन्ति मे ॥ ५९॥

भवदिति ॥ व्याप्ता दिगन्ता यैस्तानि व्याप्तदिगन्तानि, महान्त्यपीत्यर्थः । मे ममाङ्गानि भवत्संभावनोत्थाय युष्मदनुग्रहजन्याय मूर्च्छते व्याप्नुवते परि- तोषाय न प्रभवन्ति न पर्याप्नुवन्ति । अलमर्थयोगाच्चतुर्थी । यथा महत्स्वपि मद्गात्रेषु न माति, तथा मे हर्षों वर्धत इत्यर्थः ॥ ५९ ॥

न केवलं दरीसंस्थं भास्वतां दर्शनेन वः । अन्तर्गतमपास्तं मे रजसोऽपि परं तमः ॥ ६० ॥

नेति ॥ भास्वतां तेजस्विनां विवस्वतां च वो युष्माकं दर्शनेन केवलं दरीसंस्थं

गुहागतं तमो ध्वान्तरूपमेव नापास्तम् , किंतु मेऽन्तर्गतमन्तरात्मगतं

रजसो रजोगुणात्परमनन्तरं तमोऽज्ञानरूपमप्यपास्तम् । रजस्तु पादन्यासैरेवापास्तमिति भावः । प्रसिद्वैर्भास्वद्भिर्बाह्यं तमोऽपास्यते, एभिस्त्वान्तरमपीति व्यतिरेको व्यज्यते ॥ ६० ॥

कर्तव्यं वो न पश्यामि स्याच्चेत्किं नोपपद्यते । मन्ये मत्पावनायैव प्रस्थानं भवतामिह ॥ ६१ ॥

कर्तव्यमिति ॥ कर्तव्यं कार्य वो युष्माकं न पश्यामि, निःस्पृहत्वादिति भावः । अथ स्याञ्चेद्विद्येत यदि, किं नोपपद्यते किं नाम न संभवति ? सर्व सुलभमेवेत्यर्थः ।

अथवा किमत्र प्रयोजनचिन्तयेत्याह-मत्पावनाय मच्छोधनायैव

पाठा०-१ अभिव्याप्त. २ उपदिश्यते. ३ शङ्के. ४ इदम्. टिप्प.-1 तथा चोक्तं भागवते-'न अम्मयानि तीर्थानि न देवा मृच्छिलामयाः। ते पुनन्त्युरुकालेन दर्शनादेव साधव:' इति । . भवतामिह विषये प्रेस्थानम्, इमं देशमुद्दिश्येदं प्रयाणमित्यर्थः । मन्ये तर्कयामि ॥ ६ ॥


तथापि तावत्कस्मिंश्चिदाज्ञां मे दातुमर्हथ । विनियोगप्रसादा हि किंकराः प्रभविष्णुषु ।। ६२ ॥

तथापीति ॥ तथापि भवतां निःस्पृहत्वेऽपि कस्मिंश्चित् , कर्मणीति शेषः । आज्ञा 'इदं कुरु' इत्यादेशं तावदिदानी मे मह्यं दातुमर्हथ, मदनुग्रहबुद्ध्येति भावः । हि यस्माकिंकरा भृत्याः । प्रभवन्तीति प्रभविष्णवस्तेषु प्रभुषु विषये

'भुवश्च' (पा. ४।१।४७) इतीष्णुच्यत्ययः। विशेषेण नियोगो विनियोगः, प्रेषणमेव प्रसादोऽनुग्रहो येषां ते तथोक्ताः । अन्यथा स्वस्वामिभावो निष्फल इति भावः॥ ६२ ॥ एते वयममी दाराः कन्येयं कुलजीवितम् । ब्रूत येनात्र वः कार्यमनास्था बाह्यवस्तुषु ॥ ६३ ॥

एत इति ॥ किंबहुना, एते वयम् , अमी दाराः, इयं कुलस्य जीवितं प्राणभूता परमप्रेमास्पदमित्यर्थः । कन्या। अत्रैषां मध्ये येन जनेन वः कार्य प्रयोजन ब्रूत । तमिति शेषः । येन सोऽपि दीयत इति भावः । रत्नहिरण्यादिकं तु न मे गण्यमित्याह-बाह्यवस्तुषु कनकरत्नादिष्वनस्थानादरः । प्रसज्यप्रतिषेधेऽपि नज्न्समास इष्यते । अदेयं न किंचिदस्तीति भावः ॥ ६३ ॥ इत्यूंचिवांस्तमेवाथ गुहामुखविसर्पिणा । द्विरिव प्रतिशब्देन व्याजहार हिमालयः ॥ ६४</poem>}}

इतीति । इत्यूचिवानुक्तवान् । वचे क्वसुप्रत्यय: । हिमालयो हिमवान् गुहानां मुखेषु विवरेषु विसर्पतीति तथोक्तेन प्रतिशब्देन तं पूर्वोक्तमेवार्थ द्विर्द्विवारम् । 'द्वित्रिचतुर्यः सुच्' (पा. ५।४।१८) इति सुच्यत्ययः । व्याजहार बभाषे ॥६॥

अथाङ्गिरसमग्रण्यमुदाहरणवस्तुषु । ऋषयो नोदयामासु: प्रत्युवाच स भूधरम् ॥ ६५॥</poem>}}


पाठा०-१ उक्तवान् . २ दरी. ३ हिमाचलः. ४ चोदयामासु:,

प्रेरयामासुः.

टिप्प०-1 प्रस्थानं समागमनमित्यन्ये; 'प्रशब्दस्तु प्रकर्षं च द्योतयेच्च समागमम्' इत्युपसर्गवृत्तावित्याहुः। 2 अत्र 'वयम्' इति बहुवचनं स्वाथें । अथेति ॥ अथानन्तरमृषय उदाहरणानि कथाप्रसङ्गास्त एव वस्तून्यर्थास्तेषु अग्रं नयतीत्यग्रणीस्तमग्रण्यं प्रगल्भम् । 'सत्सूद्विष-' (पा.३।२।६१) इत्यादिना क्विप् , 'अग्रग्रामाभ्यां नयतेरिति वक्तव्यम्' (वा. ५०३४) इति णत्वम् । अङ्गिरसं नामर्षि नोदयामासुः प्रतिवक्तुं प्रेरयामासुः । सोऽङ्गिरा भूधरं हिमवन्तं प्रत्युवाच ॥ ६५ ॥ वाच ॥ ६५ ॥ उपपन्नमिदं सर्वमतः परमपि त्वयि । मनसः शिखराणां च सदृशी ते समुन्नतिः ॥ ६६ ॥

उपपन्नमिति ॥ इदम् ‘एते वयममी दाराः' (६।६३ ) इत्याद्युक्तं सर्वमतः परमतोऽधिकमपि त्वय्युपपन्नं युज्यते। तथा हि-ते मनसः शिखराणां च समुन्नतिः सदृशी, शिखराणीव मनो महोन्नतमित्यर्थः । किं नाम दुष्करमुन्नतचित्तानामिति-

भावः । प्रस्तुता प्रस्तुतयोर्मनःशिखरयोरौपम्यस्य गम्यत्वाद्दीपकालंकारः॥६६ ॥

स्थाने त्वां स्थावरात्मानं विष्णुमाहुस्तथा हि ते । चराचराणां भूतानां कुक्षिराधारतां गतः ॥ ६७ ॥ स्थान इति ॥ त्वां स्थावरात्मानं स्थावररूपिणं विष्णुमाहुः । 'स्थावराणां हिमालयः' इति (१०।२५) गीतावचनात् । स्थाने युक्तम् , युक्तार्थेऽव्ययमेतत् । 'युक्ते द्वे सांप्रतं स्थाने' इत्यमरः । तथा हि-ते तव कुक्षिश्चराचराणां जंगमस्था- वररूपिणां भूतानां पृथिव्यादीनामाधारतां गतः । तवेव विष्णोः कुक्षिरेवंभूत इति भावः ॥ ६ ॥ गामधास्यत्कथं नागो मृणालमृदुभिः फणैः । आ रसातलमूलात्वमवालम्बिष्यथा न चेत् ॥ ६८ ॥

गामिति ॥ नागः शेषाहिणालमृदुभिर्बिसकोमलैः फणैर्गां भुवं कथमधास्यद्धारयेत् ?-

त्वमा रसातलमूलात्पातालपर्यन्तम् । विकल्पादसमासः । नावा-

नावालम्बिष्यथाश्चेत्पादैर्नावलम्बेथा यदि, त्वदवलम्बनादेव भुजगराजोऽपि भुवं बिभर्तीत्यर्थः । अत्र क्रियातिपत्त्यभावाल्लुप्रयोगश्चिन्त्यः ॥ ६८ ॥

पाठा०-१ मनीषणः.२ सदृशेः, अच्छिन्नामलसंतानाः समुद्रोर्म्यनिवारिताः । पुनन्ति लोकान्पुण्यत्वात्कीर्तयः सरितश्च ते ॥ ६९ ।।

अच्छिन्नेति । अच्छिन्ना अविच्छिन्ना अमलाश्च संतानाः प्रबन्धाः प्रवाहाच यासां तास्तथोक्ताः समुद्रोर्मिभिरनिवारिताः, पारगमनादन्तःप्रवेशाच्चेति भावः । ते तव कीर्तयः सरितश्च गङ्गादयः पुण्यत्वात्पवित्रत्वाल्लोकान्पुनन्ति पावयन्ति । लोकपावनाः खलु पुण्यश्लोका इति भावः । केवलप्रकृतविषयस्तुल्ययोगितालंकारः॥ ६९॥- यथैव श्लाघ्यते गङ्गा पादेन परमेष्ठिनः । प्रभवेण द्वितीयेन तथवोच्छिरसा त्वया ॥ ७० ॥

यथैवेति ॥ गङ्गा भागीरथी । प्रभवत्यस्मादिति प्रभवस्तेन कारणेन परमे तिष्ठतीति परमेष्ठिनो विष्णोः। परमे किप्प्रत्यय: । 'तत्पुरुषे कृति बहुलम्' (पा. ६।३।१४) इत्यलुक् । '- परमेबर्हिर्दिव्यग्निभ्यः स्थः' (उ.स.४।१०) इति षत्वम् । पादेन चरणेन यथैव श्लाघ्यते प्रशस्यते तथैव द्वितीयेन प्रभवेणोच्छिरसा त्वया श्लाघ्यते । हरिचरणवत्तीर्थस्यापि तीर्थभूतस्त्वमिति भावः ॥ ७० ॥ तिर्यगृर्ध्वमधस्ताच व्यापको महिमा हरेः । त्रिविक्रमोद्यतस्यासीत्स तु स्वाभाविकस्तवं ।। ७१ ॥

तिर्यगिति ॥ तिर्यगूर्ध्वमधस्ताच्च व्यापकः, सर्वव्यापीत्यर्थः । महिमा महत्त्वं हरेर्विष्णोस्त्रिपु विक्रमेषूद्यतस्य सत आसीत् । त्रिविक्रमोद्यतस्यापि कदाचिदेव, न तु सर्वदेत्यर्थः । तव तु व्यापको महिमा स्वाभाविकः, नित्यसिद्ध इत्यर्थः ॥७॥

यज्ञभागभुजां मध्ये पदमातस्थुषा त्वया । उच्चैहिरण्मयं शृङ्ग सुमेरोर्वितथीकृतम् ।। ७२ ।। यज्ञेति ॥ यज्ञभागभुजामिन्द्रादीनां मध्ये पदमातस्थुषा निहितवता त्वयोच्चैरुन्नतं-

हिरण्यस्य विकारो हिरण्मयम् । 'दाण्डिनायनहास्तिनायन-' (पा. ६।-

४।१७४) इत्यादिनिपातनात्साधु । सुमेरोः शृङ्गं शिखरम् प्राधान्यं च ध्वन्यते। 'शृङ्गं प्राधान्यसान्वोश्च' इत्यमरः । वितथीकृतं व्यर्थीकृतम् । तस्य यज्ञभागा-

पाठा०-१ समुद्रोर्मिनिवारिताः. २ लोकम्. ३ प्रभावेण. ४ च. ५ तथा. भावादिति भावः । अस्य तु तत्सद्भावे प्रमाणम् -'हिमवतो हस्ती' इति श्रुतिः ॥ ७२ ॥

काठिन्यं स्थावरे काये भवता सर्वमर्पितम् । इदं तु ते भक्तिननम्रं सतामाराधनं वपुः ॥ ७३ ॥

काठिन्यमिति ॥ भवता सर्वं काठिन्यम्, अनम्रत्वमित्यर्थः । स्थावरे स्थिरे काये, शिलामय इत्यर्थः । अर्पितं न्यस्तम् । सतामर्हतामाराधनं पूजासाधनं साधनं त इदं वपुस्तु जङ्गममित्यर्थः । भक्ति नम्रम् । काठिन्यलेशोऽपि नास्ति, अन्यथा नम्रत्वासंभवादित्यर्थः । तथा चासाधारण्यं ध्वन्यते ॥ ७३ ॥ तदागमनकार्यं नः शृणु काय तवैव तत् । श्रयसामुपदेशात्तु वयमत्रांशभागिनः ।। ७४ ॥

तदिति ॥ तत्तस्मान्नोऽस्माकमागमनस्य कार्यं प्रयोजनं शृणु, तत्कार्यं च तवैव न त्वस्माकमित्यवधारणार्थं एवकारः। वयं तु श्रेयसामुपदेशादत्र कार्यंऽशभागिनः। त्वमेवात्र फलभाक्, वयमुपदेष्टार इति भावः ॥ ७४ ॥

कार्यमेवाह-

अणिमादिगुणोपेतमस्पृष्टपुरुषान्तरम् । शब्दमीश्वर इत्युच्चः सार्धचन्द्रं बिभर्ति यः ॥ ७५ ॥

अणिमेति ॥ यः शंभुरणिमादिगुणोपेतमणिमादिभिरष्टभिर्गुणैर्वाच्यभूतैरुपेतम् , अष्टैश्वर्यवाचकमित्यर्थः । अत एवास्पृष्टं पुरुषान्तरं येन तं तथोक्तं पुरुषान्तरस्यानभिधायकम् ।

तस्यैवैवंगुणत्वादित्यर्थः । उँच्चैः परममीश्वर इति शब्दम् ,

निरुपपदेश्वरशब्दमित्यर्थः । सार्धचन्द्रमर्धचन्द्रयुक्तम् , अर्धचन्द्रं चेत्यर्थः । बिभर्ति ॥ ७५॥

कल्पितान्योन्यसामर्थ्यै: पृथिव्यादिभिरात्मभिः । येनेदं ध्रियते विश्वं धुर्यैयानमिवाध्वनि ।। ७६ ॥

पाठा०-१ अर्हदाराधनम्, २ यथा यत् ; ३ तथा. ४ च. ५ अपि. ६ भाजिनः.. गुणोत्थानम्. ८ धार्यते. .  कलितेति ॥ येन शंभुना कल्पितं धृतिसंग्रहादिस्वस्वगुणसंपादितमन्योन्यसामर्थ्यं परस्परसहकाररूपं यैस्तथोक्तैः, स्वस्वरूपसामर्थ्यमन्योन्याधेयमेवेति भावः । पृथिव्यादिभिरात्मभिः, अष्टाभिर्मूर्तिभिरित्यर्थः । इदं व्यक्तं विश्वं धुरं वहन्तीति धुर्यैरश्वैः। 'धुरो यड्डकौ' (पा. ४।४।७७) इति यत्प्रत्ययः । अध्वनि यानं रथ इव ध्रियते ॥ ७६ ॥

  योगिनो यं विचिन्वन्ति क्षत्राभ्यन्तरवर्तिनम् ।
  अनावृत्तिभयं यस्य पदमाहुर्मनीषिणः ।। ७७ ॥

 योगिन इति ॥ योगिनोऽध्यात्मवेदिनः क्षेत्राभ्यन्तरवर्तिनं शरीरान्तश्चरं सर्वभूतान्तर्यामिणम् , परमात्मस्वरूपिणमित्यर्थः । 'क्षेत्रं पत्नीशरीरयोः' इत्यमरः। यं शंभुं विचिन्वन्ति मृगयन्ते मनीषिणो विद्वांसो यस्य शंभोः पदं स्थानमविद्यमानमावृत्तेः पुनः संसारापत्तेर्भयं यत्र तत्तथाभूतमाहुः ॥ ७७ ॥

  स ते दुहितरं साक्षात्साक्षी विश्वस्य कर्मणाम् ।
  वृणुते वरदः शंभुरस्मत्संक्रामितैः पदः ॥ ७८ ॥

 स इति ॥ विश्वस्य जगतः कर्मणां साक्षी द्रष्टा । 'साक्षाद्द्रष्टरि संज्ञायाम्' (पा. ५।२।९१) इतीनिप्रत्ययः । वरानिष्टान् ददातीति वरदः । 'आतोऽनुपसर्गे कः' (पा, ३।२।३) इति कप्रत्ययः। स पूर्वोक्तः शंभुरस्मत्संक्रामितैः पदैरस्मासु निवेशितैर्वाक्यैस्ते दुहितरं साक्षाद्वृणुते, अस्मन्मुखेन स्वयमेव याचत इत्यर्थः ॥ ७८ ॥

  तमर्थमिव भारत्या सुतया योक्तुमर्हसि ।
  अशोच्या हि पितुः कन्या सद्भर्तृप्रतिपादिता ॥ ७९ ॥

 तमिति ॥ तं शंभु भारत्या वाचाऽर्थमभिधेयमिव सुतया दुहित्रा योक्तुं संघटयितुमर्हसि । अत्र वागर्थयोरुपमानत्वसामर्थ्याच्छिवयोर्नित्ययोगो विवक्षित इत्युक्तं । 'वागर्थाविव संपृक्तौ' (रघु० १।१) इत्यत्रापि । तथा हि-सद्भर्त्रे प्रतिपादिता दत्ता कन्या पितुरशोच्या ॥ ७९ ॥


पाठा०-१ संक्रमितः. २ सद्भर्त्रे. टिप्प०---1 अत्र 'येनेदं ध्रियते व्यक्तं' इति मल्लिनाथादृतः पाठ इति प्रतीयते ।  गुणान्तरमप्याह--

  यावन्त्वेतानि भूतानि स्थावराणि चराणि च ।
  मातरं कल्पयन्त्वेनामीशो हि जगतः पिता ॥ ८ ॥

 यावन्तीति ॥ स्थावराणि चराणि च यावन्त्येतानि भूतानि, सन्तीति शेषः । सर्वाणि भूतानीत्यर्थः । एनां ते दुहितरं मातरं कल्पयन्तु । हि यस्मादीशो जगतः पिता । पितृदारेषु मातृभावो न्याय्य इति भावः ॥ ८० ॥

  प्रणम्य शितिकण्ठाय विबुधास्तदनन्तरम् ।
  चरणौ रञ्जयन्त्वस्याश्चूडामणिमरीचिभिः ॥ ८१ ॥

 प्रणम्येति ॥ विबुधा देवाः शितिकण्ठाय शिवाय प्रणम्य तदनन्तरं नीलकण्ठप्रणामानन्तरमस्याश्चरणौ चूडामणिमरीचीभी रञ्जयन्तु । ईश्वरपरिग्रहादखिलदेवतावन्द्या भवत्वित्यर्थः ॥ ८१ ॥

  उमा वधूर्भवान्दाता याचितार इमे वयम् ।
  वरः शंभुरलं ह्येष त्वत्कुलोद्भूतये विधिः॥ ८२ ॥

 उमेति ॥ उमा वधूः । भवान्दाता । इमे वयं याचितारः प्रार्थकाः । शंभुर्वरो वोढा । एष विधिरेषा सामग्री त्वत्कुलस्योद्भूतय उच्छ्रयायालं पर्याप्तं हि । 'नमःस्वस्तिस्वाहास्वधा-' (पा. २।३।१६) इत्यादिना चतुर्थी ॥ ८२ ॥

  अस्तोतुः स्तूयमानस्य वन्द्यस्यानन्यवन्दिनः ।
  सुतासंबन्धविधिना भव विश्वगुरोर्गुरुः ॥ ८३॥

 अस्तोतुरिति ॥ स्वयमन्यस्तोता न भवतीत्यस्तोतुः किंतु स्तूयमानस्य सर्वस्तुत्यस्य वन्द्यस्य जगद्वन्द्यस्य स्वयमन्यं न वन्दत इत्यनन्यवन्दिनो विश्वगुरोर्देवस्य सुतासंबन्धविधिना यौनसंबन्धाचरणेन गुरुर्भव, यो नान्यं स्तौति न चन्दते तस्यापि त्वं स्तुत्यो वन्द्यश्चेत्यहो तव भाग्यवत्तेत्यर्थः ॥ ८३ ॥


पाठा०-१ जगताम्. टिप्प०-1 शिशुपालवधे माघेनायमेवार्थो विशदतया प्रतिपादित:-'केवलं दधति कर्तृवाचिन: प्रत्ययानिह न जातु कर्मणि। धातवः सृजति संहृशास्तयः स्तौतिरत्र

विपरीतकारकः' इत्यनेन ।

  एवंवादिनि देवर्षौ पार्श्वे पितुरधोमुखी ।
  लीलाकमलपत्राणि गणयामास पार्वती ।। ८४ ॥

 एवमिति ॥ देवर्षावङ्गिरस्येवंवादिनि सति पार्वती पितुः पार्श्वेऽधोमुखी सती, लज्जयेति शेषः । लीलाकमलपत्राणि गणयामास संचख्यौ, लज्जावशात्कमलदलगणनाव्याजेन हर्षं जुगोपेत्यर्थः । अनेनावाहित्थाख्यः संचारी भाव उक्तः । तदुक्तम्-'अवहित्था तु लजादेर्हर्षादाकारगोपनम्' इति ॥ ८४ ॥

  शैलः संपूर्णकामोऽपि मेनामुखमुदैक्षत ।
  प्रायेण गृहिणीनेत्राः कन्यार्थेषु कुटुम्बिनः ॥ ८५ ॥

 शैल इति ॥ शैलो हिमवान्संपूर्णकामोऽपि, दातुं कृतनिश्चयोऽपीत्यर्थः । मेनामुखमुदैक्षत, उचितोत्तरजिज्ञासयेति भावः । तथा हि-प्रायेण कुटुम्बिनो गृहस्थाः कन्यार्थेषु कन्याप्रयोजनेषु गृहिण्येव नेत्रं कार्यज्ञानकारणं येषां ते तथोक्ताः, कलत्रप्रधानवृत्तय इत्यर्थः ॥ ८५ ॥

  मेने मेनापि तत्सर्वं पत्युः कार्यमभीप्सितम् ।
  भवन्त्यव्यभिचारिण्यो भर्तुरिष्टे पतिव्रताः ॥ ८६ ॥

 मेन इति ॥ मेनापि पत्युर्हिमालयस्य तत्सर्वमभीप्सितं कार्यं मेनेऽङ्गीचकार । तथा हि-पतिरेव व्रतं यासां ता भर्तुरिष्टेऽभीप्सिते न विद्यते व्यभिचारो यासां ता अव्यभिचारिण्यो भवन्ति, भर्तृचित्ताभिप्रायज्ञा भवन्तीति भावः ॥ ८६ ॥

  इदमत्रोत्तरं न्याय्यमिति बुद्ध्या विमृश्य सः ।
  आददे वचसामन्ते मङ्गलालंकृतां सुताम् ॥ ८७ ॥

 इदमिति ॥ स हिमवान्वचसामन्ते मुनिवाक्यावसानेऽत्र मुनिवाक्य इदमुत्तरश्लोके वक्ष्यमाणं दानमेव न्याय्यं न्यायादनपेतमुत्तरमिति बुद्ध्या चित्तेन विमृश्य विचिन्त्य मङ्गलं यथा तथालंकृतां मङ्गलालंकृतां सुतामाददे हस्ताभ्यां जग्राह ८७

  एहि विश्वात्मने वत्से ! भिक्षासि परिकल्पिता ।
  अर्थिनो मुनयः प्राप्तं गृहमेधिफलं मया ॥ ८८ ॥

 एहीति ॥ हे वत्से पुत्रि! एह्यागच्छ । त्वं विश्वात्मने शिवाय भिक्षा परि-


पाठा०-१ कन्यार्थे हि. २ सद्यः.३ समीहितम्. ४ शर्वार्पणे. ५ भिक्षात्वम्. कल्पितासि निश्चितासि । 'रत्नादिस्तम्बपर्यन्तं सर्वं भिक्षा तपस्विनः' इति वचनादिति भावः । अर्थिनो याचितारो मुनयः । मया गृहमेधिनो गृहस्थस्य फलं प्राप्तम् । इह परत्र च तारकत्वात्पात्रे कन्यादानं गार्हस्थ्यस्य फलमित्यर्थः ॥१८॥

  एतावदुक्त्वा तनयामृषीनाह महीधरः।
  इयं नमति वः सवास्त्रिलोचनवधूरिति ॥ ८९ ॥

 एतावदिति ॥ महीधरो हिमवांस्तनयामेतावत्पूर्वोक्तमुक्त्वर्षीनाह । किमिति ? इयं त्रिलोचनवधूस्त्र्यम्बकपत्नी वः सर्वान्नमतीति । 'त्रिलोचनवधूः' इति सिद्धवदभिधानेनाविप्रतिपन्नं दानमिति सूचयति ॥ ८९ ॥

  ईप्सितार्थक्रियोदारं तेऽभिनन्द्य गिरेर्वचः।
  आशीर्भिरेधयामासुः पुरःपाकाभिरम्बिकाम् ॥ ९० ॥

 ईप्सितार्थेति ॥ ते मुनयः ईप्सितार्थक्रिययेष्टार्थकरणेनोदारं महत् । 'उदारो दातृमहतोः' इत्यमरः। गिरेर्हिमवतो वचो वचनमभिनन्द्य साध्विति संस्तुत्याम्बिकामम्बाम् । पच्यत इति पाकः फलम् । पुरःपाकाभिः पुरस्कृतफलाभिराशीर्भिराशीर्वादैरेधयामासुः संवर्धयामासुः ॥ ९० ॥

  तां प्रणामादरस्रस्तजाम्बूनदवतंसकाम् ।
  अङ्कमारोपयामास लज्जमानामरुन्धती ॥ ९१ ॥

 तामिति ॥ प्रणामादरेण नमस्कारासक्त्या स्रस्ते जाम्बूनदे सुवर्णविकारे वतंसके कनककुण्डले यस्यास्तां लज्जमानां तामम्बिकामरुन्धत्यङ्कमारोपयामास । 'रुहः पोऽन्यतरस्याम्' (पा. ७।३।४३) इति पकारः ॥ ९१ ॥

  तन्मातरं चाश्रुमुखीं दुहितृस्नेहविक्लवाम् ।
  वरस्यानन्यपूर्वस्य विशोकामकरोद्गुणैः ॥ ९२ ॥

 तदिति ॥ दुहितृस्नेहेन पुत्रिकाप्रेम्णा विक्लवां वियोक्ष्यत इति भीताम् ।


पाठा०-१ दुहितुः टिप्प०-1 गार्हस्थ्यसाफल्यं चोक्तमन्यत्र-गृहस्थः श्रद्धया दद्याद्भिक्षां भिक्षार्थिने सदा। भिक्षामददतः पुंसो गाईस्थ्यं निष्फलं भवेत्' इत्यादिना। 2 'आर्याप्यरुन्धती' (६।३२) इति श्लोकयुग्मेनोक्तमत्रानुसंधेयम् । अत एवाश्रूणि मुखे यस्यास्तामश्रुमुखीं तस्या अम्बिकाया मातरं तन्मातरं मेनां च । अन्या पूर्वं यस्यास्ति सोऽन्यपूर्वः । 'सर्वनाम्नो वृत्तिविषये पुंवद्भावः' (वा० १३७६) इति पूर्वपदस्य पुंवद्भावः। स न भवतीत्यनन्यपूर्वस्तस्यानन्यपूर्वस्य । सापहयदुःखमकुर्वत इत्यर्थः । वरस्य वोढुर्गुणैर्मृत्युंजयत्वादिभिर्विशोकां निर्दुःखामकरोत् ॥ ९२ ॥

  वैवाहिकीं तिथिं पृष्टास्तत्क्षणं हरबन्धुना ।
  ते त्र्यहादूर्ध्वमाख्याय चेरुश्चीरपरिग्रहाः ॥ ९३ ।।

 वैवाहिकीमिति ॥ चीरपरिग्रहा वल्कलमात्रवसनास्ते तपस्विनस्तत्क्षणं तस्मिन्नेव क्षणे हरबन्धुना हिमवता वैवाहिकीं विवाहयोग्यां तिथिं पृष्टाः केत्यनुयुक्ताः सन्तः। त्रयाणामह्नां समाहारस्त्र्यहः । 'तद्धितार्थोत्तरपदसमाहारे च' (पा. २।१।५१) इति समासः। 'राजाहःसखिभ्यष्टच्' (पा. ५।४।९१) इति टच्प्रत्ययः। द्विगुत्वादेकवचनम्। 'रात्राह्णाहाः पुंसि' (पा. २।४।२९) इति पुंलिङ्गता। तस्मात्त्र्यहादूर्ध्वमुपर्याख्याय 'चतुर्थेऽहनि विवाहः' इत्युक्त्वा चेरुश्चलिताः ॥९३॥

  ते हिमालयमामन्त्र्य पुनः प्राप्य च शूलिनम् ।
  सिद्धं चास्मै निवेद्यार्थं तद्विसृष्टाः खमुद्ययुः ॥ ९४ ॥

 त इति ॥ ते मुनयो हिमालयमामन्त्र्य 'साधु यामः' इत्यापृच्छय पुनः शूलिनं हरं संकेतस्थानस्थं प्राप्य सिद्धं निष्पन्नमर्थं प्रयोजनमस्मै निवेद्य च ज्ञापयित्वा च तद्विसृष्टास्तेन शूलिना विसृष्टाः खमाकाशं प्रत्युद्ययुरुत्पेतुः । अत्र संक्षिप्तार्थाभिधानात्संक्षेपो नाम गुण उक्तः। तदुक्तम्-'संक्षिप्तार्थाभिधानं यत्संक्षेपः परिकीर्तितः' इति ॥ ९४ ।।

 भगवान्पशुपतिस्त्र्यहमात्रविलम्बमपि सोढुं न शशाक, तदौत्सुक्यादित्याह-

  पशुपतिरपि तान्यहानि कृच्छ्रादगमयदद्रिसुतासमागमोत्कः ।
  कमपरमवशं न विप्रकुयुर्विभुमपि तं यदमी स्पृशन्ति भावाः ॥१५॥

 पशुपतिरिति ॥ उत्कं मनो यस्य स उत्कः । 'उत्क उन्मनाः' (पा.५।२।८०) इति निपातः । अद्रिसुतासमागमोत्कः पार्वतीपरिणयोत्सुकः पशुपतिरपि तानि,


पाठा०-१ चेलुः. २ प्रेक्ष्य. ३ तस्मै. १० कु. सं. त्रीणीति शेषः । अहानि कृच्छ्रादगमयदहापयत् । कविराह-अमी भावा औत्सुक्यादयः संचारिणोऽवशमिन्द्रियपरतन्त्रमपरं पृथग्जनं कं न विप्रकुर्युर्न विकारं नयेयुः? यद्यस्माद्विभुं समर्थम् , जितेन्द्रियमिति यावत् । तं स्मरहरमपि स्पृशन्ति, विकुर्वन्तीत्यर्थः । अत्र विभुविकारसमर्थनादर्थादितरजनविकारः कैमुतिकन्यायादापततीत्यर्थापत्तिरलंकारः । तथा च सूत्रम्-'दण्डापूपिकयार्थान्तरपतनमर्थापत्तिः' इति । 'अर्थान्तरन्यास' इति केचित् तदुपेक्षणीयम् , युक्तिस्तु विस्तरभयान्नोच्यते । पुष्पिताग्रा वृत्तम्-'अयुजि नयुगरेफतो यकारो युजि च नजौ जरगाश्च पुष्पिताग्रा' इति तल्लक्षणात् ॥ ९५ ॥

इति श्रीमन्महोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीविनीसमाख्यया
व्याख्यया समेतः श्रीकालिदासकृतौ कुमारसंभवे महाकाव्ये
पार्वतीतपःफलोदयो नाम षष्ठः सर्गः ।

सप्तमः सर्गः ।

 अथौषधीनामधिपस्य वृद्धौ तिथौ च जामित्रगुणान्वितायाम् ।
 समेतबन्धुर्हिमवान्सुताया विवाहदीक्षाविधिमन्वतिष्ठत् ॥ १॥

 अथेति ॥ अथ त्र्यहानन्तरं हिमवानोषधीनामधिपस्य चन्द्रस्य वृद्धौ, शुक्लपक्ष इत्यर्थः । शुभकर्मस्वापूर्यमाणपक्षस्य प्राशस्त्यात् । तिथौ च जामित्रं लग्नात्सप्तमं स्थानं तस्य गुणः शुद्धिः सा च ग्रहराहित्यं तेनान्वितायां सत्याम् । यद्यपि जामित्रशुद्धिर्लग्नधर्मस्तथापि तद्द्वारा तिथेरपि तथा व्यपदेशे न दोषः। समेतबन्धुर्युक्तबन्धुः सन् । सुताया दुहितुर्विवाहदीक्षा विवाहसंस्कारः सैव विधिः कर्म तमन्वतिष्ठत्कृतवान् ॥ १ ॥


टिप्प०-1 तथा चोक्तं शैवागमे-'ब्रह्मादयो जगति जीवगणास्तृणान्ताः सर्वे विमोहितधियः पशवः प्रदिष्टाः। तेषामभूदधिपतिः शिव एक एव तस्माद्विदुः पशुपतिं परमेश्वरं तम् ॥' इति । 2 तच्चोक्तमाश्वलायनगृह्यसूत्रे-'उदगयन आपूर्यमाणपक्षे कल्याणे नक्षत्रे चौलकर्मोपनयनगोदानविवाहाः' इति । 3 तत्तु 'विवाहे स्युः सर्वे मदनसदने नैव शुभदाः', 'सर्वे जामित्रसंस्था विदधति मरणम्' इति लग्नप्रकरणे सप्तमस्थानशुध्देरावश्यकत्वं वसिष्ठादिभिश्च प्रतिपादितम् ।

 वैवाहिकः कौतुकसंविधानैर्गृहे गृहे व्यग्रपुरंध्रिवर्गम् ।
 आसीत्पुरं सानुमतोऽनुरागादन्तःपुरं चैककुलोपमेयम् ॥ २॥

 वैवाहिकैरिति ॥ अनुरागात् प्रीतिवशात् । गृहे गृहे प्रतिगृहम् । वीप्सायां द्विर्भावः। विवाहःप्रयोजनमेषामिति वैवाहिकानि तैः। 'प्रयोजनम्'(पा.५।१।१०९) इति ठक् । कौतुकसंविधानैर्मङ्गलार्थसंपादनैर्व्यग्रो व्याकुलः पुरंध्रिवर्गः कुटुम्बिनीजनो यास्मिंस्तत्तथोक्तं सानुमतोऽद्रेः पुरं बाह्यमोषधिप्रस्थमन्तःपुरमवरोधनं चैककुलेनैकगृहेण वोपमेयमासीत् । 'सजातीयगणे गोत्रे गृहेऽपि कथितं कुलम्' इति विश्वः । सर्वेषामपि स्वगृह एवेदं शोभनं वर्तत इत्यभिमानोऽभूदित्यर्थः । एतेन हिमाद्रेः प्रजाराग उक्तः । अत्र सर्वं संपन्नमेवेत्यर्थः ॥२॥

 संतानकाकीर्णमहापथं तच्चीनांशुकैः कल्पितकेतुमालम् ।
 भासोज्ज्वलत्काञ्चनतोरणानां स्थानान्तरं स्वर्ग इवाबभासे ॥ ३॥

 संतानकेति ॥ संतानकैर्मन्दारकुसुमैराकीर्णा आस्तृता महापथा राजवीथयो यस्मिंस्तत्तथोक्तम् । चीनांशुकैः पट्टवस्त्रैः कल्पिता विरचिताः केतुमाला ध्वजपङ्क्तयो यस्य तत्तथोक्तम् । काञ्चनतोरणानां भासा प्रभयोज्वलद्दीप्यमानं तत्पुरं स्थानान्तरं मेरोरन्यत्र स्थितः स्वर्ग इवाबभासे । उत्प्रेक्षालंकारः ॥ ३ ॥

 एकैव सत्यामपि पुत्रपङ्क्तौ चिरस्य दृष्टेव मृतोत्थितेव ।
 आसन्नपाणिग्रहणेति पित्रोरुमा विशेषोच्छ्वसितं बभूव ॥ ४ ॥

 एकैवेति ॥ पुत्राश्च दुहितरश्च पुत्राः । 'भ्रातृपुत्रौ स्वसृदुहितृभ्याम्' (पा.१।२।६८) इत्येकशेषः । 'पुत्रौ पुत्रश्च दुहिता च' इत्यमरः । तेषां पङ्क्तौ सङ्घे सत्यामप्युमैकैव चिरस्य दृष्टेव चिरान्नष्टलब्धेव मृतोत्थितेव मृत्वा पुनरुत्पन्नेवासन्नपाणिग्रहणासन्नविवाहेति । भर्तृगृहं गमिष्यतीति हेतोरित्यर्थः । पित्रोर्मातापित्रोः । 'पिता मात्रा' (पा.१।२।७०) इत्येकशेषः। विशेषेणोच्छ्वसितं प्राणभूता बभूव, पुमपत्यादप्यधिकप्रेमास्पदमभूदित्यर्थः ॥ ४ ॥

 अङ्काद्ययावङ्कमुदीरिताशीः सा मण्डनान्मण्डनमन्वभुङ्क्त ।
 संबन्धिभिन्नोऽपि गिरेः कुलस्य स्नेहस्तदेकायतनं जगाम ॥५॥


पाठा०-१ चतुःपथम्. २ भासा ज्वलत्. ३ स्थानान्तरस्वर्गः. ४ चिरेण, ५ उपोढपाणि.  अङ्कादिति ॥ सा पार्वत्युदीरिताशीः प्रयुक्ताशीर्वादा सत्यङ्कादङ्कमुत्सङ्गं ययौ। मण्डनान्मण्डनान्तरं मण्डनमन्वभुङ्क्त । तदा सर्वे बन्धवः प्रत्येकमेव तामङ्कमारोप्य मण्डनं प्रायच्छदित्यर्थः। तच्च स्नेहनिबन्धनमेवेत्याह-संवन्धिभिः स्वपुत्रादिभिर्भिन्नो विभक्तोऽपि गिरेः कुलस्य वंशस्य स्नेहस्तदेकायतनं सैवैकमायतनं स्थानं तज्जगाम । तदिति छेदेऽप्ययमेवार्थः । विधेयप्राधान्यान्नपुंसकत्वमिति । सर्वे बन्धवः स्वापत्येभ्योऽपि तस्यामधिकं स्निह्यन्तीति तात्पर्यार्थः ॥५॥

 मैत्रे मुहूर्ते शशलाञ्छनेन योगं गतासूत्तरफल्गुनीषु ।
 तस्याः शरीरे प्रतिकर्म चक्रुर्बन्धुस्त्रियो याः पतिपुत्रवत्यः ॥ ६॥

 मैत्र इति ॥ अथ मैत्रे मित्रदैवत्ये मुहूर्ते, उदयमुहूर्तात्तृतीयमुहूर्त इत्यर्थः । 'आर्द्रः सार्द्रस्तथा मैत्रः शुभो वासव एव च' इति बृहस्पतिस्मरणात् । उत्तरफल्गुनीषु फल्गुनीनक्षत्रे । 'फल्गुनीप्रोष्ठपदानां च नक्षत्रे' (पा.१।२।६०) इत्यकस्मिन्नपि बहुवचनम् । शशलाञ्छनेन चन्द्रेण योगं गतासु सतीषु तस्याः पार्वत्याः शरीरे बन्धुस्त्रियः प्रतिकर्म प्रसाधनम्। 'प्रतिकर्म प्रसाधनम्' इत्यमरः। चक्रुः । कीदृश्यः ? याः पतिपुत्रवत्यः, जीवद्भर्तृका जीवदपत्याश्चेत्यर्थः ॥ ६ ॥

प्रतिकर्मप्रकारमेव प्रपञ्चयति-

 सा गौरसिद्धार्थनिवेशवद्भिर्दूर्वाप्रवालैः प्रतिभिन्नशोभम् ।
 निर्नाभिकौशेयमुपात्तबाणमभ्यङ्गनेपथ्यमलंचकार ।। ७ ।।

 सेति ॥ सा गौरी गौरसिद्धार्थनिवेशवद्भिः श्वेतसर्षपप्रक्षेपवद्भिर्दूर्वाप्रवालैर्दूर्वाङ्कुरैः प्रतिभिन्नशोभं विशेषितशोभं निर्नाभ्यतिक्रान्तनाभि कौशेयं वस्त्रविशेषो यस्मिंस्तत्तथोक्तम्। 'कौशेयं कृमिकोशोत्थम्' इत्यमरः । उपात्तबाणं गृहीतशरम् । 'शरः क्षत्रियया ग्राह्यः' (३।४४) इति मनुस्मरणात् । अङ्गनेपथ्यमभ्यङ्गवेशमलंचकार, अलंकारमप्यलंचकारेत्यर्थः ॥ ७ ॥


पाठा०-१ रागम्. टिप्प०-1 विवाह उत्तर फल्गुन्याः शुभदत्वमुक्तम्-'रोहिण्यैन्दवरेवतीश्वसनभं मूलानुराधामघाहस्ताश्चोत्तरभत्रयं शुभदं वैवाहिके कर्मणि ।' 'विवाहे शुभदाऽत्यन्तं तस्मादुत्तरफल्गुनी' इत्यादिश्लोकैः । 2 अनेन हिमवतः क्षत्रियत्वं स्फुटं प्रतिपादितम् , शिवस्तु

ब्राह्मण एवेति श्रुत्यादिषु प्रसिद्धिरिति क्षात्र-ब्राह्मसंमिश्रोऽयं विवाह इत्यवसेयम् ।

 बभौ च संपर्कमुपेत्य बाला नवेन दीक्षाविधिसायकेन ।
 करेण भानोर्बहुलावसाने संधुक्ष्यमाणेव शशाङ्करेखा ॥ ८॥

 बभाविति ॥ किंचेति चार्थः । बाला नवेन दीक्षाविधौ विवाहकृत्ये यः सायकस्तेन संपर्कमुपेत्य बहुलावसाने कृष्णपक्षात्यये, शुक्लपक्षादावित्यर्थः । भानो: करेण किरणेन संधुक्ष्यमाणोपचीयमाना। 'सलिलमये शशिनि रवेर्दीधितयो मूर्छितास्तमो नैशम् । क्षपयन्ति' इत्यादिवचनात् । शशाङ्करेखेव बभौ ॥ ८ ॥

 तां लोध्रकल्केन हृताङ्गतैलामाश्यानकालेयकृताङ्गरागाम् ।
 वासो वसानामभिषेकयोग्यं नार्यश्चतुष्काभिमुखं व्यनैषुः ॥९॥

 तामिति ॥ लोध्रकल्केन लोध्रचूर्णेन हृतमङ्गतैलं यस्यास्ताम् । कृतोद्वर्तनामित्यर्थः । आश्यानमीषच्छुष्कं तेन कालेयेन गन्धद्रव्येण कृताङ्गरागाम् , कृतस्नैग्ध्यामित्यर्थः । 'अथ जायकम् । कालेयकं च कालानुसार्यं च' इत्यमरः । अभिषेकयोग्यं वासो वस्त्रं वसानां स्नानशाटीमाच्छादयन्तीं तां पार्वतीं नार्यश्चतुष्कं चतुःस्तम्भगृहं तदभिमुखं व्यनेषुः, स्नानगृहं निन्युरित्यर्थः ॥ ९॥

 विन्यस्तवैदूर्यशिलातलेऽस्मिन्नाबद्धमुक्ताफलभक्तिचित्रे ।
 आवर्जिताष्टापदकुम्भतोयैः सतूर्यमेनां स्नपयांबभूवुः ॥ १० ॥

 विन्यस्तेति ॥ विन्यस्तं वैदूर्यशिलातलं मरकतशिलाप्रदेशो यस्मिंस्तस्मिन्नाबद्धानां मुक्ताफलानां भक्तिभी रचनाभिश्चित्रेऽस्मिंश्चतुष्क एनां पार्वतीमावर्जितानामानमितानामष्टापदकुम्भानां कनककलशानां तोयैः सतूर्यं मङ्गलवाद्ययुक्तं यथा तथा स्नपयांबभूवुः । अष्टसु लौहेषु पदं प्रतिष्ठा यस्येत्यष्टापदम् । 'अष्टनः संज्ञायाम्' (पा.६।३।१२५) इति दीर्घः । 'अष्टापदं स्यात्कनकम्' इति विश्वः ॥१०॥

 सा मङ्गलस्नानविशुद्धगात्री गृहीतवत्युद्गमनीयवस्त्रा ।
 निर्वृत्तपर्जन्यजलाभिषेका प्रफुल्लकाशा वसुधेव रेजे ॥११॥


पाठा०-१ लेखा. २ अभिमुखीमनैषुः. ३ शिले च तस्मिन्. ४ आविद्ध, ५ शुद्धोद्गमनीय. ६ निवृत्त. टिप्प०--1 तानि तु-'सुवर्णं रजतं ताम्र्ं सीसकं कांतिकं तथा । वङ्गं लौहं तीक्ष्णलौहं लौहान्यष्टाविमानि तु ॥' इत्यादिनोक्तानि ।  सेति ॥ मङ्गलार्थ स्नानेन विशुद्धगात्री निर्मलाङ्गी पत्युर्वरस्योद्गमनीयवस्त्र धौतवस्त्रम् , 'धौतमुद्गमनीयं स्यात्' इति हलायुधः । 'तत्स्यादुद्गमनीयं यद्धौतयोर्वस्त्रयोर्युगम्' इत्यमरः । 'युग'ग्रहणं तु प्रायिकाभिप्रायम् । अत एवात्र क्षीरस्वामी-'युगमविवक्षितं यल्लक्ष्यं' इति व्याख्याय 'गृहीतवत्युद्गमनीयवस्त्रा' इत्येतदेवोदाहृतवान् । गृहीतवती, धौतवस्त्रमाच्छादितवतीत्यर्थः । सा पार्वती निर्वृत्तो निष्पन्नः पर्जन्यस्य जलेनाभिषेको यस्याः सा तथोक्ता । प्रफुल्लतीति प्रफुल्लं काशं काशपुष्पं यस्याः सा तथोक्ता वसुधेव रेजे शुशुभे ॥ ११ ॥

 तस्मात्प्रदेशाच्च वितानवन्तं युक्तं मणिस्तम्भचतुष्टयेन ।
 पतिव्रताभिः परिगृह्य निन्ये क्लृप्तासनं कौतुकवेदिमध्यम् ॥१२॥

 तस्मादिति ॥ किंचेति चार्थः । तस्मात्प्रदेशात्स्नानप्रदेशाद्वितानवन्तमुल्लोचयुक्तम् । 'अस्त्री वितानमुल्लोचः' इत्यमरः । मणिस्तम्भचतुष्टयेन युक्तं क्लृप्तं सज्जमानमासनं यस्मिंस्तं कौतुकवेदिमध्यं पतिव्रताभिः परिगृह्य दोर्भिरालिङ्ग्य निन्ये नीता, प्रसाधनार्थमित्यर्थः ॥ १२ ॥

 तां प्राङ्मुखीं तत्र निवेश्य तन्वीं क्षणं व्यलम्बन्त पुरो निषण्णाः ।
 भूतार्थशोभाह्रियमाणनेत्राः प्रसाधने संनिहितेऽपि नार्यः ॥१३॥

 तामिति ॥ नार्यः प्रसाधिकास्तां तन्वीं पार्वतीं तत्र वेदिमध्ये प्राङ्मखीं निवेश्योपवेश्य पुरो निषण्णा अग्रे स्थिताः । प्रसाध्यतेऽनेनेति प्रसाधनेऽलंकारसाधनवर्गे संनिहितेऽपि भूतार्था सत्यरूपा, स्वाभाविकीति यावत् । या शोभा रामणीयकं तया ह्रियमाणान्याकृष्यमाणानि नेत्राणि यासां तास्तथोक्ताः क्षणं व्यलम्बन्त । स्वभावसुन्दर्याः किमस्याः प्रसाधनेनेति तूष्णीं तस्थुरित्यर्थः ॥ १३ ॥

 धूपोष्मणा त्याजितमार्द्रभावं केशान्तमन्तःकुसुमं तदीयम् ।
 पर्याक्षिपत्काचिदुदारबन्धं दूर्वावता पाण्डुमधूकदाम्ना ॥ १४ ॥

 धूपेति ॥ काचित्प्रसाधिका धूपोष्मणा करणेनार्द्रभावमार्द्रत्वं त्याजितम् । पचादिषु पाठाद्द्विकर्मकत्वम् । त्यजतेर्ण्यन्तादप्रधाने कर्मणि क्तः । अन्तःकुसुम-


पाठा०-१ प्रतिगृह्य. २ धूपेन संमार्जितम्. मन्तर्निक्षिप्तकुसुमं तस्या इमं तदीयं केशान्तं केशपाशं दूर्वावता मध्ये प्रथि- तदूर्वेण पाण्डुमधूकदाम्ना हरितमधुदुमकुसुममाल्येन । 'मधूके तु गुडपुष्प- मधुद्रुमौ' इत्यमरः । उदारबन्धं रम्यबन्धं यथा तथा पर्याक्षिपद्धबन्ध ॥ १४ ॥

 विन्यस्तशुक्लागुरु चक्रुरङ्गं गोरोचनापत्रविभक्तमस्याः ।
 सा चक्रवाकाङ्कितसैकतायास्त्रिस्रोतसः कान्तिमतीत्य तस्थौ ॥१५॥

 विन्यस्तेति ॥ अस्या गौर्या अङ्गं गात्रं विन्यस्तं विरचितं शुक्लागुरु यस्मिंस्तद्गो- रोचनायाः पत्रैः पत्ररचनाभिर्विभक्तं विशेषितं च चक्रुः । सा तथाभूता गौरी चक्रवाकैरङ्कितं सैकतं यस्यास्तस्यास्त्रिस्रोतसो गङ्गायाः कान्तिं शोभामतीत्याति- क्रम्य तस्थौ । अत्र गोरोचनाचक्रवाकयोः पीतत्वेन साम्यम् , त्रिस्रोतसो धावल्यं तु प्रसिद्धत्वान्न स्वपदेनोपात्तम् ॥ १५ ॥

 लग्नद्विरेफ परिभूय पझं समेघलेखं शशिनश्च बिम्बम् ।
 तदाननश्रीरलकैः प्रसिद्धैश्चिच्छेद सादृश्यकथाप्रसङ्गम् ।। १६ ॥

 लग्नेति ॥ प्रसिद्धैर्भूषितैः । 'प्रसिद्धौ ख्यातभूषितौ' इत्यमरः । अलकैरुप- लक्षिता तस्या गौर्याः आननश्रीर्लग्नद्विरेफं पद्म समेघलेखं मेघरेखायुक्तं शशिनो बिम्बं च परिभूय तिरस्कृत्य सादृश्यमुपमा तस्य कथोक्तिस्तस्याः प्रसङ्गं प्रसक्ति सादृश्यं वाङ्मात्रप्रसक्तमपि चिच्छेदाभिनत् , प्रसक्तयोः पद्मचन्द्रयोः परिभूत- स्वादन्यत्र चाप्रसङ्गादित्यर्थः । अत्र पूर्वार्धवाक्यार्थस्य सादृश्यकथाच्छेदं प्रति हेतुत्वेनोपन्यासात्काव्यलिङ्गमलंकारः । लक्षणं तूक्तम् ॥ १६ ॥

 कर्णार्पितो लोध्रकषायरूक्षे गोरोचनाक्षेपॅनितान्तगौरे ।
 तस्याः कपोले परभागलाभाद्बबन्ध चक्षूंषि यवप्ररोहः ॥ १७ ॥

 कर्णेति ॥ तस्या गौर्याः कर्णेऽर्पितो निक्षिप्तो यवप्ररोहो यवाङ्कुरो लोध्रस्य वृक्षविशेषस्य कषायेण विलेपनेन रूक्षे विशदे, उद्वर्तिते इत्यर्थः । 'कषायो रसभेदे स्यादङ्गरागे विलेपने' इति विश्वः । गोरोचनायाः क्षेपेण विन्यासेन नितान्तगौरेऽत्यन्तारुणे। 'गौरः श्वेतेऽरुगे पीते' इति विश्वः। कपोले गण्डस्थले परभागलाभाद्वर्णोत्कर्षप्राप्तेश्चक्षूंषि, द्रष्टणामिति शेषः । बबन्ध जहार, भाच-


पाठा०-१ आसक्त. २ अस्याः. ३ विभङ्गमङ्गम् . ४ लीन. ५ भेद. कर्षेत्यथ्ः । गोरोचनारुणे गण्डस्थले पाण्डुरो यवाङ्कुरो विजातीयवर्णसंनिधाना- ल्लब्धवर्णोत्कर्षः संश्चक्षुराकर्षकोऽभूदिति भावः ॥ १७ ॥

 रेखाविभक्तः सुविभक्तगात्र्याः किचिन्मधूच्छिष्टविमृष्टरागः ।
 कामप्यभिख्यां स्फुरितैरपुष्यदासन्नलावण्यफलोऽधरोष्ठः ॥१८॥

 रेखेति ॥ सुविभक्तगात्र्याः सुसंश्लिष्टावयवायाः पार्वत्या रेखया मध्यगतया विभक्तः सुश्लिष्टः किंचिदीषन्मधूच्छिष्टेन सिक्थकेन विमृष्टो विशेषेण निर्मली- कृतो रागो यस्य स तथोक्तः । 'मधूच्छिष्टं तु सिक्थकम्' इति, 'निर्णिक्तं शोधितं मृष्टम्' इति चामरः । अन्यत्रोक्तम् -'अलौहित्यापगमायाधरेपु सिक्थकलेपः क्रियते' । आसन्नं संनिहितं लावण्यफलं सौन्दर्यप्रयोजनं मुखचुम्बनादिरूपं यस्य स तथोक्तोऽधरोष्ठः स्फुरितैर्भाविशुभशंसिभिः स्पन्दैः कामप्यनिर्वाच्यामभिख्या शोभामपुष्यत्पुपोष । 'अभिख्या नामशोभयोः' इत्यमरः ॥ १८ ॥

 पत्युः शिरश्चन्द्रकलामनेन स्पृशेति सख्या परिहासपूर्वम् ।
 सा रञ्जयित्वा चरणौ कृताशीर्माल्येन तां निर्वचनं जधान ॥१९॥

 पत्युरिति ॥ संख्या कर्त्र्या । चरणौ रञ्जयित्वा लाक्षारसातौ कृत्वा । कृता- शीरिति करोतिना समानकर्तृकत्वम् । अनेन चरणेन । रञ्जने द्वयोरपि नियमात् 'चरणौ' इत्युक्त्वाप्यौचित्यात्ताडनविधावेकतरपरामर्श इत्याहुः । पत्युरीश्वरस्य शिरश्चन्द्रकलाम्, सुरतविशेष इति शेषः । 'स्पृश ताडय' इति परिहासपूर्व कृताशी प्रयुक्ताशीर्वादा सा पार्वती तां सखीं माल्येन मालया। 'माल्यं माला- सजौ' इत्यमरः । निर्वचनं यथा तथा तूष्णीमित्यर्थः । जघान ताडयामास । निर्वचनमित्यनेन विहृताख्यः शृङ्गारानुभाव उक्तः । तदुक्तम्-'प्राप्तकालं तु यद्ब्रूयात्कुर्याद्वा विहृतं हि तत्' इति ॥ १९ ॥

 तस्याः सुजातोत्पलपत्रकान्ते प्रसाधिकाभिर्नयने निरीक्ष्य ।
 न चक्षुषोः कान्तिविशेषबुद्ध्या कालाञ्जनं मङ्गलमित्युपात्तम् ॥२०॥

 तस्या इति ॥ प्रसाधिकाभिरलंकर्त्रीभिः सुजाते सम्यगुत्पन्ने उत्पलपत्रे इव कान्ते रम्ये तस्या नयने निरीक्ष्य कालाञ्जनमञ्जनविशेषश्चक्षुषोः कान्तिविशेष-


पाठा०-१ च विभक्त, २ विसृष्ट. ३ समीक्ष्य. बुद्धया शोभातिशयो भविष्यतीति बुद्ध्येत्यर्थः, नोपात्तं न गृहीतं किंतु मङ्गलं शुभमिति हेतोरुपात्तम् । निसर्गसुभगस्य किमाहार्यकाडम्बरेणेति भावः ॥२०॥

 सा संभवद्भिः कुसुमैर्लतेव ज्योतिर्भिरुद्यद्भिरिव त्रियामा ।
 सरिद्विहंगैरिव लीयमानैरामुच्यमानाभरणा चकासे ॥ २१ ॥

 सेति । आमुच्यमानाभरणा निबध्यमानाभरणा सा गौरी संभवद्भिरुत्पद्य- मानैः कुसुमैर्लतेव । अनेन पद्मरागेन्द्रनीलादीन्याभरणानि सूचितानि, लताकुसु. मानां नानावर्णत्वात् । उद्यद्भिरुदयं गच्छद्भिर्ज्योतिर्मिरुडुभिस्त्रियामा रात्रिरिव । अनेन मौक्तिकानि कथितानि । लीयमानैराश्रयद्भिः, निपीदद्भिरित्यर्थः । विहंग- श्चक्रवाकैः सरिदिव । अनेन सुवर्णाभरणानि सूचितानि । विहंगाश्च तत्सूचनाय चक्रवाका अभिमताः । चकासे रेजे । अत्र लताकुसुमादीनां सहजसबन्धिनामु- पमानत्वेनोपादानादाहार्यकमपि तस्याः सहजमिवाशोभतेति भावः॥ २१ ॥

 आत्मानमालोक्य च शोभमानमादर्शबिम्बे स्तिमितायताक्षी ।
 हरोपयाने त्वरिता बभूव स्त्रीणां प्रियालोकफलो हि वेशः॥२२॥

 आत्मानमिति ॥ किंचेति चार्थः । गौरी शोभमानमात्मानं निजशरीरमा- दर्शबिम्बे दर्पणमण्डले । 'दर्पणे मुकुरादशौं' इत्यमरः। स्तिमितायताक्ष्यादरा- न्निश्चलायतलोचना सत्यालोक्य हरोपयाने हरप्राप्तौ त्वरिता व्यग्रा बभूव । स्त्रीणां वेशो नेपथ्यं प्रियस्य भर्तुरालोको दर्शनं फलं प्रयोजनं यस्य स तथोक्तो हि । अन्यथारण्यचन्द्रिका स्यादिति भावः । अनेन कालाक्षमत्वलक्षणमौत्सुक्य- मुक्तमित्यनुसंधेयम् ॥ २२॥

 अथाङ्गुलिभ्यां हरितालमार्द्रं माङ्गल्यमादाय मनःशिलां च ।
 कर्णावसक्तामलदन्तपत्रं माता तदीय मुखमुन्नमय्य ।। २३॥

 अथेति ॥ अथ प्रसाधनानन्तरं माता मेनका माङ्गल्यं मङ्गलार्थमार्द्रं द्रवं हरितालं वर्णद्रव्यविशेषं मनःशिलां धातुविशेषं चाङ्गुलिभ्यां तर्जनीमध्यमा- भ्यामादाय कर्णयोरवसक्ते लग्ने अमले दन्तपत्रे यस्य तत्तथोक्तं तस्याः पार्वत्याः इदं तदीयं मुखमुन्नमय्य । 'विवाहदीक्षातिलकं चकार' (७।२४) इत्युत्तर- श्लोकेनान्वयः ॥ २३ ॥


पाठा०-१ अङ्गुलीभ्याम् . २ मङ्गल्यम्.

 उमास्तनोद्भेदमनुप्रवृद्धी मनोरथो यः प्रथमं बभूव ।
 तमेव मेना दुहितुः कथंचिद्विवाहदीक्षातिलकं चकार ॥ २४ ॥

 उमेति ॥ उमायाः स्तनोद्नभेदमनु, स्तनोदयमारभ्येत्यर्थः । प्रवृद्धो वृद्धिं गतः, प्रागेवोत्पन्न इति भावः । यो मनोरथो वाञ्छा । 'वाञ्छा लिप्सा मनो- रथः' इत्यमरः । प्रथमं मनोरथान्तरात्प्राक्, अयमेव प्रथमो मनोरथ इत्यर्थः । बभूव । मेना दुहितुस्तमेव मनोरथभूतमेव । तद्विषये तदुपचारः। विवाह- दीक्षायां विवाहकृत्ये निलकं कथंचित्कृच्छ्रेण चकार, आनन्दबाष्पान्धतयेति शेषः । विवाहानन्तरभावित्वादन्येषामयमेव प्रथमो मनोरथ इति भावः ॥ युग्मकम् ॥ २४ ॥

 बबन्ध चास्त्राकुलद्रुष्टिरस्या: स्थानान्तरे कल्पितसंनिवेशम् ।
 धात्र्यङ्गुलीभिः प्रतिसार्यमाणमूर्णामयं कौतुकहस्तसूत्रम् ॥ २५ ॥

 बबन्धेति ॥ अस्याः पार्वत्या अस्त्रैरानन्दबाप्पराकुलदृष्टिरत एव स्थानान्तरे कल्पितः संनिवेशो निक्षेपो यस्य तत्, स्वस्थानादन्यत्र स्थापितमित्यर्थः । अत एव धात्र्या उपमातुरङ्गुलीभिः प्रतिसार्यमाणं स्वस्थानं प्राप्यमाणमूर्णामयं मेषादिलोमनिर्मितम् । 'ऊर्णा मेषादिलोन्नि स्यात्' इत्यमरः । कौतुकहस्तसूत्रं मङ्गलहस्तसूत्रम् । 'कौतुकं मङ्गले हर्षे हस्तसूत्रे कुतूहले' इति शाश्वतः। बबन्ध च, मेनेति शेषः । पूर्वोक्ततिलकक्रियासमुच्चयार्थश्चकारः ॥ २५ ॥

 क्षीरोदवेलेव सफेनपुञ्जा पर्याप्तचन्द्रेव शरत्रियामा ।
 नवं नवक्षौमनिवासिनी सा भूयो बभौ दर्पणमादधाना ॥२६॥

 क्षीरोदेति ॥ नवं नूतनं क्षौमं दुकूलं निवस्त आच्छादयतीति नवक्षौम- निवासिनी । वस्तेराच्छादनार्थाण्णिनिः । तथा नवं दर्पणमादधाना बिभ्रती सा गौरी सफेनपुञ्जा सडिण्डीरपझ्क्तिः । क्षीरमुदकं यस्य स क्षीरोदः क्षीरसमुद्रः । 'उदकस्योदः संज्ञायाम्' (पा. ६।३१५७) इत्युदादेशः। तस्य वेला तीरभूमिरिव । 'वेला काले च जलधेस्तीरे नीरविकारयोः' इति विश्वः । पर्याप्तचन्द्रा पूर्णचन्द्रा शरत्रियामा शरद्रात्रिरिव भूयो भूयिष्ठं बभौ चकासे ॥ २६ ॥

 तामर्चिताभ्यः कुलदेवताभ्यः कुलप्रतिष्ठां प्रणमय्य माता।
 अकारयत्कारयितव्यदक्षा क्रमेण पादग्रहणं सतीनाम् ॥२७॥

 तामिति ॥ कारयितव्येषु दक्षा कारयित्री, कर्मोपदेशकुशलेत्यर्थः । माता

मेना । प्रतितिष्ठत्यस्यामिति प्रतिष्ठा । 'आतश्चोपसर्गे' (पा.३।१।१३६) इति कः। स्त्रियां टाप् । कुलस्य प्रतिष्ठां कुलालम्बनभूताम् , स्थितिकारिणीमित्यर्थः । तां गौरीम् । अर्चिताभ्यः पूजिताभ्यः कुलदेवताभ्यो गृहदेवताभ्यः प्रणमय्य प्रणामं कारयित्वा । ल्यपि लघुपूर्वात्' (पा. ६।४।५६) इति णेरयादेशः। सतीनां पतिव्रतानां पादग्रहणं पादाभिवन्दनं क्रमेणाकारयत्कारयामास । 'हक्रोरन्य- तरस्याम्' (पा. १।४।५३) इत्यणिकर्तुः कर्मत्वम् । अन्यत्र च 'गतिबुद्धि-' (पा. १|४|५२) इत्यादिना नमेरकर्मकन्वादणिकर्तुः कर्मत्वम् ॥ २७ ॥

 अखण्डितं प्रेम लभस्व पत्युरित्युच्यते ताभिरुमा स्म नम्रा ।
 तया तु तस्यार्धशरीरभाजा पश्चात्कृताः स्निग्धजनाशिपोऽपि ॥२८॥

 अखण्डितमिति ॥ नम्रा प्रणतोमा ताभिः सतीभिः पत्युः शिवस्याखण्डित- मक्षतं प्रेम लभस्व प्रामुहीत्युच्यते स्म अभिहिता । 'लट् स्मे' (पा. ३।२।११८) इति भूतार्थे लट् । तस्य हरस्य । अर्धं शरीरस्यार्धशरीरम् । 'अर्धं नपुंसकम्' (पा. २।२।२) इति समासः । तद्भजतीत्यर्धशरीरभाजा तया गौर्या तु स्निग्धजना- शिषो बन्धुजनाशीर्वादा अपि पश्चात्कृता अधरीकृताः, ततोऽप्यधिकफललाभा- दिति भावः ॥ २८॥

 इच्छाविभूत्योरनुरूपमद्रिस्तस्याः कृती कृत्यमशेषयित्वा ।
 सभ्यः सभायां सुहृदास्थितायां तस्थौ वृषाङ्कागमनप्रतीक्षः ॥२९॥

 इच्छेति ॥ कृती कुशलः । सभायां साधुः सभ्यः । 'सभाया यः' (पा. ४।४।१०५) इति यप्रत्ययः । अद्रिर्हिमवान् । इच्छाविभूत्योरुत्साहैश्वर्ययोरनु- रूपं सदृशं यथा तथा तस्याः पार्वत्याः कृत्यं कर्तव्यमशेषयित्वाऽशेषं निःशेषं कृत्वा । समाप्येत्यर्थः । अशेषशब्दात् 'तत्करोति' (ग० २०४) इति ण्यन्तात्क्त्वा- प्रत्ययः, सुहृदास्थितायां बन्धुजनाक्रान्तायां सभायां संसदि वृषाङ्कस्य हरस्या- गमनं प्रतीक्षत इति तथोक्तः सन् । 'कर्मण्यण' (पा. ३।२।१) इत्यण् । तस्थौ स्थितः ॥ २९॥


पाठा०-१ असौ. २ लाभात्. ३ बन्धुजनं. ४ आगमनं प्रतीक्ष्य.

 तावद्भवस्यापि कुवेरशैले तत्पूर्वपाणिग्रहणानुरूपम् ।
 प्रसाधनं मातृभिरादृताभिर्न्यस्तं पुरस्तात्पुरशासनस्य ॥ ३० ॥

 तावदिति ॥ तावत् , यावद्गौरीप्रसाधनं क्रियते तत्काल एवेत्यर्थः । कुबेर- शैले कैलासे । तदेव पूर्वं तत्पूर्वं तच्च तत्पाणिग्रहणं तस्यानुरूपं प्रसाधनमलंकार- सामग्री आदृताभिः सादराभिः । कर्तरि क्तः। मातृभिर्ब्राह्मीप्रभृतिभिः सप्त- मातृकाभिः। पुरं शास्तीति पुरशासनस्तस्य पुरशासनस्य । कर्तरि ल्युट् । भवस्यापि पुरस्तादग्ने न्यस्तं निक्षिप्तम् ॥ ३० ॥

 तद्गौरवान्मङ्गलमण्डनश्रीः सा पस्पृशे केवलमीश्वरेण ।
 स एव वेषः परिणेतुरिष्टं भावान्तरं तस्य विभोः प्रपेदे ॥ ३१ ॥

 तदिति ॥ ईश्वरेण शिवेन सा मङ्गलमण्डनश्रीः शुभप्रसाधनसंपत् तद्गौरवा- त्तासु मातृप्वादरात्केवलं पस्पृशे स्पृष्टैव, न तु दध्र इत्यवधारणार्थः 'केवल'- शब्दः । 'केवलं चावधारणे' इति शाश्वतः । किंतु तस्य विभोर्देवस्य स एव वेषः स्वाभाविको भस्मकपालादिवेश एव परिणेतुर्लोक उद्बोदुरिष्टमपेक्षितं भावान्तरं रूपान्तरं प्रपेदे, अङ्गरागादिरूपतां प्रापेत्यर्थः ॥ ३१ ॥

 भावान्तरापत्तिमेवाह-

 बभूव भस्मैव सिताङ्गरागः कपालमेवामलशेखरश्रीः ।
 उपान्तभागेषु च रोचनाङ्को गजाजिनस्यैव दुकूलभावः ॥ ३२ ॥

 वभूवेति ॥ भस्मैव सिताङ्गरागः शुभ्रगन्धानुलेपनं बभूव । कपालमेवामलं शेखरं शिरोभूषणं तस्य श्रीः शोभा बभूव । गजाजिनस्यैवोपान्तभागेष्वञ्चलप्र- देशेषु रोचनैवाङ्को हंसादिचिह्न यस्य स तथोक्तो दुकूलभावः पट्टांशुकत्वं च बभूव, भस्मादिकमेवाङ्गरागादिभावं प्राप्तमित्यर्थः ॥ ३२ ॥

 शड़खान्तरद्योति विलोचनं यदन्तर्निविष्टामलपिङ्गतारम् ।
 सांनिध्यपक्षे हरितालमय्यास्तदेव जातं तिलकक्रियायाः॥३३॥

 शङ्खेति ॥ शङ्खान्तरे ललाटास्थिमध्ये द्योतत इति तथोक्तम् । 'शङ्खो निधौ


पाठा०-१वरस्य, २ त्स्मर. ३ ख एव. ४ कृताङ्गरागः.५ भावेषु. ६ नेत्रान्तर, ७अनल. ललाटास्ध्नि' इत्यमरः । अन्तर्निविष्टा मध्यगताऽमला पिङ्गा तारा कनीनिका यस्य तत्तथोक्तम् । 'तारकाक्ष्णः कनीनिका' इत्यमरः। यद्विलोचनं तद्विलोचनमेव हरितालमय्या वर्णद्रव्यविशेषविकारस्य तिलकक्रियायास्तिलकरचनायाः संनि- धिरेव सांनिध्यं तदेव पक्षः साध्यम् । 'पक्षः पार्श्वगरुत्साध्यसहायबलभित्तिषु' इति यादवः । तस्मिन्सांनिध्यपक्षे जातम् , प्रविष्टमित्यर्थः । अनेन ललाटलोचनमेव तस्य हरितालतिलकमभूदित्युक्तम् ॥ ३३ ॥

 यथाप्रदेशं भुजगेश्वराणां करिष्यतामाभरणान्तरत्वम् ।
 शरीरमात्रं विकृतिं प्रपेदे तथैव तस्थुः फणरत्नशोभाः ॥३४॥

 यथेति ॥ यथाप्रदेशं प्रदेशान्कोष्ठादीननतिकम्याभरणान्तरस्वं कङ्कणाद्या- भरणविशेषत्वं करिष्यतां संपादयिष्यतां भुजगेश्वराणां शरीरमानं शरीरमेव विकृतिं रूपान्तरं प्रपेदे । फणरत्नशोभास्तथैव तस्थुः, तासां तथैवोपादेयत्वा- दिति भावः ॥ ३४ ॥

 दिवापि निष्ठयूतमरीचिभासा वाल्यादनाविष्कृतलाञ्छनेन ।
 चन्द्रेण नित्यं प्रतिभिन्नमौलेश्चूडामणेः किं ग्रहणं हरस्य ॥ ३५ ॥

 दिवापीति ॥ दिवा दिनेऽपि निष्ठयूता उद्गीर्णा मरीचिभासः किरणकान्तयो यस्य तेन बाल्यादल्पतनुत्वादनाविष्कृतलाञ्छनेन, अदृश्यमानकलङ्केनेत्यर्थः । चन्द्रेण नित्यं सर्वदा प्रतिभिन्नमौलेः संगतमुकुटस्य हरस्य चूडामणेग्रहणं स्वीकारः किं किमर्थम् ? । चन्द्रचूडामणेर्देवस्य किमन्यैश्चैडामणिभिरिति भावः ॥ ३५ ॥

 इत्यद्भुतैकप्रभवः प्रभावात्प्रसिद्धनेपथ्यविधेर्विधाता ।
 आत्मानमासन्नगणोपनीते खड्गे निषक्तप्रतिमं ददर्श ॥३६॥

 इतीति ॥ इतीत्थं प्रभावात्सामर्थ्यात्प्रसिद्धस्य नेपथ्यविधेर्वेशविधानस्य विधाता निर्माता । अत एवाद्भुतानामाश्चर्याणामेकप्रभवो मुख्यनिधिः स देव आसन्नगणेन पार्श्वस्थवर्गेण, प्रमथगणेनेत्यर्थः । उपनीत आनीते खड्गे निषक्त- प्रतिम संक्रान्तप्रतिबिम्बमात्मानं ददर्श । वीरपुरुषाणामेष आचारः ॥३६॥

 स गोपतिं नन्दिभुजावलम्बी शार्दूलचर्मान्तरितोरुपृष्ठम् ।
 तद्भक्तिसंक्षिप्तबृहत्प्रमाणमारुह्य कैलासमिव प्रतस्थे ॥३७॥


पाठा०-१ अत्यद्भुत. २ नेपथ्यांवधिः.  स इति ॥ स देवो नन्दिभुजावलम्बी नन्दिकेश्वरभुजावलम्बनः सन् , शार्दूलचर्मणा व्याघ्रचर्मणाऽन्तरितमाच्छादितमुरु विशालं पृष्ठं यस्य तं तथोक्तम् । 'शार्दूलद्वीपिनो व्याने' इत्यमरः । तस्मिन्देवे भक्त्या संक्षिप्तं संकोचितं बृह- त्प्रमाणं यस्य तं गोपतिं वृषभं कैलासमिवारुह्य प्रतस्थे चचाल ॥ ३७ ॥

 तं मातरो देवमनुव्रजन्त्यः स्ववाहनक्षोभचलावतंसाः ।
 मुखैः प्रभामण्डलरेणुगौरैः पद्माकरं चक्रुरिखान्तरीक्षम् ॥ ३८ ॥

 तमिति ॥ तं देवमनुवजन्त्योऽनुगच्छन्त्यः स्ववाहनानां क्षोभेण प्रकम्पेण चलावतंसाश्चलकुण्डला मातरः सप्तमातृकाः प्रभामण्डलान्येव रेणवः परागा- स्तैगौरैररुणैः । 'गौरोऽरुणे सिते पीते' इति यादवः । मुखैरन्तरीक्षमाकाशं पद्मा- करमिव चक्रुः ॥ ३८ ॥

 तासां च पश्चात्कनकप्रभाणां काली कपालाभरणा चकासे ।
 बलाकिनी नीलपयोदराजी दूरं पुरःक्षिप्तशतहदेव ॥३९॥

 तासामिति ॥ कनकप्रभागां सुवर्णवर्णानां तासां मातॄणां पश्चात्कपाला- भरणा, सितकपालालंकारेत्यर्थः । काली महाकाली देवी च । कृष्णवर्णत्वसूचनाय कालीसंज्ञयाभिधानम् । बलाकिनी बलाकावती । ब्रीह्यादित्वादिनिः । दूरं यथा तथा पुरोऽग्रे क्षिप्ताः प्रसारिताः शतहदा विद्युतो यस्याः सा तथोक्का नीलपयोद- राजी कालमेघपङ्क्तिरिव चकासे ॥ ३९ ॥

 ततो गणैः शूलभृतः पुरोगैरुदीरितो मङ्गलतूर्यघोषः ।
 विमानशृङ्गाण्यवगाहमानः शशंस सेवावसरं सुरेभ्यः ॥ ४० ॥

 तत इति ॥ ततोऽनन्तरं शूलभृतः शिवस्य पुरो गच्छन्तीति पुरोगैरग्रेसरैः । 'अन्यत्रापि दृश्यत इति वक्तव्यम्' (वा. २०१८) इति गमेर्डप्रत्ययः । गणैः प्रमथैरुदीरित उत्पादितो मङ्गलतूर्यघोषो मङ्गलवाद्यध्वनिर्विमानशृङ्गाण्यवगाहमानः सन् सुरेभ्यो विमानस्थेभ्यः सेवावसरं शशंस। सुराः प्रस्थानतूर्यध्वनिमाकर्ण्य 'अयमेव नः सेवावसरः' इत्याजग्मुरित्यर्थः ॥ ४०॥


पाठा०-१ नाक्षोभ. २ पद्माकरीचक्रुः. ३ अन्तरिक्षम्. ४ राजिः,  सुराणां सेवाप्रकारमेवाह-

 उपाददे तस्य सहस्ररश्मिस्त्वष्ट्रा नवं निर्मितमातपत्रम् ।
 स तद्रुकूलादविदूरमौलिर्बभौ पतद्गङ्ग इवोत्तमाङ्गे ॥४१॥

 उपादद इति ॥ तस्य हरस्य सहस्ररश्मिः सूर्यस्त्वष्ट्रा विश्वकर्मणा निर्मितं नव- मातपत्रमुपाददे। धृतवानित्यर्थः, उत्प्रेक्षते-तढुकूलात्तस्यातपत्रस्य प्रान्तलम्बिनो दुकूलादविदूरमौलिः, तद्रुकूलस्यासन्नमौलिरित्यर्थः । स हर उत्तमाङ्गे शिरसि । 'उत्तमाङ्गं शिरः शीर्षम्' इत्यमरः । पतन्ती गङ्गा यस्य स पतद्गङ्ग इव बभौ। तद्रुकूलादित्यत्र 'दूरान्तिकार्थैः षष्ठ्यन्यतरस्याम्' (पा. २।३।३४) इति दूरार्थयोगे विकल्पेन पञ्चमी । नाथेनोक्तम्-'अन्यारात्-' (पा. २।३।२९) इत्यत्र 'आरात्'- शब्दस्यार्थग्रहणार्थत्वात्पञ्चमीति,-तदनाकरम् ; किंचास्य शास्त्रोक्तविकल्पापवाद- त्वात् 'दूरं ग्रामस्य' इत्यादिषष्ठीप्रयोगो दूरापास्तः स्यादित्युपेक्षणीयमेव ॥ ४१ ॥

 मृते च गङ्गायमुने तदानीं सचामरे देवमसेविषाताम् ।
 समुद्रगारूपविपर्ययेऽपि सहंसपाते इव लक्ष्यमाणे ॥४२॥

 मूर्ते इति ॥ गङ्गा च यमुना च गङ्गायमुने मूर्ते विग्रहधारिण्यौ सचामरे चामरसहिते सत्यौ । अत एव समुद्रगा नदी तस्या रूपं स्वरूपं तस्य विपर्यये. ऽप्यभावेऽपि हंसपातेन हंसचारेण सह वर्तेते इति सहंसपाते इव । 'तेन सहेति तुल्ययोगे' (पा. २।२।२८) इति बहुव्रीहिः । 'वोपसर्जनस्य' (पा. ६।३।८२) इति सभावः । लक्ष्यमाणे दृश्यमाने सत्यौ तदानी विवाहसमये देवमसेविषाताम- भजताम् । सेवतेलुङ् । गङ्गायमुने चामरग्राहिण्यो देवमुपतस्थतुरित्यर्थः ॥ ४२ ॥

 तमभ्यगच्छत्प्रथमो विधाता श्रीवत्सलक्ष्मा पुरुषश्च साक्षात् ।
 जयेति वाचा महिमानमस्य संवर्धयन्तौ हविपेव वह्निम् ॥४३॥

 तमिति ॥ प्रथम आद्यो विधाता चतुर्मुखस्तथा श्रीवत्सलक्ष्मा श्रीवत्साङ्कः पुरुषो विष्णुश्च साक्षात्तं देवमभ्यगच्छत् संमुखमाययौ । किं कुर्वन्तौ ? नयेति


पाठा०-१ वहन्गाङ्गमिव प्रवाहं. २ सहस्रपाते. ३ एव. टिप्प०-1 'अभ्यगच्छत्' इत्येकवचनप्रयोगविरोधात् केचित्त्वत्र 'संवर्धयन्तौ' इति दिवचनप्रयोगोऽयुक्त इत्याहुः,-तत्त्वयुक्तम् ; भयकृतपरिचर्याप्रकारवाचित्वाद्वाक्यस्यास्य द्विवचनप्रयोगोपपत्तेः, अर्थादभूतामिति क्रियान्तरान्वयस्य सिद्धत्वाच्चेत्यवसेयम् । वाचा जयशब्देनास्येश्वरस्य महिमानं महत्त्वं हविषा वह्निमिव संवर्धयन्तौ वृद्धिं गमयन्तौ ॥ ४३ ॥

  न चानुचितमेतदुक्तमित्याह--

 एकैव मूर्तिर्बिभिदे त्रिधा सा सामान्यमेषां प्रथमावरत्वम् ।
 विष्णोर्हरस्तस्य हरिः कदाचिद्वेधास्तयोस्तावपि धातुराद्यौ ॥४४॥

 एकैवेति ॥ सैकैव मूर्तिस्त्रिधा ब्रह्मविष्णुशिवात्मकत्वेन विभिदे । औपाधि- कोऽयं भेदो न वास्तविक इत्यर्थः । अत एवैषां प्रयाणां प्रथमावरयोर्भावः प्रथमावरत्वं ज्येष्ठकनिष्ठभावः । सामान्यं साधारणम् । इच्छया सर्वे ज्येष्ठा भवन्ति कनिष्ठाश्चेत्यर्थः । एतदेव विवृणोति-कदाचिद्विष्णोर्हर आद्यः । कदाचित्तस्य हरस्य हरिराद्यः । कदाचित्तयोर्हरिहरयोर्वेधा आद्य: । कदाचित्तौ हरिहरावपि धातुः स्रष्टुराद्यौ । एवमेतेषां पौर्वापर्यमनियतमिति दर्शितम् ॥ ४४ ॥

 तं लोकपालाः पुरुहूतमुख्याः श्रीलक्षणोत्सर्गविनीतवेषाः ।
 दृष्टिप्रदाने कृतनन्दिसंज्ञास्तद्दर्शिताः प्राञ्जलयः प्रणेमुः ॥ ४५ ॥

 तमिति ॥ पुरुहूतमुख्या इन्द्रादयो लोकपालाः श्रीलक्षणानामैश्वर्यचिह्नानां छत्रचामरवाहनानामुत्सर्गेण त्यागेन विनीतवेषा अनुनीतवेषाः सन्तः । तथा दृष्टिप्रदाने दर्शननिमित्ते, दर्शनप्रदानार्थमित्यर्थः । कृतनन्दिसंज्ञाः कृता नन्दिनः प्रतीहारस्य संज्ञा संकेतो यैस्तादृशाः । मम दर्शनं दापयेति नन्दिनं प्रति कृत- हस्तादिसूचना इत्यर्थः । 'संज्ञा स्याञ्चेतना नाम हस्ताद्यैश्चार्थसूचना' इत्यमरः । तद्दर्शितास्तेन नन्दिना दर्शिता 'अयमिन्द्रः प्रणमत्ययं चन्द्रः' इत्याधुक्तिपूर्वकं निवेदिताः प्राञ्जलयः कृताञ्जलयः सन्तः तं भवं प्रणेमुः प्रणताः ॥ ४५ ॥

 कम्पेन मूर्ध्न्ः शतपत्रयोनिं वाचा हरिं वृत्रहणं स्मितेन ।
 ।आलोकमात्रेण सुरानशेषान्संभावयामास यथाप्रधानम् ॥ ४६॥

 कम्पेनेति ॥ स देवः शतपत्रयोनिं चतुर्मुखं मूर्ध्नः कम्पेन तथा हरिं वाचा संभाषणेन वृत्रं हतवन्तं वृत्रहणमिन्द्रम् । 'ब्रह्मभ्रूणवृत्रेषु क्विप्' (पा. ३।२१८७) इति क्विप्। स्मितेन मन्दहासेनाशेषान्सुरानालोकमात्रेण दृष्टिमात्रेणेत्थं यथाप्रधानं यथार्हं संभावयामास ॥ १६ ॥


पाठा०~-१ असौ. २ ईडयां.

 तस्मै जयाशीः ससृजे पुरस्तात्सप्तर्षिभिस्तान्स्मितपूर्वमाह ।
 विवाहयज्ञे विततेत्र यूयमध्वर्यवः पूर्ववृता मयेति ॥४७॥

 तस्मा इति ॥ तस्मै शिवाय सप्तर्षिभिः । 'दिक्संख्ये संज्ञायाम्' (पा. २।१/५०) इति समासः। पुरस्तादग्रे 'जय' इत्याशीः ससृजे प्रयुक्ता तान्सप्तर्षीन्स्मितपूर्वमाह-किमिति । अत्र वितते विस्तृते प्रवर्तिते विवाह एवं यज्ञस्तस्मिन्यूयं मया पूर्वमेव वृताःप्रार्थिता अध्वर्यवो ऋत्विज इति विशेषवाचिना सामान्यमुक्तम् ॥ ४७ ॥

 विश्वावसुप्राग्रहरैः प्रवीणैः संगीयमानत्रिपुरावदानः ।
 अध्वानमध्वान्तविकारलङ्घयस्ततार ताराधिपखण्डधारी ॥ ४८ ॥

 विश्वावस्विति ॥ विश्वावसुर्नाम कश्चिद्गन्धर्वो देवगायकस्तत्प्राग्रहरैस्तत्प्रमुखैः प्रवीणैः प्रकृष्टवीणनिपुणैर्वा । 'प्रवीणे निपुणाभिज्ञविज्ञनिष्णातशिक्षिताः' इत्यमरः । त्रयाणां पुराणां समाहारस्त्रिपुरम् । 'तद्धितार्थोत्तरपद-' (पा. २।१।५) इत्यादिना समाहारसमासः। 'स नपुंसकम्' (पा.२।४।१७) इति सूत्रवृत्तौ 'पात्रादिभ्यः प्रतिषेधो वक्तव्यः' (वा. १५५९) इति स्त्रीलिङ्गान्ततानिषेधः । त्रिपुरस्य संबन्ध्य- वदानं पूर्ववृत्तं कर्म विजयरूपं त्रिपुरावदानं तत्संगीयमानं स्तूयमानं यस्य स तथोक्तः । 'अवदानं कर्म वृत्तम्' इत्यमरः। ध्वान्तं तमः, मोह इति यावत् । तद्विकारेण रागादिना लङ्घयोऽभिभवनीयो न भवतीत्यध्वान्तविकारलङ्घयः, विवाहादिकं तु तस्य लीलेत्यर्थः । ताराधिपखण्डधारी चन्द्रशेखरः शंभुरध्वानं मार्गं ततारात्यगच्छत् ॥ ४८ ॥

 खे खेलगामी तमुवाह वाहः सशब्दचामीकरकिंकिणीकः ।
 तटाभिघातादिव लग्नपङ्के धुन्वन्मुहुः प्रोतघने विषाणे ॥४९॥

 ख इति ॥ ख आकाशे खेलं सुन्दरं गच्छतीति खेलगामी । सशब्दाः शब्दायमानाश्चामीकरकिंकिण्यः काञ्चनक्षुद्रघण्टिका यस्य स तथोक्तः । 'किंकिणी क्षुद्रघण्टिका' इत्यमरः । 'नवृतश्च' (पा. ५।४।१५३) इति क्यप् । वाह्यतेऽनेनेति वाहो वृषभः । करणे घञ् । प्रोतघने स्यूतमेघे अत एव तटाभि- घातादोधोभेदालग्नपङ्के श्लिष्टकर्दमे इव स्थिते विषाणे शृङ्गे मुहुर्धन्वंतं हर- मुवाह वहति स्म ॥ ४९ ॥

११ कु. सं.

 स प्रापदप्राप्तपराभियोग नगेन्द्रगुप्तं नगरं मुहूर्तात् ।
 पुरोविलग्नैर्हरदृष्टिपातैः सुवर्णसूत्रैरिव 1कृष्यमाणः ॥ ५० ॥

 स इति ॥ स वाहः, न प्राप्तः पराभियोगः शत्रुसमाक्रान्तिर्यस्य तत्तथोक्तं नगेन्द्रेण हिमवता गुप्तं रक्षितं नगरमोषधिप्रस्थं पुरोऽग्रे विलग्नैः संक्रान्तैर्हरदृष्टि- पातैः सुवर्णसूत्रैः कृष्यमाण इव मुहूर्तात्प्रापत् , अन्यथा कथं दूरस्याशुप्राप्तिः स्यादिति भावः । पुरः प्रसृता हरदृष्टयः पिङ्गलवर्णत्वात्सौवर्णानि वृषाकर्षण- दामानीवालक्ष्यन्तेत्यर्थः ॥ ५० ॥

 तस्योपकण्ठे घननीलकण्ठः कुतूहलादुन्मुखपौरदृष्टः ।
 स्व2बाणचिह्नादवतीर्य 3मार्गादासन्नभूपृष्ठमियाय देवः ।। ५१ ॥

 तस्येति ॥ तस्य पुरस्योपकण्ठेऽन्तिके घनो मेघ इव नीलः कण्ठो यस्य स घननीलकण्ठो देवः कुतूहलाद्दर्शनौत्सुक्यादुन्मुखैः पौरैर्दृष्टः सन् । स्वबाण. चिह्नात्रिपुरविजयसमये स्वबाणाङ्कान्मार्गात्कुतश्चिदाकाशदेशादवतीर्यावरुह्यासन्न- भूपृष्ठं निकटभूतलमियाय प्राप ॥ ५ ॥

 तमृद्धिमद्वन्धुजनाधिरूढैर्वृन्दैर्गजानां गिरिचक्रवती ।
 प्रत्युञ्जगामागमनप्रतीतः प्रफुल्लवृक्षैः कटकैरिव स्वैः ।। ५२ ॥

 तमिति ॥ आगमनेन शिवागमनेन प्रतीतो हृष्टो गिरिचक्रवर्ती पर्वताधिराजो हिमवानृद्धिमता वस्त्रालंकारादिसमृद्धेन बन्धुजनेनाधिरूढैः । अनेन बन्धूनां समस्वाम्यं सूचितम् । गजानां वृन्दैः प्रफुल्ला विकसितकुसुमा वृक्षा येषु तैः स्वैः स्वकीयैः कटकैर्नितम्बैरिव तं हरं प्रत्युजगामाभिययौ । 'कटकोऽस्त्री नितम्बोऽद्रेः' इत्यमरः ॥ ५२ ॥

 वर्गावुभौ देवमहीधराणां द्वारे पुरस्योद्घटितापिधाने ।
 समीयतुर्दूरविसर्पिघोषौ भिन्नैकसेतू पयसामिवोधौ ॥ ५३॥

 वर्गाविति ॥ दूरविसर्पी दूरगामी घोषो ययोस्तौ देवाश्च महीधराश्च तेषां देवमहीधराणामुभौ वर्गावुद्धटितापिधानेऽपनीतकवाटे पुरस्य द्वारे भिन्नो दीर्णं एकसेतुर्ययोस्तौ भिन्नैकसेतू पयसामोधौ प्रवाहाविव समीयतुः संगतौ ॥ ५३ ॥

पाठा०-१ कृष्यमाणम्. २ स्ववाहवाहात.. ३ वाहात्.

 ह्रीमानभूभूमिधरो हरेण त्रैलोक्यवन्द्येन कृतप्रणामः ।
 पूर्व महिम्ना स हि तस्य 1दूरमावर्जितं नात्मशिरो विवेद ॥५४॥

 ह्रीमानिति ।। भूमिधरो हिमवान् । यो लोकास्त्रैलोक्यम् । चातुर्वर्णादि- त्वात्ष्यञ्प्रत्ययः। तस्य वन्द्येन नमस्कार्येण हरेण कृतप्रणामः सन् ।'ऋविक्पितृव्य- श्वशुरमातुलानां यवीयसाम् । प्रवयाः प्रथमं कुर्यात्प्रत्युत्थायाभिवादनम् ॥' इति स्मरणात् । हीमानभूत् , महादेवं प्रति स्वयमल्पत्वात्संकोचं प्रापेत्यर्थः । ननु विदितेश्वरमहिम्नः स्वयं प्रागेव प्रणतस्य जामातुराचारमात्रस्वीकारे कः संकोच इति शङ्कां निरस्यति-पूर्वमिति ॥ हि यस्मात्स हिमवान्पूर्वं प्रागेव तस्येश्वरस्य महिम्ना सामर्थ्येन दूरमत्यन्तमावर्जितं नमितमात्मशिरो न विवेद । सत्यम् ; स्वयं प्रणतत्वानुसंधानेन संकोचः, तदनुसंधानं त्वौत्सुक्यान्नास्तीति भावः॥ ५४॥

 स प्रीतियोगाद्विकसन्मुखश्रीर्जामातुरग्रसरतामुपेत्य |
 प्रावेशयन्मन्दिरमृद्धमेन2मागुल्फकीर्णापणमार्गपुष्पम् ।। ५५ ।।

 स इति ॥ प्रीतियोगात्संतोषसंबन्धाद्विकसन्मुखश्रीर्विकसन्ती मुखश्रीर्यस्य स तथोक्तः स हिमवान् । जायां मिमीते जानातीति जामातुर्वरस्य । पृषोदरा- दिस्वात्साधुः । 'जामाता दुहितुः पतिः' इत्यमरः । अग्रेसरतां पुरोगामित्व- मुपेत्यैनं देवमागुल्फं पादग्रन्थिपर्यन्तं कीर्णानि पर्यस्तान्यापणमार्गेषु पण्य- वीथिकासु पुष्पाणि यस्मिंस्तदागुल्फकीर्णापणमार्गपुष्पम् । 'तद्गन्थी धुटिके गुल्फौ इत्यमरः । ऋद्धं समृद्धं मन्दिरं नगरम् । 'मन्दिरं नगरेऽगारे मन्दिरो मकरालये' इति विश्वः । प्रावेशयत् ॥ ५५ ॥

 तस्मिन्मुहूर्ते पुरसुन्दरीणामीशानसंदर्शनलालसानाम् ।
 प्रासादमालासु बभूवुरित्थं त्यक्तान्यकार्याणि विचेष्टितानि ५६

 तस्मिन्निति ॥ तस्मिन्मुहूर्ते हरपुरप्रवेशसमय ईशानस्य संदर्शने लालसानां लोलुपानाम् । 'लोलुपे लोलुभो लोलो लालसो लम्पटश्च सः' इति यादवः । पुरसुन्दरीणां प्रासादमालास्वित्थं वक्ष्यमाणप्रकारेण त्यक्तान्यकार्याणि विसृष्ट- - पाठा०-१दूरात्. २ माङ्गल्य. कार्यान्तराणि विचेष्टितानि व्यापाराः । 'नपुंसके भावे क्तः' (पा.३।३।११४) इति कः । बभूवुरासन्1 ॥ ५६ ॥

 तान्येवाह पञ्चभिः श्लोकैः-

 आलोकमार्गं सहसा व्रजन्त्या कयाचिदुद्वेष्टनवान्तमाल्यः ।
 बन्धुं न संभावित एव तावत्करेण रुद्धोऽपि 1च केशपाशः॥५७॥

 आलोकमार्गमिति ॥ आलोकमार्गं दर्शनपथम् , गवाक्षमित्यर्थः। सहसा व्रजन्त्या गच्छन्त्या कयाचिदुद्वेष्टनो द्रुतगतिवशादुन्मुक्तबन्धनोऽत एव वान्त- माल्य उद्गीर्णमाल्यश्च यः स उद्वेष्टनवान्तमाल्यः करेण रुद्धो गृहीतोऽपि च केशपाशः केशकलापः । 'पाशः पक्षश्च हस्तश्च कलापार्थाः कचात्परे' इत्यमरः । तावदालोकनमार्गप्राप्तिपर्यन्तं बन्धु, बन्धनायेत्यर्थः । न संभावितो न स्मृत एव ।। ५७॥

 प्रसाधिकालम्बितमग्रपादमाक्षिप्य काचिद्रवरागमेव ।
 2उत्सृष्टलीलागतिरागवाक्षादलक्तकाङ्क्षां पदवीं ततान ।। ५८ ॥

 प्रसाधिकेति ॥ काचित्स्त्री प्रसाधिकयाऽलंकर्त्र्यालम्बितं रञ्जनार्थ धृतं द्रव- रागमेवार्द्रालक्तकमेव । अग्रश्चासौ पादश्चाप्रपादः इति समानाधिकरणसमासः। 'हस्ताग्राग्रहस्तादयो गुणगुणिनोर्भैदाभेदाभ्याम्' (काव्या. सू. ५।२।२०) इति वामनः।तमाक्षिप्याकृष्योत्सृष्टलीलागतिस्त्यक्तमन्दगमना सती आगवाक्षाद्वाक्ष- पर्यन्तम् । पदद्वयमेतत् । पदवीमलककाङ्कां लाक्षारसचिह्नां चकार ॥ ५८ ॥

 विलोचनं दक्षिणमञ्जनेन संभाव्य तद्वञ्चितवामनेत्रा।
 तथैव वातायनसंनिकर्षं ययौ शलाकामपरा वहन्ती ॥ ५९॥

 विलोचनमिति ॥ अपरा स्त्री दक्षिणं विलोचनमञ्जनेन संभाव्यालङ्कृत्य तद्वञ्चितं तेनाञ्जनेन 2वञ्चितं वर्जितं वामनेत्रं यस्याः सा तथोक्ता सती। तथैव


पाठा०-१ न केशहस्त; हि केशपाशः. २ उन्मृष्ट. टिप्प०-1 अत्र पुरवधूवृत्तवर्णनसम" संभ्रमोपकृतमौत्कण्ठ्यं प्रतिपाद्यते। 2 तच्चोक्तं भोजराजेन-'अदानं च प्रतिश्रुत्य विसंवादनमेव च । कालस्य हरणं चाहुः प्रत्यादानं च वञ्चनम्' इति । तेनैव रूपेण शलाकामञ्जनकूर्चिकां वहन्ती बिभ्रती वातायनसंनिकर्ष गवाक्ष- समीपं ययौ । 'दक्षिण'ग्रहणं संभ्रमायुरक्रमद्योतनार्थनम् । 'सव्यं हि पूर्वं मनुष्या अञ्जते' इति श्रुतेः ॥ ५९॥

 जालान्तरप्रेषितदृष्टिरन्या प्रस्थानभिन्नां न बबन्ध नीवीम् ।
 नाभिप्रविष्टाभरणप्रभेण हस्तेन तस्थाववलम्ब्य वासः ॥ ६॥

 जालान्तरेति ॥ अन्या स्त्री जालान्तरप्रेषितदृष्टिर्गवाक्षमध्यप्रसारितदृष्टिः सती प्रस्थानेन गमनेन भिन्नां त्रुटितां नीवीं वस्त्रग्रन्थिम् । 'नीवी परिपणे ग्रन्थौ स्त्रीणां जघनवाससि' इति विश्वः । न बबन्ध नाबध्नात् , किंतु नाभि प्रविष्टाभरणानां अलंकाराणां प्रभा यस्य तेन, प्रभैव नाभेरावरणमभूदिति भावः । हस्तेन वासोऽवलम्ब्य कृत्वा तस्थौ ॥ ६ ॥

 1अर्धाचिता सत्वरमुत्थितायाः पदे पदे दुर्निमिते गलन्ती ।
 कस्याश्चिदासीद्रशना तदानीमङ्गुष्ठमूलार्पितसूत्रशेषा ॥ ६॥

 अर्धाचितेति ॥ सत्वरं सवेगमुत्थितायाः कस्याश्चिदर्धमाचिता मणि- भिर्गुम्फितार्धाचिता दुर्निमिते संभ्रमाद्दुःखेन निक्षिप्ते । 'डुमिञ् प्रक्षेपणे' इति धातोः कर्मणि क्तः । पदे पदे प्रतिपदम् । वीप्सायां द्विर्भावः । गलन्ती गल- द्रत्ना सती रशना मेखला तदानीं तस्मिन्नवसरेऽङ्गुष्ठमूलेऽर्पितं लगितं सूत्रमेव शेषो यस्याः सासीत् ॥ ६१ ॥

 तासां मुखैरासवगन्धगर्भैर्व्याप्तान्तराः सान्द्रकुतूहलानाम् ।
 विलोलनेत्रभ्रमरैर्गवाक्षाः सहस्रपत्राभरणा इवासन् ॥ ६२ ॥

 तासामिति ॥ तदानीं सान्द्रकुतूहलानां तासां स्त्रीणामासवगन्धो गर्मे येषां तैः विलोलानि नेत्राण्येव भ्रमरा येषु तैर्मुखैर्व्याप्तान्तराश्छन्नावकाशा गवाक्षाः सहस्रपत्राभरणा इवासन् कमलालंकृता इव स्थिता इत्यर्थः ।। ६२ ॥

 तावत्पताकाकुलमिन्दुमौलिरुत्तोरणं राजपथं प्रपेदे ।
 प्रासादशृङ्गाणि दिवापि कुर्वञ्ज्योत्स्नाभिषेकद्विगुण3द्युतीनि ६३

पाठा०-१ अर्धाञ्चिता. २ स्तनंधयन्तं तनयं विहाय विलोकनाय त्वरया वजन्ती । संप्रस्नुताभ्यां पदवीं स्तनाभ्यां सिषेच काचित्पयसा गवाक्षम् ॥ ३ छवीनि.  तावदिति ॥ तावत्तस्मिन्नवसर इन्दुमौलिरीश्वरो दिवापि प्रासादशृङ्गाणि ज्योत्स्नाया अभिषेकेण स्त्रपनेन द्विगुणधुतीनि द्विरावृत्तकान्तीनि । 'गुणस्त्वा- वृत्तिशब्दादिज्येन्द्रियामुख्यतन्तुषु' इति वैजयन्ती । कुर्वन् । पताकाभिराकुलं व्याकीर्णमुत्तोरणमुच्छ्रिततोरणं राजपथं प्रपेदे ॥ ६३ ॥

 तमेकदृश्यं नयनैः पिबन्त्यो नार्यो न जग्मुर्विषयान्तराणि ।
 तथा हि शेषेन्द्रियवृत्तिरासां सर्वात्मना चक्षुरिख प्रविष्टा ॥६४॥

 तमिति ॥ एक एव दृश्यो दर्शनीयस्तमेकदृश्यं तमीश्वरं नयनैः पिबन्त्यः, अतितृष्णया पश्यन्त्य इत्यर्थः । 'ताः शंकरं दृष्टिभिरापिबन्त्यः' इति वा पाठः । नार्यो विषयान्तराणि ततोऽन्यान्विषयान् , शब्दादीनित्यर्थः । न जग्मुः, न विदुरित्यर्थः । तथा हि-आसां नारीणां शेषेन्द्रियवृत्तिः श्रोत्रादि- प्रवृत्तिः सर्वात्मना स्वरूपकार्त्स्येन चक्षुः प्रविष्टेव, श्रोत्रादीनीन्द्रियाणि स्वातन्त्र्येण ग्रहणाशक्तेश्चक्षुरेव प्रविश्य कौतुकात्स्वयमप्येनमुपलभन्ते किमु ? अन्यथा स्वस्व विषयाधिगमः किं न स्यादिति भावः ॥ ६४ ॥

 अथ पौराङ्गनावचनान्याह-

 स्थाने तपो दुश्चरमेतदर्थमपर्णया 1पेलवयापि तप्तम् ।
 यादास्यमप्यस्य लभेत नारी सा स्यात्कृतार्था किमुताङ्कशय्याम्॥

 स्थान इति ॥ पेलवया कोमलयाप्यपर्णया पार्वत्यैतस्मै शिवायेदमेतदर्थम् । 'अर्थेन सह नित्यसमासः सर्वलिङ्गता च' (वा. १२७३) इति विशेष्यनिघ्नत्वम् । दुश्चरं तपस्तप्तं स्थाने युक्तम् । कुतः? या नार्यस्येश्वरस्य दास्यं दासीत्वमपि लभेत सा कृतार्था स्यात् । या अङ्क एवं शय्या तामङ्कशय्यां लभेत सा किमुत ? कृतार्थेति किमु वक्तव्यमित्यर्थः ॥ ६५ ॥

 परस्परेण स्पृहणीयशोभं न चेदिदं द्वन्द्वमयोजयिष्यत् ।
 अस्मिन्द्वये रूपविधानयत्नः पत्युः प्रजानां 2विफलोऽभविष्यत् ६६

 परस्परेणेति ॥ स्पृहणीयशोभं सर्वैराशास्यमानसौन्दर्यमिदं द्वन्द्व मिथुनम्। 'द्वन्दं रहस्य-' (पा.८/१/१५) इत्यादिना निपातः । परस्परेण नायोजयिष्यच्चेन्न योजयेद्यदि, प्रजानां पत्युर्विधातुरस्मिन्द्वये द्वन्द्वे रूपविधाने सौन्दर्यनिर्माणे

पाठा०-१ कोमलया. २ वितथः. यत्नः प्रयासो विफलोऽभविष्यद्भवेत् , एतदनुरूपस्त्रीपुंसान्तराभावादिति भावः। ‘लिङ्निमित्ते लुङ् क्रियातिपत्तौ' (पा.३।३।१३९) इति लृङ ॥ ६६ ॥

 न नूनमारूढरुषा शरीरमनेन दग्धं कुसुमायुधस्य ।
 व्रीडादमुं देवमु1दीक्ष्य मन्ये संन्यस्तदेहः स्वयमेव कामः ॥६७॥

 नेति ॥ आरूढरुषा प्ररूढकोपेनानेन हरेण कुसुमायुधस्य कामस्य शरीरं न दग्धं नूनम् , किंतु कामोऽमुं देवमुदीक्ष्य दृष्ट्वा व्रीडात्सौन्दर्येण 'जितोऽस्मि' इति लज्जया स्वयमेव संन्यस्तदेहस्त्यक्तदेह इति मन्य इत्युत्प्रेक्षा । न स्वयं न्यस्ताकृतेः कोपः संभवतीति भावः ॥ ६७ ॥

 काचिकांचिदाह-

 अनेन संबन्ध2मुपेत्य दिष्टया मनोरथप्रार्थितमीश्वरेण ।
 मूर्धानमालि ! 3क्षितिधारणोच्च4मुच्चैस्तरं वक्ष्यति शैलराजः॥८॥

 अनेनेति ॥ हे आलि सखि ! 'आलिः सखी वयस्या च' इत्यमरः । शैल- राजो हिमवान् । 'दिष्ट्या' इत्यानन्देऽव्ययम् । मनोरथैः प्रार्थितमवरुद्धम् , अभि- लाषविषयीकृतमित्यर्थः । 'प्रार्थना याञ्जावरोधयोः' इत्यभिधानात् । अनेनेश्वरेण संबन्धमुपेत्यावाप्य क्षितिधारणेनोच्चमुन्नतं मूर्धानमुच्चस्तरमुन्नततरम् । उच्चैरित्य- व्ययात्तरप्प्रत्ययः । मूर्ध्नो द्रव्यत्वान्नामुप्रत्ययान्तो निपातः । 'किमेत्तिङ्व्यय- धादाम्वद्रव्यप्रकर्षे' (पा. ५।४।११) इत्यादिनाऽद्रव्यप्रकर्षे तस्य विधानादिति । वक्ष्यति धारयिष्यति । वहतेर्लट् ॥ ६८॥

 इत्योषधिप्रस्थविलासिनीनां शृण्वन्कथाः श्रोत्रसुखास्त्रिनेत्रः ।
 केयूरचूर्णीकृतलाजमुष्टिं हिमालयस्यालयमाससाद ।। ६९ ॥

 इतीति ॥ त्रिनेत्रस्त्रयम्बकः । त्रिनेत्र-त्रिनयनशब्दयोः 'क्षुभ्नादिषु च' (पा. ८।४।३९) इति णत्वाभावः । इतीत्थमोषधिप्रस्थविलासिनीनां संबन्धिनीः श्रोत्रसुखाः श्रवणमधुराः कथा आलापाञ्शृण्वन् केयूरैरङ्गदैश्चूर्णीकृता लाजानां\


पाठा०-१ अवेक्ष्य. २ अवाप्य. ३ क्षितिपालनोच्चम्. ४ उच्चैस्तराम्. ५ वृष्टिः, मुष्टिः. टिप्प०-1 अनेन पुरसुन्दरीणां स्वपक्षभूतस्य मन्मथस्य मारणजनिताया भगवद्विष यिण्या असूयायाः प्रशमो दर्शितः। मुष्टयो यस्मिंस्तं तथोक्तम् । तत्रावकीर्णा आचारलाजा अन्तराल एवाङ्गदैश्चूर्णपेषं पिष्यन्त इति पुरंध्रीजनसंबन्धातिशयोक्तिः । हिमालयस्य हिमवत आलयं भवनमाससाद प्राप॥ ६९॥

 तंत्रावतीर्याच्युतदत्तहस्तः शरद्धनाद्दीधितिमानिवोक्ष्णः ।
 क्रान्तानि पूर्व कमलासनेन 2कक्ष्यान्तराण्यद्रिपतेर्विवेश ॥७॥

 तत्रेति ॥ तत्र हिमवदालयेऽच्युतेन विष्णुना दत्तहस्तो वितीर्णहस्तावलम्बः सन् शरद्धनाच्छरन्मेषात् । शरद्विशेषणान्मेघस्य शुभ्रत्वं गम्यते । दीधितिमान् सूर्य इवोक्ष्णो वृषादवतीर्य कमलासनेन पूर्वमग्रे क्रान्तानि प्रविष्टान्यद्रिपतेः कक्ष्यान्तराणि गेहप्रकोष्ठान्तराणि विवेश। 'कक्ष्या कच्छे वस्त्रायां काङ्क्ष्यां गेहप्रकोष्टके' इति यादवः॥ ७० ॥

 तमन्वगिन्द्रप्रमुखाश्च देवाः सप्तर्षिपूर्वाः परमर्पयश्च ।
 गणाश्च गिर्यालयम3भ्यगच्छन्प्रशस्तमारम्भमिवोत्तमार्थाः।।७।।

 तमिति ॥ तमीश्वरमन्वगनुपदम् । अव्ययमेतत् । 'अन्वगन्वक्षमनुगेऽनुपदं क्लीबमव्ययम्' इत्यमरः । इन्द्रप्रमुखा देवाश्च सप्तर्षयः पूर्वे येषां ते सप्तर्षि- पूर्वाः । 'न बहुव्रीहौ' (पा. १।१।२९) इति सर्वनामसंज्ञाप्रतिषेधः । परमर्षयः सनकादिमहर्षयश्च । 'सन्महत्परमोत्कृष्टाः पूज्यमानैः' (पा. २/१।६१) इति तत्पुरुषः । गणाः प्रमथाश्चोत्तमार्था महाप्रयोजनानि प्रशस्तं प्रकृष्टम् , अमोघ- मित्यर्थः । आरभ्यत इत्यारम्भ उपायस्तमिव गिर्यालयं हिमवन्मन्दिरमभ्य- प्राविशन्नित्यर्थः ॥७॥

 तत्रेश्वरो विष्टरभाग्यथावत्सरत्नमर्घ्यं मधुमच्च गव्यम् ।
 नवे दुकूले च 4नगोपनीतं प्रत्यग्रहीत्सर्वममत्र5वर्जम् ।। ७२ ॥

 तत्रेति ॥ तत्र हिमवदालय ईश्वरो विष्टरभागासनगतः, उपविष्ट इत्यर्थः । यथावद्यथार्हम् , विधिवदित्यर्थः । सरत्नं रत्नसहितमर्घ्य॑मर्घार्थं जलम् । मधु क्षौद्रमस्मिन्नस्तीति मधुमत् । गवि भवं गव्यं दधि च, मधुपर्कमित्यर्थः । 'दधिमधुनी सर्पिर्वा मध्वलाभे' (१।२४) इत्याश्वलायनगृह्यसूत्रात् । नवे दुकूले चेति सर्व नगोपनीतं हिमवदानीतमादिकं मन्त्रान्वर्जयित्वा मन्त्रवर्जम् । ततो

पाठा०-१ ततः.२ कक्षान्तराणि. ३ अन्वगच्छन्. ४ नगोपनीते. ५ वन्ध्यम्. गच्छन्, नभ्समासः। अमन्नवर्जम् , मन्त्रान्न वर्जयित्वेत्यर्थः । 'द्वितीयायां च' (पा. ३/४/५३) इति णमुल्प्रत्यय इत्याह न्यासकार:-'अनुदात्तं पदमेकवर्जम्' (पा. ६।१/१५८) इत्यत्र । प्रत्यग्रहीत्स्वीकृतवान् ॥ ७२ ॥

 दुकूलवासाः स वधूसमीपं निन्ये विनीतैरवरोध1दक्षैः ।
 वेला2समीपं स्फुटफेनराजिर्नवैरुदन्वानिव चन्द्रपादैः ।। ७३ ।।

 दुकूलेति ॥ अथ दुकूलवासाः, दुकूलं वसान इत्यर्थः । स हरो विनीतैर- नुद्धतैरवरोधेषु ये दक्षास्तैरवरोधदक्षैर्वधूसमीपं निन्ये नीतः । कथमिव? स्फुटा फेनानां राजिर्यस्य स उदकमस्यास्तीत्युदन्वान् समुद्रः । 'उदन्वानुदधौ च' (पा. ८।२।१३) इति निपातनात्साधु । नवैरचिरोदितैश्चन्द्रकिरणैर्वेलासमीप- मिव ॥७३॥

 तया 3प्रवृद्धाननचन्द्रकान्त्या प्रफुल्लचक्षुःकुमुदः कुमार्या ।
 प्रसन्नचेतःसलिलः शिवोऽभूत्संसृज्यमानः शरदेव लोकः।।७४॥

 तयेति ॥ आननं चन्द्र इवेत्युपमितसमासः । प्रवृद्धा आननचन्द्रस्य कान्तिर्यस्यास्तया तथोक्तया तया कुमार्या, शरदा लोक इव संसृज्यमानः संगच्छमानः शिवश्चक्षूंषि कुमुदानीव तानि प्रफुल्लानि यस्य स तथोक्तः । चेतः सलिलमिव तत्प्रसन्नं यस्य स तथोक्तः प्रसन्नचेतःसलिलोऽभूत् । शरल्लोकयोरपि यथोचितं विशेषणानि योज्यानि ॥ ७४ ॥

 तयोः समापत्तिषु कातराणि किंचिद्यवस्थापितसंहृतानि ।
 ह्रीयत्रणां4तत्क्षणमन्वभूवन्नन्योन्यलोलानि विलोचनानि।।७५।।

 तयोरिति ॥ तयोर्वधूवरयोः समापत्तिषु यदृच्छया संगतिषु कातराणि चकितानि । 'अधीरे कातरः' इत्यमरः, द्रष्टुमसमर्थानीति भावः । किंचिदी- षव्ध्यवस्थापितानि स्थिरीकृतानि पश्चात्संहृतानि निवर्तितानि चेति व्यवस्थापित- संहृतानि । 'पूर्वकाल-' (पा. २।१।४९) इत्यादिना तत्पुरुषः । अन्योन्यस्मिंल्लो- लानि सतृष्णानि । 'लोलश्चलसतृष्णयोः' इत्यमरः । विलोचनानि दृष्टयस्तत्क्षणं तस्मिन्क्षणे ह्रीयन्त्रणां ह्रिया निमित्तेन संकोचमन्वभूवन् ॥ ७५ ॥

पाठा०-१ पक्षैः. २ सकाशम्. ३ विवृद्ध. ४ आनशिरे मुहूर्तम् ; आनशिरे

मनोज्ञाम्.

 तस्याः करं शैलगुरूपनीतं जग्राह ताम्राङ्गुलिमष्टमूर्तिः ।
 उमा1तनौ गूढतनोः स्मरस्य 2तच्छङ्किनः पूर्वमिव प्ररोहम्॥७६ ।।

 तस्या इति ॥ अष्टमूर्तिः शिवः । तस्मादीश्वराच्छङ्कत इति तच्छङ्किनः, तद्भीतस्येत्यर्थः । अत एवोमातनावुमाशरीरे गूढतनोर्गुप्तशरीरस्य स्मरस्य पूर्व प्ररोहमिव प्रथमाङ्कुरमिव स्थितं शैलगुरूपनीतं शैलगुरुणा हिमवतोपनीतं प्रापि- तम् । अथवा शैलगुरुणा हिमवत्पुरोधसोपनीतं ताम्राङ्गुलिं रक्ताङ्गुलिं तस्याः पार्वत्याः करं जग्राह ॥ ७६ ॥

 रोमोद्गमः प्रादुरभृदुमायाः स्वि3न्नाङ्गुलिः पुंगवकेतुरासीत् ।
 वृत्तिस्तयोः पाणिसमागमेन समं विभक्तेव मनोभवस्य ॥७७॥

 रोमोद्गम इति ॥ उमाया रोमोद्गमो रोमाञ्चः प्रादुरभूत् । पुमान् गौः पुंगवो वृषभः । 'गोरतद्धितलुकि' (पा. ५।४।९२) इति टच् । स केतुश्चिह्नं यस्य स पुंगवकेतुः शिवः स्विन्नाङ्गुलिरासीत् । अत्रोत्प्रेक्षते-पाणिसमागमेन पाण्योः संस्पर्शेन कर्त्रा । तयोर्वधूवरयोर्मनोभवस्य वृत्तिरवस्थितिः समं विभक्तेव, समीकृतेवेत्यर्थः । प्राक्सिद्धस्याप्यनुरागसाम्यस्य संप्रति तत्कार्यदर्शनात्पाणि- संस्पर्शकृतत्वमुत्प्रेक्षते। ननु 'कन्या तु प्रथमसंगमे स्विन्नकर चरणा भवति, पुमांस्तु रोमाञ्चितो भवति' इति वात्स्यायनेन विपरीतमुक्तमिति चेत् ,-नैष दोषः; 'एभिर- नयोर्भावं परीक्षेत' इति वाक्यशेष 'एभिः' इति बहुवचनेन स्वेदरोमाञ्चग्रहणस्य सकलसात्त्विकोपलक्षणत्वावगमेनानियमावधारणात् । अत एव रघुवंशेऽन्यथाभि- धानात्स्वोक्तिविरोध इत्यपास्तम् । तदेतद्रधुवंशसंजीविन्यां (७।२२) सुव्यक्तम- वोचम् । सात्त्विकास्तु 'स्तम्भप्रलयरोमाञ्चाः स्वेदो वैवर्ण्यवेपथू। अश्रु वैस्वर्य- मित्यष्टौ सात्त्विकाः परिकीर्तिताः ॥' इति ॥ ७७ ॥

 प्रयुक्तपाणिग्रहणं यदन्यवधूवरं पुष्यति कान्तिमग्र्याम् ।
 सांनिध्ययोगादनयोस्तदानीं किं कथ्यते श्रीरुभयस्य तस्य।।७८॥

 प्रयुक्तेति ॥ यद्यस्मात्कारणात्प्रयुक्तं पाणिग्रहणं यस्य तत्तथोक्तमन्यल्लौकिकं वधूश्च वरश्च वधूवरम् । समाहारे द्वन्द्वैकवद्भावः । तदानीं पाणिग्रहणकाले- ऽनयोरुमाशिवयोः सांनिध्ययोगात्संनिधिभावादग्र्यामुत्तमां कान्तिं शोभां पुष्यति २ तच्छङ्कितः. ३ चित्राङ्गुलिः.

पाठा०-१उमात्मना.  पुष्णाति तस्योभयस्योमामहेश्वररूपस्य मिथुनस्य श्रीः किं कथ्यते ? यत्प्रसादादन्यस्य शोभालाभस्तस्य शोभा किमु वक्तव्येत्यर्थः । 'विवाहसमये गौरीशिवौ वधूवरावनुप्रविशेताम्' इत्यागमः ॥ ७८ ॥

 प्रदक्षिणप्रक्रमणात्कृशानोरुदर्चिपस्तन्मिथुनं च[३३]कासे ।
 मेरोरु[३४]पान्तेष्विव वर्तमानमन्योन्यसंसक्तमहस्त्रियामम् ॥ ७९ ॥

 प्रदक्षिणेति ॥ तन्मिथुनमुदर्चिष उन्नतज्वालस्य कृशानोः कर्मणः प्रदक्षिणप्रक्रमणात्प्रदिक्षिणीकरणाच्चकासे । किमिव ? मेरोरुपान्तेषु परिसरेषु वर्तमानमावर्तमानम्, मेरुं प्रदक्षिणीकुर्वदित्यर्थः । अन्योन्येन संसक्तं संगतम् । मिथुनस्याप्येतद्विशेषणम् । अहश्च त्रियामा चाहस्त्रियामं रात्रिंदिवमिव । समाहारे द्वन्द्वैकवद्भावः ॥ ७९ ॥

  तौ दम्पती त्रिः परिणीय वह्विमन्योन्यसंस्पर्शनिमीलिताक्षौ ।
  स कारयामास वधूं पुरोधास्तस्मिन्समिद्धार्चिषि लाजमोक्षम् ८०

  ताविति ॥ स पुरस्तादेव हितं विधत्त इति पुरोधाः पुरोहितोऽन्योन्यस्य संस्पर्शेन स्पर्शसुखेन निमीलिताक्षौ तौ जाया च पतिश्च दम्पती कर्मभूतौ । जायाशब्दस्य दम्भावो निपातितः । वह्निं त्रिस्त्रिवारम् । 'द्वित्रिचतुर्थ्यः सुच्'(पा.५।४।१८) इति सुच् प्रत्ययः । परिणीय परितो नीत्वा, प्रदक्षिणीकार्येत्यर्थः । नयतेर्द्विकर्मकाल्ल्यप् । समिद्धार्चिषि दीप्तज्वाले तस्मिन्वह्नौ वधूं लाजमोक्षं लाजविसर्गं कारयामास । 'हृक्रोरन्यतरस्याम्' (पा. १।४।५३) इति विकल्पादणिकर्तुः कर्मत्वम् ॥ ८० ॥

  सा लाजधूमाञ्जलिमिष्टगन्धं गुरूपदेशाद्वदनं निनाय ।
  कपोलसंसर्पिशिखः स तस्या मुहूर्तकर्णोत्पलतां प्रपेदे ॥ ८१ ॥

  सेति ॥ सा वधूर्गुरोः पुरोधस उपदेशात्, इष्टः, घ्राणतर्पण इत्यर्थः । गन्धो यस्य तं लाजधूमाञ्जलिं वदनं निनाय कपोलसंसर्पिणी शिखा यस्य स तथोक्तः स धूमस्तस्या गौर्या मुहूर्तकर्णोत्पलतां प्रपेदे । धूमस्य विस्मरत्वान्मुहूर्तग्रहणम् ॥ ८१ ॥

 तदीषदार्द्रारुणगण्डलेखमुच्छ्वसिकालाञ्जनरागमक्ष्णोः ।
 वधूमुखं क्लान्तयवावतंसमाचारधूमग्रहणाद्बभूव ॥ ८२ ॥

 तदिति ॥ तद्विधूमुखमाचारधूमग्रहणादाचारप्राप्तधूमत्वादीषदार्द्रे स्विन्ने अरुणे च गण्डलेखे गण्डस्थले यस्य तत्तथोक्तम् । अक्ष्णोरुच्छ्वास्युद्गच्छन्कालाञ्जनस्य रागो रञ्जनं यस्य तत्तथोक्तम् । क्लान्तो यवावतंसो यवाङ्कुरकर्णपूरो यस्य तत्तथाभूतं बभूव । 'लाजाञ्जलिं विसृज्य धूमाग्रं समाजिघ्रेत्' इति प्रयोग- वृत्तिकारः ॥ ८२ ॥

 वधूं द्विजः प्राह तवैष वत्से ! वह्निर्विवाहं प्रति कर्मसाक्षी ।
 शिवेन भर्त्रा सह धर्मचर्या कार्या त्वया मुक्तविचारयेति ॥८३।।

 वधूमिति ॥ अथ वधूं द्विजः पुरोधाः प्राह । किमिति ? । हे वत्से ! वह्निस्तव विवाहं प्रति, विवाहकर्मणीत्यर्थः । कर्मसाक्षी कर्मद्रष्टा । भर्त्रा शिवेन सह मुक्तविचारया निर्विचारया त्वया धर्मचर्या धर्माचरणं कार्या कर्तव्येति । अयं च प्राजापत्यविवाहो द्रष्टव्यः । यथाहाश्वलायनः (गृह्य.१।६१)—'सह धर्मचरतमिति प्राजापत्यः' इति ॥ ८३

 आलोचनान्तं श्रवणे वितत्य पीतं गुरोस्तद्वचनं भवान्या।
 निदाघकालोल्बणतापयेव माहेन्द्रमम्भः प्रथमं पृथिव्या।।८४॥

 आलोचनान्तमिति ॥ भवस्य पत्न्या भवान्या। 'इन्द्रवरुणभवशर्वरुद्र-' (पा. ४।१।४) इत्यादिना ङीष्, आनुगागमश्च । आलोचनान्तं नेत्रान्तपर्यन्तम् । 'आङ् मर्यादाभिविध्योः' (पा. २११।१३) इत्यव्ययीभावः । श्रवणे श्रोत्रे वितत्य विस्तार्य तत्पूर्वोक्तं गुरोर्याज्ञिकस्य वचनं 'सह धर्मं चर' इति वाक्यं निदाघकाले ग्रीष्मकाले उल्बणतापयोत्कटसंतापया पृथिव्या प्रथममाद्यं माहेन्द्रं पार्जन्यमम्भ इव पीतम् , अत्यादरेण शुश्रावेत्यर्थः ॥ ८४ ॥

 ध्रुवेण भर्त्रा ध्रुवदर्शनाय प्रयुज्यमाना प्रियदर्शनेन ।
 सा दृष्ट इत्याननमुन्नमय्य ह्रीसन्नकण्ठी कथमप्युवाच ।। ८५ ॥

 ध्रुवेणेति ॥ प्रियं दर्शनं यस्य कर्मभूतस्य तेन प्रियदर्शनेन ध्रुवेण शाश्वतेन

पाठा०-१ पूर्वसाक्षी. २ श्रवणो. ३ तप्तयेव. ४ कण्ठम्. भर्त्रा ध्रुवस्य नक्षत्रविशेषस्य दर्शनाय । 'ध्रुवो भभेदे क्लीबं तु निश्चिते शाश्वते त्रिषु' इत्यमरः । प्रयुज्यमाना 'दृश्यताम्' इति प्रेर्यमाणा ह्रीसन्नकण्ठी ह्रिया हीनस्वरा सा वधूः कथमप्याननमुन्नमम्य 'दृष्टः' इत्युवाच ॥ ८५ ॥

 इत्थं विधिज्ञेन पुरोहितेन प्रयुक्तपाणिग्रहणोपचारौ ।
 प्रणेमतुस्तौ पितरौ प्रजानां पद्मासनस्थाय पितामहाय ॥८६॥

 इत्थमिति ॥ इत्थमनेन प्रकारेण 'इदमस्थमुः' (पा. ५.३।२४) इति थमुप्रत्ययः। विधिज्ञेन विवाहप्रयोगज्ञेन, शास्त्रज्ञेनेत्यर्थः । पुरोहितेन हैमवतेन प्रयुक्तपाणिग्रहणोपचारौ कृतविवाहकर्माणौ प्रजानां पितरौ तावुमामहेश्वरौ पद्मासनस्थाय पद्मासनोपविष्टाय पितॄणां पित्रे पितामहाय ब्रह्मणे । 'पितामहो विरिञ्चौ स्यात्तातस्य जनकेऽपि च' इति विश्वः । पितृव्यमातुलमातामहपितामहाः'(पा. ४।२।२६) इति निपातनात्साधु । प्रणेमतुर्नमश्चक्रतुः। पितामहस्य पित्रोरपि पूज्यत्वादिति भावः ॥ ८६ ॥

 वधूर्विधात्रा प्रतिनन्द्यते स्म कल्याणि ! वीरप्रसवा भवेति ।
 वाचस्पतिः सन्नपि सोऽष्टमूर्तौ त्वाशास्यचिन्तास्तिमितो बभूव।।८७।।

 वधूरिति ॥ वधूः कन्या विधात्रा ब्रह्मणा, हे कल्याणि शोभने ! वीरः प्रसवोऽपत्यं यस्याः सा वीरप्रसवा वीरसूर्भवेति प्रतिनन्द्यते स्म, आशिषमुक्तेत्यर्थः। स विधाता वाचस्पतिर्वागीश्वरोऽपि सन् । 'कस्कादिषु' (पा. ८।३।४८)पाठात्साधुः । अष्टमूर्तौ शिवे त्वाशास्यमाकाङ्क्षयं तत्र चिन्ता विचारस्तस्यां स्तिमितो मन्दो बभूव, तस्य निरीहस्याभावादाशिषि स्तिमितत्वमित्यर्थः ॥ ८७ ॥

 क्लृप्तोपचारां चतुरस्रवेदीं तावेत्य पश्चात्कनकासनस्थौ ।
 जायापती लौकिकमेषणीयमार्द्राक्षतारोपणमन्वभूताम् ।।८८॥

 क्लृप्तेति ॥ तौ जायापती वधूवरौ पश्चान्नमस्कारानन्तरं क्लृप्ता रचिता उपचाराः पुष्परचनादयो यस्यां तां चतुरस्रवेदीमेत्य प्राप्य कनकासनस्थौ सन्तौ लौकिकं लोके विदितम् , आचारप्राप्तमित्यर्थः । अत एवैषणीयमाशास्यम् , 'तथाहि लौकिकाचारं मनसापि न लङ्घयेत्' इति शास्त्रादवश्यकर्तव्यमित्यर्थः । इषेरिच्छार्थादिनीयर्प्रत्ययः । आर्द्राक्षतारोपणमन्वभूताम् ॥ ८८ ॥

पाठा०-१ उन्नत. २ मूर्तावाशास्य. ३ एषितव्यम्.

 पत्रान्तलग्नैर्जलबिन्दुजालैराकृष्टमुक्ताफलजालशोभम् ।
 तयोरुपर्यायतनालदण्डमाधत्त लक्ष्मीः कमलातपत्रम् ।। ८९ ॥

 पत्रान्तेति ॥ लक्ष्मीः श्रीदेवी पत्रान्तेषु दलप्रान्तेषु लग्नेर्जलबिन्दुजालैराकृष्टाऽपहृता मुक्ताफलजालेन प्रान्तलम्बिना मुक्ताकलापेन या शोभा सा येन तत्तथोक्तमायतं दीर्घं नालमेव दण्डो यस्य तत्कमलमेवातपत्रं तत्तयोरुपर्याधत्त दधौ ॥ ८९ ॥

 द्विधा प्रयुक्तेन च वाङ्मयेन सरस्वती तन्मिथुनं नुनाव ।
 संस्कारपूतेन वरं वरेण्यं वधूं सुखग्राह्यनिबन्धनेन ॥९०॥

 द्विधेति ॥ अथ सरस्वती वाग्देवी द्विधा संस्कृतप्राकृतरूपेण द्वैविध्येन प्रयुक्तेनोच्चारितेन वाङ्मयेन शब्दजालेन तन्मिथुनं नुनाव तुष्टाव । 'णु स्तुतौ' इति धातोर्लिट् । केन कमिवेत्याह-संस्कारेति ॥ संस्कारेण शास्त्रव्युत्पत्त्या पूतेन प्रकृतिप्रत्ययविभागशुद्धेन संस्कृतेनेत्यर्थः। वरेण्यं वरणीयम् , श्लाघ्यमित्यर्थः । वृणोतेरौणादिको 'वृञ एन्य' इति एन्यप्रत्ययः । वरं वोढारं शिवम् । सुखेन ग्राह्यं सुबोधं निबन्धनं रचना यस्य तेन वाङ्मयेन, प्राकृतभाषयेत्यर्थः । वधू नुनावेत्यनेन संबन्धः ॥ ९० ॥

 तौ संधिषु व्यञ्जितवृत्तिभेदं रसान्तरेषु प्रतिबद्धरागम् ।
 अपश्यतामप्सरसां मुहूर्तं प्रयोगमाद्यं ललिताङ्गहारम् ।। ९१ ।।

 ताविति ॥ तौ दंपती संधिषु मुखादिनिर्वहणान्तेषु पञ्चसंधिषु । तदुक्तं दशरूपके (१।२४)-'मुखं प्रतिमुखं गर्भः सावमर्शोपसंहृतिः' इति । व्यञ्जितवृत्तिभेदं स्फुटीकृतकौशिक्यादिवृत्तिविशेषम् , रसानुगुण्येनेति शेषः। तदुक्तं भूपालेन – 'कौशिकी स्यात्तु शृङ्गारे रसे वीरे तु सात्वती । रौद्रबीभत्सयोर्वृत्तिर्नियतारभटी पुनः । शृङ्गारादिषु भावज्ञैः रसेष्विष्टा तु भारती ॥' तथा- 'कैशिक्यारभटी चैव सात्वती भारती तथा। चतस्रो वृत्तयो ज्ञेयास्तासु नाट्यं प्रतिष्ठितम् ॥' इति । रसान्तरेषु शृङ्गारादिरसभेदेषु 'शृङ्गारादौ विषे वीर्य गुणे रागे द्रवे रसः' इत्यमरः । 'शृङ्गारहास्यकरुणरौद्रवीरभयानकाः । बीभत्साद्भुतशान्ताख्या रसाः पूर्वैरुदाहृताः' इति । प्रतिबद्धरागं प्रतिनियमेन बद्धः प्रवर्तितो वसन्तललितादिरागो यस्मिंस्तम् । यस्मिन्रसे यो रागो विहितस्तदनुसारेण

पाठा०-५ वृन्दैः. २ भक्तिशोभम्. प्रयुक्तरागमित्यर्थः । यथाह काहल:- 'रौद्रेऽद्भुते तथा वीरे पुंरागेण प्रगीयते । शृङ्गारहास्यकरुणाः स्त्रीरागेण प्रकीर्तिताः ॥ भयानके च बीभत्से शान्ते गेयो नपुंसके ॥' इति । ललिताङ्गहारं मधुराङ्गविक्षेपम् । 'अङ्गहारोऽङ्गविक्षेपः' इत्यमरः । आदौ भवमाद्यम् , रूपकान्तरप्रकृतिभूतमित्यर्थः । तदुक्तं—'आहुः प्रकरणादीनां नाटकप्रकृतिं बुधाः' इति अप्सरसामुर्वश्यादीनाम् । प्रयुज्यत इति प्रयोगो रूपकम् , नाटकमित्यर्थः । आद्यमिति विशेषणात् । तं मुहूर्तमपश्यतां दृष्टवन्तौ । 'पाघ्राध्मास्था-'(पा.७।३।७८) इत्यादिना दृशेः पश्यादेशः ॥ ९१ ॥

 देवास्तदन्ते हरमूढभार्यं किरीटबद्धाञ्जलयो निपत्य ।
 शापावसाने प्रतिपन्नमूर्तेर्ययाचिरे पञ्चशरस्य सेवाम् ॥ ९२ ॥

 देवा इति ॥ देवा इन्द्रादयस्तदन्ते तस्य प्रयोगदर्शनस्यान्तेऽवसान ऊढभार्यं परिणीतदारं हरं किरीटेषु बद्धा अञ्जलयो येषां ते तथोक्ताः सन्तः। निपत्य प्रणम्य शापावसाने प्रतिपन्नमूर्तेर्लब्धशरीरस्य, ‘परिणेष्यति पार्वतीं यदा'(४।४२) इत्यादिना शापस्य पार्वतीपरिणयान्तत्वादित्यर्थः । पञ्चशरस्य कामस्य कर्तुः । सेवां ययाचिरे, पुनः समासादितशरीरस्य तस्य सेवा स्वीक्रियतामिति प्रार्थयामासुरित्यर्थः । 'दुह्याच्पच्-' (वा. १०९०।९१) इत्यादिना द्विकर्मकत्वम् ॥ ९२ ॥

 तस्यानुमेने भगवान्विमन्युर्व्यापारमात्मन्यपि सायकानाम् ।
 कालप्रयुक्ता खलु कार्यविद्भिर्विज्ञापना भर्तृषु सिद्धिमेति ॥९३॥

 तस्येति ॥ विमन्युर्विगतक्रोधो भगवानीश्वर आत्मन्यपि तस्य कामस्य सायकानां व्यापारमनुमेने। तथा हि-कार्यविद्भिः कार्यज्ञैः, अथवा कालविद्भिः अवसरज्ञैः । काले योग्यावसरे प्रयुक्तानुष्ठिता भर्तृषु स्वामिषु विषये विज्ञापना सिद्धिमेति खलु, सफला भवतीत्यर्थः । अयमेवास्य स्मरसेवास्वीकारो यदात्मन्यपि तत्सायकव्यापारमङ्गीकृतवानिति ॥ ९३ ॥

  अथ विबुधगणांस्तानिन्दुमौलिर्विसृज्य
   क्षितिधरपतिकन्यामाददानः करेण ।
  कनककलशयुक्तं भक्तिशोभासनाथं
   क्षितिविरचितशय्यं कौतुकागारमागात् ॥ ९४ ॥

पाठा०-१ प्रतिलब्ध. २ काले प्रयुक्ता. ३ कालविद्भिः. ४ आदधानः, ५ रक्षा.  अथेति ॥ अथेन्दुमौलिरीश्वरस्तान्विबुधगणान्विसृज्य क्षितिधरपतिकन्यां पार्वतीं करेणाददानः कनककलशयुक्तं मङ्गलार्थमन्तर्निहितहेममयपूर्णकुम्भं भक्तयः पुष्पादिरचनास्तासां शोभया सनाथम् , सहितमित्यर्थः । क्षितिविरचितशय्यं क्षितौ विरचिता स्थण्डिले कल्पिता शय्या तल्पं यस्मिंस्तत्तथोक्तं कौतुकागारमागाच्छय्यागृहं जगाम। भत्राश्वलायनः (गृह्य. ११८।१०)-'अत ऊर्ध्वमक्षारालवणाशिनावधःशायिनौ ब्रह्मचारिणो स्याताम्' इति । अत ऊर्ध्वं विवाहादूर्ध्वम् , आ त्रिरात्रादिति शेषः । 'त्रिरात्रं द्वादशरात्रं वा' (याज्ञ० प्रा० १।८) इति वचनात् । तथा कामशास्त्रेऽपि-'अथ परिणयरात्रौ प्रक्रमेन्नैव किंचित्तिसृषु च रजनीषु स्तब्धभावा दुनोति । त्रिदिनमिह न भिन्द्याद्ब्रह्मचर्यं न चास्या हृदयमननुरुध्य स्वेच्छया नर्म कुर्यात् ॥' इति ॥ ९४ ॥

  नवपरिणयलज्जभूपणां तत्र गौरीं
   वदनमपहरन्तीं तत्कृताक्षेपमीशः।
  अपि शयनसखीभ्यो दत्तवाचं कथंचि-
   त्प्रमथमुखविकारैर्हासयामास गूढम् ॥ ९५ ।।

 नवेति ॥ तत्र कौतुकागार ईश ईश्वरो नवपरिणयेन नवोद्वाहेन या लज्जा सा भूषणं यस्यास्तामत एव तेनेश्वरेण कृताक्षेपं कृताकर्षणम् , उन्नमितमिति यावत् । वदनमपहरन्तीं साचीकुर्वन्तीम् । अयं लज्जानुभावः । अनुभावान्तरमाह-शयनसखीभ्योऽपि शयने सहशायिनीभ्योऽपि, नर्मसहचरीभ्योऽपीत्यर्थः। कथंचित्कृच्छ्रेण दत्तवाचं दत्तोत्तरां गौरीं मथा भृङ्गिरिटिप्रभृतयो हास्यरसादिदेवताः पशुपतेः पारिषदाः। यथाह भरतः-'शृङ्गारो विष्णुदैवत्यो हास्यः प्रमथदैवतः' इति । 'प्रमथाः स्युः पारिषदाः' इत्यमरः । तेषां मुखविकारैर्मुखविकृतचेष्टितैर्गूढमप्रकाशं हासयामास, हासाद्यपायैर्लज्जामपाकर्तुं प्रवृत्त इत्यर्थः । यथाह गोनर्दः–'हासेन मधुना नर्मवचसा लजितां प्रियाम् । विलुप्तलज्जां कुर्वीत निपुणैश्च सखीजनैः ॥' इति ॥ ९५ ॥

इति श्रीमन्महोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीविनीसमा-
ख्यया व्याख्यया समेतः श्रीकालिदासकृतौ कुमारसंभवे महाकाव्ये
उमापरिणयो नाम सप्तमः सर्गः ।

श्रीः ।

कुमारसंभवम्

सी ता रा म क वि कृ त या

संजीविन्या समेतम्

अष्टमः सर्गः ।

 शिरसा शकलं शशाङ्कमूर्तेर्भसितं विभ्रतमङ्गकेन भूरि।
 गरलं च गलेन चिन्तयामो हरमर्धाङ्गहराद्रिराजकन्याम् ॥

  टीका सप्तसु मल्लिनाथकृतिना संजीविनीसंज्ञिका
   या सर्गेषु कुमारसंभवमहाकाव्यस्य चक्रे पुरा।
  सैवैतर्ह्यवशिष्टदिक्प्रमिततत्सर्गेषु विद्वन्मुदे
   सीतारामकवीश्वरेण हि यथाप्रज्ञं समापूर्यते ॥

टिप्प०-1 मल्लिनाथीयमग्रिमाष्टमसर्गस्य व्याखानं सीतारामकविसमादृतपाठाद्विभिन्न मूलपाठवत्त्वाच्च ग्रन्थान्ते टीकानुगुणमूलेन सर्ग संयोजितमस्ति । मल्लिनाथः कुमारसंभवकाव्यस्य सप्तमसर्गे यावदेव व्याख्यानमररचदिति सीतारामकव्युक्त्यैतया सुस्फुटमनुमीयते, परं त्वष्टमसर्गटीकापि मलिनाथीया ह्येतद्ग्रन्थान्ते संयोजिता यत्रतत्र त्रुटि बहुल वरीवर्तते; तत इयमारेका संभवति-किमिदमष्टमसर्गव्याख्यानं मल्लिनाथीयमन्यकर्तृकं वा? अपि चेन्मल्लिनाथीयं तर्हि सीतागमादिटीकाकृद्भिः किं तदनुपलब्धमामीदिति च । भट्टनारायण-नाथादीनामपि टीका त्वष्टमसर्गावधि लभ्यते, अत: कालिदासप्रणीतं कुमारसंभव- मष्टममर्गपरिमितमेवेत्यवांचीनैरनुमन्यते । एतन्मतादरणं हि जिज्ञासा संभवति-को नाम रचयिताऽस्याग्रिमग्रन्थस्य, कथं वा विना कुमारोत्पत्तिवर्णनेन 'कुमारसंभवम्' इति कविकुलालङ्कारेणास्यानन्वर्थाभिधानकरणे हेतुरिति । सप्तसर्गान्तं कुमारसंभवमिति मतं तु 'नातिस्वल्पा 'नातिदीर्घाः सर्गा अष्टाधिका इह ' (सा. द. ६।३२० ) इत्यष्टसर्गान्यूनत्वलक्षितमहाकाव्यलक्षणाव्याप्तिप्रसंगात् 'कुमारसंभवमहाकाव्यस्य' इत्युक्त्या व्याहतमेव भवेत् ।  नवपरिणीतगिरिजारहाकेलिमपि विवर्णयिषुस्तत्रभवान्कालिदासोऽष्टमं सर्गमारभते--

 पाणिपीडनविधेरनन्तरं शैलराजदुहितुर्हरं प्रति ।
 भावसाध्वसपरिग्रहादभूत्कामदोहदमनोहरं वपुः ॥१॥

 पाणिपीडनविधेरिति ॥ पाणिपीडनं नाम षोडशविधेषु संस्कारेषु कश्चित्संस्कारविशेषः । पीडयति यस्मिन्निति पीडनम् । 'करणाधिकरणयोश्च' (पा.३।३।११७) इति ल्युट् । पाणेः करतलस्य पीडनं ग्रहणम् , विवाह इत्यर्थः । पाणेरिति कृद्योगलक्षणा कर्मणि षष्टी, तस्य विधेर्विधानात् । 'विधिर्विधाने दैवेच' इत्यमरः । अनन्तरं पश्चात् । भावसाध्वसयोः कामेच्छातिभययोः परिग्रहात् , परिग्रहं ग्रहणं कृत्वेत्यर्थः । ल्यब्लोपे पञ्चमी। मुग्धत्वादुभे अप्यवलम्ब्येति भावः। 'भावः स्वभावेऽभिप्राये चेच्छासत्तात्मजन्मसु' इति विश्वः । स्थिताया इति शेषः। इयं च मुग्धाभेदो नवोढा। तदुक्तं भानुमित्रैः-'लज्जाभयपराधीनरतिर्नवोढा' इति । शैलराजस्य हिमालयस्य दुहितुः कन्यायाः पार्वत्या वपुरङ्गम् । हरं शिवं प्रति, लक्षयित्वेत्यर्थः । 'लक्षणेस्थं- (पा.१।४।९०) इति प्रतेः कर्मप्रवचनीयसंज्ञा । तद्योगे 'कर्मप्रवचनीययुक्ते-'(पा.२।३।८) इति द्वितीया। कामे यद्दोहदमभिलाषः, इच्छेति यावत् । 'अथ दोहदम् । इच्छा काङ्क्षा' इत्यमरः । कामविषयकोऽभिलाष इत्यर्थः । तेन निमित्तेन मनोहरं रुचिकरमभूत् , अतिमनोहराण्यपि कामिनीवपुंषि स्वकामेच्छयैव रोचकानि भवन्तीति भावः । सर्गेऽस्मिन् रथोद्धतावृत्तम् । 'रानराविह रथोद्धता लगौ' इति लक्षणात् । रसश्च प्रायः संभोगशृङ्गार एव ॥ १॥

 इदानीं लक्षणरीत्या नवोढात्वमेव दशभिः प्रपञ्चयति-

 व्याहृता प्रतिवचो न संदधे गन्तुमैच्छदवलम्बितांशुका ।
 सेवते स्म शयनं पराङ्मुखी सा तथापि रतये पिनाकिनः ॥२॥

 व्याहृतेत्यादि ॥ सा पार्वती व्याहृता प्रियेण पृष्टा सती प्रतिवचः प्रत्युत्तरं न संदधे, न दत्तवतीत्यर्थः । तथावलम्बितं करेण धृतमंशुकं वस्त्रं यस्यास्तथोक्ता सती गन्तुमैच्छत् । तथा पराङ्मुखी परिवर्तितवदना सती शयनं पर्यङ्कं सेवते पाठा०-१ दौहृदसुखं मनोहरम्. स्म सिषेवे। तथापि तस्यां प्रतिकूलवर्तिन्यामपि सत्यां पिनाकिनो हरस्य रतये प्रमोदाय बभूव, प्रियायाः प्रतिकूलव्याप रैरपि प्रियः प्रसन्न एवाभूदित्यर्थः । तस्य मुग्धास्वभावबोधकुशलत्वादिति भावः ॥ २ ॥

 कैतवेन शैयिते कुतूहलात्पार्वती प्रति मुखं निपातितम् ।
 चक्षुरुन्मिषति सस्मितं प्रिये विद्युताहतमिव न्यमीलयत् ॥३॥

 कैतवेनेति ॥ पार्वती कर्त्री। प्रिये हरे कुतूहलाकैतवेन मिथ्यैव शयिते सुप्ते सति, किमियं कुर्यादित्यभिप्रायेणेति भावः । मुखं प्रेयोमुखं लक्ष्यीकृत्य निपातितं निक्षिप्तम् , 'किमयं स्वपिति जागर्ति वा?' इत्यभिप्रायादिति भावः । चक्षुः स्वनेत्रं कर्म । अथ च प्रिया इत्याकाङ्क्षावशात्पुनरपि संबध्यते । सस्मितं समन्दहासं यथा स्यात्तथोन्मिषत्युज्जाग्रति सति विद्युताहतमिव प्रतिहतमिवेस्युत्प्रेक्षा । न्यमीलयत् , मुद्गयति स्मेत्यर्थः ॥ ३ ॥

 नाभिदेशनिहितः सकम्पया शंकरस्य रुरुधे तया करः ।
 तेद्दुकूलमथ चाभवत्स्वयं दूरमुच्छ्वसितनीविवन्धनम् ॥४॥

 नाभिदेश इति ॥ नाभिदेशे निहितः स्थापितः, नीवीमोचनार्थमित्ति भावः । शंकरस्य करस्तया पार्वत्या सकम्पया सत्या रुरुधे प्रतिरुद्धः। कर्मणि लिट् । अथ च तद्दुकूलं तस्या दुकूलं वस्त्रं कर्तृ । स्वयमात्मना, नतु प्रेरकनियोगात् दूरमतिशयितमुच्छ्रसितमुद्घाटितं नीव्या बन्धनं यस्य तथोक्तमभवत्, सात्त्विकभावादिति भावः ॥ ४ ॥

 एवमालि! निगृहीतसाध्वसं शंकरो रहसि सेव्यतामिति ।
 सा सखीभिरुपदिष्टमाकुला नास्मरत्प्रमुखवर्तिनि प्रिये ॥५॥

 एवमिति ॥ सा पार्वती कर्त्री। हे आलि हे सखि पार्वति ! त्वया रहसि निगृहीतं त्यक्तं साध्वसं भयं यस्मिन्कर्मणि यथा तथा शंकरः सेव्यतामित्येवंभूतं सखीभिः कर्त्रीभिः । 'न लोक-' (पा. २।३।६९) इति षष्ठीनिषेधः । उपदिष्टमुपदेशम्। भावे निष्ठा । प्रिये प्रमुखवर्तिनि सत्याकुला संभ्रान्ता सती नास्सरत् ॥५॥

पाठा०-१ शयने. २ विद्युतेव निहितम्, ३ सशङ्कया. ४ तन्नितम्बमभवत्तदा; तन्नितम्बमथ चाभवत्.

 अप्यवस्तुनि कथाप्रवृत्तये प्रश्नतत्परमनङ्गशासनम् ।
 वीक्षितेन परिवीक्ष्य पार्वती मूर्धकम्पमयमुत्तरं ददौ ॥ ६ ॥

 अपीति॥ पार्वत्यनङ्गशासनं प्रियं कथायां संभाषणे प्रवृत्तये, लजावशान्मां प्रति मौनमाश्रिताया अस्याः संभाषणे कथमपि प्रवृत्त्यर्थमित्यर्थः । अवस्तुन्यप्यलभ्यपदार्थेऽपि प्रश्नतत्परं परिवीक्ष्य ज्ञात्वा । हृच्चक्षुषावेक्षणमिहापेक्षितम् । वीक्षितेन प्रियसंमुखमवलोकनेन मूर्ध्नः कम्पस्तन्मयं तद्रूपम् , न हि किंचिन्मयापेक्षितमित्यभिलाष व्यञ्जकमिति भावः । उत्तरं ददौ ॥ ६ ॥

 शूलिनः करतलद्वयेन सा संनिरुध्य नयने हृतांशुका ।
 तस्य पश्यति ललाटलोचने मोघयत्नविधुरा रहस्यभूत् ॥ ७॥

 शूलिन इति ॥ रहसि हृतांशुका, रतार्थमिति भावः । अत एव करतलयोर्द्वयेन शूलिनः प्रियस्य नयने, द्वे इति शेषः । संनिरुध्यावृत्य स्थिता सा पार्वती । तस्य ललाटलोचने तृतीये नेत्रे पश्यति सति । मोघो निष्फलो यत्नो यस्या अत एव विधुरा दुःखिता । ततो विशेषणसमासः । अभूत् ॥ ७ ॥

 चुम्बनेष्वधरदानवर्जितं खिन्नहस्तमदयोपगूहनम् ।
 क्लिष्टमन्मथमपि प्रियं प्रभोर्दुर्लभप्रतिकृतं वधूरतम् ।। ८॥

 चुम्बनेष्विति ॥ चुम्बनेश्वधरदानेनाधरोष्ठखण्डनेन । 'दो अवखण्डने' । भावे ल्युट । वर्जितं रहितमपि तथा खिन्नहस्तं मन्दप्रचारितकरम् , स्तनयोरिति शेषः । गम्यमानार्थत्वादप्रयोगः । 'पाणिः' इति पाठे भिन्नं पदम् । तदा खिन्नपाण्यपीति योजनीयम् । सदयमगाढं यदुपगृहनमालिङ्गनं तद्यस्मिंस्तादृशमपि । अत एव क्लिष्टः परितोषाभावात्खिन्नो मन्मथः कामो यस्मिंस्तत्तथोक्तमपि । तथा दुर्लभं प्रतिकृतं प्रतीकारो यस्य, रसाभासभियेति भावः । प्रतिकृतमिति भावे निष्ठा । तथोक्तमपि वधूरतं प्रियासुरतं प्रभोः प्रियस्य प्रियं प्रीतिजनकम् । 'इगुपध-' (पा. ३।१।१३५) इति कः । अभूदिति शेषः ॥ ८ ॥

 यन्मुखग्रहणमक्षताधरं दानमव्रणपदं नखस्य यत् ।
 यद्रतं च सदयं प्रियस्य तत्पार्वती विपहते स्म नेतरत् ॥ ९॥

पाठा०-१ परिगृह्य. २ सन्नहस्तमदयोपगूहने. ३ दत्तम्. ४ नखं च. ५ हर स्य.  यदिति ॥ पार्वती प्रियस्य प्रियकर्तृकम् । 'कर्तृकर्मणोः-' (पा. २।३।६५) इति कर्तरि षष्ठी । अक्षताधरमदष्टाधरोष्ठं यन्मुखस्य ग्रहणं चुम्बनार्थं करेणादानम् । तथाऽव्रणपदमदत्तचिह्नं यन्नखस्य दानम् । इह कर्मणः शेषत्वविवक्षायां षष्टी । अन्यथा 'न लोक-' (पा. २।३।६९) इति तन्निषेधः प्रसज्जेत । तथा सदयं स्पर्शमात्रविरामं यच्च रतम् । मध्यान्तयोस्तृतीयान्तेन संबन्धः । 'न लोक-' (पा. २|३|६९) इति कृद्योगलक्षणायाः षष्ठ्या बाधात् । तद्विषहते स्म सोढवती । 'लट् स्मे' (पा. ३।२।११८) इति भूतार्थे लट् । 'परिनिविभ्यः' (पा. ८।३।७०) इति षत्वम् । इतरत्कठोरमुखग्रहणादि न विपहते स्मेत्यर्थः ॥ ९ ॥

 रात्रिवृत्तमनुयोक्तुमुद्यतं सा प्र[३५]भातसमये सखीजनम् ।
 नाकरोदपकुतूहलं ह्रिया शंसितुं तु[३६] हृदयेन तत्वरे ॥१०॥

 रात्रिवृत्तमिति ॥ प्रभातसमये रात्रिवृत्तं नैशं वृत्तान्तम् । 'वाच्यवद्वर्तने वृत्तं चरित्रच्छन्दसोरपि' इति विश्वः । अनुयोक्तुं प्रष्टुम् । 'प्रश्नोऽनुयोगः पृच्छा च' इत्यमरः । उद्यतं सखीजनं सा पार्वती ह्रिया हेतुभूतयाऽपकुतूहलं शमितजिज्ञासाकौतुकं नाकरोत्, नोत्तरयांचक्र इत्यर्थः । अथ च हृदयेन, मनसा तु कर्तृणा शंसितुमुत्तरं कर्तुं तत्वरे त्वरितम् । भावे लिट् ॥ १० ॥

 दर्पणे च परिभोगदर्शिनी पृष्ठतः प्रणयिनो निषेदुपः ।
 प्रेक्ष्य बिम्बमुप[३७]बिम्बमात्मनः कानि कानि न[३८] चकार लज्जया ॥ ११ ॥

 दर्पण इति ॥ किंचेति चार्थः । दर्पणे परिभोगदर्शिनी संभोगचिह्नावलोकिनी सा पार्वती । पृष्ठतो निषेदुषः स्थितवतः प्रणयिनो हरस्य बिम्बं मुखमण्डलम् । 'बिम्बोऽस्त्री मण्डलं त्रिषु' इत्यमरः । आत्मन उपबिम्बं बिम्बसमीपे । 'अव्ययं विभक्ति-'(पा.२।१।६) इति समीपार्थेऽव्ययीभावः । पतितं प्रेक्ष्य लज्जया कानि कानि चेष्टाविशेषचमत्कृतानि न चकार, अपि तु सर्वाणि चकारैवेत्यर्थः ॥ ११ ॥

 नीलकण्ठपरिभुक्तयौवनां तां विलोक्य जननी स[३९]माश्वसत् ।
 भर्तृवल्लभतया हि मानसीं मातुरस्यति शुचं वधूजनः ॥ १२ ॥

 नीलकण्ठेति ॥ जननी मेना । तां पार्वतीं नीलकण्ठेन शिवेन परिभुक्तं यौवनं यस्यास्तथोक्तां विलोक्य समाश्वसदाश्वासं प्राप, हृष्टवतीति यावत् । तथा हि-वधूजनो मातुर्मानसीं मनसिजां शुचं शोकं भर्तृवल्लभतया भर्तृप्रीति- पात्रतयाऽस्यति क्षिपति । 'असु क्षेपणे' लट् । आत्मजासु पतिप्रसाद एव मातृणां मुदो हेतुरिति भावः ॥ १२॥

 वासराणि कतिचित्कथंचन स्थाणुना रतमकारि चानया ।
 ज्ञातमन्मथरसा शनैः शनैः सा मुमोच रतिदुःखशीलताम् ॥१३॥

 वासराणीति ॥ कतिचिद्वासराणि दिवसान् । 'घस्रो दिनाहनी वा तु क्लीबे दिवसवासरौ' इत्यमरः । 'कालाध्वनो:-' (पा.२|३।५) इति द्वितीया । स्थाणुना शिवेन । 'स्थाणू रुद्र उमापतिः' इत्यमरः । अनया पार्वत्या सह कथंचन बलेन रतं सुरतमकारि कृतम् , तदनुकूलरसोत्पत्यभावादिति भावः। अथ च सा शनैः शनैर्ज्ञातो मन्मथरसो यया तथा सती रतौ या दुःखशीलता दुरवगाह्यस्वभावता तां मुमोच, स्वयमप्यनुरज्यति स्मेत्यर्थः ॥ १३ ॥

  तदेवाह-

 सखजे प्रियमुरोनिपीडनं प्रार्थितं मुखमनेन नाहरत् ।
 मेखलाप्रणयलोलतां गतं हस्तमस्य शिथिलं रुरोध सा ॥ १४ ॥

 सस्वज इति ॥ सा पार्वती। उरसो निपीडनं यस्मिन्कर्मणि यथा स्यात्तथा प्रियं सस्वज आलिङ्गितवती, तथाऽनेन प्रियेण प्रार्थितम् चुम्बनार्थमित्यर्थः । मुखं नाहरन्नावक्रयत्। परंतु मेखलया काक्ष्या सह यः प्रणयः स्नेहस्तत्र या लोलता, जिघृक्षया मन्दप्रसरणमित्यर्थः। तां गतं प्राप्तमस्य प्रियस्य हस्तं पाणि शिथिलं मन्दं यथा तथा रुरोध, न तु प्रागिवेति भावः ॥ १४ ॥

 भावसचितमदृष्टविप्रियं दार्ढ्यभाक्क्षणवियोगकातरम् ।
 कैश्विदेव दिवसैस्तथा तयोः प्रेम गूढमितरेतराश्रयम् ॥ १५ ॥

 भावेति ॥ भावेन स्वगतत्वाभिव्यञ्जकचेष्टाविशेषेण सूचितं ज्ञापितम् । 'भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु' इति मेदिनी । तथा न दृष्टं विप्रियमौदासीन्यं यत्र । तथा दार्ढ्यं दृढत्वं भजति तथोक्तम् । तथा क्षणवियोगेऽपि

पाठा०-१ पदमकार्यत प्रिया. २ रत. ३ निपीडितम् ; निपीडिता. ४ चाटुतत्क्षण; चाटुमत्क्षण.५ तदा. ६ रूढम्. कातरम् , तदसहिष्ण्वित्यर्थः। गूढं सखीजनानभिज्ञेयं तयोः शिवपार्वत्योः प्रेम नेहः। 'प्रेम स्नेहोऽथ दोहदम्' इत्यमरः । कैश्चिदेव दिवसैरितरेतराश्रयं परस्परनिष्ठम् , अभूदिति शेषः ॥ १५ ॥

  प्रेम्णः परस्पराश्रयत्वमेव प्रपञ्चयति-

 तं यथात्मसदृशं वरं वधूरन्वरज्यत वरस्तथैवा ताम् ।
 सागरादनपगा हि जाह्नवी सोऽपि तन्मुखरसैकवृत्तिभाक् ॥१६॥

 तमिति ॥ वधूः पार्वती । आत्मसदृशं तं वरं शिवमनु लक्षयित्वा यथा येन प्रकारेणारज्यत । 'रञ्ज रागे' दैवादिकाल्लङ् ! वरः शिवस्तां वधूमनु तथैवारज्यत । हि यथा जाह्नवी सागरासमुद्रादनपगाऽनिवर्तमाना, अस्तीति शेषः । सोऽपि समुद्रोऽपि तस्या जाह्नव्या मुखसंबन्धिनि रस एकां केवलां वृत्तिं भजतीति तथोक्तः, अस्तीति शेषः । उपमालंकारः ॥ १६ ॥

 शिष्यतां निधुवनोपदेशिनः शंकरस्य रहसि प्रपन्नया ।
 शिक्षितं युवतिनैपुणं तया यत्तदेव गुरुदक्षिणीकृतम् ।। १७॥

 शिष्यतामिति ॥ निधुवनोपदेशिनः सुरतोपदेष्टुः शंकरस्य शिष्यतामुपदेश्यतां प्रपन्नया प्राप्तया तया पार्वत्या रहसि यद्युवतीषु त्रिजगद्विलासिनीपु मध्ये नैपुणं कौशलं शिक्षितमधीतम् । तदेव नैपुणशिक्षणमेव गुरुदक्षिणीकृतं गुरोरदक्षिणा दक्षिणा यथा संपद्यते तथा कृतम् । अभूततद्भावे च्विः। 'अस्य च्वौ' (पा.७।४।३२) इतीकारः । शिवोपयोगित्वेन तत्कृतसुरतारम्भानुगुणसुरतकौशलमेव दक्षिणात्वेन परिणतमिति भावः । इह वाक्यार्थवृत्तिनिदर्शनालंकारः; 'वाक्यार्थयोः सदृशयोरैक्यारोपो निदर्शना' इत्युक्तत्वात् ॥ १७ ॥

 दष्टमुक्तमधरोष्ठमम्बिका वेदनाविधुतहस्तपल्लवा ।
 शीतलेन निरवापयत्क्षणं मौलिचन्द्रशकलेन शूलिनः ॥१८॥

 दष्टमुक्तमिति ॥ अम्बिका पार्वती पूर्व दष्टं पश्चान्मुक्तमधरोष्ठं वेदनया पीडया विधुतौ कम्पितौ हस्तौ पाणी एव पल्लवौ यया तथोक्ता सती शीतलेन शूलिनः शिवस्य मौलौ यच्चन्द्रस्य शकलं कलारूपं तेन कृत्वा क्षणं निरवापयत् , सुखयति स्मेत्यर्थः ॥ १८॥

पाठा०-१ निर्वृतिः, २ तत्.  प्रियानुरागव्यञ्जकचेष्टामाह-

 चुम्बनादलकचूर्णदूषितं शंकरोपि नयनं ललाटजम् ।
 उच्छ्वसत्कमलगन्धये ददौ पार्वतीवदनगन्धवाहिने ॥ १९ ॥

 चुम्बनादिति ॥ चुम्बनाद्वेनोरलकचूर्णेन केशप्रसाधनचूर्णविशेषेण दूषितमवरुद्ध ललाटजं ललाटे जातम् । 'सप्तम्यां जनेर्डः' (पा.३।२।९७) इति डप्रत्ययः । अलुको वैभाषिकत्वान्नालुक् । नयनं नेत्रम् । उक्छ्वसत्कमलगन्धये विकसत्कमलसुगन्धये, पद्मीनीत्वादिति भावः । 'उपमानाच्च' (पा.५।४।१३७) इतीकारः । 'गन्धो गन्धक आमोदे' इति विश्वः । पार्वत्या वदनमेव गन्धवाही पवनस्तस्मै । 'गन्धवाहानिलाशुगाः' इति कोशनिर्दिष्ट गन्धवाह' शब्दस्य गन्धं वहतीति योगालम्बनेन 'गन्धवाहि'शब्देनापि वायुवप्रतीतिः। रूढ्यालम्बने त्वण्प्रत्ययान्तस्यैव पवनत्वप्रतीतौ शक्तिमत्त्वादवाचकपददोषप्रसङ्ग इति बोध्यम् । ददौ, तत्राधो रजो निवर्तयितुं स्थापितवानित्यर्थः ॥ १९॥

 एवमिन्द्रियसुखस्य वर्त्मनः सेवनादनुगृहीतमन्मथः ।
 शैलराजभवने सहोमया मासमात्रमवसद्वृपध्वजः ॥ २० ।।

 एवमिति ॥ एवमिन्द्रियाणि सुखयतीतीन्द्रियसुखः। 'सुख शब्दात् करोत्यथंकणिजन्तात्पचाद्यच् । णिज्लोपश्च । तस्य वर्त्मनः सेवनादाचरणाद्धेतोरनुगृहीतः प्रसादितो मन्मथो येन, स्ववपुर्योजनादिति भावः । अत्र 'परिणेष्यति पार्वतीं यदा वपुषा स्वेन नियोजयिष्यति' (४।४२) इति चतुर्थसर्गोक्तमनुसंन्धेयम् । तथोक्तो वृषध्वजो हरः शैलराजभवने हिमालयगृह उमया पार्वत्या सह मासमात्रं त्रिंशद्दिनात्मकः कालो मासस्तमेवावसत् । 'कालाध्वनो:-'(पा.२।३|५) इति द्वितीया । 'मात्रं कार्त्स्न्येऽवधारणे' इत्यमरः ॥ २० ॥

 सोऽनुमान्य हिमवन्तमात्मभूरात्मजाविरहदुःखखेदितम् ।
 तत्र तत्र विजहार संपतन्नप्रमेयगतिना ककुद्मता ॥ २१ ॥

 स इति ॥ स आत्मभूः शिवः। आत्मजायाः पार्वत्या विरहदुःखेन खेदितं हिमवन्तमनुमान्य तत आज्ञां गृहीत्वा। अप्रमेयवत्स्वेव स्थानेषु वर्तत इत्यपरिच्छेद्या गतिर्गमनव्यापारो यस्य तथाभूतेन ककुद्मता नन्दिना तत्र तत्र पर्वते

पाठा०-१ चात्मनः. २ मासमेकम्. ३ अनुमन्य. ४ पीडितम्. ५ संचरन्. संपतन्संचरमाणो विजहार विहारं कृतवान् । इह 'संचरन्' इति पाठोऽसाधुः । 'समस्तृतीयायुक्तात्' (पा.१।३।५४) इति नित्यमात्मनेपदनियमाच्छतुर्दोर्लभ्यात् । अमन्तमार्गपद शेषयित्वा सकर्मकत्वादप्रसङ्ग इति केचित्समर्थयन्ते ॥ २५ ॥

 मेरुमेत्य मरुदाशुगोक्षकः पार्वतीस्तनपुरस्कृतान्कृती ।
 हेमपल्लवविभङ्गसंस्तरानन्वभूत्सुरतमर्दनक्षमान् ॥ २२ ॥

 मेरुमिति ॥ मरुदिवाशु गच्छतीति मरुदाशुग उक्षा वृषभो यस्य सः । 'शेषाद्विभाषा' (पा.५।४।१५४) इति कप् । कृती कुशलो हरः । मेरुं सुमेरुम् । 'मेरुः सुमेरुहेमाद्रिः' इत्यमरः। एत्यागत्य पार्वत्याः स्तनाभ्यां पुरस्कृतान्पूजितानाश्रयत्वेन स्वीकारात् । अल्पीयसां महत्स्वीकार एव पूजात्वेन परिणमतीति भावः। महतामल्पीयःस्वीकारे को हेतुरित्याशङ्क्या विशेषयति-सुरतेति । सुरतेषु यानि मर्दनानि तेषु क्षमान्सहिष्णून् । हेम्नः पल्लवानां विभङ्गाः खण्डास्तेषां संस्तरानास्तरणान्यन्वभूत् , तत्र सुप्त्वा विजहारत्यर्थः । अल्पीयसामपि सहिष्णुत्वं हेम्नो विकारत्वात् । अल्पीयस्त्वं तु पदो लवः पल्लव इति श्लिष्टार्थमहिम्ना समर्थ्यते ॥२२॥

 पद्मनाभचरणाङ्किताश्मसु प्राप्तवत्स्वमृतविप्रुषो नवाः ।
 मॅन्दरस्य कटकेषु चावसत्पार्वतीवदनपद्मषट्पदः ॥ २३ ॥

 पद्मनाभेति ॥ हरः। पद्मनाभो हरिः । ‘पद्मनाभो मधुरिपुः' इत्यमरः। तस्य चरणाभ्यामङ्किताश्चिह्निता अश्मानो येषाम् । एतेन हरेरपि विहारयोग्यत्वं ध्वन्यते । तथा नवा अमृतविप्रुषोऽमृतबिन्दून् । 'पृषन्ति बिन्दुपृषताः पुमांसो विप्रुषः स्त्रियाम्' इत्यमरः। प्राप्तवत्सु, समुद्रमन्थनसाधनत्वादस्येति भावः । मन्दरस्य च कटकेषु नितम्बेषु । 'कटकोऽस्त्री नितम्बोऽद्रेः' इत्यमरः । पार्वत्या वदनरूपे पद्मे षट्पदो भ्रमरः सन् । अवसद्वासमकरोत् ॥ २३ ॥

 रावणध्वनितभीतया तया कण्ठसक्तदृढबाहुबन्धनः ।
 एकपिङ्गलगिरौ जगद्गुरुनिर्विवेश विशदाः शशिप्रभाः ॥२४॥

 रावणेति ॥ जगतां गुरुनियन्ता । उत्पत्त्यादित्रिविधकर्मणां गुणभेदेन कार- कत्वादिति भावः । शिवः । एकपिङ्गलस्य कुबेरस्य । 'यक्षैकपिङ्गैलविलश्रीदपुण्य- जनेश्वराः' इत्यमरः। गिरौ कैलासे रावणस्य प्रसिद्धराक्षसस्य ध्वनितात्सिंहना-

पाठा०-१ आशुवाहनः, २ संस्तराम्. ३ सुरततत्परः क्षपाम्. ४ वलय. ५ मान्दरेषु. ६ वारणखनित. ७ मृदु. । । दादीतया तया पार्वत्या कण्ठे सक्तं सज्जितं दृढं बाहुबन्धनं यस्य स तथोक्तः सद् विशदाः स्वच्छाः, शारदिका इति भावः । शशिनः प्रभाः कौमुदीर्निर्विवे- शोपभुक्तवान् ॥ २४ ॥

 तस्य जातु मलयस्थलीरते धूतचन्दनलतः प्रियाक्लमम् ।
 आचचाम सलवङ्गकेसरश्चाटुकार इव दक्षिणानिलः ।। २५ ॥

 तस्येति ॥ जातु कदाचित् । तस्य तत्कर्तृके । मलयस्थलीषु रतं सुरतं तत्र सति । धूताः कम्पिताश्चन्दनानां चन्दनवृक्षाणां लताः शाखा येन स तथोक्तः । लवङ्गानां केसरैः किञ्जल्कैः सह वर्तत इति तथोक्तः । दक्षिणानिलो मलयपवनः। चाटुकार इव मधुरभापीव । प्रियायाः क्लमं खेदमाचचाम, हृतवानित्यर्थः ॥२५॥

 हेमतामरसताडितप्रिया तत्कराम्बुविनिमीलितेक्षणा ।
 सा व्यगाहत तरङ्गिणीमुमा मीनपङ्क्तिपुनरुक्तमेखला ॥२६॥

 हेमेति ॥ सा उमा पार्वती हेम्नस्तामरसेन रक्तोत्पलेन तटोत्पनेन ताडितः प्रियो यया सा, परिहासविधित्सयेति भावः । तथा तस्य प्रियस्य कराम्बुना हस्ताक्षिप्त- जलेन विनिमीलिते ईक्षणे नेत्रे यया। तथा मीनपङ्क्त्या पुनरुक्ता मेखला रशना यस्यास्तथोक्ता सती। तरङ्गिणी नदी व्यगाहत विजगाहे, जलक्रीडां चकारेत्यर्थः। 'तरङ्गिणी शैवलिनी' इत्यमरः ॥ २६ ॥

 तां पुलोमतनयालकोचितैः पारिजातकुसुमैः प्रसाधयन् ।
 नन्दने चिरमयुग्मलोचनः सस्पृहं सुरवधूभिरीक्षितः ।। २७ ।।

 तामिति ॥ अयुग्मानि विषमाणि, त्रीणीति यावत् । लोचनानि यस्य स तथोक्तः शिवो नन्दन इन्द्रोद्याने पुलोमतनया शची। 'पुलोमजा शचीन्द्राणी' इत्यमरः । तस्या अलकेषु कशेषूचितैः पारिजातकुसुमैः कल्पवृक्षपुष्पैस्तां पार्वती प्रसाधयन्भृषयन् , तथा सुरवधूभिर्देवाङ्गनाभिः सस्पृहमीक्षितः सन् , चिरमव- सदिति शेषः ॥ २७॥

 इत्यभौममनुभूय शंकरः पार्थिवं च दयितासखः सुखम् ।
 लोहितायति कदाचिदातपे गन्धमादनवनं व्यगाहत ॥२८॥

पाठा०-१ रतेधूतचन्दनलतः; रते धूतचन्दनवनः, २ सतुषारशीतलः. ३ खे. ४ मेखलाम्. ५ सुरवधूभिरेक्ष्यत; सुरवधूनिरीक्षितः; सुरवधूभिरैक्षत. ६ वनिता. ७ गिरिम्.  इतीति ॥ शंकरः इत्येवमभौमं स्वर्गीयं तथा पार्थिवं भौमं च सुखम् । दयि- तासखः सन्ननुभूय कदाचित्समय आतपे सूर्ये लोहितायति रक्तवर्णे जायमाने सति । 'लोहितादिडाज्भ्यः क्यष्' (पा. ३।१।१३) इति क्यष् । गन्धमादनस्य गिरेर्वनं व्यगाहत, तत्र क्रीडितुं जगामेत्यर्थः ॥ २८ ॥

 तत्र काञ्चनशिलातलाश्रयो नेत्रगम्यमवलोक्य भास्करम् ।
 दक्षिणेतरभुजव्यपाश्रयां व्याजहार महधर्मचारिणीम् ॥२९॥

 तत्रेति ॥ तत्र गन्धमादनवने स हरो भास्कर सूर्य नेत्रगम्यं नेत्रप्राप्यम् , नेत्रावलोक्यमिति यावत् । अवलोक्य विचार्य । काञ्चनं सौवर्ण शिलातलमाश्रयो यस्य तथोक्तः सन् । दक्षिणेतरो भुजो वामभुजस्तत्र व्यपाश्रयः संबन्धो यस्या- स्ताम् , तत्र स्थितामित्यर्थः । सहधर्मचारिणीं पत्नीं पार्वतीं व्याजहारोक्तवान् । 'व्याहार उक्तिर्लपितम्' इत्यमरः ॥ २९ ॥

 पद्मकान्तिमरुणत्रिभागयोः संक्रमय्य तव नेत्रयोरिव ।
 संक्षये जगदिव प्रजेश्वरः संहरत्यहरसावहर्पतिः ॥ ३० ॥

 पद्मेति ॥ हे प्रिये ! अमौ पुरोवर्यहर्पतिः सूर्यः । अरुणौ त्रिभगौ तृतीयांशौ ययोस्तयोस्तव नेत्रयोरिव पद्मकान्ति कमलशोभां संक्रमय्य तुलयित्वा, कमल- प्रतिनिधित्वेन रात्रौ तव नेत्रकमल एव स्थास्यत इति विचार्येति भावः। संक्षये प्रलये प्रजेश्वरो ब्रह्मा जगदिव। अहो दिनं संहरति, स्वस्यास्तंगतत्वादिति भावः । अत्र गम्योत्प्रेक्षा ॥ ३०॥

 सीकरव्यतिकरं मरीचिभिर्दूरयत्यवनते विवस्वति ।
 इन्द्रचापपरिवेषशून्यतां निर्झरास्तव पितुर्वजन्त्यमी ॥ ३१ ॥

 सीकरेति ॥ हे प्रिये ! अवनते नम्रीभूनते, अस्तंगत इति यावत् । विवस्वति सूर्ये मरीचिभिः स्वकिरणैः सह सीकराणां जलकणानाम् । 'सीकरोऽम्बुकणाः स्मृताः' इत्यमरः । व्यतिकरं संबन्धं दूरयति दूरं कुर्वति सति । अमी पुरोवर्तिन- स्तव पितुर्हिमालयस्य निर्झराः प्रवाहा इन्द्रचापेन यः परिवेषः परिधिः। 'परि- वेषस्तु परिधिरुपसूर्यकमण्डले' इत्यमरः । तेन शून्यास्तेषां भावस्तत्ता तां व्रजन्ति,

पाठा०-१ अरुणान्तभागयोः. २ संगमय्य. ३ धूनयति. ४ प्रसवितुः. ५ ते. गच्छन्तीत्यर्थः । निर्झरकणपतितसायन्तनकिरणैरुद्भासमानेन्द्रचापपरिधिता सूर्य- स्यास्तंगतत्वाद्विलीना इति भावः ॥ ३१ ॥

 दष्टतामरसकेसरस्रजोः क्रन्दतोविपरिवृत्तकण्ठयोः ।
 निघ्नयोः सरसि चक्रवाकयोरल्पमन्तरमनल्पतां गतम् ॥३२॥

 दष्टेति ॥ हे प्रिये ! दृष्टा तामरससंबन्धिना केसराणां स्रक् याभ्यां तयोः । तथा विपरिवृत्तौ परस्परपराङ्मुखीभूतौ कण्ठौ ययोः। तथा निघ्नयोः परस्पराधी- नयोः। 'अधीनो निघ्नः आयत्तः' इत्यमरः । अत एव क्रन्दतो रुदतोः । तथा सरसि स्थितयोश्चक्रवाकयोरल्पमन्तरं वियोगोऽनल्पतामतिशयिततां गतम् , प्राप्तमित्यर्थः ॥ ३२॥

 स्थानमाह्निकमपास्य दन्तिनः सल्लकीविटपभङ्गवासितम् ।
 आविभातचरणाय गृहते वारि वारिरुहबद्धषट्पदम् ।। ३३ ॥

 स्थानमिति ॥ हे प्रिये ! दन्तिनो गजाः सल्लकीविटपा वृक्षविशेषास्तेषां भङ्गैः खण्डैर्वासितं सुगन्धितमाह्निकं दैनं स्थानमपास्य त्यक्त्वा । विभातमारभ्येत्याविभातं यच्चरणमाचरणम् , सांध्यं कृत्यमिति यावत् । तस्मै तत्कर्तुम् । वारिरुहेपु कमलेषु बद्धाः षट्पदा भ्रमरा यत्र तादृशं वारि जलं गृह्णते, करेणाददत इत्यर्थः । गम्योत्प्रेक्षा ॥ ३३ ॥

 पश्य पश्चिमदिगन्तलम्बिना निर्मितं मितकथे! विवस्वता ।
 लब्धया प्रतिमया सरोम्भसां तापनीयमिव सेतुबन्धनम् ॥ ३४ ॥

 पश्येति ॥ हे मितकथे मिताः परिमिताः कथा यस्यास्तत्संबोधनं हे मित- भाषिणि प्रिये ! पश्चिम दिगन्तं लम्बते तथोक्तेन विवस्वता सूर्येण लब्धया प्रतिमया प्रतिविम्बेन कृत्वा सरःसंबन्धिनामम्भसां तापनीयं सौवर्ण सेतोबन्धनमिव निर्मि- तम् , कृतमित्यर्थः । इति त्वं पश्य । तरङ्गितसरोजलेषु पतितमत एवाविरलतया सहस्रधा विभक्तं स्वप्रतिबिम्बमेव सूर्यनिर्मितः सेतुरिवेत्युत्प्रेक्षा। 'तपनीयं शात- कुम्भम्' इत्यमरः । ततः 'तस्य विकारः' (पा. ४।३।१३४) इत्यण् ॥ ३४ ॥

पाठा०-१ त्यजोः. २ विरहदीनकण्ठयोः. ३ भिन्नयोः. ४ आविभाति शरणाय

गच्छतः सान्ध्यकर्मविधयेऽनुगृह्णते. ५ कथमिदम्. ६ दीर्घया.

 उत्तरन्ति विनिकीर्य पल्वलं गाढपङ्कमतिवाहितातपाः।
 दंष्ट्रिणो वनवराहयूथपा दष्टभङ्गुरबिसाङ्कुरा इव ॥ ३५ ॥

 उत्तरन्तीति ॥ हे प्रिये ! गाढः पङ्को यत्र तादृशं पल्बलमल्पसरः । 'वेशन्तः पल्वलं चाल्पसरः' इत्यमरः । विनिकीर्य, स्वाधिवासन विक्षिप्तं कृत्वेत्यर्थः । अतिवाहितोऽतिक्रान्त आतपो धर्मों यैः । तथा दंष्ट्रिण्ः प्रशम्नदंष्ट्रायुक्ताः। वन- वराहाणामारण्यकसूकराणां यूथं पान्ति रक्षन्ति ने वनवराहयूथपाः, महान्तो वराहा इत्यर्थः । दृष्टा भङ्गुरा भङ्गशीला बिसाङ्कुरा मृणालतन्तको येते तथोक्का इव । उत्तरन्ति निःसरन्ति, अर्थात्सरस इत्यर्थः । अत्र बहिदृश्येषु दंष्टाङ्कुरेषु बिसाङ्कुरत्वोप्रेक्षणादुप्रेक्षालंकारः ॥ ३५ ॥

 एष वृक्षशिखरे कृतास्पदो जातरूपरससौरमण्डलम् ।
 हीयमानमहरत्ययातपं पीवरोरु ! पिवतीव बर्हिणः ।। ३६ ॥

 एष इति ॥ हे पीबरोरु ! वृक्षशिखरे कृतमास्पदं स्थितिर्येन, तत्र स्थित इत्यर्थः । एष पुरोवर्ती बर्हिणो मयूरः । 'मयूरो बहिणो बर्ही' इत्यमरः । कर्ता। जातरूपस्य सुवर्णस्य । 'चामीकरं जातरूपम्' इत्यमरः । यो रसो जलं तद्वद्गौरं पीतं मण्डलं बर्हसमूहो यस्य तादृशम् । अहो दिवसम्यात्ययः संन्ध्या तस्या आतपं पिबतीवेत्युप्रेक्षा। यतो हीयमानम् , अन्यथा कथमस्य हानिः स्यादिति भावः ॥३६॥

 पूर्वभागतिमिरप्रवृत्तिभिव्यक्तंपङ्कमिव जातमेकतः ।
 खं हृतातपजलं विवस्वता भाति किंचिदिव शेषवत्सरः॥३७॥

 पूर्वेति ॥ विवस्वता हृतं शोषितमातपो जलमिव यस्य तादृशं खं व्योम । पूर्व- भागे यास्तिमिरप्रवृत्तयस्तमःप्रसारास्ताभिः कृत्वा । एकत्र एकत्र भागे व्यक्तः पङ्को यत्र तदिव जातं सन् । किंचिच्छेषवदीपज्जलशेषि सर इव भानि। अस्तंगच्छ- दर्काल्पातपे किंचिज्जलशेषोत्प्रेक्षणपूर्वक उपमालंकारः ॥ ३७ ।।

 आविशद्भिरुटजाङ्गणं मृगैर्मॉलसेकसरसैश्च वृक्षकैः ।
 आश्रमाः प्रविशंदग्र्यधेनवो बिभ्रति श्रियमुदीरिताग्नयः॥३८॥

 आविशद्भिरिति ॥ उटजस्य पर्णशालाया अङ्गणम् । 'पर्णशालोटजोऽस्त्रियाम्'

पाठा०-१ मण्डल:. २ लग्नपङ्कम्. ३ उटजाङ्गणे. ४ अग्निधेनवः. इत्यमरः । आविशद्भिः प्रविशद्भिर्मृगैः। तथा मूलेषु यः सेकः सेचनं तेन सरसा आर्द्रास्तथोक्तैर्वृक्षकैरल्पवृक्षश्चोपलक्षिताः । तथा प्रविशन्त्योऽग्र्याः श्रेष्ठा धेनवो येषु । तथोदीरिता उद्दीपिताः । सायंहोमार्थमिति भावः अग्नयो गार्हपत्यादयो येषु तथोक्ता आश्रमा ऋषीणां वासस्थानानि । श्रियं बिभ्रति, शोभन्त इत्यर्थः ॥३८॥

 बद्धकोशमपि तिष्ठति क्षणं सावशेषविवरं कुशेशयम् ।
 षट्पदाय वसतिं ग्रहीष्यते प्रीतिपूर्वमिव दातुमन्तरम् ॥३९॥

 बद्धेति ॥ बद्धकोशं मुकुलितमपि कुशेशयं कमलं कर्तृ । वसतिं ग्रहीष्यते षट्पदाय भ्रमराय प्रीतिपूर्वमन्तरमवकाशम् । 'अन्तरमवकाशावधि-' इत्यमरः । दातुमिवेत्युत्प्रेक्षा । क्षणं सावशेषं विवरं छिद्रं यस्य तथा तिष्ठति ॥ ३९ ॥

 दूरमग्रपरिमेयरश्मिना वारुणी दिगरुणेन भानुना ।
 भाति केसरवतेव मण्डिता बन्धुजीवतिलकेन कन्यका ॥४०॥

 दूरमिति ॥ हे प्रिये ! वारुणी दिक पश्चिमदिक् । दूरमग्रे परिमेया अल्पत्वात्परिमातुं शक्या रश्मयः किरणा यस्य तादृशेनारुणेन भानुना। केसरवता किञ्जल्कवता बन्धुजीवं बन्धुजीवाख्यवृक्षपुष्पं तदेव तिलकं तेन मण्डिता कन्यकेव भाति| ४०

 सामभिः सहचराः सहस्रशः स्यन्दनाश्वहृदयंगमस्वनैः ।
 भानुमग्निपरिकीर्णतेजसं संस्तुवन्ति किरणोष्मपायिनः॥४१॥

 सामभिरिति ॥ किणोप्मपायिनः किरणानामूष्माणमेव पिबन्तीति तथोक्ताः। सहस्रशः सहचरा वालखिल्यादय ऋषयः । अग्नौ परिकीर्ण निक्षिप्तं तेजो येन तं भानुं सूर्यम् । स्यन्दनम्य स्थस्य संबन्धिनो येऽश्वाम्तेषां हृदयंगमा मनोहराः स्वना येषां तैः सामभिः सामवेदैः संस्तुवन्ति, स्तुतिं कुर्वन्तीत्यर्थः ॥ ४१ ॥

 सोऽयमानतशिरोधरैर्हयैः कर्णचामरविघट्टितेक्षणैः ।
 अस्तमेति युगभुग्नकेसरैः संनिधाय दिवसं महोदधौ ॥ ४२ ॥

 सोऽयमिति ॥ सोऽयं सूर्यो दिवसं महोदधौ संनिधाय संस्थाप्य । आनता नम्रीभूता शिरोधरा ग्रीवा येषां तैः । अत एव कर्णयोश्चामरैर्विघट्टिते

४ कुसुमेन. ५ स्यन्दनस्य. पाठा०-१ उत्तरम्. २दृरलग्न. ३ वारुणा. ६ स्वरैः. ७ ईक्षणे येषां तैः । युगेन स्कन्धधार्यकाष्ठेन भुग्ना मृदिताः केसराः स्कन्धरोमाणि येषां तथोक्तैर्हयैरश्वैः कृत्वा । अस्तमस्ताचलमेति गच्छति । 'अस्तस्तु चरमः क्ष्माभृत्' इत्यमरः ॥४२॥

 खं प्रसुप्तमिव संस्थिते रवौ तेजसो महत ईदृशी गतिः ।
 तत्प्रकाशयति यावदुद्गतं मीलनाय खलु तावतश्च्युतम् ॥४३॥

 खमिति ॥ हे प्रिये ! ख व्योम रवौ संस्थितेऽस्तंगते सति प्रसुप्तमिव भवति । युक्तमेवेत्याह-महतस्तेजस ईदृशी वक्ष्यमाणा गतिरस्ति । सा केत्याह--तत्तेजः कर्तृ । उद्गतमुदितं सत् । यावत् , स्थानमित्यर्थः । प्रकाशयति, च्युतं भ्रष्टमस्तमितं सदिति यावत् । तावतः स्थानस्य मीलनाय संकोचनाय भवति खलु । यत्र तेजस्तिष्ठति तत्प्रकाशते, यतो गच्छति तन्न प्रकाशत इति भावः । उत्प्रेक्षालंकारः ॥४३॥

 संध्ययाप्यनुगतं रवेर्वपुर्वन्द्यमस्तशिखरे समर्पितम् ।
 येने पूर्वमुदये पुरस्कृता नानुयास्यति कथं तमापदि ॥४४॥

 संध्ययेति ॥ संध्ययापि कर्त्र्या अस्तशिखरे समर्पितं निहितं वन्द्यं पूज्यं रवेर्वपुर्मण्डलं कर्म । अनुगतमन्वगामि । योग्यमेवैतदित्याह - पूर्वमुदये प्रातःसमये येन पुरस्कृताऽग्रे कृता संमानिता च । उदये प्रागेव संध्यागम इति प्रसिद्धम् । आपदि विपत्समये, अस्तमय इति यावत् । तं सूर्यं कथं नानुयास्यति ? अपि तु यास्यत्येवेत्यर्थः । सतीधर्म एष एवेति भावः॥४४॥

 रक्तपीतकपिशाः पयोमुचां कोटयः कुटिलकेशि! भान्त्यमूः ।
 द्रक्ष्यसि त्वमिति संध्ययानया वर्तिकाभिरिव साधुमंण्डिताः॥४५॥

 रक्तेति ॥ हे कुटिलकेशि प्रिये ! अमूः पुरोगताः । रक्ताश्च पीताश्च कपिशाश्च तथोक्ताः, नानावर्णा इत्यर्थः । पयोमुचांं कोटयोऽश्रयः। 'स्यात्कोटिरश्रौ चापाग्रे संख्याभेदप्रकर्षयोः' इति विश्वः । भान्ति । तास्त्वं द्रक्ष्यसीति हेतोरनया संध्यया कार्त्र्या । वर्तिकाभिश्चित्रशलाकाभिः साधु यथा तथा मण्डिता इव भूषिताः किम्वित्युत्प्रेक्षा ॥ ४५ ॥

पाठा०-१ उत्थितम्. २ तावता. ३ पदम्. ४ धर्मम्. ५ प्राक्तथेयम्.

६ सांध्यवेलया. ७ वर्णिकाभिः. ८ वर्तिताः.

 सिंहकेसरसटामु भूभृतां पल्लवप्रसविषु द्रुमेषु च ।
 पश्य धातुशिखरेषु भानुना संविभक्तमिव सांध्यमातपम् ॥४६॥

 सिंहेति ॥ हे प्रिये ! भूभृतां पर्वतानां संबन्धिनां सिंहानां केसराः किञ्जल्का इव याः सटाः स्कन्धकेशास्तासु । पल्लवानां प्रसवो येषु तेषु द्रुमेषु च तथा धातुयुक्तेषु शिखरेषु च भानुना संविभक्तंं सम्यग्विभज्य दत्तमिव सांध्यमातपं पश्य । केसरादीनामात्मसदृशत्वात्सुहृद्भूततया सूर्योऽस्तगमनसमय आसन्नमृत्युः पुरुष आत्मघनमिव घनीभूतं तात्कालिकमातपं तेभ्यो दत्त्वाऽस्तं गच्छतीति भावः ॥४६॥

 अद्रिराजतनये! तपस्विनः पावनाम्बुविहिताञ्जलिक्रियाः।
 ब्रह्म गूढमभिसंध्यमादृताः शुद्धये विधिविदो गृणन्त्यमी॥४७॥

 अद्रीति ॥ हे अद्रिराजतनये ! विधिविदस्तपस्विनोऽमी ब्राह्मणाः । अभिसंध्यं संध्यामभिव्याप्य । पावनं पवित्रं यदम्बु तेन विहिताऽञ्जलिक्रियार्घ्यदानं यैस्तथोक्ताः । भूत्वेति शेषः । शुद्धय आत्मशुद्धिं कर्तुमादृता आदरयुक्ताश्च सन्तः । गृढं रहस्यभूतं ब्रह्म गायत्रीं गृणन्ति । जपन्तीत्यर्थः ॥ ४७ ॥

 तन्मुहूर्तमनुमन्तुमर्हसि प्रस्तुताय नियमाय मामपि ।
 त्वां विनोदनिपुणः सखीजनो वल्गुवादिनि ! विनोदयिष्यति ४८

 तदिति ॥ हे वल्गुवादिनि मिष्टभापिणि ! तत्तस्मात्कारणात्प्रस्तुताय सांध्याय नियमाय विधये नियमं कर्तुं मामपि मुहूर्तं क्षणमात्रमनुमन्तुं त्वं गच्छेत्यनुमननं कर्तुमर्हसि। तथा त्वांं विनोदे विनोदकरणे निपुणः कुशलः सखीजनो विनोदयिष्यति ॥४८॥

 निर्विभुज्य दशनच्छदं ततो वाचि भर्तुरवधारणापरा ।
 शैलराजतनया समीपगामाललाप विजयामहेतुकम् ॥ ४९ ॥

 निर्विभुज्येति ॥ ततोऽनन्तरं शैलराजतनया पार्वती दशनच्छदमोष्टं निर्विभुज्य वक्रीकृत्य भर्तुर्वाच्यवधीरगापरा तिरस्कृतिसक्ता, श्रुतमप्यशृण्वतीत्यर्थः । समीपगां विजयानाम्नीं सखीम् । अहेतुकं निष्कारणमाललाप, आलापं कृतवतीत्यर्थः ॥४९॥

पाठा०-१ भूभृता. २ धातुशिखरेषु चात्मनः; चास्तशिखरे विवस्वता; धातु- शिखरेषु चात्मना. ३ पार्ष्णिमुक्तवसुधास्तपस्विनः, ४ रचिता. ५ अभिसांध्यम्.

६ सिद्धये. ७ सहेतुकम.

 ईश्वरोऽपि दिवसात्ययोचितं मन्त्रपूर्वमनुतस्थिवान्विधिम् ।
 पार्वतीमवचनामसूयया प्रत्युपेत्य पुनराह सस्मितम् ॥ ५० ॥

 ईश्वर इति ॥ दिवसात्यये सायंकाल उचितं विधिं मन्त्रपूर्वं यथा तथाऽनुतस्थिवान्कृतवानीश्वरोऽप्यसूयया मां त्यक्त्वा गत इत्यभिप्रायगर्भितयेर्ष्ययाऽवचनामभाषमाणाम् । 'वच परिभाषणे' कर्तरि ल्युः । पार्वतीं प्रत्युपेत्य समीपमागत्य पुनः सस्मितं यथा तथाहोक्तवान् ॥ ५० ॥

 मुञ्च कोपमनिमित्तकोपने ! संध्यया प्रणमितोऽस्मि नान्यया।
 किं न वेत्सि सहधर्मचारिणं चक्रवाकसमवृत्तिमात्मनः॥५१॥

 मुञ्चेति ॥ हे अनिमित्तकोपनेऽकारणकोपने ! कोपं क्रोधं मुञ्च । यतोऽस्म्यहंं संध्यया कर्त्र्या प्रणमितो नान्यया, अहं संध्यावशं गतः, नान्यावशं गतः; अतः कोपं मा कुर्वित्यर्थः । अथ च आत्मनः सहधर्मचारिणं माम्, संध्यां कर्तुं गच्छन्तमिति शेषः । चक्रवाकेन समा वृत्तिर्यस्य तं किं न वेत्सि? इदानीमुभयोः प्रियाविरहखिन्नत्वादिति भावः ॥ ५५ ॥

 निर्मितेषु पितृषु स्वयंभुवा या तनुः सुतनु ! पूर्वमुज्झिता ।
 सेयमस्तमुदयं च सेवते तेन मानिनि ! ममात्र गौरवम् ।।५२॥

 निर्मितेष्विति ॥ हे सुतनु ! स्वयंभुवा ब्रह्मणा निर्मितेषु कल्पितेषु पितृषु तनुः सूक्ष्मा या संध्या पूर्वमुज्झिता सेयं संध्यास्तमुदयं च सेवते । तेन कारणेन हे मानिनि ! ममात्र गौरवमादरः, अस्तीत्यर्थः ॥ ५२ ॥

 तामिमां तिमिरवृद्धिपीडितां शैलराजतनयेऽधुना स्थिताम् ।
 एकतस्तटतमालमालिनीं पश्य धातुरसनिम्नगामिव ॥ ५३ ।।

 तामिति ॥ हे शैलराजतनये प्रिये ! तामिमां संध्यामधुनैकतः पूर्वत्र तिमिर वृद्धिपीडितामत एव तटे तमालानां माला यस्यास्तथोक्तां धातूनां गैरिकादीनां रसस्य निम्नगां नदीमिव स्थितां पश्य । उपमालंकारः। मालिनीत्यत्र 'व्रीह्मादिभ्यश्च'(पा. ५।२।११६) इतीनिः॥ ५३ ॥

पाठा०-१ अनुतिष्ठवान्. २ सोऽभ्युपेत्य. ३ प्रयमितः. ४ नान्यथा. ५ उत्थिता.

६ सेव्यते. ७ वृत्ति. ८ भूमिलग्नमिव संप्रति स्थिताम् ; भूमिलग्नमिव संप्रतिष्ठिताम्.

 सांध्यमस्तमितशेषमातपं रक्तलेखमपरा बिभर्ति दिक्।
 सांपरायवसुधासशोणितं मण्डलाग्रमिव तिर्यगुज्झितम् ॥५४॥

 सांध्यमिति ॥ अपरा प्रतीची दिक् । अस्तमितं शेषं च सांध्यम् । तथा रक्तालेखा पङ्क्तिर्यस्य । तथा सांपराया सांग्रामिकी या वसुधा तत्र सशोणितं सरक्तमत एव तिर्यगुज्झितं त्यक्तं मण्डलस्याग्रमिव स्थितमातपं बिभर्ति ॥ ५४ ॥

 यामिनीदिवससंधिसंभवे तेजसि व्यवहिते सुमेरुणा ।
 एतदन्धतमसं निरङ्कुशं दिक्षु दीर्घनयने ! विजृम्भते ॥५५॥

 यामिनीति ।। हे दीर्घनयने प्रिये ! यामिनीदिवसयोः संधौ संध्यायां संभवति तथोक्ते सांध्ये तेजसि सुमेरुणा व्यवहितेऽन्तर्हिते सति निरङ्कुशं निरर्गलमेतत्पुरोवर्त्यन्धतमसं गाढं तमो दिक्षु विजृम्भते प्रसरति, संध्यापि विलीनेत्यर्थः ॥५५॥

 नोर्ध्वमीक्षणगतिर्न चाप्यधो नाभितो न पुरतो न पृष्ठतः ।
 लोक एव तिमिरौघवेष्टितो गर्भवास इव वर्तते निशि ॥५६॥

 नोर्ध्वमिति ॥ निशि तिमिरौघेण वेष्टित एष लोको गर्भवास इव वर्तते । गर्भस्थित इव प्रतिभासमानत्वादिति भावः । यत ईक्षणानां लोकनेत्राणां गतिः प्रसर ऊर्ध्वं न; तथाधोऽपि न; तथाऽभितो वामदक्षिणोऽपि न; तथा पुरतो न; पृष्ठतश्च न, गर्भस्थितवज्जनैः कुत्रापि नावलोक्यत इत्यर्थः । ततो निशावृत्तौ गर्भवृत्तित्वोत्प्रेक्षा ॥ ५६ ॥

 शुद्धमाविलमवस्थितं चलं वक्त्रमार्जवगुणान्वितं च यत् ।
 सर्वमेव तमसा समीकृतं धिङ्महत्त्वमसतां हृतान्तरम् ॥५७॥

 शुद्धमिति ॥ शुद्धं निर्मलमाविलं मलिनमवस्थितं स्थिरं चलं चरिष्णु वक्रं कुटिलमार्जवगुणेनर्जुत्वगुणेनान्वितं सरलं च यत् तत्सर्वमेव तमसा समीकृतम् । तमोव्याप्त्या पृथगभासमानत्वादिति भावः । तथा हि-असतां कादाचित्कमपि महत्त्वं धिक् । यतो हृतान्तरं समीकृतसदसगुणम् । अत्र सामान्येन विशेषसमर्थनपोऽर्थान्तरन्यासः ॥ ५७ ॥

पाठा०-१ संपरायवसुधा सशोणितं. २ उत्थितम्. ३ निरर्गलम्. ४ तिमि- रोल्ब. ५ हतान्तरम् ; अनन्तराम्.

B

 नूनमुन्नमति यज्वनां पतिः शार्वरस्य तमसो निषिद्धये ।
 पुण्डरीकमुखि ! पूर्वदिङ्मुखं कैतकैरिव रजोभिराहतम् ॥५८॥

 नूनमिति ॥ हे पुण्डरीकमुखि कमलमुखि प्रिये ! नूनं यज्वनां द्विजानां पतिश्चन्द्रः शार्वरस्य शर्वरीसंबन्धिनस्तमसो निषिद्धये निवृत्तय उन्नमत्युदेति । अत एव कैतकैः केतकसंबन्धिभी रजोभिरिवाहतं व्याप्तं पूर्वदिशो मुखम् , पश्येति शेषः ५८

 मन्दरान्तरितमूर्तिना निशा लक्ष्यते शशभृता सतारका ।
 त्वं मया प्रियसखीसमागता श्रोष्यतेव वचनानि पृष्ठतः॥ ५९॥

 मन्दरेति ॥ सतारका सनक्षत्रा निशा रात्रिर्मन्दरेण गिरिणान्तरिता मूर्तिर्यस्य तेन शशभृता चन्द्रेण प्रियसखीभिः समागता मिलिता त्वं पृष्ठतः स्थित्वा वचनानि श्रोष्यता श्रोतुमवस्थितेन मयेव लक्ष्यते । उपमालंकारः ॥ ५९ ॥

 रुद्धनिर्गमनमा दिनक्षयात् पूर्वदृष्टतनु चन्द्रिकास्मितम् ।
 एतदुद्गिरति चन्द्रमण्डलं दिग्रहस्यमिव रात्रिनोदितम् ॥६॥

 रुद्धेति ॥ आ दिनक्षयाद्दिनक्षयं मर्यादीकृत्य रुद्धनिर्गमनं रुद्वोदयम् । अथ च, पूर्वस्यां दृष्टा तनुर्यस्य । 'सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः' (वा० १३७६) इति पूर्वाशब्दस्य पुंवद्भावः । एतच्चन्द्रमण्डलं कर्तृ । रात्र्या नोदितं कथयितुं प्रेरितं सत् । चन्द्रिकैव स्मितं यस्मिन्कर्मणि यथा तथा दिशः पूर्वस्या रहस्यमुद्गिरतीव वमतीव । यथा सेर्ष्या काचित् केनचिद्द्वारा सपत्नी रहस्यं कथयति तथा रात्रिरूपा स्त्री दिग्रूपायाः स्त्रियो रहस्यं तदवयवप्रदर्शनं प्रकटयति, त्वं पश्येत्यभिप्रायः । उत्प्रेक्षालंकारः ॥६॥

 पश्य पक्वफलिनीफलत्विषा बिम्बलाञ्छितवियत्सरोम्भसा ।
 विप्रकृष्टविवरं हिमांशुना चक्रवाकमिथुनं विडम्ब्यते ॥६१॥

 पश्येति ॥ पक्वा या फलिनी तस्याः फलं तस्य त्विडिव त्विड् यस्य । तथा बिम्बेन लाञ्छितं योजितं वियत्सरोऽम्भश्च येन, उभयत्रापि दृश्यमानेनेत्यर्थः हिमांशुना चन्द्रेण कर्त्रा । चक्रवाकयोर्मिथुनं तीरस्थं विडम्ब्यते प्रतार्यते । यतो

पाठा०-१ उन्नयति. २ पश्य दिङ्मुखम् ; दिङ्मुखं यथा. ३ आवृतम्. ४ तनु- चन्द्रिका. ५ रात्रिचोदिता. ६ चन्द्रमण्डलम्. ७ विप्रकृष्टविधुरम् ; विप्रकृष्टविरहम् ;विप्रकृत्तविवरम्, विप्रकृष्टं न जातं विवरमन्तरमुभयोस्तारतम्यं यस्य । त्वं पश्य सरःप्रतिबिम्बितचन्द्रमण्डलं फलिनीफलभ्रान्त्या जिघृक्षुतापूर्वकमुद्दिश्य गच्छन्मिथुनं, वस्तुतस्तु तत्र फलिनीफललाभाभावान्न्यस्तशस्त्रेण भूयत इति भावः । 'फलिन्यग्निशिखायां च फलिन्याम्' इति मेदिनी ॥ ६१ ॥

 शक्यमोषधिपतेर्नवोदयाः कर्णपूररचनाकृते तव ।
 अप्रगल्भयवसूचिकोमलाश्छेत्तुमग्रनखसंपुटैः कराः ॥ ६२॥

 शक्यमिति ॥ हे प्रिये ! नव उदयो येषाम् । तथाऽप्रगल्भा नूतना ये यवास्तेषां सूचयोङ्कुरास्तद्वत्कोमलाः । ओषधीनां पत्युश्चन्द्रस्य कराः किरणाः कर्णपूरस्य रचनाकृते रचनायै तवाग्राणि ये नखसंपुटास्तैः । तेषामतितैपक्ष्ण्यादिति भावः । छेत्तुं द्विधाकर्तुं शक्यम् , शक्तैर्भूयत इत्यर्थः । शक्नोतेः 'ऋहलोः-' (पा. ३।१।१२४) इति भावे ण्यत् । यवाङ्कुरवत् कोमलांश्चन्द्रकरानुत्तार्य त्वया कर्णपूरं कर्तुमुत्साहः क्रियतामिति भावः ॥ ६२ ॥

 अङ्गुलीभिरिव केशसंचयं संनिगृह्य तिमिरं मरीचिभिः ।
 कुड्मलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी ॥६३ ॥

 अङ्गुलीभिरिति ॥ शशी चन्द्रः । कुड्मलीकृते मीलिते सरोजे एव लोचने यस्य तत्तथोक्तं रजन्या मुखं वदनं अङ्गुलीभिरिव मरीचिभिः किरणैः केशसंचयमिव तिमिरं तमः संनिगृह्य हठाद्गृहीत्वा चुम्बतीव । अन्योऽपि कश्चिच्चुम्बन् केशसंचयं संनिगृह्णाति । चुम्बनसमये केशसंनिग्रहे यः कोऽपि रसोद्बोधः स तद्वेद्यैकवेद्य इत्यर्थः । समासोक्तिरलंकारः ॥ ६३ ॥

 पश्य पार्वति! नवेन्दुरश्मिभिर्भिन्नसान्द्रतिमिरं नभस्तलम् ।
 लक्ष्यते द्विरदभोगदूषितं सप्रसादमिव मानसं सरः॥६४ ॥

 पश्येति ॥ हे पार्वति! नवस्येन्दो रश्मिभिर्भिन्नं सान्द्रं सघनं तिमिरं यस्य पाठा०-१ शक्यः. २ नवोदयः. ३ नवाः. ४ कोमलः.५ करः. ६ भग्नसान्द्र; सामिभिन्न; संविभिन्न. ७ संप्रसीदत्.


टिप्प०-1 वामनोऽप्याह (काव्या. सू. ५।२।२२) 'शक्यमिति रूपं कर्माभिधायां लिङ्गवचनस्यापि सामान्योपक्रमात्' इति । अत्रोदाहरणम्-'शक्यं श्वमांसेनापि क्षुत्प्रतिहन्तुं' इति भाष्यकारप्रयोगः । इति । तन्नभस्तलं द्विरदभोगेन दूषितं मलिनं प्राक् पुनश्च कालान्तरेण सप्रसादं निर्मलं मानसं सर इव लक्ष्यते । त्वं पश्य, जलस्य नीलत्वादिति भावः ॥ ६४ ॥

 रक्तभावमपहाय चन्द्रमा जात एष परिशुद्धमण्डलः ।
 विक्रिया न खलु कालदोषजा निर्मलप्रकृतिषु स्थिरोदया॥६५॥

 रक्तभावमिति ॥ हे प्रिये ! एष चन्द्रमा रक्तभावं रक्तिमानमपहाय मुक्त्वा परिशुद्धं विशदं मण्डलं यस्य तथोक्तो जातः । तथा हि-निर्मलप्रकृतिषु वस्तुषु कालदोषेण जाता विक्रिया विकारः स्थिर उदय उत्पत्तिर्यस्यास्तादृशी न भवति खलु । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥६५॥

 उन्नतेषु शशिनः प्रभा स्थिता निम्नसंश्रयपरं निशातमः ।
 नूनमात्मसदृशी प्रकल्पिता वेधसा हि गुणदोषयोर्गतिः॥६६॥

 उन्नतेष्विति ॥ हे प्रिये! शशिनः प्रभा चन्द्रिकोन्नतेपु स्थलेपु स्थिता वर्तते । तथा निशातमः कर्तृ । निम्नेषु नीचेषु संश्रयो यस्य तत्तथोक्तं वर्तते । तथा हि-गुणदोषयोर्गतिर्वेधसा विधिना : आत्मना नीचेनोच्चेन च सदृशी प्रकल्पिता रचिता हि नूनम् । नीचात्मा नीचस्थ एव भवति । उच्चात्मा उच्चस्थ एवेत्यर्थः ॥ ६६॥

 चन्द्रपादजनितप्रवृत्तिभिश्चन्द्रकान्तजलबिन्दुभिर्गिरिः ।
 मेखलातरुषु निद्रितानमून्बोधयत्यसमये शिखण्डिनः ।। ६७ ।।

 चन्द्रेति ॥ गिरिर्मेखलासु नितम्बेषु ये तरवस्तेषु निद्रितान्सुप्तान् न शिखण्डिनो मयूरान् चन्द्रस्य पादैर्जनिता प्रवृत्तिनिर्गमनं येषां तैश्चन्द्रकान्तस्य ये जलबिन्दवस्तैः कृत्वाऽसमये बोधयति जागरयति । 'मेखला खड्गबन्धे स्यात्काञ्चीशैलनितम्बयोः' इति मेदिनी ॥ ६७ ॥

 कल्पवृक्षशिखरेषु संप्रति प्रस्फुरद्भिरिव पश्य सुन्दरि!।
 हारयष्टिरचनामिवांशुभिः कर्तुमागतकुतूहलः शशी ६८।।

 कल्पेति ॥ हे सुन्दरि! संप्रति शशी चन्द्रः प्रस्फुरद्भिरंशुभिः कृत्वा हारयष्टि-

पाठा०-१ वेधसैव. २ इह; एव. ३ इमान्. ४ अविकल्पसुन्दरि; व भु. सुन्दरि. ५ गणनाम्. ६ उद्यत. रचनां कर्तुमिवागतं कुतूहलं यस्य तथोक्तः सन् , कल्पवृक्षयुक्तेषु शिखरेषु, वर्तत इति शेषः । इव किम् ? त्वं पश्य । यथा कश्चिन्नीलपट्टसूत्रेण मुक्ताहारं विरलतया योजयति तथाऽयं चन्द्रोऽपि वृक्षपत्रान्तरालगतस्वीयकिरणमुक्ताफलैर्वृक्षपत्रच्छायरूपिणा नीलेन पट्टसूत्रेण च हारयष्टिं कर्तुमिवेहागत इति भावः ॥ ६८ ॥

 उन्नतावनतभाववत्तया चन्द्रिका सतिमिरा गिरेरियम् ।
 भक्तिभिर्बहुविधाभिरर्पिता भाति भूतिरिव मत्तहस्तिनः॥६९॥

 उन्नतेति ॥ हे प्रिये! गिरेरुन्नतावनतभाववत्तया सतिमिरेयं चन्द्रिका बहुविधाभिर्भक्तिभी रचनाभिरर्पिता मत्तहस्तिनो भूतिः संपदिव भाति । उपमालंकारः ६९

 एतदुच्छ्वसितपीतमैन्दवं वोढुमक्षममिव प्रभारसम् ।
 मुक्तषट्रपदविरावमञ्जसा भिद्यते कुमुदमा निबन्धनात् ॥७०॥

 एतदिति ॥ उच्छ्वसितं यथा तथा पीतमैन्दवं चान्द्रं प्रभारसं वोढुमक्षममिवैतत्कुमुदम् । मुक्तः षट्पदानां भ्रमराणां विरावः शब्दो येन तत्तथोक्तं सत् अञ्जसा झटिति । 'द्राग्झटित्यासाह्नाय' इत्यमरः । आ निबन्धनान्निरवशेषबन्धनाद्भिद्यते । सकर्मकाणामपि कर्माविवक्षयाऽकर्मकत्वात्कर्मकर्तरि लट् । अन्योऽपि बहुलमाम्रादिरसं पिबन्भिन्नोदरो भवति तद्वत् ॥ ७० ॥

 पश्य कल्पतरुलम्बि शुद्धया ज्योत्स्नया जनितरूपसंशयम् ।
 मारुते चलति चण्डिके! बलाद्व्यज्यते विपरिवृत्तमंशुकम् ॥७१।।

 पश्येति ॥ हे चण्डिके ! कल्पतरौ लम्बि लम्बायमानत्वेन वर्तमानं शुद्धया ज्योत्स्नया चन्द्रकान्त्या जनितो रूपस्य संशयः संदेहो यत्र, उभयोरपि शुक्लत्वादिति भावः । एतादृशमंशुकं वस्त्रं मारुते चलति सति विपरिवृत्तं सद्बलाद्व्यज्यते, व्यक्तत्वेन ज्ञायत इत्यर्थः । त्वं पश्य ॥ ७१ ॥

 शक्यमङ्गुलिभिरुत्थितैरधः शाखिनां पतितपुष्पपेशलैः ।
 पत्रजर्जरशशिप्रभालवैरेभिरुत्कचयितुं तवालकान् ॥ ७२ ॥

 शक्यमिति ॥ हे प्रिये ! अधः पतितपुष्पवत्पेशलैः सुन्दरैः । तथाऽङ्गुलि-

पाठा०-१ भागवत्तया. २ दन्तिनः. ३ उच्छ्वसितपीतम्. ४ सोढुम्. ५ चण्डिके चलम्; चण्डि केवलं व्यज्यते. ६ उद्धृतैः, ७ कोमलैः. ८ अलकम् ; अलकाः. भिरुत्थितैरुत्थापितैरेभिः पुरोवर्तिभिः शाखिनां संबन्धिभिः पत्रैर्जर्जरिता ये शशिनः प्रभाया लवा अंशास्तैस्तवालकानुत्कचयितुमुद्ग्रथितुं शक्यम् , शक्येन भूयतामित्यर्थः । काचित्तव सखी पुष्पप्रतिनिधित्वेन वृक्षाधःपतितजर्जरीभूतचन्द्रकान्तिशकलैः केशानुद्ग्रथयत्विति भावः ॥ ७२ ॥

 एष चारुमुखि ! योग्यतारया युज्यते तरलबिम्बया शशी ।
 साध्वसादुपगतप्रकम्पया कन्ययेव नवदीक्षया वरः॥ ७३ ।।

 एष इति ॥ हे चारुमुखि ! एष शशी । वरः परिणेता नवदीक्षया नवपरिणीतयाऽत एव साध्वसाद्भयादुपगतः प्रकम्पो यस्यास्तया कन्ययेव । तरलबिम्बया चपलमण्डलया योग्यतारया सदृशतारकया युज्यते युनक्ति । त्वं पश्य ॥ ७३ ॥

 पाकभिन्नशरकाण्डगौरयोरुल्लसत्प्रकृतिजप्रसादयोः ।
 रोहतीव तव गण्डलेखयोश्चन्द्रबिम्बनिहिताक्ष्णि चन्द्रिका ७४

 पाकेति ॥ हे प्रिये ! चन्द्रबिम्बेन निहिता स्थापिता तवाक्ष्णि नेत्रे या चन्द्रिका सा। पाके भिन्नो यः शरकाण्डस्तृणविशेषस्तद्वद्गौरयोः। तथोल्लसन्प्र- कृतिजः स्वभावजः प्रसादः प्रसन्नता ययोस्तयोस्तव गण्डलेखयोरुपरि रोहतीव आरोहणं करोतीवेत्युत्प्रेक्षा ॥ ७४ ॥

 लोहितार्कमणिभाजनार्पितं कल्पवृक्षमधु विभ्रती स्वयम् ।
 त्वामियं स्थितिमतीमुपागता गन्धमादनवनाधिदेवता ॥७५॥

 लोहितेति ॥ लोहिता रक्ता येऽर्कमणयस्तेषां भाजनं पात्रं तत्रार्पितं स्थापित कल्पवृक्षाणां मधु मकरन्दस्तद्विभ्रतीयं गन्धमादनवनस्याधिदेवता स्थितिमतीं स्थिरां त्वामुद्दिश्य स्वयमुपागता। त्वं पश्य, तुभ्यं मदिरां दातुमागच्छतीत्यर्थः ॥ ७५ ॥

 आर्द्रकेसरसुगन्धि ते मुखं मत्तरक्तनयनं स्वभावतः ।
 अत्र लब्धवसतिर्गुणान्तरं किं विलासिनि ! मदः करिष्यति ७६

 आर्देति ॥ हे विलासिनि ! अत्र लब्धा वसतिर्निवासो येन तथोक्तो मदः

पाठा०-१ चन्द्रमुखि. २ पश्य तारया; योगतारया. ३ पाण्डु. ४ प्रतिकृति- प्रसन्नयोः; प्रतिकृतिप्रदीप्तयोः. ५ निहिताक्षि. ६ उपस्थिता; समागता. ७ प्रान्तरक्त; रक्तमेव; मत्तमेव. ८ कम्. ९ मधुः. किं कीदृशं गुणान्तरमन्यं गुणं करिष्यति ? अपि तु नेत्यर्थः । यतस्ते तव मुखं स्वभावतः स्वभावेनैवार्द्रकेसरवत्सुगन्धि । तथा मत्ते रक्ते नयने यस्य तथोक्तं चास्ति । ये ये मदगुणास्ते ते मदात्प्रागेव वर्तन्ते, अतः किमनेन मदेन कर्तव्यमिति भावः ॥ ७६॥

 मान्यभक्तिरथवा सखीजनः सेव्यतामिदमनङ्गदीपनम् ।
 इत्युदारमभिधाय शंकरस्तामपाययत पानमम्बिकाम् ॥७७॥

 मान्यभक्तिरिति ॥ हे प्रिये ! अथवा मान्या भक्तिभावो यस्य तादृशः सखीजनोऽनङ्गस्य कामस्य दीपनमिदं मधु सेव्यतामित्युदारमभिधाय शंकरस्तामम्बिकां पार्वतीं पानं मदिरामपाययत ॥ ७७ ॥

 पार्वती तदुपयोगसंभवां विक्रियामपि सतां मनोहराम् ।
 अप्रतर्क्यविधियोगनिर्मितामाम्रतेव सहकारतां ययौ ॥ ७८ ॥

 पार्वतीति ॥ पार्वती कर्त्री । तदुपयोगसंभवां मद्यपानजन्यां विक्रियामपि सतां मनोहराम् । आम्रताम्रत्वमप्रतर्क्यो दुर्ज्ञेयो यो विधियोगोऽनुष्ठानयोगस्तेन निर्मितां सहकारतामतिसौरभत्वमिव ययौ, प्रापेत्यर्थः । 'आम्रश्चूतो रसालोऽसौ सहकारोऽतिसौरभः' इत्यमरः। आम्रमेवानुष्ठानविशेषेण यथा सहकारं भवति तद्वद्विक्रियापि मनोहराऽभूदिति भावः ॥७८ ॥

 तत्क्षणं विपरिवर्तितहियोर्नेष्यतोः शयनमिद्धरागयोः ।
 सा बभूव वशवर्तिनी द्वयोः शूलिनः सुवदना मदस्य च ॥७९।।

 तत्क्षणमिति॥ तत्क्षणं मदिरापानानन्तरसमय एव सा सुवदना पार्वती विपरिवर्तिता नष्टा ह्रीर्ययोरत एवेद्धः प्रवृद्धो रागो ययोरत एव शयनं नेष्यतोः, सुरतार्थमिति भावः। शूलिनः शिवस्य मदस्य चेत्यनयोर्द्वयोर्वशवर्तिनी वशंगता बभूव ७९

 घूर्णमाननयनं स्खलत्कथं स्वेदबिन्दु मदकारणस्मितम् ।
 आननेन न तु तावदीश्वरश्चक्षुषा चिरमुमामुखं पपौ।। ८० ॥

 घूर्णेति ॥ धूर्णमाने नयने यत्र । तथा स्खलन्ती कथा वाग्यत्र । तथा स्वेदस्य

पाठा०-१ दीपकम्. २ तदुपभोग. ३ निर्मिता. ४ नम्रता. ५ तत्क्षणे. ६ विपरि- वृत्तलज्जयोः. ७ वाञ्छतोः. ८ वशवर्तिका. ९ स्खलद्वचः; स्खलत्कचम्. १० बिन्दुमद, बिन्दवो यत्र। मद् रूपाणि कारणेन स्मितं मन्दहासश्च यत्र । तदुमायाः पार्वत्या मुखमीश्वरः शिवस्तावत्प्रथमं चिरं चक्षुषा पपौ सादरं ददर्श, आननेन तु न पपावित्यर्थः ॥ ८॥

 तां विलम्बितपनीयमेखलामुद्बहञ्जघनभारदुर्वहाम् ।
 ध्यानसंभृतविभूतिरीश्वरः प्राविशन्मणिशिलागृहं रहः ॥८॥

 तामिति ॥ ध्यानेन संभृता संपादिता विभूतिरुपभोगसाधनसंपत्तिर्येन स ईश्वरो विलम्बिनी तपनीयस्य सुवर्णस्य मेखला काञ्ची यस्यास्ताम् । तथा जघनभारेण दुर्वहां दुःखेन वोढुं शक्याम्। वहतेः 'ईषदुःसुषु कृच्छाकृच्छार्थेषु' (पा.३।३।१२६) इति खल् । तां पार्वतीमुद्वहन्सन् । रह एकान्ते मणिशिलानां गृहं प्राविशत् ॥८॥

 तत्र हंसधवलोत्तरच्छदं जाह्ववीपुलिनचारुदर्शनम् ।
 अध्यशेत शयनं प्रियासखः शारदाभ्रमिव रोहिणीपतिः॥८२॥

 तत्रेति ॥ तत्र मणिशिलागृहे स हरो हंस इव धवलं उत्तरच्छदः शयनोपरितनं वस्त्रं यस्य । तथा जाह्नवीपुलिनवञ्चारु दर्शनं यस्य तच्छयनं पल्यङ्कम् । रोहिणीपतिश्चन्द्रः शारदं शरत्कालिकमभ्रं मेघमिव । प्रियासखः सन् , पार्वतीसहित इत्यर्थः । अध्यशेताशिश्रियत् । 'अधिशीङ्-' (पा. १।४।४६ ) इति कर्मत्वम् ॥ ८२ ॥

 क्लिष्टकेशमवलुप्तचन्दनं व्यत्ययार्पितनखं समत्सरम् ।
 तस्य तच्छिदुरमेखलागुणं पार्वतीरतमभून्न तृप्तये ।। ८३ ।।

 क्लिष्टेति ॥ क्लिष्टा विक्ल्ऱुप्ताः केशा यत्र । अवलुप्तं चन्दनं यत्र । व्यत्ययेनास्थानप्रयोज्यत्वेनार्पिता नखा यत्र । तथा समत्सरं सप्रणयकलहम् । तथा छिदुरो भङ्गशीलो मेखलागुणः काञ्चीसूत्रं यत्र । एतादृशं तत् पार्वतीरतं तस्य शिवस्य तृप्तये नाभूत् , कामोत्सवस्योद्वेलत्वादिति भावः ॥ ८३ ॥

 केवलं प्रियतमादयालुना ज्योतिषामवनतासु पङ्क्तिषु ।
 तेन तत्प्रतिगृहीतवक्षसा नेत्रमीलनकुतूहलं कृतम् ॥ ८४ ॥

 केवलमिति ॥ ज्योतिषां नक्षत्राणां पङ्क्तिष्ववनतासु सतीषु, रजन्यां प्रभात-

पाठा०-१ संभृतिविभूतिरीश्वरः; संभृतिविभूतिसंभृतम् ; संभृतिविभूतिगोचरम्. २ हरः. ३ क्लिष्टचन्द्रमदयैः कचग्रहै.. ४ व्युत्पथार्थित; उत्पथार्पित. ५ अभूदतृप्तये.. ६ परिगृहीत कल्पायां सत्यमित्यर्थः । केवलं प्रियतमायां दयालुना, न तु क्षीणशक्तिनेत्यर्थः । तेन शिवेन तया पार्वत्या प्रतिगृहीतमालिङ्गितं वक्षो यस्य तथोक्तेन सता नेत्रमीलनस्य । निद्राया इत्यभिप्रेतोऽर्थः । कुतूहलं कृतम् , सुप्तमित्यर्थः ॥ ८४ ॥

 स व्यवुध्यत बु[४०]धस्तवोचितः शातकुम्भकमलाकरैः समम् ।
 मूर्च्छनापरिगृहीत[४१]कैशिकैः किन्नरैरु[४२]षसि गीतमङ्गलः ॥ ८५ ॥

 स इति ॥ बुधानां बुधकर्तृकै स्तव उचितः स शिव उषसि प्रभाते मूर्च्छनयोञच्चारणस्वरारोहावरोहेण, तदनुसारेणेत्यर्थः । परिगृहीताः कैशिका वीणातन्तवो यैस्तैः किंनरैः किंपुरुषैर्गीतं मङ्गलं यस्य तथोक्तः सन् । शातकुम्भस्य सुवर्णस्य यानि कमलानि तेषामाकराः समूहास्तैः समं सह व्यबुध्यत, जजागारेत्यर्थः । 'खनिः स्त्रियामाकरः स्यात्' इति कोशप्रामाण्यात् 'आकर' शब्दस्य खनिवाचकत्ये सत्यपि परिणतार्थपक्षपातेन समूहवाचकत्वमपि सोढव्यम् । दृश्यमानार्थे बाधस्य वतुमशक्यत्वात् ।। ८५॥

 तौ क्षणं शिथिलितोप[४३]गूहनौ दंपती च[४४]लितमानसोर्मयः ।
 पद्मभेदपि[४५]शुनाः सिषेविरे गन्धमादनवनान्तमारुताः॥८६॥

 ताविति ॥ क्षणं शिथिलितं विरामगोचरीकृतमुपगूहनमाश्लेषो याभ्यां तो दंपती स्त्रीपुंसौ गौरीहरौ कर्मभूतौ । चलिताश्चालिता मानसस्य सरस ऊर्मय- स्तरंगा यैः । एतेन शत्योक्तिः । तथा पद्मानां भेदस्य प्रफुल्लतायाः पिशुनाः सूचकाः । अनेन सौगन्ध्योक्तिः । गन्धमादनवनान्तस्य मारुताः पवनाः सिषेविरे, सेवितवन्त इत्यर्थः ॥ ८६ ॥

 ऊरुमूलनखमार्गरा[४६]जिभिस्तत्क्षणं हृतविलोचनो हरः ।
 वाससः प्रशिथिलस्य सं[४७]यम कुर्वतीं प्रियतमामवारयत् ।। ८७॥

 ऊर्विति ॥ ऊरुमूले या नखमार्गाणां नखक्षतानां राजयः पङ्क्तयस्ताभिः कर्त्रीभिः हृते स्वविलोकनवशीकृते विलोचने यस्य तथोक्तो हरस्तत्क्षणं प्रभातसमय प्रकर्षेण शिथिलस्य वाससः संयमं बन्धनं कुर्वतीं प्रियतमां पार्वतीमवारयत् 'बन्धनं मा कुरु' इति निवारयांचक्रे, नखक्षतविलोकनवशंवदत्वादिति भावः ॥ ८७ ॥


 स प्रजागरकषायलोचनं गाढदन्तपरिताडिताधरम्१ ।
 आकुलालकमरंस्त२ रागवान् प्रेक्ष्य भिन्नतिलकं प्रियामुखम् ॥८८॥

 स इति ॥ रागवान् स हरः प्रजागरेण रात्रिजागरेण कषाये म्लाने लोचने यत्र । तथा गाढं यथा तथा दन्तैः परिताडितोऽधरो यत्र । तथाऽऽकुला विरला अलकाः केशा यन्त्र । तथा भिन्नं तिलकं यत्र । एतादृशं प्रियाया मुखं प्रेक्ष्यारंस्त प्रससाद, आत्मनः कर्तृत्वादिति भावः ॥ ८८

 तेन भिन्न३विषमोत्तरच्छदं मध्यपिण्डितविसूत्रमेखलम् ।
 निर्मलेऽपि शयनं निशात्यये नोज्झितं चरणरागलाञ्छितम् ॥८९॥

 तेनेति ॥ निशात्यये प्रभाते निर्मलेऽपि प्रकटेऽपि सति तेन हरेण भिन्नोऽत एव विषम उत्तरच्छद उपरितनं वस्त्रं यत्र । तथा मध्ये पिण्डिता एकत्रीभूता विसूत्रा सूत्ररहिता मेखला काञ्ची यत्र । तथा चरणरागेण यावकेन लाञ्छितं रक्तीकृतं च शयनं नोज्झितं न त्यक्तम् , सुखार्णवमग्नत्वादिति भावः ॥ ८९ ॥

 स ४प्रियामुखरसं दिवानिशं हर्षवृद्धिजननं सिषेविषुः ।
 दर्शनप्रणयिनामदृश्यतामाजगाम विजयानिवेदनात्५ ॥ ९० ॥

 स इति ॥ हर्षवृद्धेर्जननमुत्पादकं प्रियामुखरसं दिवानिशं सिषेविषुः सेवितु- मिच्छति तथोक्तः । स शिवो विजयया पार्वतीसख्या यन्निवेदनं स्वागमज्ञापनं तस्मात् , तद्वारत्यर्थः । दर्शने प्रणयिनामभिलाषवतामयदृश्यतामदर्शनदातृत्व- माजगाम प्राप, सर्वं त्यक्त्वा तल्लय एव जात इति भावः ॥ ९० ॥

  समदिवसनिशीथं सङ्गिनस्तत्र शंभोः
   शतमगमदृतूनां ६साग्रमेका निशेव ।
  न तु७ ८सुरतसुखेभ्यश्छिन्नतृष्णो बभूव
   ज्वलन इव समुद्रान्तर्गतस्तज्जलौघैः९ ॥ ९१ ॥

 समदिवसेति ॥ तत्र गन्धमादनगिरौ समाः प्रत्येकं समसंख्याका ये दिवसा दिनानि तेषां निशीथमर्धरात्रम् , तमभिव्याप्येत्यर्थः । सङ्गिनः सङ्गवतः, न तु विषमदिन इत्यर्थः । शंभोः शिवसंबन्धि साग्रं किंचित्साधिकसंख्यमृतूनां शतमेका निशेव तत्तुल्यत्वेनागमद्व्यतीतम् । तथापि सुरतसुखेभ्यस्तु छिन्नतृष्णस्तृप्तो न बभूव । ततो न विररामेत्यर्थः । ज्वलन इव । यथा समुद्रान्तर्गतो ज्वलनो वाडवानलस्तज्ज- लौघैस्तृप्तो न भवति प्रत्यहं ज्वालयत्येव तद्वत् । मालिनीवृत्तम्-'ननमयययुतेयं मालिनी भोगिलोकैः' इति लक्षणात् ॥ ९१ ॥

इति श्रीपर्वणीकरोपनामकश्रीलक्ष्मणभट्टात्मजसतीगर्भसंभवर्श्र
कविविरचितया संजीविनीसमाख्यया व्याख्यया समेतः
श्रीकालिदासकृतौ कुमारसंभवे महाकाव्य उमा-
सुरतवर्णनं नामाष्टमः सर्गः ।

नवमः सर्गः ।


 तथाविधेऽनङ्गरसप्रसङ्गे मुखारविन्दे मधुपः प्रियायाः ।
 संभोगवेश्म प्रविशन्तमन्तर्ददर्श १पारावतमेकमीशः॥१॥

 तथाविध इति ॥ प्रियायाः पार्वत्याः संबन्धिनि मुखारविन्दे वदनकमले मधुपो भ्रमरभूत ईशः शिवस्तथाविधे पूर्वोक्तप्रकारेऽनङ्गरसप्रसङ्गे कामरसावसरे संभोगस्य वेश्म गृहमन्तः प्रविशन्तमेकं पारावतं कपोतं ददर्श दृष्टवान् । सर्गे- ऽस्मिन्वृत्तमुपजातिः ॥ १ ॥

 सुकान्तकान्तामणितानुकारं कूजन्तमाघूर्णितरक्तनेत्रम् ।
 प्रस्फारितोन्नम्रविनम्रकण्ठं मुहुर्मुहुर्न्यञ्चितचारुपुच्छम्२ ॥२॥

 सुकान्तेति ॥ कथंभूतं पारावतम् ! सुकान्तमतिमनोहरं यत्कान्तामणितं रमणीरतिकूजितम् । 'मणितं रतिकूजितम्' इत्यमरः । तस्यानुकारोऽनुकरणं यत्र यस्मिन्कर्मणि तद्यथा तथा कूजन्तं शब्दायमानम् । तथा आघूर्णिते रक्तनेत्रे येन तथोक्तम् । तथा प्रस्फारितो विस्तारित उन्नम्र उच्चैस्तथा विनम्रः कण्ठो यस्य तम् । तथा मुहुर्मुहुर्वारंवारं न्यञ्चितः संकुचितश्चारुः पुच्छः पश्चाद्भागो येन तथोक्तमित्यर्थः। 'पुच्छः पश्चात्प्रदेशे स्यात्' इति विश्वः ॥ २ ॥


 विशृङ्खलं पक्षतियुग्ममीषद्दधानमान१न्दगतिं मदेन ।
 शुभ्रांशुवर्णं जटिलाग्रपादमितस्ततो २मण्डलकैश्चरन्तम् ॥ ३ ॥

 विशृङ्खलमिति ॥ पुनः कथंभूतम् ? विशृङ्खलं विगतशृङ्खलाकम् । अनेन विशेषणेन कदाचित्कस्यापि बन्धनाभावस्य द्योतनात् स्वेच्छाविहारित्वं ध्वन्यते । 'शृङ्खला पुंस्कटीवस्त्रबन्धेऽपि निगडेऽपि च' इति विश्वः । पक्षत्योः पक्षमूलयोर्युग्मं द्वयम् । 'पक्षात्तिः' (पा. ५|२||२५) इति निप्रत्ययः । तथेषन्मदेन हेतुनानन्दगतिं च दधानम् । तथा शुभ्रांशोश्चन्द्रस्य वर्ण इव वणों यस्य तम् । “विधुः सुधांशुः शुभ्रांशुः' इत्यमरः । तथा जटिलौ जटायुक्तावग्रपादौ यस्य तम् । 'जटिलस्तु जटायुक्तः' इति विश्वः । तथा मण्डलकैर्मण्डलाकारगतिविशेषैरितस्ततश्चरन्तं भ्रम- माणम् , तं कपोतं ददर्शेति संबन्धः । 'मण्डलके' इति पाटे सुरतमण्डप इति व्याख्येयम् । त्रिभिरेतद्विशेषकम् ॥ ३॥

 रतिद्वितीयेन मनोभवेन ह्रदात्सुधायाः प्रविगाह्यमानात् ।
 तं वीक्ष्य फेनस्य चयं नवोत्थमिवाभ्यनन्दत्क्षणमिन्दुमौलिः ४

 रतीति ॥ रत्या सपल्या द्वितीयेन, रतिसहायेनेत्यर्थः । मनोभवेन का । प्रविगाह्यमानादवलोड्यमानात्सुधाया हृदान्नवमुत्थमुत्पन्नं फेनस्य चयमिव स्थित तं कपोतं वीक्ष्येन्दुमौलिः शिवः क्षणमभ्यनन्ददस्तौपीत् । कपोतरूपे वस्तुनि धवलिमरूपधर्मेण गम्यमानेन फेनचयरूपवस्तूत्प्रेक्षालंकारः ॥ ४ ॥

 ३तस्याकृति कामपि वीक्ष्य दिव्यामन्तर्भवश्छद्मविहंगमग्निम् ।
 विचिन्तयन् संविविदे स देवो भ्रूभङ्गभीमश्च रुषा बभूव ॥५॥

 तस्येति ॥ अन्तर्भवतीत्यन्तर्भवः, सर्वान्तर्व्यापीत्यर्थः । स देवो हरः। दिव्यां भव्यां कामपि लोकोत्तरां तस्य पारावतस्याकृतिं वीक्ष्य छद्मना कैतवेन विहंगं कपोतस्वरूपधारिणमग्निं विचिन्तयन्वितर्कयन् संविविदे विजज्ञे, निश्चयात्मक- बुधाऽग्निरेवायमिति बुबुध इत्यर्थः । 'समो गम्यृच्छि-' (पा. १।३।२९) इत्यने- नात्मनेपदम् । रुषा ध्रुवोर्भङ्गेन भीमो भयंकरश्च बभूव, असामयिकागमनकारि- स्वादिति भावः ॥ ५॥

पाठा०-१ आनन्दगतम् ; आमन्दगतिम्. २ मण्डलकं. ३ तदाकृतिम्.

 स्वरूपमास्थाय ततो हुताश१स्त्रसन्व२लत्कम्प३कृताञ्जलिः सन् ।
 प्रवेपमानो नित४रां स्मरारिमिदं वचो व्यक्तमयोध्युवाच॥६॥

 स्वरूपमिति ॥ ततोऽनन्तरं हुताशोऽग्निस्त्रसन्बिभ्यन्सन् । 'वा भ्राश-' (पा. ३।१।७०) इत्यादिना वैकल्पिकत्वान्न श्यन् । स्वरूपमाग्नेयं रूपमास्थायाश्रित्य। अथ स्वरूपाश्रयणानन्तरम् । वलन्नुद्भवन् कम्पो यथा तथा कृतो बद्धोऽञ्जलिर्येन । तथा नितरां प्रवेपमानः कम्पमानश्च सन् । स्मरारि शिवं व्यक्तं स्फुटमिदं वक्ष्य- माणं वचोऽध्युवाचोक्तवान् । 'दुह्याच्-' (वा० १०९०-१०९५) इत्यादिना ब्रुवो द्विकर्मकत्वम् ॥ ६ ॥

 असि त्वमेको जगतामधीशः स्वर्गौकसां त्वं विपदो निहंसि ।
 ६ततः सुरेन्द्रप्रमुखाः प्रभो! त्वामुपासते दैत्यवरैर्विधूताः ॥७॥

 असीति ॥ हे प्रभो ! त्वमेको जगतामधीशोऽसि, त्वत्सदृशो जगतां पालयिता न कोऽप्यन्योऽस्तीत्यर्थः । अत एव स्वर्गौकसामिन्द्रादीनां विपदस्त्वं निहंसि दूरी- करोषि । ततः कारणात्सुरेन्द्रप्रमुखा देवास्त्वामुपासते । यतो दैत्यवरैर्विधूतास्तिर- स्कृताः ॥७॥

 त्वया प्रियाप्रेमवशंवदेन शतं व्यतीये ७सुरतादृतूनाम् ।
 ८रह:स्थितेन ९त्वदवीक्षणार्तो दैन्यं परं प्राप सुरैः सुरेन्द्रः॥८॥

 त्वयेति ॥ हे प्रभो ! प्रियायाः पार्वत्याः प्रेम्णा हेतुना वशंवदेन वशीभूतेन । 'प्रियवशे वदः खच्' (पा. ३|२|३८) इति खच् । 'अरुढिषत्-' (पा.६।३।६७) इत्यादिना मुम् । तेन त्वया रहःस्थितेन सता सुरताद्धेतोर्ऋतूनां शतं व्यतीये व्यतीतम् । इणः कर्मणि लिट् । अथ च सुरेन्द्रस्त्वदवीक्षणेन तवानवलोकनेनार्तः पीडितः सन् सुरैः सह परमत्यन्तं दैन्यं प्राप, त्वद्विरहासहत्वादिति भावः ॥ ८॥

 त्वदीयसेवावसरप्रतीक्षैरभ्यर्थितः शक्रमुखैः सुरैस्त्वाम् ।
 उपागतोऽन्वेष्टुमहं विहंगरूपेण विद्वन् ! समयोचितेन ॥९॥

 त्वदीयेति ॥ हे विद्वन् ! त्वदीया त्वत्कर्मिका या सेवा तस्या अवसरस्य प्रतीक्षा येषां तैः शक्रमुखैरिन्द्रादिभिः सुरैरभ्यर्थितोऽहं त्वामन्वेष्टुं मृगयितुं समयोचितेन विहंगरूपेण पारावतरूपेण । 'जिह्वेति यन्नैव कुतोऽपि तिर्यक्कश्चित्तिरश्व- स्वपते न तेन' इति (नैषधीय० ३।४३) श्रीहर्षोक्तेरिति भावः। उपागतोऽस्मि ॥९॥

 इति प्रभो! चेतसि संप्रधार्य १तन्नोऽपराधं भगवन्क्षमस्व ।
 पराभिभूता वद किं क्षमन्ते कालातिपातं शरणार्थिनोऽमी॥१०॥

 इतीति ॥ हे प्रभो हे भगवन् ! तत्तस्मात्कारणात् । इति चेतसि संप्रधार्य संविचार्य नोऽस्माकमपराधं क्षमस्व । असमय इन्द्रप्रेरितस्य तवापराधः कथं सोढव्य इति चेत्तत्राह-परेति । परैरभिभूता पराभिभूता अत एव शरणार्थिनो रक्षितारं याचमानाः । 'शरणं गृहरक्षित्रोः' इत्यमरः । अमी इन्द्रादयः कालातिपातं काल- विलम्बं किं कथं क्षमन्ते ? आर्तैः कालविलम्बो न सह्यत इति भावः। 'प्रतीक्षते जातु न कालमार्तः' इति न्यायात् । वद, कथयेत्यर्थः ॥ १० ॥

 प्रभो! प्रसीदाशु२ ३सृजात्मपुत्रं यं प्राप्य सेनान्यमसौ सुरेन्द्रः।
 ४स्वर्लोकलक्ष्मीप्रभुतामवाप्य५ जगत्त्रयं पाति तव प्रसादात् ॥११॥

 प्रभो इति ॥ हे प्रभो ! प्रसीद प्रसन्नो भव । आत्मपुत्रमाशु सृज । यमात्म- पुत्रं सेनान्यं प्राप्यासौ सुरेन्द्रस्तव प्रसादात्स्वर्लोकलक्ष्म्याः प्रभुतामवाप्य जगत्त्रयं पाति रक्षिष्यति। 'वर्तमानसामीप्ये वर्तमानवद्वा' (पा. ३।३।१३१) इति लट् ॥११॥

 स शंकरस्तामिति जातवेदोविज्ञापनामर्थवतीं निशम्य ।
 अभूत्प्रसन्नः परितोषयन्ति गीर्भिगिरीशा रुचिराभिरीशम् १२

 स इति ॥ स शंकर इतीत्येवंभूतामर्थवतीं सार्थकाम् , योग्यामिति यावत् । तां जातवेदसोऽग्नेर्विज्ञापनां प्रार्थनां निशम्य श्रुत्वा प्रसन्नोऽभूत् । तथा हि-गिरीशा वाग्मिनः पुरुषा रुचिराभिर्गीर्भिरीशं स्वामिनं परितोषयन्ति, प्रसादयन्तीत्यर्थः १२

 प्रसन्नचेता मदनान्तकारः स तारकारेर्जयिनो भवाय ।
 शक्रस्य सेनाधिपतेर्जयाय व्यचिन्तयच्चेतसि भावि किंचित १३

 प्रसन्नेति ॥ प्रसन्नचेताः स मदनान्तकारो हरो जयिनो जयशीलस्य तथा

पाठा०-१ मम. २ अथ. ३ सृजाशु पुत्रम् ; सृजस्व पुत्रम्. ४ स्वर्गैक- लक्ष्मी. ५ उपेत्य. ६ मदनान्तकारी... जयाय शत्रुपराजयार्थं शक्रस्य सेनाधिपतेस्तारकारेस्तारकशत्रोः, अपत्यस्येत्यर्थः । भवाय जन्मने, तत्कर्तुमित्यर्थः । भावि भविष्यत्किंचिच्चेतसि व्यचिन्तयत्, विच- चारेत्यर्थः ॥ १३॥

 युगान्तकालानिमिवाविषयं परिच्युतं मन्मथरङ्गभङ्गात् ।
 रतान्तरेतः स हिरण्यरेतस्यथोर्ध्वरेतास्तदमोघमाधात् ॥१४॥

 युगान्तेति ॥ अथ स शिवः, युगान्तकालस्याग्निमिवाविषह्यं सोदुमशक्यं मन्मथरङ्गस्य कामक्रीडाया भङ्गाद्धेतोः परिच्युतं भ्रष्टं तथाऽमोघं सफलं तत्प्रसिद्धं रतान्तस्य सुरतान्तस्य रेतो वीर्यं हिरण्यरेतसि वह्नावाधान्निदधे। यत ऊर्ध्वरेताः, ऊर्ध्वगामिवीर्यं इत्यर्थः ॥ १४ ॥

 १अथोष्णबाष्पानिलपितान्तं विशुद्धमादर्शमिवात्मदेहम् ।
 बभार भूम्ना सहसा पुरारिरेतः २परिक्षेपकुवर्णमग्निः ॥ १५ ॥

 अथेति ॥ अथानन्तरमग्निर्विशुद्धमात्मदेहमुष्णबाष्पानिलेन मुखनिःश्वासेन दूषितं म्लानीकृतमन्तर्मध्यं यस्य तमादर्शमिव सहसा भूम्ना बाहुल्येन पुरारेः शिवसंबन्धिनो रेतसः परिक्षेपम्तेन कुवर्णं कुत्सितवर्णं बभार धृतवान् ॥ १५ ॥

 त्वं सर्वभक्षो भव भीमका कुष्ठाभिभूतोऽनल! धूमगर्भः ।
 इत्थं शशापाद्रिसुता हुताशं ३रुष्टा रतानन्दसुखस्य भङ्गात् ॥ १६ ॥

 त्वमिति ॥ रतानन्दः सुरतानन्दस्तत्र यत् सुखं तस्य भङ्गादन्तरायाद्धेतो रुष्टाऽद्रिसुता पार्वती । हे अनल! त्वं सर्वं मेध्यममेध्यं वा भक्षति तथोक्तः । तथा भीमं भयानकं कर्म यस्य । तथा कुष्टेनाभिभूतः पराभूतः । तथा धूमो गर्भे मध्ये यस्य तथोक्तश्च भव । इत्थं हुताशमग्निं शशाप, शपति स्मेत्यर्थः । अत्र शीप्स्य- मानत्वाभावात् 'श्लाघह्नुङ्स्था-' (पा. १|४|३४ ) इति न संप्रदानत्वम् ॥ १६ ॥

 दक्षस्य शापेन शशी ४क्षयीव ५प्लुष्टो हिमेनेव सरोजकोशः।
 वहन्विरूपं वपुरुग्ररेतश्चयेन वह्निः किल निर्जगाम ॥ १७ ॥

 दक्षस्येति ॥ वह्निरग्निर्दक्षस्य शापेन द्वेतुना क्षयी क्षयरोगवाशशी चन्द्र

पाठा०-१ अथोष्मबाष्पानलदूषितान्तर् अत्युष्णबाष्पानिलदूषितान्तर्. २ परिक्षिप्तकुवर्णम् ; परिक्षेपविवर्णम्. ३ तथा. ४ क्षयाय. ५ पृष्टः. इव । तथा हिमेन शीतेन प्लुष्टो दग्धः । 'प्लुष दाहे' कर्मणि निष्ठा । सरोजकोश इव । वपुः स्वशरीरमुग्रस्य शिवस्य । 'उग्रः कपर्दी श्रीकण्ठः' इत्यमरः । रेतश्चयेन वीर्यसंघातेन । 'शुक्रं तेजोरेतसी च' इत्यमरः । हेतुभूतेन विरूपं भ्रष्टशोभ- मेतादृशं वहन्निर्जगाम संभोगवेश्मतो निःसृतवान् । 'किल' इति प्रसिद्धौ ॥ १७ ॥

 स १पावकालोकरुपा विलक्षां स्मरत्रपास्मेरविनम्रवक्राम् ।
 विनोदयामास २गिरीन्द्रपुत्रीं शृङ्गारग:मधुरैर्वचोभिः ॥१८॥

 स इति ॥ पावकस्य वढेरालोकेन या रुट् क्रोधस्तया हेतुना विलक्षां विरूपो विकृतिमापन्नो लक्षो लक्षणं चिह्नं शरीरशोभा यस्यास्ताम् । तथा स्मरत्रपाभ्यां कामलजाभ्यां स्मरं सस्मितं विनम्रं नतं च वक्रं यस्यास्तथोक्तां गिरीन्द्रपुत्रीं पार्वतीं स हरः शृङ्गारगर्भैरत एव मधुरैर्वचोभिर्विनोदयांमास, प्रसादितवानित्यर्थः ॥ १८ ॥

 हरो विकीर्णं घनघर्मतोयैर्नेत्राञ्जनाङ्कं ३हृदयप्रियायाः ।
 द्वितीयकौपीनचलाञ्चलेनाह४रन्मुखेन्दोरकलङ्किनोऽस्याः५।।१९।।

 हर इति ॥ हरो हृदयस्य प्रियाया अस्याः पार्वत्याः अकलङ्किनो मुखेन्दोः संबन्धिन तथा घनानि यानि धर्मतोयानि प्रस्वेदजलानि तैर्विकीर्णं व्याप्तं नेत्र- योरञ्जनमेवाङ्कः कलङ्कस्तं द्वितीयं यत् कौपीनं योगिनः स्कन्धलम्बि वस्त्रम् । 'कौपीनं स्यादधोवस्त्रं योगिनः स्कन्धलम्बि च' इति मेदिनी । तस्य चलं यदञ्चलं प्रान्तस्तेनाहरद्धृतवान् , अकलङ्कस्य कलाङ्कानौचित्यादिति भावः ॥ १९ ॥

 मन्देन ६खिन्नाङ्गुलिना ७करेण कम्प्रेण तस्या बदनारविन्दात् ।
 परामृशन् धर्मजलं जहार हरः ८सहेलं व्यजनानिलेन ॥२०॥

 मन्देनेति ॥ हरः शिवः । मन्देन लघुप्रचारेण । तथा खिन्ना अलसप्रयोगेणो- दासीना अङ्गुलयो यस्य तेन । तथा कम्प्रेण कम्पशीलेन । 'नमिकम्पिस्म्यजसकम्-' (पा. ३।२।१६७) इति रः । करेण कृत्वा तस्याः पार्वत्या बदनारविन्दाद्धर्मस्य, धर्मरूपं वा जलं परामृशन्विश्लेषयन्सहेलं सक्रीडं यथा तथा व्यजनस्यानिलेन कृत्वा जहार ॥२०॥

पाठा० . १ आलोकनतः. २ नगेन्द्र. ३ सदयं प्रियायाः. ४ हरन्. ५ अपि.

६ खिन्नाङ्गुलिना. ७ कम्पेन; प्रेम्णा च, ८ सलीलं.

 रतिश्लथं तत्कबरीकलापमंसावसक्तं विगलत्प्रसूनम् ।
 स पारिजातोद्भवपुष्पमय्या स्रजा बबन्धामृतमूर्तिमौलिः ॥२१॥

 रतिश्लथमिति ॥ अमृतमूर्तिश्चन्द्रो मौलौ यस्य स हरो देवः। रतौ श्लथं शिथिलबन्धनमत एवांसयोः स्कन्धयोरखसक्तं लग्नमत एव विगलन्त्यधःपातुकानि प्रसूनानि यस्य तं तस्याः कबरीकलापं कचभारं पारिजातोद्भवपुष्पमय्या पारिजातो- द्भवानि कल्पवृक्षजानि यानि पुष्पाणि तत्प्रचुरया स्रजा मालया बबन्ध । 'तत्प्रकृत- वचने-' (पा. ५।४।२१) इनि प्राचुर्ये मयट् । ततः 'टिड्डाणञ्-' (पा. ४।१।१५) इति ङीप् ॥ २१ ॥

 कपोलपाल्यां मृगनाभिचित्रपत्रावलीमिन्दुमुखः सुमुख्याः ।
 स्मरस्य सिद्धस्य जगद्विमोहमत्राक्षरश्रेणिमिवोल्लिलेख ।। २२।।

 कपोलपाल्यामिति ॥ इन्दुमुखो हरः सुमुख्याः पार्वत्याः संबन्धिन्यां कपोलपाल्यां मृगनाभ्याः कस्तूर्या या चित्रा पत्रावली पत्ररचना तां सिद्धस्य स्मरस्य कामस्य जगन्ति विमुह्यन्ति यैस्तेषां मन्त्राणां यान्यक्षराणि वर्णास्तेषां श्रेणिं पतिमिवोल्लिलेख लिखितवान् । अत्र पत्ररचनारूपे वस्तुन्यक्षरश्रेणिरूपणाद्वस्तू- प्रेक्षालंकारः ॥ २२ ॥

 रथस्य १कर्णावभि तन्मुखस्य ताटङ्कचक्रद्वितयं २न्यधात्सः ।
 जगज्जिगीषुर्विपमेषुरेष ध्रुवं यमारोहति पुष्पचापः ॥ २३ ॥

 रथस्येति ॥ स हरः। कर्णावभि कर्णसंमुखे तन्मुखस्य पार्वतीमुखरूपस्य स्थस्य संबन्धि ताटङ्करूपं चक्रद्वितयं चक्रद्वयं न्यधात् । यतो विषमेषुरेष पुष्पचापः कामो जगजिगीषुस्त्रिभुवनविजयेच्छुः सन् यमारोहनि । ध्रुवं निश्चितम् । मुखरूपिणं रथमारुह्य जगन्ति विजेतुमिच्छति काम इति भावः ॥ २३ ॥

 तस्याः स कण्ठे ३पिहितस्तनाग्रां न्यधत्त मुक्ताफलहारवल्लीम् ।
 या प्राप मेरुद्वितयस्य मूर्ध्नि स्थितस्य गाझौधयुगस्य लक्ष्मीम् २४

 तस्या इति ॥ स हरम्तस्याः कण्ठे। पिहिते स्वरप्रसारेणावृते स्तनाग्रे चूचुके

पाठा०-१ कर्णावलितं मुखस्य. २ व्यधात्, ३ अभिघनस्तनं याम् ; अभि- घनम्तनाग्रम्. ४ सा. यया तथोक्तां मुक्ताफलहार एव वल्ली तां न्यधत्त निदधे । या मुक्ताफलहारवल्ली मेरुद्वितयस्य मूर्ध्नि स्थितस्य गङ्गाया ओघयोः प्रवाहयोर्युगस्य लक्ष्मीं शोभां प्राप, तद्वच्छुशुभ इत्यर्थः । अभूतोपमा ॥ २४ ॥

 नखव्रणश्रेणिवरे१ बबन्ध नितम्बबिम्बे रशनाकलापम् ।
 २चलस्वचेतोमृगबन्धनाय मनोभुवः पाशमिव स्मरारिः ॥२५॥

 नखेति ॥ स्मरारिर्हरः नखव्रणश्रेणिभिरात्मप्रयुक्ताभिर्वरे मनोहरे तस्या नितम्बबिम्बे रशनाकलापम् । चलं स्वं चेत एव मृगस्तस्य बन्धनाय मनोभुवः संबन्धिनं पाशमिव बबन्ध, मनोभूरस्यात्मनश्चेतो मृगस्य रशनाकलापरूपजालेन बन्धनं करिष्यति, अतो हरः स्वयमेव तत्र तं निदधावित्यर्थः । न हि कामलुब्ध आत्मनीनं गणयतीति भावः ॥ २५ ॥

 भालेक्षणाग्नौ स्वयमञ्जनं स ३भङ्क्त्वा दृशोः साधु निवेश्य तस्याः ।
 नवोत्पलाक्ष्याः पुलकोपगूढे४ कण्टे ५विनीलेऽङ्गुलिमुञ्जघर्ष ॥२६॥

 भालेक्षणेति ॥ स हरो भाले यदीक्षणं नेत्रं तदेवाग्निः, दीपकरूप इत्यर्थः । तत्राञ्जनं स्वयं भङ्क्त्वा पातयित्वा । अथ च नवोत्पलाक्ष्यास्तस्याः पार्वत्या दृशोः साधु निवेश्य सम्यगञ्जयित्वा । अथ च पुलकै रोमाञ्चैरुपगूढे व्याप्ते विनीले श्यामले कण्टे, स्वीय इति शेषः । अङ्गुलिमुज्जघर्ष घृष्टवान् । यथान्योऽपि दीपकोपर्यङ्गुल्यैव कज्जलं पातयित्वा स्वस्त्रीनेत्रयोर्निवेश्य कुत्रचिदङ्गुलिमुद्धर्षति तद्वत् , अङ्गुलिलग्नकज्जलनिवारणार्थमिति भावः । स्वभावोक्तिरलंकारः ॥ २६ ॥

 अलक्तकं पादसरोरुहाग्रे सरोरुहाक्ष्याः किल संनिवेश्य ।
 स्वमौलिगङ्गासलिलेन हस्तारुणत्वमक्षालयदिन्दुचूडः६ ।। २७ ।।

 अलक्तकमिति ॥ इन्दुचूडो हरः सरोरुहाक्ष्याः पार्वत्या पादसरोरुहाग्रेऽल- क्तकं संनिवेश्यानुलिप्य, करेणेति शेषः । स्वस्य मौलौ यद्गङ्गासलिलं तेन कृत्वा हस्तस्यारुणत्वमक्षालयन् ममार्ज ॥ २७ ॥

 भस्मानुलिप्ते वपुषि स्वकीये सहेलमादर्शतलं विमृज्य ।
 नेपथ्यलक्ष्म्याः७ परिभावनार्थमदर्शयञ्जीवितवल्लभां सः ॥२८॥

पाठा०-१ श्रेणिकरे. २ चलत्. ३ न्यक्त्वा. ४ उपगूढः, ५विनी- लाङ्गुलिम्. ६ इन्दुमौलिः. ७ लक्ष्मी.  भस्मेति ॥ स हरः । आदर्शतलं भस्मनानुलिप्ते स्वकीये वपुषि विमृज्य शुद्धं कृत्वा नेपथ्यानामाकल्पवेषाणां लक्ष्म्याः शोभायाः परिभावनार्थमवलोकनार्थ सहेलं यथा तथा जीवितवल्लभां प्रियामदर्शयत् ॥ २८ ॥

 प्रियेण दत्ते मणिदर्पणे सा संभोगचिह्नं स्ववपुर्विभाव्य ।
 त्रपावती तत्र घनानुरागं रोमाञ्चदम्भेन बहिर्बभार ॥ २९ ।।

 प्रियेणेति ॥ प्रियेण हरेण दत्ते मणीनां दर्पण आदर्श संभोगस्य चिह्नानि नखक्षतादीनि यत्र तथोक्तं स्वं वपुर्विभाव्यावलोक्य । भावनाऽत्र विलोकनपरिणता ज्ञेया । त्रपावती सलज्जा, ‘एतानि चिह्नानि विलोक्यान्यः किं वदिष्यति' इति विचारजनितया लज्जयान्धेत्यर्थः । सा पार्वती तन हरे घनमनुरागं प्रेम रोमाञ्चानां दम्भेन कैतवेन बहिर्बहिःस्थितत्ववैशिष्ट्यपूर्वकं बभार धृतवती । अन्तरस्या योऽनु- रागोऽभूत स एव बही रोमाञ्चत्वेन परिणत इति भावः ॥ २९ ॥

 नेपथ्यलक्ष्मीं दयितोपक्लृप्तां सम्मेरमादर्शतले विलोक्य ।
 अमंस्त सौभाग्यवतीषु धुर्यामात्मानमुद्धूतविलक्षभावा ॥३०॥

 नेपथ्येति ॥ सा पार्वती । आदर्शतले दयितेन हरेणोपक्लृप्तां रचितां नेपथ्य- लक्ष्मीमाभूषणमण्डनं सस्मेरं सस्मितम् । अत्र स्मितस्यानुरागव्यञ्जकत्वम् । यथा तथा विलोक्योद्धृतस्त्यक्तो विलक्षभावः पूर्वसंजातवैलक्ष्यं यया, प्रसन्नेत्यर्थः । तथोक्ता सती। आत्मानं सौभाग्यवतीषु सतीषु मध्ये धुर्यामग्रगण्याममंस्त मेने, प्रियकृतनेपथ्यलक्ष्म्या अन्यदुर्लभत्वादिति भावः ॥ ३० ॥

 अन्तः प्रविश्यावसरेऽथ तत्र स्निग्धे वयस्ये विजया जया च ।
 सुसंपदोपाचरतां कलानामङ्के स्थितां तां शशिखण्डमौलेः ॥३१॥

 अन्तरिति ॥ अथानन्तरं तत्रावसरे समये विजया जया चेत्युभे स्निग्धे सार्द्रचित्ते वयस्ये सख् । 'आलिः सखी वयस्या च' इत्यमरः । अन्तः प्रविश्य तत्र शशिनः खण्डं मौलौ यस्य तथोक्तस्य हरस्य संबन्धिन्यङ्के स्थितां तां पार्वतीं कलानां भूषणकरणचातुरीविशेषाणां सुसंपदा शोभनया संपदा, शोभयेत्यर्थः ।

पाठा०-१ च. २ संयोगचिह्नम्. ३ विलक्षता सा; विलक्षभावम्. ४ उमां तदो- पाचरतां कलानाम् ; स्वसम्पदोपाचरतां कलानाम्. ५ दूरे स्थिताम ; अङ्कस्थिताम. उपाचरताम् , अलंचक्रतुरित्यर्थः । उपाचरतामिति लङः प्रथमपुरुषस्य द्विव- चनम् ॥ ३३ ॥

 व्यधुर्बहिर्मङ्गलगानमुच्चैवैतालिकाश्चित्रचरित्रचारु ।
 जगुश्च गन्धर्वगणाः सशङ्खखनं प्रमोदाय पिनाकपाणेः ॥३२॥

 व्यधुरिति ॥ बहिःप्रदेशे वैतालिका बन्दिनश्चित्रेण चरित्रेण चारु मनोहरं मङ्गलरूपं गानम् , गीतमित्यर्थः । उच्चैरुच्चस्वरेण व्यधुश्चक्रुः । तथा गन्धर्वगणाश्च पिनाकपाणेर्हरस्य प्रमोदायानन्दाय । 'प्रमोदामोदसंमदाः' इत्यमरः । सशङ्खस्वनं पाञ्चजन्यशब्दसहितं यथा तथा जगुः, गायन्ति स्मेत्यर्थः ॥ ३२ ॥

 ततः स्वसेवावसरे सुराणां गणांस्तदालोकनतत्पराणाम् ।
 द्वारि प्रविश्य प्रणतोऽथ नन्दी निवेदयामास कृताञ्जलिः सन् ॥३३॥

 तत इति ॥ ततोऽनन्तरं स्वस्य स्वकर्तृकायाः सेवाया अवसरे समये तस्य हरस्य यदालोकनं तत्र तत्पराणामासक्तानां सुराणां गणान्कर्मभृतान् । नन्दी कर्ता । प्रणतो नम्रीभूतः सन् द्वारि प्रविश्य, न त्वन्तरेवेत्यर्थः । कृताञ्जलिः सन् निवेदयामास, देवा भवदवलोकनसमुत्सुकाः सन्तीति हरं बोधयामासेत्यर्थः ॥३३॥

 महेश्वरो मानसराजहंसीं करे दधानस्तनयां हिमाद्रेः।
 संभोगलीलालयतः सहेलं हरो बहिस्तानभि निर्जगाम ॥३४॥

 महेश्वर इति ॥ महानीश्वरः समर्थो हरो मानसस्य मनोरूपस्य सरसो राजहंसी हिमाद्रेस्तनयां पार्वतीं करे दधानः सन् । संभोगलीलाया आलयतो मन्दिरात् । 'निकाय्यनिलयालयाः' इत्यमरः । बहिस्तान्सुरानभि सहेलं सलीलं यथा तथा निर्जगाम, निश्चक्रामेत्यर्थः ॥ ३४ ॥

 क्रमान्महेन्द्रप्रमुखाः प्रणेमुः शिरोनिबद्धाञ्जलयो महेशम ।
 प्रालेयशैलाधिपतेस्तनूजां देवीं च लोकत्रयमातरं ते ॥३५॥

 क्रमादिति ॥ महेन्द्रप्रमुखास्ते देवाः शिरःसु निबद्धा अञ्जलयो यैस्तथोक्ताः सन्तो महेशं हरम् । तथा प्रालेयो हिमानीरूपो यः शैलाधिपतिः पर्वतराजो हिमालयस्तस्य तनूजां कन्यां लोकत्रयस्य मातरं जननीं देवी पार्वतीं च क्रमात्प्रणेमुः, नमश्चक्रुरित्यर्थः । 'उपसर्गादसमासेऽपि' ( पा. ८।४।१४ ) इति णत्वम् ॥ ३५ ॥

 यथागतं तान्विबुधान्विसृज्य प्रसाध मानक्रियया प्रतस्थे ।
 स नन्दिना दत्तभुजोऽधिरुह्य वृपं वृषाङ्कः सह शैलपुत्र्या॥३६॥

 यथागतमिति ॥ स वृषाङ्को हरस्तान्विबुधानिन्द्रादीन्मानक्रियया, संमान- विधानेमेत्यर्थः । प्रसाद्य प्रसन्नान्कृत्वा । तथा यथागतं विसृज्य च । नन्दिना दत्तो भुजो यस्मै तथोक्तः सन् । शैलपुत्र्या पार्वत्या सह वृषमधिरुह्यास्थाय प्रतस्थे । 'समवप्रविभ्यः स्थः' (पा. १|३।२३) इत्यात्मनेपदम् । 'साकं सार्धं समं सह' इत्यमरः ॥ ३६॥

 मनोतिवेगेन ककुद्मता स प्रतिष्ठमानो गंगनाध्वगोऽन्तः ।
 वैमानिकैः साञ्जलिभिर्ववन्दे विहारहेलागतिभिर्गिरीशः॥३७॥

 मन इति ॥ मनसोऽप्यत्यन्तं वेगो गनिर्जवो यस्य तेन ककुद्मता वृषेण गगन- रूपिणोऽध्वनो मार्गस्यान्तर्मध्ये प्रतिष्ठते चलतीति प्रतिष्टमानः स गिरीशो हरो विहारार्यं हेलया क्रीडया गतिर्येषां तैः, यदृच्छया संचरमाणैरित्यर्थः । वैमानिकैर्वि- मानैश्चरन्तीति वैमानिकाः । 'चरनि' (पा. ४|४|८ ) इनि ठक् । 'ठस्येकः' (पा. ७।३।५० ) इनीकादेशः । 'किङ्नि च' (पा. १९१५) इत्यादिवृद्धिः । तथोक्तैः, देवैरित्यर्थः । साञ्जलिभिः सद्भिर्ववन्दे नमस्कृतः । कर्मणि लिट् ॥ ३७ ।।

 वाहिनीवारिविहारचारी रतान्तनारीश्रमशान्तिकारी।
 तौ पारिजातप्रसवप्रसङ्गो मरुत्सिषेवे गिरिजागिरीशौ॥३८॥

 स्वर्वाहिनीति ॥ तौ गिरिजागिरीशौ गौरीहरौ, कर्मभूतावित्यर्थः । स्वर्वा- हिन्या मन्दाकिन्याः संबन्धिनि वारिणि विहारं संचारं चरत्याचरति । करोतीति यावत् , मन्दाकिनीशीकरवाहीत्यर्थः । अनेन शैत्योक्तिः । तथा रतान्ते यो नारीणां संबन्धी श्रमः खेदस्तस्य शान्तिं करोति । अनेन मान्द्योक्तिः । तथा पारिजातस्य कल्पवृक्षस्य संबन्धिनां प्रसवानां पुष्पाणां प्रसङ्गः संबन्धो यस्य । अनेन सौग- न्ध्योक्तिः । शैत्य-मान्द्य सौगन्ध्यरूपगुणत्रयविशिष्टो मरुत् समीरणः, कर्तृभूत इत्यर्थः । सिषेचे, आराधयामासेत्यर्थः ॥ ३८ ॥

पाटा०-१ प्रसादमानक्रियया; प्रसाद्यमानः प्रियया. २ गगनाध्वनीनः.

 पिनाकिनापि स्फटिकाचलेन्द्रः कैलासनामा कलिताम्बरांशः।
 धृतार्धसोमोऽद्भुतभोगिभोगो विभूतिधारी स्व इव प्रपेदे ॥ ३९ ॥

 पिनाकिनेति ॥ पिनाकिनापि हरेणापि कलितः स्वमहत्त्वेनावृतोऽम्बरांश आकाशप्रान्तदशो येन तथोक्तः । द्वितीयपक्षे कलिता वेष्टिता अंबरस्यांशा दिग्रृपा येन, दिगम्बर इत्यर्थः । तथा अर्धो यः सोमश्चन्द्रः सोऽम्याम्तीत्यर्धसोमो हरः स धृतो येन, कैलासवामी हि भगवानिगरीश इति भावः । द्वितीयपले धृतोऽर्धः कलारूपश्चन्द्रो येन । चन्द्रशेखरो हि भावानिगरीश इति भावः । भोगिन्यश्च भोगिनश्च भोगिनः । 'पुमान्स्त्रिया' (पा. १|२|६७) इत्येकशेषः। भोगिनः कामुका इत्यर्थः । तेषां तत्कर्तृको यो भोगः संभोगः सोऽद्भुत आश्चर्यकारी यत्र । द्वितीयपक्षेऽद्भुता भोगिनां सर्पाणां भोगा दहा यत्र, सर्पभूषणो हि भगवानिति भावः । तथा विभूतिं धरतीति विभूतिधारी, संपद्वानित्यर्थः । द्वितीयपक्षे विभूतिं भस्म धरतीति तथा, भस्मोद्धृलनकारी भगवान्गिरीश इति भावः । तथा कैलासनामा स्फटिकानामचलेन्द्रो गिरीन्द्रः, कर्मभूत इत्यर्थः । स्व इवान्मेव प्रपेदे प्राप्तः कर्मणि लिट् । पूर्णोपमालंकारः ॥ ३९ ॥

 विलोक्य यत्र स्फटिकस्य भित्तौ सिद्धाङ्गनाः खं प्रतिबिम्बमारात् ।
 भ्रान्त्या परस्या विमुखीभवन्ति प्रियेषु मानग्रहिला नमत्सु ॥४०॥

 विलोक्येति ॥ यत्र कैलासे स्फटिकस्य भित्तौ । आरात्समीपम् । 'आराद्दर- समीपयोः' इत्यमरः । पतितं स्वं स्वकीयं प्रतिबिम्बं विलोक्य परस्याः सपत्न्या भ्रान्त्या भ्रमेण मानग्रहिला माने प्रणयकलहे ग्रहिला आग्रहवत्यः । तुन्दादेराकृति- गणत्वाश्रयणादिलच् । सिद्धाङ्गनाः प्रियेषु नमत्स्वपि सत्सु विमुखीभवन्ति, परा- ङ्मुख्यो भवन्तीत्यर्थः ॥ ४० ॥

 सुबिम्बितस्य स्फटिकांशुगुप्तेश्चन्द्रस्य चिह्नप्रकरः करोति ।
 गौर्यार्पितस्येव रसेन यत्र कस्तूरिकायाः शकलस्य लीलाम् ॥४१॥

 सुविम्बितस्येति ॥ यत्र स्फटिकाचलेन्द्रे सुबिम्बितस्य प्रतिबिम्बितस्यात

पाठा०-१ मृतभोगिभोगः. २ स्वप्रतिबिम्बम्. ३ परस्याभिमुखीभवन्ति. ४ मनस्सु. ५ कस्तरिकास्थासकला एव स्फटिकांशुभिः, शुभैरित्यर्थः । गुप्तिः प्रतिबिम्बगोपनं यस्य, उभयोः शुक्ल- त्वात्पृथगभासमानस्येत्यर्थः । तथोक्तस्य चन्द्रस्य संबन्धी चिह्नप्रकरः कलङ्कसंचयः। 'चिह्नं लक्ष्म च लक्षणम्' इत्यमरः । गौर्या पार्वत्याऽर्पितस्य निहितस्य कस्तूरि- कायाः शकलस्य खण्डस्य । संचय इवेत्युत्प्रेक्षा । लीलां क्रीडाम् , शोभामिति यावत् । करोति । निदर्शनाभेदः । स चोपमायोत्प्रेक्षया वा संकीर्यत इति संदेहसंक- रोऽत्रालंकारः । यदि गौर्यार्पितं तर्ह्युपमा, यदि नार्पितं तर्ह्युत्प्रेक्षेत्यवधेयम् ॥ ४१ ॥

 यदीयभित्तौ प्रतिबिम्बिताङ्गमात्मानमालोक्य रुषा करीन्द्राः ।
 मत्तान्यकुम्भिभ्रमतोऽतिभीमदन्ताभिघातव्यसनं वहन्ति ।। ४२ ॥

 यदीयेति ॥ करीन्द्रा आत्मानं शरीरम् , स्वीयमिति शेषः । यदीयभित्तौ प्रतिबिम्बिताङ्गं प्रतिबिम्बितावयवमालोक्य विलोक्य मत्ता येऽन्ये कुम्भिनो दन्तिनम्तेषां भ्रमतो भ्रमाज्जनितया रुषा क्रोधेन । 'प्रतिधा रुट्क्रुधौ स्त्रियौ' इत्यमरः । अनिभीमा ये दन्तास्तेषां योऽभिघात आघातस्तेन यद्व्यसनं दुःखं दन्तजर्जरितत्वलक्षणं वहन्ति प्राप्नुवन्ति, भ्रमात्मकं ज्ञानं दुःखावहं भवतीति भावः॥ ४२ ॥

 निशासु यत्र प्रतिबिम्बितानि ताराकुलानि स्फटिकालयेषु ।
 दृष्ट्वा रतान्तच्युततारहारमुक्ताभ्रमं विभ्रति सिद्धवध्वः॥४३॥

 निशास्विति ॥ यत्र स्फटिकाचले स्फटिकालयेषु प्रतिबिम्बितानि तारा- कुलानि नक्षत्रकुलानि निशासु दृष्ट्वा सिद्धवध्वः किंनरनार्यो रतान्ते च्युतो भ्रष्ट- स्तारोऽत्युच्चैर्यो हारो मुकाहारः । 'तारोऽत्युच्चैस्त्रयस्त्रिषु' इत्यमरः । तस्य या मुक्ता मौक्तिकानि तासां भ्रमं बिभ्रति । स्फटिकालयप्रतिबिम्बितमुक्तासदृश- नक्षत्रकुलमभिवीक्ष्य सुरतान्तकालीनहारभ्रंशोन्मुक्ताफलभ्रान्तिमत्यः सिद्धवध्वो भवन्तीति भावः ॥ ४३॥

 नभश्चरीमण्डनदर्पणश्रीः सुधानिधिर्मूर्धनि यस्य तिष्ठन् ।
 अनर्घ्यचूडामणितामुपैति शैलाधिनाथस्य शिवालयस्य ॥४४॥

 नभश्चरीति ॥ नभसि चरतीति नभश्चरी, आकाशचारिणीत्यर्थः । 'चरेष्टः' (पा. ३|२|१६) इति टप्रत्यये टित्वात् 'टिड्डाणम्-' (पा. ४|१।१५) इति ङिप् ।


पाठा०-१ नाग. २ रतान्त. ३ शैलाधिराजस्य. तथोक्ता मण्डनस्य विलासस्य यो दर्पण आदर्शस्तस्य श्रीरिव श्रीर्यस्य तथोक्तः । अत्र 'श्री'शब्दस्य रूढत्वेन शोभेति संज्ञावाचकत्वात् 'संज्ञापूरण्योश्च' (पा. ३|३|:- ३८) इति पुंवद्भावो न । सुधानिधिश्चन्द्रो यस्य कैलासस्य मूर्धनि शृङ्गे तिष्ठन् । शिवालयस्य शिवाः कल्याणकारिण आलया गृहा यत्र तस्य । शैलानामधिनाथस्य पत्युर्हिमालयस्यानर्घ्यो यश्चूडामणिस्तत्तामुपैति । हिमालयशिग्वरस्य कैलासशिग्वरा- त्किंचिदधिकत्वम् । यदा कैलासमूर्धनि चन्द्रस्तदा हिमालयस्य मूर्ध्नोऽधः किंचि- द्वर्तत इति भावः ॥ ४४ ॥

 समीयिवांसो रहसि स्मरार्ता रिरंसवो यत्र सुराः प्रियाभिः ।
 एकाकिनोऽपि प्रतिबिम्बभाजो विभान्ति भूयोभिरिवान्विता स्वैः।।

 समीयिवांस इति ॥ यत्र सुराः स्मरार्ता अत एव रिरंसवो रन्तुमिच्छन्तः । रमतेः सन्नन्तात् ‘सनाशंसभिक्ष उः' ( पा. ३|२।१३८ ) इत्युप्रत्ययः । तथोक्ताः। अत एव प्रियाभिः सहैकाकिलोऽपि प्रत्येकमेकसंख्याका अपि रहसि समीयिवांसः प्राप्नुवन्तो भूयोभिः स्वैदेहैरन्विता इव विभान्ति । यतः प्रतिबिम्बभाजः प्रनि- बिम्बितवशादेक एवानेकधा दृश्यत इति युक्तमेवेति भावः ॥ ४५ ॥

 देवोऽपि गौया सह चन्द्रमौलिर्यदृच्छया' स्फाटिकशैलशृङ्गे ।
 शृङ्गारचेष्टाभिरनारताभिर्मनोहराभिर्व्यहरच्चिराय ।। ४६ ॥

 देवोऽपीति ॥ चन्द्रमौलिर्देवोऽपि हरोऽपि स्फाटिकशैलः कैलासस्तस्य शृङ्गे शिखरे । 'शृङ्गं प्रभुत्वे शिखरे' इति मेदिनी। गौर्या पार्वत्या सह यदृच्छया स्वेच्छया, यथाकाममित्यर्थः । मनोहराभिरत एवानारताभिर्निरन्तरं भवन्तीभिः शृङ्गारचेष्टाभिश्चिराय व्यहरद्विजहार ॥ ४६ ॥

 देवस्य तस्य स्मरसूदनस्य हस्तं समालिङ्ग्य सुविभ्रमश्रीः ।
 सा नन्दिना वेत्रभृतोपदिष्टमार्गा पुरोगेण कलं चचाल ॥४७॥

 देवस्येति ॥ सुविभ्रमश्रीः शोभना विभ्रमस्य विलासस्य श्रीर्यस्याः सा पार्वती । स्मरसूदनस्य स्मरविनाशकस्य तस्य देवस्य हरस्य हस्तं समालिङ्ग्य, अवलम्ब्येत्यर्थः । वेत्रभृता यष्टिधारकेण तथा पुरोगेणाग्रगामिना नन्दिना गणे-

पाठा०-१ दिशः. २ समालम्ब्य. ३ उपदिष्टं मार्गम. नोपदिष्टमार्गतो गमनं विधेयमिति प्रदर्शितमार्गा सती कलं मधुरं यथा तथा चचाल, मन्थरां गतिमकार्षीदित्यर्थः ॥ ४७ ॥

 चलच्छिखाग्रो विकटाङ्गभङ्गः सुदन्तुरः शुक्लसुतीक्ष्णतुण्डः ।
 भ्रुवोपदिष्टः स तु शङ्करेण तस्या विनोदाय ननर्त भृङ्गी ॥४८॥

 चलदिति ॥ चलन्ति शिखाग्राणि चूडाग्राणि यस्य । 'शिखा शाखा बर्हि- चूडालाङ्गलिक्यग्रमात्रके । चूडामात्रे शिखायां च ज्वालायां प्रपदेऽपि च ॥' इनि मेदिनी । तथा विकटाः कराला अङ्गभङ्गा नृत्यचेष्टाविशेषा यस्य । 'विकटो वज्रवाराह्यां त्रिषु रुचिरकालयोः' इति मेदिनी । तथा सुदन्तुर उन्नतः । 'दन्तुर- स्तून्नते त्रिषु ' इति मेदिनी । 'दन्त उन्नत उरच्' (पा. ५।२।१०६ ) इत्युरच्प्रत्ययः । शुक्लं शुभ्रं सुनीक्ष्णं सुतरां निग्मं तुण्डं मुखं यस्य । एतादृशः स प्रसिद्धो भृङ्गी गणविशेषस्तु तस्या भवान्या विनोदायानन्दाय शंकरेण भ्रुवोपदिष्टः प्रेरितः सन्ननर्न ॥ ४८॥

 कण्ठस्थलीलोलकपालमाला दंष्ट्राकरालाननमभ्यनृत्यत् ।
 प्रीतेन तेन प्रभुणा नियुक्ता काली कलत्रस्य मुदे प्रियस्य ॥४९॥

 कण्ठस्थलीति ॥ कण्ठस्य स्थल्यां लोला कपालानां नृकपालानां माला यस्याः । तथा दंष्ट्राभिः करालं भयानकमाननं बिभ्रती काली कालिका । 'काली तु कालिका क्षीरकीटेषु परिकीर्तिता' इनि मेदिनी । प्रियस्य कलवस्य पार्वत्या मुदे प्रीत्यै नेन प्रभुणा हरेण प्रीतेन सता नियुक्ता प्रेरिता सती । अभ्यनृत्यन्ननर्त। नृत्यतेर्देवादिकात्कर्तरि लङ् ॥ ४९ ॥

 भयङ्करौ तौ विकटं नदन्तौ विलोक्य बाला भयविह्वलाङ्गी ।
 सरागमुत्सङ्गमनङ्गशत्रोर्गाढं प्रसह्य स्वयमालिलिङ्ग ॥ ५० ॥

 भयङ्कराविति ॥ विकटं करालं यथा तथा नदन्तौ शब्दायमानौ अत एव भयङ्करौ तौ कालीभृङ्गिणौ विलोक्य भयेन विह्वलमङ्गं यस्याः सा बाला पार्वती प्रसह्य बलात्कारेण स्वयमात्मनैवानङ्गशत्रोर्हरस्योत्सङ्गं सरागं सानुरागं यथा तथा ।

पाठा०-१ चलद्विषाणः, २ सदन्तुरः. ३ शुष्क सुतीक्ष्णतुण्डः. ४ हि ५ प्रणुन्ना. ६ नटन्तौ. ७ सरंगम्. 'सरङ्गम्' इति पाठे भावे नलोपश्चिन्त्यः । गाढमालिलिङ्ग, अन्योऽपि भीनः सन् कंचिदालिङ्गति तद्वदिति भावः ॥ ५० ॥

 उत्तुङ्गपीनस्तनपिण्डपीडं ससंभ्रमं तत्परिरम्भमीशः ।
 प्रपद्य सद्यः पुलकोपगूढः स्मरेण रूढप्रमदो ममाद ॥५१॥

उत्तुङ्गेति ॥ ईशो हरो रूढोपर्यारूढा प्रमदा पार्वती यस्यात एवोत्तुङ्गमुच्चैः पीनं पुष्टं यत् स्तनपिण्ढम् , उभयोरतिस्थूलतया परस्परसंयुक्तत्वात्पिण्डीभूतमिति भावः । तेन कृत्वा पीडा यत्र । तथा ससंभ्रमं सभयं तस्यास्तत्कर्तृकं परिरम्भ- माश्लेषं प्रपद्य प्राप्य स्मरेण कामेन हेतुना सद्यः सहसा पुलकैरुपगूढः सन् ममाद मत्तो बभूव ॥ ५५ ॥

 इति गिरितनुजाविलासलीलाविविधविभंगिभिरेष तोषितः सन् ।
 अमृतकरशिरोमणिर्गिरीन्द्रे कृतवसतिर्वशिभिर्गणैर्ननन्द ।। ५२॥

इतीति ॥ गिरीन्द्रे कैलासे कृता वर्सातर्येन तथाऽमृतकरश्चन्द्रः शिरसि मणि- रिव यस्य स एष हर इत्येवंभूतैर्गिरितनुजायाः पार्वत्याः संबन्धिनी या विलास- लीला सकामचेष्टाक्रीडा तस्या विविधा नानाविधा या विभङ्ग्यो रचनास्ताभि- स्तोषितः प्रीतः सन् । वशिभिः स्ववशंगतैर्गणैर्नन्दिप्रभृतिभिः सह ननन्द जहर्ष । तेषां हर्षोऽनयोरलौकिकक्रीडादर्शनादिति भावोऽनुसंधेयः । पुष्पिताग्रा वृत्तम्-'अयुजि नयुगरेफतो यकारो युजि च नजौ जरगाश्च पुष्पिताग्रा' इति तल्लक्षणात् ॥ ५२ ॥

इति श्रीपर्वणीकरोपनामकश्रीलक्ष्मणभट्टात्मजसतीगर्भसंभवश्रीसीताराम-
कविविरचितया संजीविनीसमाख्यया व्याख्यया समेतः
श्रीकालिदासकृतौ कुमारसंभवे महाकाव्य
कैलासगमनो नाम नवमः सर्गः ।

पाठा०---१ पीठ. २ मुतया.

दशमः सर्गः ।


  आससाद सुनासीरं सदसि त्रिदशैः सह ।
  एष त्रयम्बकं तीव्रं वहन्वह्निर्महन्महः ॥१॥

 आससादेति ॥ एष वह्निः । तीव्रं दुःसहं महत्रैयम्बकं शैवम् । 'त्र्यम्बक'- शब्दात् इदमर्थकेऽणि 'न य्वाभ्याम्-' ( पा. ७|३|३ : इत्यैजादेशः । महो वीर्यं वहन् । त्रिदशैर्देवैः सह सदसि सभायां स्थितं सुनासीरं महेन्द्रमाससाद प्राप । 'वृद्धश्रवाः सुनासीरः' इत्यमरः ॥ ३ ॥

  सहस्रेण दृशामीशः कुत्सिताङ्गं च सादरम् ।
  दुर्दर्शनं ददर्शाग्निं धूम्रधूमितमण्डलम् ॥२॥

 सहेति ॥ कुत्सिताङ्गमत एव दुर्दर्शनं धूम्रं धूम्रवर्ण धूमितं संजातधूमम् । तारकादित्वादितच । मण्डलं यस्य तमग्निमीशो महेन्द्रो दृशां सहस्रेण सादरं यथा तथा ददर्श दृष्टवान् ॥ २ ॥

  दृष्ट्वा तथाविधं वह्निमिन्द्रः क्षुब्धेन चेतसा ।
  व्यचिन्तयच्चिरं किंचित्कन्दर्पद्वेपिरोपजम् ॥ ३ ॥

 दृष्ट्वेति ॥ इन्द्रो वह्निं नथाविधं दृष्ट्वा क्षुब्धेन संचलितेन चेतमा कन्दर्पद्वेषिणो हरस्य रोषाज्जातं किंचिदपराधलक्षणं चिरं व्यचिन्तयत् ॥ ३ ॥

  स विलक्ष्यमुखैर्देवैर्वीक्ष्यमाणः क्षणं क्षणम्
  उपाविशत्सुरेन्द्रेणादिष्टं सादरमासनम् ॥ ४ ॥

 स इति ॥ सोऽग्निर्विलक्ष्यमुखैर्म्लानमुखैर्देवैः क्षणं क्षणं प्रतिक्षणं वीक्ष्यमाणो दृश्यमानः सन् । सुरेन्द्रेण सादरमादिष्टमासनमुपाविशत् ॥ ४ ॥

  हव्यवाह ! त्वयासादि दुर्दशेयं दशा कुतः ? ।
  इति पृष्टः सुरेन्द्रेण स निःश्वस्य वचोऽवदत् ॥५॥

 हव्यवाहेति ॥ सोऽग्निः । हे हव्यवाह! त्वया दुर्दशेयं दशाऽवस्था कुतो

पाठा०-१ तच्च; मत्वा. २ द्युसदां सोऽतिसादरम् ; द्युसत्संसदि सादरम्. ३ धूमिल. ४ क्रुद्धेन. ५ स्रवज्जलमुखैः; सविलक्षमुखैः. ६ सुमहादुर्दशा; सुदुर्दर्शा दशा. हेतोरासादि प्रापि ? इति सुरेन्द्रेण पृष्टः सन्निःश्वस्य निःश्वासं कृत्वा वचो वक्ष्यमाणमवदत् ॥ ५॥

 अथ युग्मेनाह-

  अनतिक्रमणीयात्ते शासनात्सुरनायक ! ।
  पारावतं वपुः प्राप्य वेपमानोऽतिसाध्वसात् ॥ ६ ॥
  अभिगौरि रतासक्तं जगामाहं महेश्वरम् ।
  कालस्येव स्मरारातेः स्वं रूपमहमासदम् ॥ ७ ॥

 अनतीति ॥ अभिगौरीति ॥ हे सुरनायक! अहं पारावतं कपोतं वपुः प्राप्यानतिक्रमणीयादनल्लङ्घनीयात्ते तव शासनाद्धेतोरभिगौरि गौर्यामित्यभिगौरि । 'अव्ययं विभक्ति-' (पा. २|१।६) इत्यादिना विभक्त्यर्थेऽव्ययीभावः । रतासक्तं महेश्वरं जगाम प्राप । जगामेति लिट उत्तमपुरुषैकवचनम् । अथ चातिसाध्व- साद्वेपमानः कम्पमानोऽहं कालस्येव, तद्वद्भयानकस्येत्यर्थः । स्मरारातेर्हरस्य । पुर इति शेषः । स्वं रूपमाग्नेयं स्वरूपमासदं प्रापम् । लङ उत्तमपुरुषक- वचनम् ॥ ६-७ ॥

  दृष्ट्वा छद्मविहङ्गं मां सुज्ञो विज्ञाय जम्भभित् ।
  ज्वलद्भालानले होतुं कोपनो माममन्यत ॥ ८ ॥

 दृष्ट्वेति ॥ हे जम्भभिदिन्द्र ! सुज्ञो हरो मां दृष्ट्वा । अथ च छद्मना विहङ्गं विज्ञाय ज्ञात्वा । दर्शनमात्रादेव तु कापठ्यानवगम एव किंतु विलम्बोपस्थिततया । अतो ज्ञानदर्शनयोर्भिन्नकालीनत्वात्पृथग्व्यपदेशः । अतो ल्यब्द्वयस्य मनन- क्रियापेक्षया पूर्वत्वेनान्वयः । कोपनः क्रोधनः सन् । 'क्रुधमण्डार्थेभ्यश्च' (पा. ३।२।१५१ ) इति युच् । मां ज्वलति भालस्थेऽनलेऽग्नौ होतुं दग्धुममन्यत मेने । मननमत्र विचारणं तद्धवनफलकमिति भावः । अहमेनमग्नौ धक्ष्यामीति विचचारेत्यर्थः ॥ ८॥

पाठा०-१ अतिगौरी. २ उपान्तम्. ३ ज्ञानभृत् ; यज्ञभित्. ४ कोपतः.

५ अयममन्यत; मामलोकयत्.

  वचोभिर्मधुरैः सार्थैर्विनम्रेण मया स्तुतः ।
  प्रीतिमानभवद्देवः स्तोत्रं कस्य न तुष्टये ॥९॥

 वचोभिरिति ॥ मया विनम्रेण सता सार्थैः साभिप्रायार्थैरत एव मधुरैर्मनो- हरैर्वचोभिः करणैः । स्तुत ईडितो वो हरः प्रीतिमानभवत् , मदुपरि प्रससादेत्यर्थः । तथा हि ‌- स्तोत्रं स्तुतिः। 'स्तवः स्तोत्रं स्तुतिर्नुतिः' इत्यमरः । कस्य तुष्टये संतोषाय न भवति ? अपि तु सर्वस्यापीत्यर्थः । अत्र सामान्येन विशेष- समर्थनरूपोऽर्थान्तरन्यासोऽलंकारः ॥ ९ ॥

  शरण्यः सकलत्राता मामत्रायत शंकरः ।
  क्रोधाग्नेर्बलतो ग्रासात्त्रासतो दुर्निवारतः ॥ १० ॥

 शरण्य इति ॥ शरण्यः शरणे साधुः । 'तत्र साधुः' (पा. ४।४।९८ ) इति एव सकलत्राता सर्वेषां रक्षिता । एवंभूतः शंकरो हरो ज्वलतो दीप्यमानस्य दुर्निवारतो दुःखेन निवारयितुं शक्यस्य क्रोधाग्नेः क्रोधाग्निकर्तृकाद्ग्रासाद्यस्त्रासो भयं तस्मान्मामत्रायत ररक्ष । 'त्रैङ् पालने' लङ् ॥ १० ॥

  परिहृत्य परीरम्भरभसं दुहितुर्गिरेः ।
  कामकेलिरसोत्सेकाद्व्रीडया विरराम सः ॥ ११ ॥

 परिहृतेति ॥ स हरो गिरेर्दुहितुः पार्वत्याः संबन्धिनं परीरम्भरभसं परिहृत्योत्सृज्य व्रीडया हेतुभूतया कामस्य केले रसस्योत्सेकान्मानसस्यासक्तेविरराम विरतोऽभूत् । 'व्यापरिभ्यो रमः' ( पा. १।३।८३ ) इति परस्मैपदम् ॥ ११ ॥

  रङ्गभङ्गच्युतं रेतस्तदामोघं सुदुर्वहम् ।
  त्रिजगद्दाहकं सद्यो मद्विग्रहमधि न्यधात् ॥ १२ ॥

 रङ्गेति ॥ तदा स हरो रङ्गस्य कामकेलेर्भङ्गादन्तरायात् । अस्य हेतोः क्रोधाभिव्यञ्जकत्वे न दोषः । च्युतं पतितममोघं सफलं त्रिजगद्दाहकमत एव सुदुर्वहं सुतरां दुःखेन वोढुं शक्यं रेतः शुक्र मद्विग्रहमधि, मम शरीर इत्यर्थः । सद्यो

पाठा०-१ सान्त्वैः. २ ग्रासत्रासतः. ३ परिरम्भं रभसात्. ४ तदमोघम्. ५ सुदुर्धरम्. ६ अभिन्यधात्. न्यधात् । 'अधि मद्विग्रहम्' इति वक्तव्ये मद्विग्रहमधीत्युक्तं महाकवि- प्रयोगान्न दोषाय ॥ १२ ॥

  दुर्विषह्येण तेनाहं तेजसा दहनात्मना ।
  निर्दग्धमात्मनो देहं दुर्वहं वोढुमक्षमः ॥ १३ ॥

 दुर्विषेणेति ॥ दहनात्मनाग्निरूपेणात एव दुर्विषह्येण दुःखेन वोढुं शक्येन । 'शकिसहोश्च' (पा. ३।१|१९९ ) इति यत् । तेन तेजसा वीर्येण निर्दग्धमत एव दुर्वहमात्मनो देहं वोढुमहमक्षमोऽस्मि । यथाऽहं क्षमः स्यां तथैव त्वयाशु विधेयमिति व्यज्यते ॥ १३ ॥

  रौद्रेण दह्यमानस्य महसातिमहीयसा ।
  मम प्राणपरित्राणप्रगुणो भव वासव ! ।। १४ ।।

 रौद्रेणेति ॥ हे वासव इन्द्र ! अतिमहीयसा रौद्रेण शांभवेन महसा तेजसा दह्यमानस्य मम प्राणानां परित्राणेन प्रगुणो विख्यातो भव । मम प्राणत्राणे भवतो महद्यशो भविष्यतीति भावः ॥ १४ ॥

  इति श्रुत्वा वचो वह्नेः परितापोपशान्तये ।
  हेतुं विचिन्तयामास मनसा विबुधेश्वरः ॥ १५ ॥

 इतीति ॥ विबुधानामीश्वरो महेन्द्रो वह्नेरित्येवंभूतं वचः श्रुत्वा परिताप- स्योपशान्तये, अर्थात्तस्यैवेत्यर्थः । मनसा हेतुं निदानं विचिन्तयामास । कनोपाये- नास्य तापोपशान्तिर्भवेदिति विचारयामासेत्यर्थः ॥ १५॥

  तेजोदग्धानि गात्राणि पाणिनास्य परामृशन् ।
  किंचित्कृपीटयोनिं तं दिवस्पतिरभाषत ॥ १६ ॥

 तेज इति ॥ दिवस्पतिरिन्द्रम् कृपीटयोनिमग्निं कर्मभूतं तेजसा शांभवेन धाम्ना दग्धानि प्लुष्टान्यस्याग्नेर्गात्राणि पाणिना परामृशन्स्पृशन्सन् । किंचिद्वक्ष्य- माणमभाषतोवाच । भाषतेर्द्विकर्मकत्वं हि ब्रुञर्थनिबद्धत्वात् । 'अर्थबन्धनेयं संज्ञा' इति वार्तिकात् । 'कृपीटयोनिर्ज्वलनः' इत्यमरः । 'शतमन्युर्दिवस्पतिः' इति च ॥ १६ ॥  अथेन्द्रोऽग्निं सप्तभिः स्तौति-

  प्रीतः स्वाहास्वधाहन्तकारैः प्रीणयसे स्वयम् ।
  देवान्पितॄन्मनुष्यांस्त्वमेकस्तेषां मुखं यतः ॥ १७ ॥

 प्रीत इति ॥ भो अग्ने ! त्वं प्रीतः सन् । स्वाहाकारः स्वधाकारो हन्तकार एतैः शब्दैः कृत्वा होतृभिः प्रक्षिप्तेन, हविषेर्नि शेषः । देवानिन्द्रादीन्पितॄन्मनुष्यांश्च स्वयं प्रीणयसे प्रसादयसि । कथमेतान्प्रसादयामीत्याह- यत एक एव त्वं तेषां देवादीनां मुखमसि ॥ १७ ॥

  त्वयि जुह्वति होतारो हवींषि ध्वस्तकल्मषाः ।
  भुञ्जन्ति स्वर्गमेकस्त्वं स्वर्गप्राप्तौ हि कारणम् ॥ १८ ॥

 त्वयीति ॥ होतारो हवींषि त्वयि जुह्वति । अत एव ध्वस्तकल्मषाः स्रस्त- पापाः सन्तः स्वर्गं भुञ्जन्ति । हि यतस्त्वमेक एव स्वर्गप्राप्तौ कारणम् । 'ज्योति- ष्टोमेन स्वर्गकामो यजेत' इत्यादिश्रुत्युक्तयागफलस्वर्गप्राप्तौ यागस्य त्वदायत्ततया कारणत्वोक्तेरिति भावः ॥ १८ ॥

  हवींषि मन्त्रपूतानि हुताश ! त्वयि जुह्वतः ।
  तपस्विनस्तपःसिद्धिं यान्ति त्वं तपसां प्रभुः॥ १९ ॥

 हवींषीति ॥ भो हुताश ! तपस्विनो मन्त्रपूतानि हवींषि त्वयि जुह्वतः सन्तः । 'नाभ्यस्ताच्छतुः' (पा. ७।१।१८) इति नुम्निषेधः । तपःसिद्धिं यान्ति प्राप्नुवन्ति । यतस्त्वं तपसां प्रभुः ॥ १९ ॥

  निधत्से हुतमर्काय स पर्जन्योऽभिवर्षति ।
  ततोऽन्नानि प्रजास्तेभ्यस्तेनासि जगतः पिता ॥ २० ॥

 निधत्स इति ॥ भो अग्ने ! त्वमर्काय देवान्तःपातिने सूर्याय हुतं हविर्नि- धत्से निधानरूपतया दधासि । अतः सोऽर्कः पर्जन्यः सन्नभिवर्षति । ततो वर्ष- णादन्नान्युत्पद्यन्ते । तेभ्योऽन्नेभ्यः प्रजा जायन्ते । तेन कारणेन जगतः पितासि । पातीति पितेति व्युत्पत्या साधारणरक्षकस्यापि पितृत्वम् , न केवलं जनकस्यैवेति

पाठा०-१ भुञ्जते. २ तपसः. ३ नयसे. ४ प्रजा तेभ्यः, ! भावः । अत एवोक्तं नीतौ-'अन्नदाता भयत्राता यश्च कन्यां प्रयच्छति । जनिता चोपनेता च पञ्चैते पितरः स्मृताः ॥' इति ॥ २० ॥

  अन्तश्चरोऽसि भूतानां तानि त्वत्तो भवन्ति च ।
  ततो जीवितभूतस्त्वं जगतः प्राणदोऽसि च ॥ २१ ॥

 अन्तरिति ॥ भो अग्ने ! त्वं भूतानां प्राणिनामन्तश्चरोऽन्तर्व्याप्यसि । तानि भूतानि च त्वत्तो भवन्त्युत्पद्यन्ते । तत उभयकारणतस्त्वं जीवितानि प्राणितानि भूतानि येन तथोक्तो जगतः प्राणदश्चासि । अग्नेरन्तराधेयतयैव प्राणिनां जीवन- मतो जीवितभूतत्वम् । अग्नेरेव जगदुत्पादकतया प्राणदत्वं चाासिद्धम् । उत्तर- वाक्यद्वयस्य पूर्ववाक्यद्वयान्तर्गतत्वात्पृथक्त्वेन ग्रहणं व्यर्थमिति चेन्न । अन्तर्व्यापि- त्वजीवितभूतत्वयोः साहचर्यप्रयुक्तं न सामानाधिकरण्यम्। यस्य यत्र यत्रान्तर्भावित्वं तस्य तत्र तत्र जीवितभूतत्वमिति नियमाभावात् । न च वह्निसंबन्धावच्छिन्नत्वेन तयोः सामानाधिकरण्यमिति वाच्यम् । वह्निसंबन्धावच्छिन्नत्वमन्तर्व्याप्तेः, तप्तायःपिण्डे न तत्र जीवितभूतत्वम् । अतो वह्निसंबन्धावच्छिन्नत्वेनापि समानाधिकरणतानियमः कर्तुं न शक्यते, उत्पादकत्वप्राणदत्वयोः साहचर्यनियमाभावात् । कुलालस्य सत्यप्युत्पादकत्वे प्राणदत्वं नास्ति । घटमुत्पादयतोऽपि कुलालस्य न जीवनदातृत्वशक्तिरित्यलं विवादेन । अतिगहनोऽयं विवादः । 'जगतः' इति षष्ठी प्राणान्वयान्न तु दानान्वयात् । अन्यथा 'कर्मणा यमभिप्रैति स संप्रदानम्' (पा. १|१४॥३२) इति संप्रदानत्वाच्चतुर्थी प्रसन्नतेति । ननु जगत इत्यस्य प्राणान्वये केवलसंबन्धवाचकत्वेन तस्य नित्यसंप्रदानविवक्षा केन निरस्यते ? एवं च संप्रदानान्तरं मृग्यं स्यात् । अथवा जगत्संबन्धिनां प्राणानां दानं जगत्संप्रदान- कमेवेत्यर्थात्संप्रदानसिद्धिः ॥ २१ ॥

  जगतः सकलस्यास्य त्वमेकोऽस्युपकारकृत् ।
  कार्योपपादने तत्र त्वत्तोऽन्यः कः प्रगल्भते ? ॥ २२ ॥

 जगत इति ॥ भो अग्ने! त्वमेक एवास्य सकलस्य जगत उपकारकृद्धितकृदसि। अत एवास्माकं तत्र कार्योपपादने त्वत्तोऽन्यः । 'अन्यारात्-' (पा. २।३।२९) इति पञ्चमी । कः प्रगल्भते समर्थो भवेत् ? न कोऽपीत्यर्थः ॥ २२ ॥

पाठा०-१ अन्तश्चरसि. २ त्वद्बलवन्ति. ३ त्वत्तः. ४ जीवितभूयः. ५ तत.

  अमीषां सरसंघानां त्वमेकोऽर्थसमर्थने ।
  विपत्तिरपि संश्लाघ्योपकारव्रतिनोऽनल ! ॥ २३ ॥

 अमीषामिति ॥ भो अनल! अमीषां सुरसंघानां देवसमूहानामस्मदादी- नामर्थसमर्थने कार्यसाधने विषये त्वमेक एव समर्थोऽसि । एवंविधोऽप्यहं विपन्नः किं करोमीत्याह-विपत्तिरिति । उपकारेषु परहितेपु व्रतिनो नियमवतः पुरुषस्य विपत्तिरपि सम्यक् श्लाघ्या भवति । अतो विपन्नोऽपि स्तूयस इति भावः ॥ २३ ॥

 सप्रत्युपायमुपदिशति-

  देवी भागीरथी पूर्वं भक्त्यास्माभिः प्रतोषिता ।
  निमज्जतस्तवोदीर्णं तापं निर्वापयिष्यति ॥ २४ ॥

 देवीति । पूर्वमस्माभिर्भक्त्या प्रतोषिता भागीरथी देवी निमज्जतः स्नानं कुर्वतस्तवोदीर्णमत्युल्बणं तापं निर्वापयिष्यति, प्रशामयिष्यतीत्यर्थः ॥ २४ ॥

  गङ्गां तद्गच्छ मा कार्षीर्विलम्बं हव्यवाहन! ।
  कार्येष्ववश्यकार्येषु सिद्धये क्षिप्रकारिता ॥ २५ ॥

 गङ्गामिति ॥ भो हव्यवाहन ! तत्तस्माद्गङ्गां देवीं गच्छ याहि । विलम्बं मा कार्षीर्मा कुरु । 'न माङ्योगे' (पा. ६।४।७४ ) इत्यडागमनिषेधः । तथा हि- अवश्यकार्येष्ववश्यकर्तव्येषु कार्येषु सिद्धये क्षिप्रकारिताऽनलसितत्वम् , उचितेति शेषः । तस्मात्त्वया शीघ्रमेव गन्तव्यमिति भावः ॥ २५ ॥

 ननु शक्तेनापि मया दुर्वाह्यं शैवं तेजो गङ्गा कथं धरिप्यतीत्याशङ्क्याह-

  शंभोरम्भोमयी मूर्तिः सैव देवी सुरापगा ।
  त्वत्तः स्मरद्विषो बीजं दुर्धरं धारयिष्यति ॥ २६ ॥

 शंभोरिति ॥ भो अग्ने ! शंभोरम्भोमयी जलमयी मूर्तिर्देवी सा सुरापगैव गङ्गैव दुर्धरं स्मरद्विषो हरस्य बीजं तेजस्त्वत्त आदाय धारयिष्यति, धरिष्यती- त्यर्थः । 'शुक्रं तेजोरेतसी च बीजवीर्येन्द्रियाणि च' इत्यमरः ॥ २६ ॥

पाठा०-१ सुरसैन्यानाम्. विपदोऽपि पदं श्लाघ्योपकारयति नो हि सः; विपदोऽपि पदं श्लाघोपकारव्रतिनो हि सा. ३ विषादम्. ४ अर्थेष्ववश्यकार्येषु सिद्धये

क्षिप्रकारिता. ५ तत्र गत्वा च तद्वीजममोघं मुञ्च सुस्थिरम्.

  इत्युदीर्य सुनासीरो विरराम स चानलः ।
  तद्विसृष्टस्तमापृच्छ्यं प्रतस्थे खर्धुनीमभि ॥ २७ ॥

 इतीति ॥ इत्येवंभूतमुदीर्योक्त्वा सुनासीर इन्द्रो विरराम, तूष्णीं तस्था- वित्यर्थः । विररामेति 'व्याङ्परिरभ्यो रमः' (पा. १।३।८३ ) इति परस्मैपदम् । 'वृद्धश्रवाः सुनासीरः' इत्यमरः । सोऽनलश्चाग्निस्तु तद्विसृष्टस्तेन सुनासीरेण विसृष्टस्त्यक्तः, गन्तुमनुमत इत्यर्थः । तादृशः सन् । तमिन्द्रमापृच्छ्य 'अहं गच्छामि' इत्याज्ञामादाय स्वर्धुनीं गङ्गामभि प्रतस्थे प्रस्थितवान् ॥ २७ ॥</poem>}}

  हिरण्यरेतसा तेन देवी स्वर्गतरंगिणी ।
  तीर्णाध्वना प्रपेदे सा निःशेषक्लेशनाशिनी ॥ २८ ॥

 हिरण्येति ॥ तेन प्रस्थितेन तीर्णाध्वनाऽवगाहितमार्गेण हिरण्यरेतसा वह्निना निःशेषक्लेशनाशिनी निःशेषा ये केशाः पञ्च केशास्तेषां नाशिनी, मुक्तिदायिनीत्यर्थः । सा प्रसिद्धा स्वर्गतरङ्गिणी स्वर्णदी देवी प्रपेदे प्राप्ता । कर्मणि लिट् ॥२८॥

 अथ विभिस्तामेव विशिनष्टि-

  स्वर्गारोहणनिःश्रेणिर्मोक्षमार्गाधिदेवता ।
  उदारदुरितोद्गारहारिणी दुर्गतारणी ।। २९ ।।

 स्वर्गेति ॥ स्वर्गे यदारोहणं तस्य निःश्रेणिः सोपानपङ्क्तिः, अस्यां स्नानमात्रेणैव स्वर्गमारोहन्तीत्यर्थः । पुनश्च मोक्षमार्गस्य मुक्तिपथस्याधिदेवता, यां प्रसाद्य मुक्तिमाप्नुवन्तीत्यर्थः । पुनश्चोदाराणामुच्चैस्तराणां दुरितानां पापानामुद्गारस्य समू- हस्य हारिणी, विनाशिनीत्यर्थः । पुनश्च तरन्त्यनया सा तारणी । दुर्गस्य संसार- रूपस्य तारिणी, संसारार्णवमनया तरन्तीत्यर्थः । तारणीति णिजन्तात्तरतेः 'करणा- धिकरणयोश्च' (पा. ३,३,११७ ) इति करणे ल्युट् । ततः 'टिड्ढाणञ्-' (पा. ४|१|१५) इत्यादिना ङीप् । 'तारिणी' इति पाठे तारयति लोकान्सा तारिणी। दुर्गात्तारिणी । अत्र णिनौ कृते 'ऋन्नेभ्यः-' (पा. ४|१|५ ) इति ङीप् ॥ २९ ॥

  महेश्वरजटाजूटवासिनी पापनाशिनी ।
  सरागान्वयनिर्वाणकारिणी धर्मधारिणी ॥३०॥

पाठा०-१ आमन्त्र्य. २ अघविनाशिनी. ३ स्वर्ग. ४ सागरान्वय.  महेश्वरेति ॥ पुनश्च महेश्वरस्य जटाजूटे वासिनी वासवती पुनश्च पापना- शिनी। अत्रापि तारणीवत्प्रत्ययव्यवस्था। पुनश्च सरागस्य विषयलिप्सोरन्वयस्य वंशस्यापि निर्वाणकारिणी मोक्षकारिणी, किं पुनर्विमुक्तानामित्यर्थः । धर्मं धार- यतीति धर्मधारिणी । आत्मसंबन्धेन जन्तून्धर्मवतः कुर्वन्तीत्यर्थः ॥ ३० ॥

  विष्णुपादोदकोद्भूता ब्रह्मलोकादुपागता ।
  त्रिभिः स्रोतोभिरश्रान्तं पुनाना भुवनत्रयम् ॥ ३१ ॥

 विष्ण्विति ॥ पुनश्च विष्णुपादोदकादुद्भूतोत्पन्ना, विष्णुपादोदकमेवास्या जन्महेतुरित्यर्थः । विष्णुपादोदकमेवोद्भूतं प्रादुर्भूतं रूपं यस्याः सेति वा । पुनश्च ब्रह्मलोकादुपागतेहागता । पुनश्च त्रिभिः स्रोतोभिः प्रवाहैभुवनत्रयं स्वर्गमृत्यु- पाताललक्षणमश्रान्तं निष्परिश्रमं यथा भवति तथा पुनाना, पवित्रीकुर्वाणेत्यर्थः । अत एव त्रिस्रोता इति नाम दधातीत्यर्थः । 'पूञ् पवने' । शानच् श्नाप्रत्ययश्च ॥ ३१ ॥

  जातवेदसमायान्तमूर्मिहस्तैः समुत्थितः ।
  आजुहावार्थसिद्ध्यै तं सुप्रसादधरेव सा ॥ ३२ ॥

 जातवेदसमिति ॥ सुतरामतिशयिनो यः प्रसादस्तस्य धरा धारिणी सा गङ्गा । आयान्तमागच्छन्तं तं जातवेदसमग्निमर्थसिद्ध्या अर्थसिद्धिं कर्तुं समु- त्थितैरुच्चलितैर्मय एव हम्तस्तैः कृत्वा आजुहांवैव । अन्याऽपि हस्तसंकेतेन कंचिदाह्वयति । पुनः पुनरूर्मिसमुत्थानं तत्कर्तृकमाह्वानमिवेत्युत्प्रेक्षा । आङ्पूर्वात् ह्वयतेः कर्तरि लिट् ॥ ३२ ॥

  संमिलद्भिर्मरालैः सा कलं कूजद्भिरुन्मदैः ।
  ददे श्रेयांसि दुःखानि निहन्मीति तमभ्यधात् ॥ ३३॥

 संमिलद्भिरिति ॥ संमिलद्भिः सम्यङ्मिलन्त्येकीभवन्तीति तथोक्तैः । तथो- न्मदैरुन्मत्तैरत एव कलं मधुरं यथा भवति तथा कूजद्भिः शब्दायमानैर्मरालै- र्हंसैर्युक्ता सा देवी गङ्गा तमग्निमित्यभ्यधादुवाच । किमिति तत् ? भो अग्ने ! तुभ्यं श्रेयांसि ददे । दुःखानि निहन्मि । आत्मशक्त्याभिधाने जलरूपतयाऽशक्तापि स्वकीयतीरगतहंसनिनादेन वदति स्मेति भावः ॥ ३३ ॥

पाठा०-१पुनाति. २ समुच्छ्रितैः. ३ आजुहावास्य संसिद्ध्यै सुप्रसादादरेव सा.

  कल्लोलरुद्गतैरर्वाचीनं तटमभिद्रुतः ।
  प्रीतेव तमभीयाय स्वर्धुनी जातवेदसम् ॥ ३४ ॥

 कल्लोलैरिति ॥ स्वर्धुनी गङ्गा प्रीता सती। उद्गतैरानन्दादुद्वेलैस्त एवा- र्वाचीनमर्वाग्भवं तटमभिद्रुतैः पलायितैः कल्लोलैः कृत्वा तं जातवेदसमभीयायेव संमुखीबभूवेव ॥ ३४ ॥

  अथाभ्युपेतस्तापार्तो निममज्जानलः किल ।
  विपदा परिभूताः किं व्यवस्यन्ति विलम्बितुम् ।। ३५॥

 अथेति ॥ अथानन्तरं तापेन हरतेजोजन्मनार्तः पीडितोऽत एवाभ्युपेतः संमुखमुपागतोऽनलोऽग्निः । 'किल' इति प्रसिद्वौ । निममज्ज निमग्नोऽभूत् । ननु झटित्येव किं मग्न इत्यर्थान्तरं न्यस्यति-विपदापदा परिभूता जिताः पुरुषा विलम्बितुमापव्यतीकारविलम्बभविष्णुतां सोढुं किं व्यवस्यन्युद्युञ्जते ? अपि तु नेत्यर्थः । 'प्रतीक्षते जातु न कालमार्तिः' इति न्यायादिति भावः ॥ ३५ ॥

  गङ्गावारिणि कल्याणकारिणि श्रमहारिणि ।
  स मग्नो निर्वृतिं प्राप पुण्यभारिणि तारिणि ॥ ३६॥

 गङ्गेति ॥ सोऽग्निः कल्याणकारिण्यनेकमङ्गलविधायिनि श्रमहारिणि परि- श्रमहारके । पुण्यं भारयति जनैः संग्राहयति तस्मिन्पुण्यभारिणि । येन जनाः पुण्यभारवन्तो भवन्तीति भावः । तारिणि भवार्णवतारिणि गङ्गावारिणि गाङ्गेय- जले मग्नः स्नातः सन् निर्वृतिं सुखं प्राप, तापार्तानां वारिनिमज्जनमेव सुखैक- हेतुरिति भावः ॥ ३६ ॥

  तत्र माहेश्वरं धाम संचक्राम हविर्भुजः ।
  गङ्गायामुत्तरंगायामन्तस्तापविपद्धृति ॥ ३७ ॥

 तत्रेति ॥ माहेश्वरं शैवं धाम तेजो हविर्भुजोऽग्नेः सकाशात्तत्र गङ्गायां संचक्राम संक्रान्तम्, लग्नमिति यावत् । अत एव किंभूतायां गङ्गायाम् ? अन्तर्मध्ये ताप एव विपत् तां धरति तथोक्तायामत एवोल्ललिता अतिवेलास्तरंगाः

पाठा०-१ उपागतैः. २ प्रीत्येव. ३ अभ्युपेत्य. ४ परिभूतः. ५ व्यवस्यति. ६ पुण्यतारिणि. ७ इद्धभङ्गायाम्. ८ अन्तस्तापविपद्भृतः; अन्तस्तापभिदाभृति. कल्लोला यस्यास्तथोक्तायाम् । विशेषणद्वयार्थस्य पूर्ववाक्यानन्तरभावितया पृथग्वाक्यत्वेन व्यपदेशे कर्तव्ये विशेषणतया वाक्यात्पूर्वोत्पादनं यत्तत्पूज्यतया व्यवस्थितम् , न तु चित्तपरितोषाय । धामसंक्रमणात्प्राग्विपद्धरणासंभवात् । "धृतः' इति पञ्चम्यन्तपाठे हविर्भुजो विशेषणम् । उत्तरंगत्वेन जलप्रकृतिविलसितं च स्वीकर्तव्यम् ॥ ३७॥

  कृशानुरेतसो रेतस्यादृते सरिता तया ।
  निश्चक्राम ततः सौख्यं हव्यवाहो वहन्बहु ॥ ३८ ॥

 कृशान्विति ॥ तया सरिता गङ्गया कृशानुरेतसो हरस्य रेतसि धामनि । 'कृशानुरेताः सर्वज्ञः' इत्यमरः । आदृते, आदरपूर्वकं गृहीते सतीत्यर्थः । हव्य- वाहोऽग्निः । णिजन्तात्पचाद्यच् । बहु सौख्यं वहन्सन् । ततो गङ्गातो निश्चक्राम बहिर्निःसृतः ॥ ३८॥

  मुधासारैरिवाम्भोभिरभिषिक्तो हुताशनः ।
  यथागतं जगामाथ परां निर्वृतिमादधत् ॥ ३९ ॥

 सुधासारैरिति ॥ अथानन्तरम् । सुधासारैरिवामृतमयैरिवाम्भोभिर्जलैर- भिषिक्तः स्नातोऽत एव परामत्युत्कटां निर्वृतिं सुखमादधद्बिभ्रद्धुताशनोऽग्निर्यथा- गतमागतमनतिक्रम्य जगाम गतवान् ॥ ३९॥

  सा सुदुर्विषहं गङ्गा धाम कामजितो महत् ।
  आदधाना परीतापमवाप व्योमवाहिनी ॥ ४० ॥

 सेति ॥ व्योम्नि वाहः प्रवाहोऽस्ति यस्यास्तथोक्ता सा गङ्गा कामजितो महेश्वरस्य महत्सुदुर्विषहम् । 'ईषद्दुःसुपु-' (पा. ३।३।१२६ ) इति कृच्छ्रार्थे खल् । धाम तेज आदधाना सती परीतापं संतापम् । 'उपसर्गस्य घञ्यमनुष्ये बहुलम्' (पा. ६।३।१२२ ) इति दीर्घः । अवाप, प्राप्तवतीत्यर्थः ॥ ४० ॥

  बहिरार्ता युगान्ताग्नेस्तप्तानीव शिखाशतैः ।
  हित्वोष्णानि जलान्यस्या निर्जग्मुर्जलजन्तवः ॥४१॥

 बहिरिति ॥ जलजन्तवो यादांस्यार्ताः सन्तो युगान्ताग्नेः प्रलयकालीनान-

पाठा०-१ आहृते. २ उदारैः. ३ परिषिक्तः. ४ कामम्. ५ पयांसि. लस्य शिखाशतैः प्रकरणाच्छिवधाम्न एव तप्तान्यत एवोष्णान्यस्या गङ्गाया जलानि हित्वा परित्यज्य बहिर्निर्जग्मुः, निर्गतवन्त इत्यर्थः । यानि महेश्वरधाम- शिखाशतानि तान्यत्युग्रसंतापरूपसाधारणधर्मेण गम्यमानेन प्रलयकालानल- संबन्धीनीवेत्युत्प्रेक्षा । 'अर्चिर्हेतिः शिखा स्त्रियाम्' इत्यमरः । हित्वेति 'ओहाङ् स्यागे' इत्यस्य ॥ ४१॥

  तेजसा तेन रौद्रेण तप्तानि सलिलान्यपि ।
  समुदञ्चान्ति चण्डानि दुर्धराणि वभार सा ॥ ४२ ॥

 तेजसेति ॥ सा गङ्गा । रौद्रेण तेन तेजसा तप्तान्यत एव समुदञ्चन्ति, अतितापवशादुरप्लुत्य बहिर्निःसरन्तीत्यर्थः । अत एव चण्डानि प्रचण्डस्वरूपा- ण्यत एव दुर्धराण्यपि सलिलानि बभार धृतवती । तेजसो रुद्रसंबन्धित्वादिति भावः ॥ ४२ ॥

  जगच्चक्षुषि चण्डांशौ किंचिदभ्युदयोन्मुखे ।
  जग्मुः पट् कृत्तिका माघे मासि स्नातुं सुरापगाम् ॥४३॥

 जगदिति ॥ माघे माघसंज्ञकं मासि । ‘पद्दयोमास्-' (पा. ६।१।६३ ) इति मासशब्दस्य हलन्तमासादेशः । जगच्चक्षुषि जगन्नेत्रभूते चण्डांशौ सूर्ये किंचिदभ्यु- दयोन्मुखे । शैलान्तर्हितेन तेजसा दिशः किंचित्प्रकाशयतीत्यर्थः । षट् कृत्तिकाः स्नातुं सुरापगां मन्दाकिनीं जग्मुः प्रापुः ॥ ४३ ॥

 अथ चतुर्भिः सुरापगां विशिनष्टि-

  शुभ्रैरभ्रंकषैरूर्मिशतैः स्वर्गनिवासिनाम् ।
  कथयन्तीमिवालोकावगाहाचमनादिकम् ॥ ४४ ॥

 शुभ्रैरिति ॥ आलोको दर्शनमवगाहः स्नानमाचमनं चेत्यादीनि यस्य तादृशं कर्म कुर्वतां स्वर्गनिवासिनामभ्रंकषैरुत्प्लुत्याकाशस्पृग्भिः शुभ्रैरूर्मिशतैस्तरङ्गशतै- रात्मदुःखं कथयन्तीमिवेत्युत्प्रेक्षा । अस्मिन्श्लोके पदद्वयाध्याहारदोषः स्फुट एव । क्रियाकारकयोः परस्परनित्यसंबन्धादाक्षेपलक्षणन्यायेन केचित्समादधते । उत्प्लुतानि यानि तरङ्गशतानि तानि कथनसंज्ञानानीवेति भावः । यथान्योऽप्यात्म-

पाठा०-१ दुर्भराणि, २ स्वर्गमनं सताम्. ३ आचमनादिना. न्याधिहेतुकं कंचिददनीयं पदार्थं कंचिदपि पुरुषं दर्शयित्वास्वाद्य च तत्पदार्थ- दोषं कथयति तथेयमपीति बोद्धव्यम् । अभ्रंकषैरिति 'सर्वकूलाभ्रकरीषेषु-' (पा. ३|२|४२ ) इत्यभ्रोपपदकात्कषेः खश् ॥ ४४ ॥

  सुस्नातानां मुनीन्द्राणां बलिकर्मोचितैरलम् ।
  बहिः पुष्पोत्करैः कीर्णतीरां दूर्वाक्षतान्वितैः ॥४५॥

 सुस्नातानामिति ॥ सुस्नातानां मुनीन्द्राणां सप्तर्षीणां बलिकर्मणि पूजा- विधावुचितानि योग्यानि तैः । यथा दूर्वाभिरक्षतैश्चान्वितैर्युक्तैः पुष्पोत्करैः कुसुम- समूहैर्बहिः कीर्णतीरां व्याप्तसैकताम् । 'लाजाः पुं भूम्नि चाक्षताः' इत्यमरः । 'अलं'शब्दोऽत्रात्यर्थवाचकः । स च 'कीर्णतीराम्' इत्यतः प्रागन्वयितव्यः ॥४५॥

  ब्रह्मध्यानपरैर्योगपरैर्ब्रह्मासनस्थितैः ।
  योगनिद्रागतैर्योगपट्टबन्धैरुपाश्रिताम् ॥ ४६॥

 ब्रह्मेति ॥ ब्रह्मासने स्थितैः । तथा ब्रह्मणो ध्याने परैः सक्तैः । तथा योग एव निद्रा तां गतैः तथा योगपट्टस्य बन्धो बन्धनं येषां तैः, योगपट्टं बध्नद्भि- रित्यर्थः । एवंविधैर्योगपरैर्योगिभिरुपाश्रितां सेविताम् । “उभौ जानू ऊर्ध्वतमौ सकठ्युपसुवाससा । बद्धौ च कृत्वा सततं ध्यायेत्परमनन्यधीः ॥” इति योग- लक्षणम् ॥४६॥

  पादाङ्गुष्ठाग्रभूमिस्थैः सूर्यसंबद्धदृष्टिभिः ।
  ब्रह्मर्षिभिः परं ब्रह्म गृणद्भिरुपसेविताम् ॥ ४७ ॥

 पादेति ॥ पादसंबन्धिनोऽङ्गुष्टस्याग्रेणैव, न समग्रपादेनेत्यर्थः । भूमिस्थैः, पृथिव्यां स्थितैरित्यर्थः । तथा सूर्ये संबद्धदृष्टिभिरन्वितविलोचनैः । तथा परं ब्रह्म गृणद्भिर्जपद्भिर्ब्रह्मर्षिभिः सप्तर्षिभिरुपसेवितामुपाश्रिताम् ॥ ४७ ॥

  अथ दिव्या नदीं देवीमभ्यनन्दन्विलोक्य ताः ।
  कं नाभिनन्दयत्येषा दृष्टा पीयूषवाहिनी ॥४८॥

 अथेति ॥ अथानन्तरं ताः कृत्तिका दिव्यां स्वर्गीयां नदीं देवीं गङ्गां विलो-

पाठा०-१ ब्रह्मा. २ योगिवरैः. ३ पद्मासनः. ४ भोगिभोगबद्धैः; भोगिभोग- युक्तैः. ५ भूमिष्ठैः; भूयिष्ठैः. ६ संविष्ट. ७ देवीं धुनीम् ; दिव्यनदीम्. ८ देवी. लो० ०४५-५२] सुरसरिदवलोकनेन कृत्तिकानामानन्दः क्याभ्यनन्दन्, आनन्दिता बभूवुरित्यर्थः । एतद्युक्तमेवेत्याह-एषा पीयूष- वाहिनी गङ्गा दृष्टा दर्शनगोचरीभूता सती किं पुरुषं नाभिनन्दयति ? अपि तु सर्वमेवेत्यर्थः । 'किम्' इति पाठे किं कुतः कारणान्नाभिनन्दयति मोदयति? अपि तु मोदयत्येवेत्यर्थः । अत एतदालोकन आनन्दो युक्त इति भावः ॥ ४८ ॥ चन्द्रचूडामणिर्देवो यामुद्वहति मूर्धनि । यस्या विलोकनं पुण्यं श्रद्दधुस्तां मुदा हृदि ॥ ४९ ॥ चन्द्रेति ॥ चन्द्रश्चूडामणिभूतो यस्य स देवो हरो मूर्धनि यामुद्वहति । यस्या विलोकनं पुण्यं पुण्यकारि, तां गङ्गां हृदि मनसि मुदा प्रीत्या श्रद्दधुः, श्रद्धितां चक्रुरित्यर्थः । गुणवत्सु श्रद्धाया औचित्यादिति भावः ॥ ४९ ॥ दिव्यां विष्णुपदीं देवीं निर्वाणपददेशिनीम् । निर्धूतकल्मषां मूर्ध्ना सुप्रह्वास्ता ववन्दिरे ॥ ५० ॥ दिव्यामिति ॥ निर्वाणपदस्य मोक्षपदस्य देशिनीं दात्रीम् । तथा निर्धूत- कल्मषां दूरीकृतजनकिल्बिषां दिव्यां स्वर्गीयाम् । 'द्यूप्रायपायुदक्प्रतीचो यत्' (पा. ४।२।१०१ ) इनि दिवो यत् । विष्णोः पदीं चरणसंबन्धिनीम् । 'गङ्गा विष्णुपदी' इत्यमरः । देवीं गङ्गां ताः कृत्तिकाः सुतरां प्रह्वा नताः सत्यो मूर्ध्ना ववन्दिरे प्रणेमुः ॥ ५० ॥ सौभाग्यैः खलु सुप्रापां मोक्षप्रतिभुवं सतीम् । भक्त्यात्र तुष्टुवुस्तां ताः श्रद्दधाना दिवो धुनीम् ।। ५१ ।। सौभाग्यैरिति ॥ अत्र ताः कृत्तिकाः श्रद्दधानाः सत्यः सौभाग्यैः शोभन- भाग्यैः सुखेन प्राप्तुं शक्यां मोक्षस्य प्रतिभुवं लग्नकां सती पतिव्रतां तां दिवो धुनी गङ्गां भक्त्या निमित्तेन तुष्टुवुः । भक्तिनिमित्तं स्तवनमित्यर्थः ॥ ५१ ॥ मुक्तिस्त्रीसङ्गदूत्यज्ञैस्तत्र ता विमलैर्जलैः । प्रक्षालितमलाः सस्नुः सुस्नातास्तपसान्विताः ॥ ५२ ॥ पाठा०-१ तस्या विलोकनम् ; तस्यावलोकनम्. २ दिष्ट्या. ३ दर्शिनीम्. ४ निर्धू- तकल्मषाः. ५ भूत्वा. ६ ताम्. ७ खभाग्यैः. ८ संप्राप्ताम्. ९ सताम्. १० प्रतुष्टुवुः. ११ तास्तम्. १२ सिषेविरे. १३ दौत्यज्ञैः. १४ भाविमलैः. १५ तापसान्विताः.  मुक्तीति ॥ ताः कृत्तिका विमलैर्विगतमलैः। तथा मुक्तिर्मोक्षः सैव स्त्री तस्याः सङ्गः संबन्धः, प्राप्तिरिति यावत् । तत्र यद्दूत्यं दूतीभावः कर्म वा । तस्य ज्ञैः, ज्ञातृभिरित्यर्थः । येषां स्पर्शमात्रेण मुक्तिर्भवतीति भावः । तथाभूतैर्जलैः कृत्वा प्रक्षालितमला निवर्तितकल्मषाः सत्यस्तत्र गङ्गायां सस्नुः, स्नानं चक्रुरि- त्यर्थः । मलापकर्षस्नानानन्तरं शुद्धस्नानं क्रियत इति भावः । किंभूताः ? सुस्नाताः सु शोभनं विध्युक्तप्रकारकं स्नातं स्नानं यासां ताः। भावे निष्ठा । विध्युक्तप्रकारेण स्नानकर्त्र्य इत्यर्थः । पुनः किंभूताः ? तपसान्विताः, तपस्विन्य इत्यर्थः । 'ष्णा शौचे' कर्तरि लिट् ॥ ५२ ॥

  स्नात्वा तत्र सुलभ्यायां भाग्यैः परिपचेलिमैः ।
  चरितार्थं स्वमात्मानं वहु ता मेनिरे मुदा ।। ५३ ॥

 स्नात्वेति ॥ परिपचेलिमैः परिपक्वैः । 'तव्यत्तव्यानीयरः' (पा. ६।३।९६) इत्यत्र केलिमर उपसंख्यानात्पचतेः केलिमर् । भाग्यैर्दिष्टैर्निमित्तभूतैः सुलभ्यायां सुखेन लब्धुं शक्यायाम् । 'पोरदुपधात्' (पा. ३|१|९८ ) इति यत् । तथाभूतायां तत्र गङ्गायां स्नात्वा ताः कृत्तिकाः स्वं स्वकीयमात्मानं मुदा प्रीत्या बहु यथा तथा चरितार्थं पुरुषार्थकारिणं मेनिरेऽमन्यन्त । 'मनु अवबोधने' कर्तरि लट् ॥ ५३ ॥

  कृशानुरेतसो रेतस्तासामभिकलेवरम् ।
  अमोघं संचचाराथ सद्यो गङ्गावगाहनात् ॥ ५४ ॥

 कृशानुरेतस इति ॥ अथानन्तरं गङ्गावगाहनाद्धेतोरमोघं सफलं कृशानु- रेतसो हरस्य रेतो वीर्यं सद्यस्तत्कालं तासां कृत्तिकानामभिकलेवरं कलेवरे शरीर इत्यभिकलेवरम् , शरीरमध्य इत्यर्थः। संचचार संचक्राम, लग्नमिति यावत् । अत्र तृतीयायोगाभावात्समः परतोऽपि चरतेर्नात्मनेपदम् । 'समस्तृतीयायुक्तात्' (पा. १।३।५४ ) इति सौत्रनियमात् ॥ ५४ ॥

  रौद्रं सुदुर्धरं धाम दधाना दहनात्मकम् ।
  परितापमवापुस्ता मग्ना इव विषाम्बुधौ ॥ ५५ ॥

 रौद्रामिति ॥ दहनात्मकमग्निरूपमत एव सुतरां दुर्धरं दुःखेन धर्तुं शक्यं रौद्रं शैवं धाम तेजो दधानास्ताः कृत्तिका विषाम्बुधौ मग्ना इवेत्युत्प्रेक्षा । परिता-

पाठा० -१ सुरभ्यायाम्. २ बहुलाः. पमवापुः । विषाम्बुधिमग्नत्वे यादृशः परितापो भवति तादृशो रौद्रतेजोधारणे जात इति भावः ॥ ५५॥

  अक्षमा दुर्वहं वोढुमम्बुनो बहिरातुराः ।
  अग्निं ज्वलन्तमन्तस्ता दधाना इव निर्ययुः ॥ ५६ ॥

 अक्षमा इति ॥ दुर्वहं दुर्धरं तद्धाम वोढुमक्षमा अत एवातुरा व्याकुलास्ताः कृत्तिकाः । अन्तर्मध्ये ज्वलन्तमग्निमिव दधानाः सत्योऽम्बुनो जलाद्वहिर्निर्ययुः, निर्जग्मुरित्यर्थः । अत्र धामन्यग्नित्वेनोत्प्रेक्षणादुत्प्रेक्षा ॥ ५६ ॥

  अमोघं शांभवं बीजं सद्यो नद्योज्झितं महत् ।
  तासामभ्युदरं दीप्तं स्थितं गर्भत्वमागमत् ।। ५७ ॥

 अमोघमिति ॥ नद्या गङ्गया सद्य उज्झितमत एव तासां कृत्तिकाना- मभ्युदरं दीप्तं सत् स्थितममोघं सफलं महच्छांभवं बीजं गर्भत्वमागमत् , गर्भी- भूतमित्यर्थः ॥ ५७ ॥

  सुज्ञा विज्ञाय ता गर्भभूतं तद्वोढुमक्षमाः ।
  विपादमदधुः सद्यो गाढं भाँर्तृभिया ह्रिया ॥ ५८ ॥

 सुज्ञा इति ॥ सुज्ञाश्चतुरा अत एव गर्भभूतं तद्वीर्यं विज्ञायापि वोढुमक्षमा असमर्थाः, तस्यातिशयप्रज्वलितत्वादिति भावः । ताः कृत्तिका भर्तुर्भिया भयेन । यदि न धरित्यामस्तदानुचितं, नो चेच्छरीरदाह इति भयेनेत्यर्थः । ह्रिया लज्जया । एवंविधा इमाः याभिर्भर्तृवीर्यमपि न धृतमिति लोकप्रवादजन्मनेत्यर्थः । सद्यो गाढं विषादं खेदमदधुर्धृतवत्यः ॥ ५८ ॥

  ततः शरवणे सार्धं भयेन व्रीडया च ताः ।
  तद्गर्भजातमुत्सृज्य स्वान्गृहानभिनिर्ययुः ॥ ५९ ॥

पाठा०-१ दुर्धरम्. २ अग्निं ज्वलन्तमन्तःस्थं दधाना इव निर्ययुः; निर्ययुः सहिताः शीघ्रं कृत्तिका विस्मयान्विताः. ३ नद्यां स्थितम्. ४ तीव्रम्. ५ गर्भीभूतम्. ६ आगमम्. ७ भर्तृभयात्. ८ अकाममरणं जातमकाण्डं भाविनोऽर्थतः । संभूया- न्योन्यमात्मानं शुशुचुस्तास्तदाविलम् ॥ (१ अकाण्डे. २ शुश्रुवुः.) ९ शापभयेन. १० सह. ११ ताः. १२ अभितो ययुः; अभि ता ययुः.  तत इति ॥ ततोऽनन्तरं ताः कृत्तिकास्तद्गर्भजातं गर्भसामान्यम् । 'जाति- र्जातं च सामान्यम्' इत्यमरः । भयेन व्रीडया च सार्धं सह शरवणे । 'प्रनिरन्तः- शरेक्षु--' (पा. ८।४|५ ) इत्यादिना 'शर' शब्दात् परवन-नकारस्य णत्वम् । 'शरः स्तुते जने बाणे' इति मेदिनी । उत्सृज्य परित्यज्य स्वान्गृहानभिनिर्ययुर्गतवत्यः । 'गृहाः पुंसि च भूम्न्येव' इत्यमरः ॥ ५९ ॥

  ताभिस्तत्रामृतकरकलाकोमलं भासमानं
   तद्विक्षिप्तं क्षणमभिनभोगभमभ्युज्जिहानैः ।
  स्वौस्तेजोभिर्दिनपतिशतस्पर्धमानैरमानै-
   'वक्त्रैः षढ्भिः स्मरहरगुरुस्पर्धयेवाजनीव ॥ ६० ॥

 ताभिरिति ॥ ताभिः कृत्तिकाभिस्तत्र शरवणे विक्षिप्तं त्यक्तम् । तथाऽमृत- करकलावञ्चन्द्रकलेव कोमलं मृदु यथा तथा क्षणं भासमानं तद्गर्भजातं कर्तृ । अभिनभोगर्भं नभोगर्भं आकाशमध्य इत्यभिनभोगर्भम् । 'गर्भो भ्रूणेऽर्भके कुक्षौ' इति मेदिनी । अभ्युज्जिहानैरभ्युज्जिहते संमुखमुदयन्ते तानि तैः । 'ओहाङ् गतौ' इत्यतः शानच् । तथा दिनपतिशतं सूर्यशतं स्पर्धन्ते तानि तैः, ततोऽप्यधिकैरि- त्यर्थः । तथाऽमानैरसंख्यैः स्वैस्तेजोभिः । तथा षड्भिर्वक्रैश्च युक्तं स्मरहरगुरो- र्ब्रह्मणः स्पर्धयेर्प्ययेव, 'तव चत्वारि मम षडित्यतस्त्वत्तोऽहमधिकोऽस्मि’इत्येवंभूत- वाग्वादावसरफलकयेत्यर्थः । अजनि, परिप्राप्तमभूदित्यर्थः । 'दीपजन-' (पा. ३।१।६१) इत्यादिना च्लेश्चिण् । 'जनिवध्योश्च' (पा. ७।३।३५) इति वृद्धि- निषेधः । अत्र तेजसां षण्णां वक्त्राणां चोत्पादने ब्रह्मस्पर्धाया अहेतुत्वेऽपि तद्धे त्वेन कल्पनाद्धेतूत्प्रेक्षालंकारः । मन्दाक्रान्ता वृत्तम्-'मन्दाक्रान्ता जलधिषड- गैर्भ्भौ नतौ ताद्गुरू चेत्' इति लक्षणात् ॥ ६० ॥

इति श्रीपर्वणीकरोपनामकश्रीलक्ष्मणभट्टात्मजसतीगर्भसंभवश्रीसीताराम-
कविविरचितया संजीविनीसमाख्यया व्याख्यया समेतः
श्रीकालिदासकृतौ कुमारसंभवे महाकाव्ये
कुमारोत्पत्तिर्नाम दशमः सर्गः ।

पाठा०-१ निक्षिप्तम्. २ तैः. ३ दिनकर. ४ वक्रम्. ५ स्मरहरशिरःस्पर्धयेव प्रपेदे.

एकादशः सर्गः ।


 अभ्यर्थ्यमाना विबुधैः समग्रैः प्रव्हैः सुरेन्द्रप्रमुखैरुपेत्य ।
 तं पाययामास सुधातिपूर्णं सुरापगा स्वं स्तनमाशु मूर्ता ॥१॥

 अभ्यर्थेति ॥ सुरेन्द्रप्रमुखैरिन्द्रादिभिः समग्रैः समस्तैर्विबुधैर्देवैरुपेत्य समी- पमागत्य प्रव्हैर्नम्रैः सद्भिरभ्यर्थ्यमाना याच्यमाना सुरापगा मन्दाकिनी । आशु शीघ्रं मूर्ता मूर्तिमती सती । तं कुमारं सुधया दुग्धामृतेनातिपूर्णं बहुभृतं स्वमा- त्मीयं स्तनं पाययामास पानं कारितवती । सर्गेऽस्मिन्वृत्तमुपजातिः ॥ १ ॥

 पिबन्स तस्याः स्तनयोः सुधौघं क्षणंक्षणं साधु समेधमानः ।
 प्रापाकृतिं कामपि षड्भिरेत्य निषेव्यमाणः खलु कृत्तिकाभिः ॥२॥

 पिबन्निति ॥ स कुमारस्तस्या मन्दकिन्याः स्तनयोः संबन्धिनं सुधौघं दुग्धामृतसमूहं पिबन् अत एव क्षणंक्षणं प्रतिक्षणं साधु यथा स्यात्तथा समेधमानः सम्यग्वर्धमानः षड्भिः कृत्तिकाभिरेत्य निषेव्यमाणः श्रियमाणश्च सन् । कामपि लोकोत्तरामाकृतिं प्रापाप्तवान् । 'खलु' वाक्यालंकारे । 'खलु स्याद्वाक्यभूषायाम्' इति विश्वः ॥ २ ॥

 भागीरथीपावककृत्तिकानामानन्दबाष्पाकुललोचनानाम् ।
 तं नन्दनं दिव्यमुपात्तुमासीत्परस्परं प्रौढतरो विवादः ॥३॥

 भागीरथीति ॥ आनन्दबाष्पैराकुललोचनानां व्याप्तनेत्राणाम् । पावकश्च कृत्तिकाश्च पावककृत्तिकाः । भागीरथ्या गङ्गया सहिता याः पावककृत्तिकास्तासां संबन्धि दिव्यं लोकोत्तरस्वरूपं तं नन्दनं पुत्रमुपात्तुं ग्रहीतुं परस्परमन्योन्यं प्रौढतरो- ऽतिशयितो विवादः कलह आसीत् । 'ममायं ममायम्' इति प्रवादपूर्वकः कलि- र्बभूवेत्यर्थः ॥ ३॥

 अत्रान्तरे पर्वतराजपुत्र्या समं शिवः स्वैरविहारहेतोः।
 नभो विमानेन विगाहमानो मनोतिवेगेन जगाम तत्र ॥४॥

पाठा०-१ अभ्यर्थमाना. २ सुधाभिपूर्णम्. ३ स्वर्गापगा. ४ स्वस्तनम्. ५ धात्री. ६ एषः.  अत्रान्तर इति ॥ अत्रान्तरे कलहावसरे शिवः पर्वतराजपुत्र्या पार्वत्या समं सह स्वैरविहारो यथेच्छविहारस्तस्माद्धेतोः कारणान्मनोतिवेगेन चेतसोऽप्यतिशय- जवेन विमानेन नभोऽन्तरिक्षं विगाहमानोऽवलोढयंस्तत्र कलहस्थाने जगाम प्राप ॥४॥

 निसर्गवात्सल्यवशाद्विवृद्धचेतःप्रमोदौ गलदश्रुनेत्रौ ।
 अपश्यतां तं गिरिजागिरीशौ षडाननं पड्दिनजातमात्रम् ॥५॥

 निसर्गेति ॥ गिरिजागिरीशौ निसर्गेण स्वभावेन यद्वात्सल्य दयावत्वं तस्य वशाद्हेतोर्विवृद्ध्ः प्रवृद्धश्चेतसः प्रमोदो हर्षो ययोस्तथाभूतौ । अत एव गलद- श्रुणी प्रवहद्वाप्पे नेत्रे ययोम्तथाभूतौ सन्तौ । षड्दिनानि, जन्मदिनादारभ्ये- त्यर्थः । जातानि व्यतीतानि यस्य स षड्दिनजातः स एव षड्दिनजातमात्रस्तं षडाननं षण्मुखं तं कुमारमपश्यतां दृष्टवन्तौ ॥ ५॥

 अथाह देवी शशिखण्डमौलिं कोऽयं शिशुर्दिव्यवपुः पुरस्तात् ।
 कस्याथवा धन्यतमस्य पुंसो माताऽस्यं का भाग्यवतीषु धुर्या ॥६॥

 अथेति ॥ अथ दर्शनानन्तरं देवी भवानी । पुरस्तादयं कः ? अथवा कस्य धन्यतमस्य पुंसो दिव्यवपुरादितेयसदृशविग्रहः शिशुर्बालः ? पुत्र इति यावत् । अस्य शिशोर्माता जननी का या भाग्यवतीषु धुर्याऽग्रगण्या ? "धुरो यङकौ' (पा. ४।४।७७ ) इति यत् । एतन्मातृत्वादिति भावः । इत्येवं प्रश्नभूतं वचः शशि- खण्डमौलिं हरमाहोक्तवती । आहेति विभक्तिप्रतिरूपकमव्ययम् । तथा चोक्तम् --- 'अव्ययानामनन्त वाद्गणनाय न शक्यते । महाकविप्रयोगेषु यदि सिद्धात्परं च तत् ॥' इति ॥ ६ ॥

  स्वर्गापगासावनलोऽयमेताः षट् कृत्तिकाः किं कलहायमानाः ।
 पुत्रो ममायं न तवायमित्थं मिथ्येति वैलक्ष्यमुदाहरन्ति ।। ७ ॥

 स्वर्गापगेति ॥ किंच, असौ स्वर्गापगा गङ्गा । अयमनलोऽग्निः । एताः षट् कृत्तिकाः कलहायमानाः कलहं कुर्वाणाः सत्यः । 'शब्दवैरकलह-'

पाठा०-१ निसर्गवात्सल्यरसाद्विवृद्धचेतःप्रमोदौ; निसर्गवात्सल्यविवृद्धचेतःपृथु- प्रमोदौ. २ तौ. ३ तद्दिन. ४ असौ. ५ च. ६ मिथः, ७ उदाहरन्ते. (पा. ३।१।१७) इत्यादिना करोत्यर्थे क्यङ् । अयं पुत्रो मम मत्संबन्धी-इति गङ्गा- वाक्यम् । अयं तव न, किंतु मम-इत्यग्निवाक्यम् । इत्थं मिथ्योभयोर्युवयोर्मध्ये न कस्यापि, किं त्वस्माकमिति सत्यम्-इति कृत्तिका वाक्यम् । इति परस्परं वैलक्ष्यं विलक्षणं यथा तथा किं किमर्थमुदाहरन्ति विवदन्ते ॥ ७ ॥

 एतेषु कस्येदमपत्यमीशाखिलत्रिलोकीतिलकायमानम् ।
 अन्यस्य कस्याप्यथ देवदैत्यगन्धर्वसिद्धोरगराक्षसेषु ॥ ८ ॥

 एतेष्विति ॥ हे ईश! एतेषु स्वर्गापगादिषु मध्ये कस्येदमपत्यं पुत्रः ? किंभू- तम् ? अखिला या त्रिलोकी तत्र तिलकायमानं तिलक इवा चरत् । 'कर्तुः क्यङ् सलोपश्च' ( पा. ३।१।११ । इत्याचारार्थे क्यङ् । तत आत्मनेपदित्वाच्छानच् । अथाथवा । सिद्धा देवविशेषाः । उरगाः सर्पाः । राक्षसा निशाचराः । देवदैत्यगन्ध- र्वसहिता ये सिद्धोरगराक्षसास्तेषु मध्येऽन्यतमस्य कस्यापीति वदेत्यर्थः ॥ ८ ॥

 श्रुत्वेति वाक्यं हृदयप्रियायाः कौतूहलिन्या विमलस्मितश्रीः ।
 सान्द्रप्रमोदोदयसौख्यहेतुभूतं वचोऽवोचत चन्द्रचूडः ॥ ९॥

 श्रुत्वेतीति॥ चन्द्राचूडो हरः कौतूहलिन्याः श्रवणे कौतुकवत्या हृदयप्रियायाः पार्वत्या इति पूर्वोक्त वाक्यं वचः । 'वच परिभाषणं', 'ऋहलोर्ण्यत्' ( पा. ३।१।- १२४) इति ण्यत् । श्रुत्वा विमला स्मितश्रीर्यस्य, किंचितिहस्येत्यर्थः । सान्द्रः सधनः, बहुरिति यावत् । यः प्रमोदो हर्षः । 'प्रमोदामोदसंमदाः' इत्यमरः । तस्योदय उत्पत्तिस्तेन यत्सौख्यं तस्य हेतुभूतम् , तज्जनकमित्यर्थः । वचो वचन- मवोचतोक्तवान् ॥ ५ ॥

 जगत्रयीनन्दन एष वीरः प्रवीरमातुस्तव नन्दनोऽस्ति ।
 कल्याणि! कल्याणकरः सुराणां त्वत्तोऽपरस्याः कथमेष सर्गः ॥१०॥

 जगत्रयीति ॥ हे प्रिये ! जगत्रय्या नन्दन आनन्दकारकः । नन्द्यादित्वात् 'नन्दिग्रहि-' (पा. ३।१।१३४ ) इति ल्युः। वीरः पराक्रम्येष पुरोवर्ती शिशुः प्रवीरमातुः प्रकृष्टवीरजनन्यास्तव नन्दनः पुत्रोऽस्ति । ममैवायं नन्दन इत्यत्र किं मानमित्याशङ्क्याह-हे कल्याणि! सुराणामिन्द्रादीनां कल्याणकरः शर्मकार्येष पुरो-

पाठा०-१ वाचम्. २ जगत्रयानन्दन. ३ मातः. ४ अयम्. ५ परस्याः. वर्ती सर्गः सृष्टिः, पुत्र इति यावत् । स्वत्तोऽपरस्यास्त्वदन्यस्याः स्त्रियाः कथं केन प्रकारेण स्यात् ? तारकविनाशजनितकल्याणकरत्वे त्वज्जनितस्यैव शक्तिः, अतस्त- वैवायं पुत्र इति भावः ॥ १० ॥

 देवि! त्वमेवास्य निदानमास्से सर्गे जगन्मङ्गलगानहेतोः ।
 सत्यं त्वमेवेति विचारयस्व रत्नाकरे युज्यत एव रत्नम् ॥ ११ ॥

 देवीति ।। हे दवि प्रिये! जगतां मङ्गलानि मङ्गलकर्माणि गानानि गीतानि, मङ्गलप्रबन्धरूपाणीति यावत् । तेषां हेतोः कारणस्यास्य शिशोः सर्गे सृष्टौ, उत्पत्ताविति यावत् । त्वमेव निदानमादिकारणमास्स उपविशसि, असीत्यर्थः । 'निदानं त्वादिकारणम्' इत्यमरः । 'आसु उपवेशने' । लटो मध्यमपुरुषैक- वचनम् । नन्वहमेव कारणमित्यत्र किं मानमिति दृष्टान्तेन दर्शयति-त्वमेवेति सत्यम् । विचारयस्व । क्रिमिति तत् ? रत्नं रत्नाकरे समुद्र एव । अथ च रत्न- खनावेव युज्यते युक्तं भवति । 'खनिः स्त्रियामाकरः स्यात्' इति, 'रत्नाकरो जल- निधिः' इति चामरः ॥ ११ ॥

 अथ युग्मेनाह-

 अतः शृणुष्वावहितेन वृत्तं बीजं यदग्नौ निहितं मया तत् ।
 संक्रान्तमन्तस्त्रिदशापगायां ततोऽवगाहे सति कृत्तिकासु ॥१२॥
 गर्भत्वमाप्तं तदमोघमेतत्ताभिः शरस्तम्बमधि न्यधायि ।
 बभूव तत्रायमभूतपूर्वो महोत्सवोऽशेषचराचरस्य ॥ १३ ॥

 अत इति । गर्भत्वमिति ॥ हे प्रिये ! अतः कारणात् । अवहितेनावधानेन, सावधानतयेति यावत् । भावे निष्टा । वृत्तं वृत्तान्तं शृणुष्व शृणु । तथा हि-मया यद्बीजं वीर्यमग्नौ निहितं स्थापितं तद्बीजं त्रिदशापगायां गङ्गायामन्तर्मध्ये अवगाहे स्नाने सति संक्रान्तं लग्नम् । ततो गङ्गातः कृत्तिकासु च संक्रान्तं सत् गर्भत्वमाप्तं गर्भी भूतम् । अथ च ताभिः कृत्तिकाभिरमोघं तदेतच्छरस्तम्बमध्यधिशरस्तम्बम् । अधेर्व्यत्ययः प्रामादिक एव । न्यधायि निहितम् । धाञः कर्मणि लुङ् । तत्र शरस्तम्बेऽशेषचराचरस्य समस्तस्थावरजङ्गमस्य जगतोऽभूतपूर्वः पूर्वं भूतपूर्व-

पाठा०-१ आर्ये; आद्ये. २ स्वर्गे, ३ अत्र. ४ त्रिदिवापगायाम्. ५ विगाहे. ६ यत्. स्तादृङ्न भवतीत्यभूतपूर्वो महोत्सवो महानुत्सवोऽयं शिशुर्बभूव । जन्यजनकयोर- भेदविवक्षया 'आयुर्घतम्' इतिवन्महोत्सवोऽयमिति प्रयोगः ॥ १२-१३ ॥

 अशेषविश्वप्रियदर्शनेन धुर्या त्वमेतेन सुपुत्रिणीनाम् ।
 अलं विलम्ब्याचलराजपुत्रि ! स्व[४८]पुत्रमुत्सङ्ग[४९]तले नि[५०]धेहि ॥ १४ ॥

 अशेषेति ॥ हे प्रिये ! अशेषविश्वस्य समस्तजगतः प्रियं प्रीतिकारकम् । 'इगुपध-' (पा. ३।१।१३५ ) इत्यनेन कः । तथाभूतं दर्शनं यस्य तथोक्तेनैतेन । अत्रान्वादेश एतच्छब्दस्य नित्यमेनादेशनियमात् कथमेनाभावः साधुः ? सत्यम् ; अत्रान्वादेश एव नास्ति; तत्र किंचिद्विधानोद्युक्त्याश्रयीभूतस्य पुनरुपादाना- श्रयीभूतस्य च भेदाभाववत्त्वेन विवक्षितत्वात् । प्रकृते तु तदन्यथात्वादन्वादेशा- भावेनैनादेशाभावसिद्धिरित्यलम् । त्वं सुपुत्रिणीनां शोभनपुत्रवतीनां धुर्याऽग्र- गण्या, श्रेष्ठतमेति यावत् । असीति शेषः । हे अचलराजपुत्रि ! विलम्ब्य विलम्बं कृत्वाऽलम् , विलम्बो न कर्तव्य इत्यर्थः । किंतु स्वपुत्रमात्मतनूजमुत्सङ्गतलेऽङ्कतले निधेहि स्थापय ॥ १४ ॥

  अथ युग्मेनाह-

 [५१]थेति वादिन्यमृतांशुमौलौ शैलेन्द्रपुत्री रभसेन सद्यः ।
 सान्द्रप्रमोदेन सुपीनगात्री धात्री समस्तस्य चराचरस्य ॥ १५ ॥
 किरीटबद्धाञ्जलिभिर्नभःस्थैर्नमस्कृता सत्वर[५२]नाकिलोकैः।
 विमानतोऽवातरदात्मजं तं ग्रहीतुमुत्कण्ठितमानसाऽभूत् ॥१६॥

 अथेति ॥ किरीटेति ॥ अथामृतांशुश्चन्द्रो मौलौ यस्य तथाभूते हरे । इति पूर्वोक्तप्रकारेण वादिनि भाषमाणे सति । समस्तस्य सकलस्य चराचरस्य जगतो धात्री परिपोषिका । 'ऋन्नेभ्यः-' (पा. ४।१।५) इति ङीप् । तथा सान्द्रः सघनो यः प्रमोद आनन्दस्तेन सुतरां पीनं प्रफुल्लत्वात्पुष्टं गात्रं यस्यास्तथाभूता शैलेन्द्रस्य हिमालयस्य पुत्री कन्या पार्वती नभःस्थैः, तत्काल आकाशमाश्रयद्भिरित्यर्थः । तथा सत्वरैश्च नाकिलोकैरिन्द्रादिलोकैः किरीटेषु बद्धा अञ्जलयो यैस्तथाभूतैः सद्भिर्नमस्कृता वन्दिता सती सद्यो रभसेन वेगेन विमानतो विमानात् । पञ्चम्या-


स्तसिल् । अवातरदुत्ततार। अथ च तमात्मजं कुमारं ग्रहीतुमुत्कण्ठितमानसा

चाभूत् , अहमेनं गृह्णामीति मनस्यैच्छदित्यर्थः ॥ १५-१६ ॥

 स्वर्गापगापावककृत्तिकादीन् कृताञ्जलीनानमतोऽपि भूयः ।
 हित्वोत्सुका तं सुतमाससाद पुत्रोत्सवे माद्यति का न हर्षात् ॥१७॥

 स्वर्गेति ॥ पुत्रोत्सव उत्सुकोत्कण्ठिता पार्वती । स्वर्गापगा गङ्गा तया सहिता याः पावककृत्तिकास्ता आदयो येषां तान् । अत्र 'आदि'शब्देनेन्द्रादयो ग्राह्याः । स्वर्गापगा च पावकश्च कृत्तिकाश्चेति द्वन्द्वसमासेऽल्पाच्तरत्वात् 'पावक'शब्दस्य पूर्वनिपातः प्रसज्येतेति पूर्वरीतिरादृता । तान् कृताञ्जलीनत एव भूयोऽतिशयमानमतो नमस्कुर्वतोऽपि हित्वा परित्यज्य तं सुतमाससाद प्राप । तथा हि- हर्षादानन्दवशात् का न माद्यत्युन्मत्ता न भवति ? पुत्रोत्सवेन सर्वासामुन्मत्तत्वं भवतीति भावः ॥ १७ ॥

 प्रमोदबाष्पाकुललोचना सा न तं ददर्श क्षणमग्रतोऽपि ।
 परिस्पृशन्ती करकुड्मलेन सुखान्तरं प्राप किमप्यपूर्वम् ॥ १८ ॥

 प्रमोदेति ॥ सा पार्वती । अग्रतः स्थितमपि तं पुत्रं क्षणं न ददर्श । यतः प्रमोदबाष्पैरानन्दाश्रुभिराकुले व्याप्तत्वाद्दर्शनाशक्ते लोचने यस्याः, आनन्दाश्रुभिरन्धीभूतेत्यर्थः । अथ च कर एव कुड्मलं कलिका तेन परिस्पृशन्ती सती किमपि लोकोत्तरमपूर्वम्, अभूतपूर्वमित्यर्थः । शाकपार्थिवादीनामुत्तरपदलोपः । सुखान्तरम् , अन्यत्सुखमित्यर्थः । 'अन्तर'शब्दोऽत्रोपमानाभावद्योतकः । प्राप प्राप्तवती ॥ १८ ॥

 सुविस्मयानन्दविकस्वरायाः शिशुर्गलद्बष्पतरंगितायाः ।
 विवृद्धवात्सल्यरसोत्तराया देव्या दृशोर्गोचरतां जगाम ॥ १९ ॥

 सुविस्मयेति ॥ शिशुः कर्ता । सुतरां यौ विस्मयानन्दावाश्चर्यहर्षौ ताभ्यां विकस्वरायाः प्रफुल्लीभूतायाः तथा गलद्बाष्पैस्तरंगितायाः संजाततरंगायाः । तारकादित्वादितच् । वपुषि गलद्भिर्बाष्पजलैरुद्भूतप्रवाहकल्लोलकलिताया इत्यर्थः । तथा विवृद्धं यद्वात्सल्यं दयावत्त्वम्, पुत्रत्वादिति भावः। तत्र यो रसः प्रीतिः स

पाठा०-१ भूम्ना; मूर्धा. २ सुकान्तम्. ३ को न. ४ करकुड्मलाभ्याम्. ५ सविस्मय ६ दृशः. उत्तरः प्रधानं यस्यास्तथाभूताया देव्याः पार्वत्याः संबन्धिनोर्दृशोर्विलोचनयोर्गोचरतां विषयतां जगाम प्राप, बाष्पनिर्मुक्ताभ्यां लोचनाभ्यां देवी तमपश्यदित्यर्थः ॥ १९॥

 तमीक्षमाणा क्षणमीक्षणानां सहस्रमाप्तुं विनिमेषमैच्छत् ।
 सा नन्दनालोकनमङ्गलेषु क्षणंक्षणं तृप्यति कस्य चेतः ॥२०॥

 तमिति ॥ तं बालं क्षणमीक्षमाणाऽवलोकमाना सा देवी विनिमेषं विगतनिमेषमीक्षणानां नेत्राणां सहस्रमाप्तुं मम सहस्रं नेत्राणि भवन्त्वित्यैच्छदियेष, द्वाभ्यां विलोचनाभ्यामाकण्ठदर्शनजननाभावादिति भावः । तथा हि-नन्दनस्यालोकनान्येव मङ्गलानि तेषु विषये क्षणंक्षणम् , प्रतिक्षणमित्यर्थः । 'नित्यवीप्सयोः' (पा. ८।१।४) इति वीप्सायां द्विर्भावः । कस्य चेतस्तृप्यति तृप्तिं प्राप्नोति ? अपि तु न कस्यापीत्यर्थः ॥ २० ॥

 विनम्रदेवासुरपृष्ठगाभ्यामादाय तं पाणिसरोरुहाभ्याम् ।
 नवोदयं पार्वणचन्द्रचारुं गौरी स्वमुत्सङ्गतलं निनाय ॥ २१ ॥

 विनम्रेति ॥ गौरी पार्वती । 'षिद्गौरादिभ्यश्च' (पा. ४।१।४१) इति ङीष् । नवोदयं नूतनोद्भवम् , तत्कालजातमित्यर्थः । अत एव पार्वणः पर्वणि भवः । 'तत्र भवः' (पा. ४।३।५३ ) इत्यण् । स चासौ चन्द्रश्च तद्वच्चारुं मनोहरम् । चन्द्रोऽपि नवोदय इति ज्ञेयम् । तथाभूतं तं तनूजं पुत्रम् , कर्मभूतमित्यर्थः । आदाननयने उभे अपि प्रत्यस्य कर्मत्वं विवेचनीयम् । विनम्राः पादप्रणता ये देवासुरास्तेषां पृष्ठेषु गच्छतः संचरतस्ताभ्याम् । अनेन तेभ्योऽभयदानमुद्रा कृतेति व्यज्यते । पाणिसरोरुहाभ्यां करकमलाभ्यामादाय गृहीत्वा स्वमात्मीयमुत्सङ्गतलं निनाय प्रापयामास । हस्ताभ्यामुत्थाप्य स्वाङ्क आरोपितवतीत्यर्थः ॥ २१ ॥

 स्वमङ्कमारोप्य सुधानिधानमिवात्मनो नन्दनमिन्दुवक्रा।
 तमेकमेषा जगदेकवीरं बभूव पूज्या धुरि पुत्रिणीनाम् ।। २२ ।।

 स्वमिति ॥ इन्दुवक्रा चन्द्रमुख्येषा पार्वती । एकमद्वितीयं जगदेकवीरं

पाठा०-१ न नन्दनालोकनमङ्गलेषु; सुनन्दनालोकनकौतुकेन. २ हृष्यति. ३ नवोदयात् ; महोदयात्. ४ तम्. ५ एकमेवम् ; एकदेवम् . ६ एकदेवी. जगत्स्वेकवीरं तमात्मनो नन्दनं पुत्रं सुधानिधानममृतपात्रमिव स्वमात्मीयमङ्कमारोप्य संस्थाप्य पुत्रिणीनां पुत्रवतीनां धुर्यग्रभागे पूज्या पूजयितुं योग्या बभूव । एतत्पुत्रस्य सर्वासामपि पुत्रेभ्योऽधिकत्वादग्रपूज्यत्वमुचितमेवेति भावः ॥ २२ ॥

 निसर्गवात्सल्यरसौघसिक्ता सान्द्रप्रमोदामृतपूरपूर्णा ।
 तमेकपुत्रं जगदेकमाताभ्युत्सङ्गिनं प्रस्रविणी बभूव ॥ २३ ॥

 निसर्गेति ॥ निसर्गेण स्वभावेन, न तूपाधिनेत्यर्थः । यो वात्सल्यरसो दयावत्त्वरसस्तयौघेन सिक्ता प्लाविता, तत्रातिवात्सल्यवतीत्यर्थः । तथा सान्द्रप्रमोदोऽतिशयहर्षः स एवामृतं पीयूषं तस्य पूरेण प्रवाहेण पूर्णा भृता जगतामेकाऽद्वितीया माता परिपोषिका देव्युत्सङ्गिनमधिश्रितोत्सङ्गं तमेकपुत्रमभि संमुखं प्रस्रविणी दुग्धस्राववती बभूव, पुत्रं दृष्ट्वा मातुः स्तनाभ्यां पयः पततीति युक्तमिति भावः॥ २३ ॥

 अशेषलोकत्रयमातुरस्याः षाण्मातुरः स्तन्यसुधामधासीत् ।
 सुरस्रवन्त्याः किल कृत्तिकाभिर्मुहुर्मुहुः सस्पृहमीक्ष्यमाणः ॥२४॥

 अशेषेति ॥ षाण्मातुरः षण्णां मातॄणामपत्यं षाण्मातुरः कार्तिकेयः । अत्र 'षण्मातृ'शब्दात् 'मातुरुत्संख्या-' (पा. ४।१।११५) इत्यादिनाण् 'मातृ'शब्दस्योदादेशश्च । 'षाण्मातुरः शक्तिधरः कुमारः क्रौञ्चदारणः' इत्यमरः । सुरस्रवन्त्या देवनद्याः, गङ्गाया इत्यर्थः । 'स्रवन्ती निम्नगापगा' इत्यमरः । तथा कृत्तिकाभिश्च सस्पृहं सेच्छं यथा तथा । 'इच्छा काङ्क्षा स्पृहेहा तृट्' इत्यमरः । अस्मदीयपयोधरस्रवदमृतपातोयमिदानीमेतदीयस्तनपयः पिबन् पुनरप्यस्मदीयपयोऽपि स्मरेदेवंभूतेच्छासहितमित्यर्थः । मुहुर्मुहुरनुवेलमीक्ष्यमाणोऽवलोक्यमानः सन्नशेषं सकलं यल्लोकत्रयं तस्य मातुः पोषिण्या अस्या देव्याः स्तन्या स्तनेभवा । 'शरीरावयवाद्यत्' (पा. ५।१।६) इति यत् । सा चासौ सुधा च तामधासीत् पपौ। 'धेट् पाने' कर्तरि लुङ् । 'विभाषा घ्राधेट्-' (पा. २।४।७८ ) इति सिज्लुग्न ॥ २४ ॥

 सुखाश्रुपूर्णेन मृगाङ्कमौलेः कलत्रमेकेन मुखाम्बुजेन ।
 तस्यैकनालोद्गतपञ्चपद्मलक्ष्मीं क्रमात्षड्वदनीं , चुचुम्ब ॥ २५ ॥

पाठा०-१ सोत्सङ्गिनम् ; अभ्युत्सङ्गितम्. २ सुखास्रपूर्णेन. ३ उद्गम. ४ चुचुम्बे.  सुखेति ॥ मृगाङ्कमौलेर्हरस्य कलत्रं भार्या । 'कलत्रं श्रोणिभार्ययोः' इत्यमरः । एकनाल एककाण्ड उद्गतान्युदितानि यानि पञ्च पद्मानि तेषां लक्ष्मीरिव शोभेव लक्ष्मीः शोभा यस्यास्तथाभूतां तस्य कुमारस्य षण्णां वदनानां समाहारं षड्वदनीम् । 'द्विगो:-' (पा. ४।१।२१) इति ङीप् । इह संख्यासादृश्यमन्तरा न विरोधः । सुखाश्रुपूर्णेनानन्दाश्रुजलपरिपूरितेनैकेन मुखाम्बुजेन वदनकमलेन क्रमाद्यथाक्रमं चुचुम्ब स्पृष्टवती, अतिशयप्रेमवशादिति भावः ॥ २५॥

 हैमी फलं हेमगिरेर्लतेव विकस्वरं नाकनदीव पद्मम् ।
 पूर्वेव दिङ्नूतनमिन्दुमाभात्तं पार्वती नन्दनमादधाना ॥ २६ ॥

 हैमीति ॥ तं नन्दनं तनयमादधाना सा पार्वती । फलं दधाना हेमगिरेः सुमेरोः संबन्धिनी, तदुत्पन्नेत्यर्थः । हैमी हेमविकारा । विकारार्थकेऽणि 'टिड्डाणञ्-'(पा. ४।१।१५) इति ङीप् । लतेव । विकस्वरं प्रफुल्लं पद्मं कमलं दधाना नाकनदीव गङ्गेव । नूतनं नवोदयमिन्दुं दधाना पूर्वापूर्वसंज्ञिका दिगिव । आभाच्छुशुभे । अत्र मालोपमालंकारः ॥ २६ ॥

 प्रीतात्मना सा प्रयतेन दत्तहस्तावलम्बा शशिशेखरेण ।
 कुमारमुत्सङ्गतले दधाना विमानमभ्रंलिहमारुरोह ॥ २७ ॥

 प्रीतेति ॥ कुमारं पुत्रमुत्सङ्गतले दधाना बिभ्रती सा देवी प्रीतात्मना प्रसन्नीभूतमनसा प्रयतेन सावधानेन, न तु संभ्रमितेन । 'नयवर्त्मगाः प्रभवतां हि धियः' इति न्यायादिति भावः । तथाभूतेन शशिशेखरेण शिवेन दत्तहस्तावलम्बा सती, अत्यतिप्रेमभरादिति भावः । अभ्रंलिहमाकाशस्पृक् । 'वहाभ्रे लिहः'( पा. ३।२।३२) इति खश् । विमानमारुरोहारूढा ॥ २७ ॥

 महेश्वरोऽपि प्रमदप्ररूढरोमोद्गमो भूधरनन्दनायाः।
 अङ्कादुपादत्त तदङ्कतः सा तस्यास्तु सोऽप्यात्मजवत्सलत्वात् ॥२८॥

 महेश्वर इति ॥ प्रमदेनानन्देन प्ररूढा रोमोद्गमा यस्य तथाभूतो महेश्वरोऽप्यात्मजे पुत्रे वत्सलत्वाद्दयावत्त्वाद्धेतोर्भूधरनन्दनायाः पार्वत्या अङ्कादुत्सङ्गतस्तं

पाठा--१ हैमम्. २ सुप्रयतेन. ३ अकाण्डमादत्त. ४ तमङ्कतः ५ सः. ६ सौम्यात्मज. पुत्रमुपादत्ताग्रहीत् । अथ च तदङ्कतो हरोत्सङ्गात् सा देव्युपादत्त । अथ च सोऽपि हरोऽपि तस्य देव्या अङ्कादुपादत्त, इत्यनुवेलमन्योन्यग्रहणं चक्रतुरित्यर्थः ॥ २८ ॥

 दधानया नेत्रसुधैकसत्रं पुत्रं पवित्रं सुतया तयाद्रेः ।
 संश्लिष्यमाणः शशिखण्डधारी विमानवेगेन गृहाञ्जगाम ॥२९॥

 दधानयेति ॥ शशिखण्डधारी महेश्वरः सुधाया अमृतस्यैकं सत्रं सदादानम् । 'सत्रमाच्छादने यज्ञे सदादाने धनेऽपि च' इत्यमरः । नैत्रयोः संबन्धि सुधैकसत्रं येन, नेत्रयोरमृतवत् सुखदातारमित्यर्थः । तथा पवित्रं पूतम् । 'पुवः संज्ञायाम्' (पा. ३।२।१८५) इति त्रच्प्रत्ययः । तथाभूतं पुत्रं सुतं दधानया बिभ्रत्या तयाद्रेर्हिमालयस्य सुतया कन्यया पार्वत्या कत्र्र्या । संश्लिष्यमाणः स्नेहवशादालिङ्गयमानः सन् विमानस्य वेगेन गृहाञ्जगाम प्रययौ। 'गृहाः पुंसि च भूम्न्येव' इत्यमरः॥ २९ ॥

 अधिष्ठितः स्फाटिकशैलशृङ्गे तुङ्गे निजं धाम निकामरम्यम् ।
 महोत्सवाय प्रमथप्रमुख्यान्पृथून्गणाञ्शंभुरथादिदेश ॥३०॥

 अधिष्ठित इति ॥ अथानन्तरं शंभुर्महेश्वरस्तुङ्गे उन्नते स्फटिकमयः स्फाटिको यः शैलः कैलासस्तस्य शृङ्गे शिखरे । 'शृङ्गं प्राधान्यसान्वोश्च' इत्यमरः । निकामरम्यमतिमनोहरं निजं स्वीयम् । 'स्वके नित्ये निजं त्रिषु' इत्यमरः । अधिष्ठितः सन् । 'अधिशीङ्-' (पा. १।४।४६ ) इत्यादिनाधारस्य कर्मसंज्ञा । महोत्सवाय महोत्सवं कर्तुम् । 'तुमर्थाच्च-' (पा. २।३।१५) इति चतुर्थी । पृथून्महतः प्रमथप्रमुख्यान्प्रमथादीन्गणानादिदेशाज्ञापयामास ॥ ३० ॥

 पृथुप्रमोदः प्रगुणो गणानां गणः समग्रो वृषवाहनस्य ।
 गिरीन्द्रपुत्र्यास्तनयस्य जन्मन्यथोत्सवं संववृते विधातुम् ॥३१॥

 पृथ्विति ॥ अथानन्तरं पृथुर्महान् प्रमोदो हर्षो यस्य । तथा प्रकृष्टा गुणा यस्यैवविधः समग्रः संपूर्णो गणानां गणः प्रमथादीनां समूहो वृषवाहनस्य महेश्वरस्य गिरीन्द्रपुत्र्याः पार्वत्याश्च तनयस्य जन्मन्युत्सवं विधातुं कर्तुं संववृते संवृत्तः, उद्युक्त इति यावत् ॥ ३१ ॥

पाठा०-१ दत्त्वानया. २ पात्रम्. ३ तथा, ४ मौलिः; वाही. ५ गृहम्. ६ अधिष्ठित. ७ निजे. ८ धामनि कालरम्ये; धाम्नि निकामरम्ये. ९ प्रमथान्सनाथः. १० महिम्ना स्वमुदा; प्रथिम्नां पृथक्. ११ प्रमोद. १२ प्रगुणे.  इतःपरं सप्तभिरुत्सवानेवाह-

 स्फुरन्मरीचिच्छुरिताम्बराणि संतानशाखिप्रसवाञ्चितानि ।
 उच्चिक्षिपुः काञ्चनतोरणानि गणा वराणि स्फटिकालयेषु ॥३२॥

 स्फुरदिति ॥ गणाः प्रमथाः स्फटिकालयेषु स्फटिकगृहेषु स्फुरन्त्यो भासमाना या मरीचयः किरणास्तामिश्छुरितं मिश्रीकृतमम्बरं यैस्तानि। संतानशाखिनां देववृक्षाणां प्रसवानि पत्राणि तैरञ्चितानि निर्मितानि वराणि श्रेष्ठानि काञ्चनं काञ्चनस्य विकारः काञ्चनं स्वर्णसूत्रं तदाधेयीभूतानि तोरणानि मालाविशेषानुच्चिक्षिपुरुच्चैश्चिक्षिपुः, बबन्धुरित्यर्थः ॥ ३२ ॥

 दिक्षु प्रसर्पस्तदधीश्वराणामथामराणामिव मध्यलोके ।
 महोत्सवं शंसितुमाहतोऽन्यैर्दध्वान धीरः पटहः पटीयान् ॥३३॥

 दिक्ष्विति ॥ अथ तोरणोत्क्षेपानन्तरम् । दिक्षु दशसु दिशासु प्रसर्पन्प्रसिद्धो भवन् , आत्मनिनादेनेति शेषः । गम्यमानार्थत्वादप्रयोगः । तासां दिशामधीश्वराणां दिक्पालानाममराणां देवानामिन्द्रादीनां संबन्धी पटीयान्समर्थः, घोरनिनाद इति शेषः । धीरो गम्भीरः पटहोऽन्यैर्भृत्यभूतैरमरैराहतस्ताडितः सन् । मध्यश्चासौ लोकश्च मध्यलोकः, भूलोक इत्यर्थः। तस्मिन् । महोत्सवम् । अत्रापि भवत्पुत्रजन्मनास्माकं महानुत्सवो जात इति शंसितुमिव कथयितुमिव । दध्वान ध्वनिं चकार। ध्वनिकरणे महोत्सवज्ञापनस्य फलत्वाभावेऽपि फलत्वकल्पनात्फलोत्प्रेक्षा ॥ ३३ ॥

 महोत्सवे तत्र समागतानां गन्धर्वविद्याधरसुन्दरीणाम् ।
 संभावितानां गिरिराजपुत्र्या गृहेऽभवन्मङ्गलगीतकानि ॥ ३४ ॥

 महेति ॥ तत्र महोत्सवे समागतानां प्राप्तानामत एव गृहे गिरिराजपुत्र्या भवान्या संभावितानां पूजितानाम् , सत्कृतानामित्यर्थः । गन्धर्वा विद्याधराश्च देवविशेषास्तेषां सुन्दरीणां स्त्रीणां स्त्रीकर्तृकाणि मङ्गलगीतकानि मङ्गलप्रयोजनगीतान्यभवन् , जातानीत्यर्थः ॥ ३४ ॥

 सुमङ्गलोपायनपात्रहस्तास्तं मातरो मातृवदभ्युपेताः ।
विधाय दूर्वाक्षतकानि मूर्ध्नि निन्युः स्वमङ्कं गिरिजातनूजम् ॥३५॥

पाठा०-१ विचिक्षिपुः, २ चलानि. ३ नाकिलोके. ४ धीरम्. ५ पूर्ण, ६ अभ्युपेत्य.  सुमङ्गलेति ॥ सुमङ्गलानि यान्युपायनान्युपदासामग्र्यस्तेषां पात्रं तत्सहिता हस्ता यासामेवंभूताः सत्योऽभ्युपेताः प्राप्ता मातरो ब्राह्म्याद्याः, सप्तेति शेषः । 'ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा । वाराही च तथेन्द्राणी चामुण्डाः सप्त मातरः ॥' इत्यमरः । मूर्ध्नि शिरसि दूर्वाक्षतकानि निधाय संस्थाप्य तं गिरिजातनूजं कुमारं मातृवत्पार्वतीवत्तत्तुल्यं यथा तथा स्वं स्वीयमङ्कं निन्युः, स्वाङ्के स्थापयामासुरित्यर्थः । मातृवदित्यनेन तासामप्यत्र महत्प्रेमास्तीति दर्शितम् ॥ ३५ ॥

 ध्वनत्सु तूर्येषु सुमन्द्रमङ्क्यालिङ्ग्योर्ध्वकेष्वप्सरसो रसेन ।
 सुसंधिबन्धं ननृतुः सुवृत्तगीतानुगं भावरसानुविद्धम् ।। ३६ ॥

 ध्वनत्स्विति ॥ अङ्क्यालिङ्ग्योर्ध्वकेष्वेतत्संज्ञकेषु तूर्येषु वाद्येषु सुतरां मन्द्रं गम्भीरं यथा तथा । 'कलो मन्द्रस्तु गम्भीरे' इत्यमरः । ध्वनत्सु शब्दायमानेषु सत्सु । अप्सरसो रम्भादिका रसेन स्नेहेन शोभना मधुराः संधयः स्वरसंध्यादयो येषु तथाभूता बन्धाः गीतप्रबन्धा यत्र यस्मिन्कर्मणि । सुवृत्तानि शोभनच्छन्दांसि गीतान्यनुगानि यत्र यस्मिन्कर्मणि । भावा रत्यादयो रसाः शृङ्गारादयस्तैरनुविद्धं व्याप्तं यत्र यस्मिन्कर्मणि यथा तथा ननृतुर्गात्राणि विचिक्षिपुः ॥ ३६ ॥

 वाता ववुः सौख्यकराः प्रसेदुराशा विधूमो हुतभुग्दिदीपे ।
 जलान्यभूवन्विमलानि तत्रोत्सवेऽन्तरिक्षं प्रससाद सद्यः ॥ ३७॥

 वाता इति ॥ तत्रोत्सवे । वाताः पवनाः सौख्यकरा ववुश्चेलुः । आशा दिशः प्रसेदुर्निर्मला बभूवुः । हुतभुगग्निर्विधूमो निर्धूमः सन्दिदीपे ज्वलति स्म । 'दीपी दीप्तौ' इति लिट् । जलानि विमलान्यभूवन् । अन्तरिक्षं व्योम सद्यः प्रससाद स्वच्छमभूत् । 'भवो हि लोकाभ्युदयाय तादृशाम्' इति न्यायादिति भावः ॥३७॥

 गम्भीरशङ्खध्वनिमिश्रमुच्चैर्गृहोद्भवा दुन्दुभयः प्रणेदुः ।
 दिवौकसां व्योम्नि विमानसंघा विमुच्य पुष्पप्रचयान्प्रसस्रुः॥३८॥

 गम्भीरेति ॥ गृहोद्भवा महेश्वरनिकेतनीया दुन्दुभयो गम्भीरो मन्द्रो यः

पाठा०-१ सुगन्धि. २ सुतन्त्रि; सवृत्ति. ३ शब्द. ४ विमुञ्चता पुष्पचयान्; विमुच्यते पुष्पचयान्. शङ्खध्वनिः पाञ्चजन्यशब्दस्तेन मिश्रं यथा स्यात्तथोच्चैः प्रणेदुः । 'उपसर्गादसमासेऽपि-' ( पा. ८।४।१४ ) इति णत्वम् । अथ च दिवौकसां देवानां विमानसंघा व्योम्नि पुष्पप्रचयान्विमुच्य विकीर्य प्रसस्रुः, प्रतस्थिर इत्यर्थः ॥ ३८ ॥

 इत्थं महेशाद्रिसुतासुतस्य जन्मोत्सवे संमदयांचकार ।
 चराचरं विश्वमशेषमेतत्परं चकम्पे किल तारकश्रीः ॥ ३९ ॥

 इत्थमिति ॥ महेशो हरः । अद्रिसुता पार्वती तस्याः सुतस्य पुत्रस्येत्थमेवंभूते जन्मोत्सवेऽशेषं समस्तं चराचरं स्थावरजंगममेतद्विश्वं जगत् संमदयांचकारोन्मत्तीचकार, उन्मादसाधनैरिति शेषः । परं केवलं तारकस्य तारकासुरस्य श्रीर्लक्ष्मीश्चकम्पे, बिभायेत्यर्थः ॥ ३९ ॥

 ततः कुमारः सुमुदां निदानैः स बाललीलाचरितैर्विचित्रैः ।
 गिरीशगौर्योर्हृदयं जहार मुदे न हृद्या किमु बालकेलिः ॥४०॥

 तत इति ॥ ततोऽनन्तरं स कुमारो विचित्रैरनेकरूपैरत एव सुमुदां सुतरां प्रीतीनां निदानैरादिकारणैः । 'निदानं त्वादिकारणम्' इत्यमरः । बाललीलाचरितैः शिशुक्रीडाचरितैर्गिरीशगौर्योः शिवपार्वत्योः । अभ्यर्हितत्वाद्बह्वचोऽपि पूर्वनिपातः। हृदयं मनो जहार, प्रसादयामासेत्यर्थः । हृद्या मनोहरा बालकेलिर्मुदे न किमु भवति ? किं तु भवत्येवेत्यर्थः ॥ ४०॥

 महेश्वरः शैलसुता च हर्षात्सतर्षमेकेन मुखेन गाढम् ।
 अजातदन्तानि मुखानि सूनोर्मनोहराणि क्रमतश्चचुम्ब ॥४१॥

 महेश्वर इति ॥ महेश्वरो हरः शैलसुता पार्वती च हर्षाद्धेतोः सतर्षं सतृष्णं यथा तथाऽजातदन्तान्यनुद्भूतदशनानि मनोहराणि सूनोः कुमारस्य मुखान्येकेन मुखेन गाढं दृढं यथा तथा क्रमतो यथाक्रमं चुचुम्ब पस्पर्श । अत्र कर्तृद्वयस्य पार्थक्येन क्रियान्वयो विधेयः, अन्यथा द्विवचनापत्तिरिति विवेचनीयम् ॥४१॥

 क्वचित्स्खलद्भिः क्वचिदस्खलद्भिः क्वचित्प्रकम्पैः क्वचिदप्रकम्पैः।
 बालः स लीलाचलनप्रयोगैस्तयोर्मुदं वर्धयति स्म पित्रोः॥४२॥

पाठा०-१ जन्मोत्सवः. २ समुदः. ३ स्वबाललीलाललितैः. ४ अपि. ५ सहर्षम्. ६ वक्राणि. ७ क्रमशः. ८ चुचुम्बे. ९ सलीलम्.  क्वचिदिति ॥ स बालः कुमारः क्वचित्प्रदेशे स्खलद्भिः क्वचित्प्रदेशेऽस्खलद्भिः कचित्प्रदेशे प्रकम्पैः प्रकृष्टकम्पैः क्वचित्प्रदेशेऽप्रकम्पैर्लीलया ये चलनप्रयोगास्तैर्निमित्तभूतैस्तयोः पित्रोर्जननीजनकयोः माता च पिता च पितरौ, तयोः पित्रोः। 'पिता मात्रा' (पा. १।२।७० ) इत्येकशेषः । मुदं प्रीतिं वर्धयति स्म । 'कन्दलयांचकार' इत्यपि पाठः । अर्थः स एव ॥ ४२ ॥

 अहेतुहासच्छुरिताननेन्दुर्गृहाङ्गणक्रीडनधूलिधूम्रः ।
 मुहुर्वदन्किंचिदलक्षितार्थं मुदं तयोरङ्कगतस्ततान ॥ ४३ ॥

 अहेत्विति ॥ गृहाङ्गणे यत्क्रीडनं तेन निमित्तेन धूलिभी रजोभिर्धूम्रो धूसरः सन्नङ्कगत उत्सङ्गं प्राप्तः कुमारः । अहेतुकारणो यो हासो हसितं तेन च्छुरितो मिश्रित आननेन्दुर्मुखचन्द्रो यस्य । अलक्षितार्थमव्यक्तार्थं मुहुः किंचिद्वदंस्तयोर्मुदं प्रीतिं ततान चकार ।। ४३ ॥

 गृह्णन्विषाणे हरवाहनस्य स्पृशन्नुमाकेसरिणं सलीलम् ।
 स भृङ्गिणः सूक्ष्मतरं शिखाग्रं कर्षन्बभूव प्रमदाय पित्रोः ॥४४॥

 गृह्णन्निति ॥ स कुमारः हरवाहनस्य वृषस्य विषाणे शृङ्गे गृह्णन् , कराभ्यामिति शेषः । तथोमाकेसरिणं पार्वतीसिंहं सलीलमप्रयासं यथा तथा स्पृशन् । तथा भृङ्गिणो गणस्य सूक्ष्मतरं शिखाग्रं कर्षन् । पित्रोर्जननीजनकयोः प्रमदाय हर्षाय बभूव । क्रियाग्रहणात्संप्रदानत्वम् ॥ ४४ ॥

 एको नव द्वौ दश पञ्च सप्तेत्यजीगणन्नात्ममुखं प्रसार्य ।
 महेशकण्ठोरगदन्तपङ्क्तिं तदङ्कगः शैशवमौग्ध्यमैशिः ॥४५॥

 एक इति ॥ तस्य पितुरङ्कग उत्सङ्गगत ऐशिः, ईशस्यापत्यमित्यर्थः । 'अत इञ्' (पा. ४।१।९५) इत्यपत्यार्थ इञ् । आत्ममुखं प्रसार्य महेशस्य ये कण्ठोरगाः कण्ठगताः सर्पास्तेषां दन्तपङ्क्तिम् । एको नव द्वौ दश पञ्च सप्तेस्यजीगणत् संख्यातवान् । यतः शैशवमौग्ध्यं बालत्वनिमित्तमूढतां दधानः । अजीगणदिति गणयतेर्लुङ् । 'ई च गणः' (पा. ७।४।९७ ) इत्यभ्यासाकारस्येकारः ॥ ४५ ॥

पाठा०-१ गेहाङ्गण. २ केसरिणः सटाली:. ३ मञ्जु. ४ तदङ्गगः, ५ नुन्नमीतिः; मुग्धमैशिः.

 कपर्दिकण्ठान्तकपालदाम्नोऽङ्गुलिं प्रवेश्याननकोटरेषु ।
 दन्तानुपातुं रभसी बभूव मुक्ताफलभ्रान्तिकरः कुमारः॥४६॥

 कपर्दीति ॥ कुमारः कार्तिकेयः कपर्दिकण्ठान्ते शिवकण्ठमध्ये स्थितस्य कपालदाम्नो नृकरोटीस्रज आननकोटरेषु वदनकूपेषु । 'कोटरो नागरे कूपे पुष्करिण्युच्चधाटके' इति मेदिनी । अङ्गुलिं प्रवेश्य दन्तानुपात्तुं ग्रहीतुं रभसी रभसो वेगोऽस्यास्तीति तथोक्ताः । 'रभसो वेगहर्षयोः' इति मेदिनी । बभूव, एतान्वेगेन गृह्णामीत्यैच्छदित्यर्थः। यतो मुक्ताफलभ्रान्तिकरो मौक्तिकभ्रमकारी॥४६॥

 शंभोः शिरोऽन्तःसरितस्तरंगान्विगाह्य गाढं शिशिरान्रसेन ।
 २स जातजाड्यं निजपाणिपद्ममतापयद्भालविलोचनाग्नौ ॥४७॥

 शंभोरिति ॥ स कुमारः । शिशिराञ्छीतलाञ्छंभोः संबन्धिनः शिरसोऽन्तमध्ये स्थितायाः सरितो गङ्गायास्तरंगान् रसेन स्वादेन । स्वादोऽत्र त्वगिन्द्रियग्राह्यत्वेन विवक्षितः । 'रसो गन्धरसे जले । शृङ्गारादौ विषे वीर्ये तक्रादौ द्रव्यरागयोः । देहधातुप्रभेदे च पारदस्वादयोः पुमान्' इति मेदिनी । गाढं दृढम् । 'गाढबाढदृढानि च' इत्यमरः । विगाह्यावगाह्य । अत एव जातजाड्यं जातशीतकृतजडत्वं निजपाणिपद्मं स्वीयकरकमलं भाले यद्विलोचनं तत्र योऽग्निस्तत्रातापयत् । अन्योऽपि शीतजडं हस्तमग्नौ तापयति तद्वदिति भावः ॥ ४७ ॥

 किंचित्कलं ३भङ्गुरकंधरस्य नमज्जटाजूटधरस्य शंभोः ।
 प्रलम्बमानं किल कौतुकेन चिरं चुचुम्बे मुकुटेन्दुखण्डम् ।। ४८॥

 किंचिदिति ॥ किंचिद्भङ्गुरा पतनशीला । 'भञ्जभासमिदो घुरच् ( पा. ३।२१।१६१ ) इति घुरच्, 'चजो:-' (पा. ७।३।५२ ) इति कुत्वम् । कंधरा ग्रीवा यस्य। बालत्वात् स कुमारो नमज्जटाजूटस्य धरस्तस्य शंभोर्हरस्य प्रलम्बमानमाश्रयमाणं कलं मधुरं मुकुटेन्दुखण्डं मुकुटचन्द्रशकलम् । 'भित्तं शकलखण्डे वा' इत्यमरः । कौतुकेनानन्देन चिरं बहुकालं चुचुम्बे, पस्पर्शेत्यर्थः ॥ ४८ ॥

 इत्थं शिशोः शैशवकेलिवृत्तैर्मनोभिरामैर्गिरिजागिरीशौ।
 ५मनोविनोदैकरसप्रसक्तौ दिवानिशं नाविदतां कदाचित् ॥४९॥

पाठा०-१करान् ; धरः. २ संजातजाड्यः. ३ भङ्गुरकण्ठरम्य. ४ कैतव. ५ मुदा.  इत्थमिति ॥ गिरिजागिरीशौ मनोभिरामैर्मनोरमैरित्थमेवंभूतैः शिशोः कुमारस्य शैशवस्य बालस्य याः केलयस्तासां वृत्तैश्चरित्रैः । 'वृत्तं पद्ये चरित्रे त्रिष्वतीते दृढनिस्तले' इत्यमरः । मनसो विनोदस्तत्र य एको रसः प्रीतिस्तत्र प्रसक्तावासक्तौ सन्तौ कदाचिदपि दिवानिशमहर्निशं नाविदतां नावबुध्येताम् , अगाधपुत्रोत्सवार्णवमग्नत्वादिति भावः ॥ ४५ ॥

  इति बहुविधं बालक्रीडाविचित्रविचेष्टितं
   ललितललितं सान्द्रानन्दं मनोहरमाचरन् ।
  अलभत परां बुद्धिं षष्ठे दिने नवयौवनं
   स किल सकलं शास्त्रं शस्त्रं विवेद विभुर्यया ॥ ५० ॥

 इतीति ॥ इत्येवंभूतं बहुविधं नानाप्रकारकं ललितललितं ललितप्रकारमतिसुन्दरम् । सान्द्र आनन्दो येन । मनोहरं बालक्रीडाया विचित्रं विचेष्टितं चेष्टाम् ,चरित्रमिति यावत् । आचरन्विदधद्विभुः स कुमारः षष्ठे दिने परामुत्कृष्टां बुद्धिं धिषणां नवयौवनं तारुण्यं चालभत प्राप । यया बुध्या सकलं समस्तं शस्त्रम् , सकलानि शस्त्राणीत्यर्थः । शास्त्रम् , शास्त्राणीत्यर्थः । उभयत्रापि जातावेकवचनम् । विवेद ज्ञातवान् । किलेति प्रसिद्धौ । प्राचीनसत्संस्काराणां किमिवाशक्यमिति भावः । हरिणीच्छन्दः; 'रसयुगहयैन्सॉ म्रॉ स्लौ गो यदा हरिणी तदा' इति लक्षणात् ॥ ५० ॥

इति श्रीपर्वणीकरोपनामकश्रीलक्ष्मणभट्टात्मजसतीगर्भसंभवश्रीसीतारामकविविरचितया संजीविनीसमाख्यया व्याख्यया समेतः श्रीकालिदासकृतौ कुमारसंभवे महाकाव्ये कुमारोत्पत्तिर्नामैकादशः सर्गः ॥

-

पाठा०-१ वृद्धिम्. २ विभोरपि.

द्वादशः सर्गः ।


 अथ प्रपेदे त्रिदशैरशेषैः क्रूरासुरोपप्लवदुःखितात्मा ।
 पुलोमपुत्रीदयितोऽधकारिं पत्रीव तृष्णातुरितः पयोदम् ॥१॥

 अथेति ॥ अथानन्तरं क्रूरस्तीव्रो योऽसुरस्तारकसंज्ञकम्तस्य तत्कर्तृको य उपप्लव उपद्रवः स्वस्थानोच्चाटनादिकस्तेन दुःखितः क्लिष्ट आत्मा यस्य तथाभूता पुलोमपुत्र्याः शच्या दयितः प्रिय इन्द्रोऽशेषैः समस्तैस्त्रिदशैरात्मभृत्यभूतवृन्दारकैः सह तृष्णातुरितस्तृपष्णया तृषया कर्त्र्या आतुरित आतुरीकृतः । 'तत्करोति(ग० २०४ ) इति णिचि कृते 'णाविष्टवत्-' इति टिलोपः । ततः कर्तरि क्तः। पत्री चातकः पयोदमिव । अन्धकारिं हरं प्रपेदे प्राप । अत्र पूर्णोपमालंकारः। सर्गेऽस्मिन्वृत्तमुपजातिः ॥ १॥

 दृप्तारितारिसंत्रासखिलीकृतात्स कथंचिदम्भोदविहारमार्गात् ।
 अवातताराभिगिरिं गिरीशगौरीपदन्यासविशुद्धमिन्द्रः॥२॥

 दृप्तेति ॥ स इन्द्रः । दृप्तोऽभिमानी योऽरिस्तारकस्तस्माद्यः संत्रासो भयं तेन खिलीकृताद्दुरवगाह्यमानीकृतादम्भोदानां मेधानां विहारो यत्र स चासौ मार्गश्च,आकाशमित्यर्थः । तस्मात् । गिरीशसहिता या गौरी भवानी तस्याः पदे चरणे तयोर्नासो निधानं तेन विशुद्ध पवित्रं गिरिं कैलासमभि संमुखं कथंचित्केनापि प्रकारेण, कष्टेनेत्यर्थः । अवाततारोत्ततार । गिरीशगौरीति गिरीशस्याभ्यर्हितवादहचोऽपि पूर्वनिपात इति वा ॥ २ ॥

 संक्रन्दनः स्यन्दनतोऽवतीर्य मेघात्मनो मातलिदत्तहस्तः ।
 पिनाकिनोऽथालयमुच्चचाल शुचा पिपासाकुलितो यथाम्भः ॥३॥

 संक्रन्दन इति ॥ अथानन्तरं संक्रन्दन इन्दः । 'संक्रन्दनो दुश्यवनः' इत्यमरः । मातलिना सारथिना दत्त आश्रयीकरणार्थमग्रेकृतो हस्तो यस्मै सः, अवलम्बितमातलिहस्तः सन्नित्यर्थः । मेधात्मनो मेघस्वरूपधारिणः, मेघरूपा-

पाठा०-१ उपद्रव. २ पक्षीव तृष्णाव्यथितः; तृष्णातुरश्चातकवत्. ३ दृप्तासुरत्रास. ४ गिरीशम्.

५ पिनाकिरम्यालयम्. ६ पिपासाकुलवज्जल्लौघम्.

. दित्यर्थः । स्यन्दनतो रथात् । पञ्चम्यास्तसिल । अवतीर्योत्तीर्य । शुचौ ग्रीष्मे पिपासया तृष्णया, तृषेति यावत् । आकुलित आतुरः पुरुषोऽम्भो यथा जलमिव पिनाकिनो हरस्यालयं निलयमुच्चचाल, उद्दिश्य चलति स्मेत्यर्थः । “निकाय्यनिलयालयाः' इत्यमरः । पिपासेति 'म प्रत्ययात्' (पा. ३।३।१०२) इत्यकारप्रत्यये टाप् । अत्रापि पूर्णोपमालंकारः। सामान्यधर्मस्त्वाकुलितत्वमित्याकुलितत्वे निमित्तभूतो पिपासोपप्लवौ । अनयोर्बिम्बप्रतिबिम्बभावेन

सादृश्यम् ॥ ३ ॥

 इतस्ततोऽथं प्रतिबिम्बभाजं विलोकमानः स्फटिकाद्रिभूमौ ।
 आत्मानमप्येकमनेकधा स व्रजन्विभोरास्पदमाससाद ॥ ४ ॥

 इतस्तत इति ॥ अथानन्तरं व्रजन्गच्छन्स इन्द्रः स्फटिकाद्रिः कैलासस्तस्य भूमौ पृथिव्यामितस्ततो यत्र तत्र प्रतिबिम्बभाजं प्रतिबिम्बितमेकमप्यात्मानं शरीरमनेकधाऽनेकसंख्यं विलोकमानः पश्यन्सन् । विभोर्महेश्वरस्यास्पदं स्थानमाससाद प्राप ॥४॥

 विचित्रचञ्चन्मणिभङ्गिसङ्गं सौवर्णदण्डं दधतातिचण्डम् ।
 स नन्दिनाधिष्ठितमध्यतिष्ठत्सौधाङ्गणद्वारमनङ्गशत्रोः ॥ ५॥

 विचित्रमिति ॥ स इन्द्रः विचित्रा अनेकवर्णाश्चञ्चन्तो दीप्यमाना ये मणयो रत्नानि तेषां तत्कर्मीका या भङ्गयो रचनाविशेषामस्तेषां सङ्गः संबन्धो यस्य, अनेकवर्णमणिखचितमित्यर्थः । तथाऽतिचण्डमतिभीषणं सौवर्णदण्डं सुवर्णमयवेत्रं दधता बिभ्रता नन्दिना गणेनाधिष्ठितं द्वारपालतयाऽधिश्रितमनङ्गशत्रोः शिवस्य सौधस्य राजसदनसंबन्धिनोऽङ्गणस्याजिरस्य । 'अङ्गणं चत्वराजिरे' इत्यमरः । द्वारं प्रतीहारम् । 'स्त्री द्वार्द्वारं प्रतीहारः' इत्यमरः । अध्यतिष्ठदधितस्थौ ।

'अधिशीङ्स्थासाम्-' (पा. १।४।४६ ) इति कर्मत्वम् । अन्तःप्रवेशे भगवदाज्ञानुपालनं

कुर्वन्द्वार एव तस्थावित्यर्थः ॥ ५

 ततः स कक्षाहितहेमदण्डो नन्दी सुरेन्द्रं प्रतिपद्य सद्यः ।
 प्रतोषयामास सुगौरवेण गत्वा शशंस स्वयमीश्वरस्य ॥६॥

 तत इति ॥ ततोऽनन्तरं स नन्दी गणः सुरेन्द्रमिन्द्रं सद्य भाशु प्रतिपद्य

पाठा०-१ अपि. २ सङ्गि. ३स्वकक्षा. ४ स गौरवेण. ५ सदोमण्डलम्. समीपं प्राप्य सुतरां गौरवेणादरेण स्वागतादिना प्रतोषयामास संतोषितवान् । अथ च स्वयं गत्वा कक्षायां हर्म्यप्रकोष्टे । 'कक्षा प्रकोष्ठे हार्म्यादेः काञ्च्यां मध्ये- भबन्धने' इत्यमरः । आहितः स्थापितो हेमदण्डः सुवर्णवेत्रमं येन तथोक्तः सन् । ईश्वरस्य, ईश्वरमित्यर्थः । संबन्धविवक्षायां षष्टी । शशंस कथयामास, 'ससुरो महेन्द्र आगतः' इति निवेदितवानित्यर्थः ॥ ६ ॥

 भूसंज्ञयानेन कृताभ्यनुज्ञः सुरेश्वरं तं जगदीश्वरेण ।
 प्रवेशयामास सुरैः पुरोगः समं स नन्दी सदनं सदस्य ॥७॥

 भूसंज्ञयेति ॥ अनेन जगतामीश्वरेण महेश्वरेण भ्रूसंज्ञया, भृकुटीचमत्कृति- संकेतेनेत्यर्थः । कृताभ्यनुज्ञः सुरेन्द्रागमनार्थंं कृतानुशासनः स नन्दी गणः पुरोगोऽग्रगामी सन् । तं सुरेश्वरमिन्द्रं सच्छोभनमस्य महेश्वरस्य सदनं गृहं सुरैः समं प्रवेशयामास, प्रवेशितवानित्यर्थः ॥ ७ ॥

 स चण्डिभृङ्गिप्रमुखैर्गरिष्ठेगणैरनेकैर्विविधस्वरूपैः ।
 अधिष्ठितं संसदि रत्नमय्यां सहस्रनेत्रः शिवमालुलोके ॥८॥

 स इति ॥ स सहस्रनेत्र इन्द्रो गरिष्ठॅरतिशयेन गुरुभिः । “प्रियस्थिर(पा. ६।४।१५७ ) इत्यादिना 'गुरु'शब्दस्य गरादेशः । अनेकैर्बहुभिर्विविधस्वरूपैर्नानाकृतिभिश्चण्डिभृङ्गिप्रमुखैर्गणै रत्नमय्यां रत्नप्रचुरायाम् । प्राचुर्ये मयट् । 'टिड्डा-' ('पा. ४।१।१५) इति ङीप् । संसदि सभायामधिष्टितमुपविष्टं शिवमालुलोके ददर्श । इह 'अधिशीङ्' (पा. ११४।४६ ) इत्याधारस्य कर्मत्वप्रसङ्गो दुर्निवारः । अत एव रत्नमयीं सभा तामिति प्रतिष्ठितमिति वा पठनीयम् । यथास्थितविन्यासे दूषणोद्धारं सुधियो विभावयन्त्विति ॥ ८ ॥

 अथ त्रयोदशभिर्महेश्वरं विशिनष्टि कपर्दमित्यादिभिः

 कपर्दमुद्बद्धमहीनमूर्धरत्नांशुभिर्भासुरमुल्लसद्भिः ।
 दधानमुच्चैस्तरमिधातोः सुमेरुशृङ्गस्य समत्वमाप्तम् ॥९॥

 तत्र कपर्दमिति ॥ किंभूतं शिवम् ? उद्बद्धं भुजंगमरज्जुभिर्दृढीकृतमुल्लसद्भिः

पाठा०-१ तेन. २ हरस्य. ३ अधिष्ठितायां यदि. ४ रत्नवत्याम्. ५ सहस्रलोकः, ६ कंदर्पम्.

७ ऊर्ध्वस्थमहाहि; उद्बन्धमहाहि.

शोभमानैरत एवाहीनामिनाः स्वामिनस्तेषां वासुकिप्रभृतिमहासर्पाणां मूर्धसु शिरःसु यानि रत्नानि मणयस्तेषामंशुभिर्मयूखैर्भासुरं दीप्यमानम् । 'भञ्जभास(पा. ३।२११६१ ) इति घुरच् । उच्चस्तरं महान्तं कपर्दं जटाजूटं दधानं बिभ्रतम् । 'कपर्दोऽस्य जटाजूटः' इत्यमरः । अत एव पुनः किंभूतम् ? इद्धाः प्रवृद्धा धातवो गैरिकादयो यत्र तथाभूतं यत्सुमेरोः स्वर्णर्णाद्रेः शृङ्गं तस्य समत्वं सादृश्यमाप्तं प्राप्तम् ॥ ९॥

 विभ्राणमुत्तुङ्गतरङ्गमालां गङ्गां जटाजूटतट भजन्तीम् ।
 गौरीं तदुत्सङ्गजुषं हसन्तीमिव स्वफेनैः शरदभ्रशुभॅः ॥१०॥

 विभ्राणमिति ॥ पुनः किंभूतम् ? उत्तुङ्गोन्नतगामिनी । उन्लवनरीतिगामिनीत्यर्थः । तथाभूता तरङ्गमाला कल्लोलपङ्क्तिर्यस्यास्तां जटाजूटस्य कपर्दस्य तटं समीपभागं भजन्तीम् , तत्र स्थितामित्यर्थः । तथा शरदभ्रवच्छरत्कालिकमेघवच्छुम्रॅः विशदैः स्वफेनैस्तस्य हरस्योत्सङ्गं जुषते सेवते ताम् । हराङ्कस्थितामित्यर्थः । गौरीं पार्वतीं हसन्तीमिवोपहास्यं कुर्वतीमिव । सापत्नयप्रयुक्तमनःसंतापं हास्येन स्फुटीकुर्वाणामिवेत्युत्प्रेक्षा । गङ्गां बिभ्राणं दधानम् ॥ १० ॥

 गङ्गातरङ्गप्रतिविम्बितैः स्वॅर्बहूभवन्तं शिरसा सुधांशुम् ।
 चलन्मरीचिप्रचयॅस्तुपारगौरेर्हिमद्योतितमुद्वहन्तम् ।। ११ ।।

 गङ्गेति ॥ पुनः किंभूतम् ? गङ्गातरङ्गेषु जाह्नवीकल्लोलेषु प्रतिविम्बितैः स्वैरात्मभिः । शरीरैरिति यावत् । बहूभवन्तमनेकीभवन्तं सुधांशुं चन्द्रं शिरसा मूर्ध्नोद्वहन्तं दधानम् । अत एव पुनः किंभूतम् ? तुषारवत्तुहिनवद्गौरैः सितैः । 'गौरोऽरुगे सिते पीते' इति विश्वः । चलन्तः प्रसरन्तो ये मरीचिप्रचयाः किरणसंघातास्तैर्हिमद्योतितम् । द्योतते शोभते इति स द्योती, शोभावानित्यर्थः । तस्य भावो द्योतिता । द्युतिरित्यर्थः । हिमवद्धिमसंघातवद्दयोतिता द्युतिर्यस्य तम् । पूर्वं धवलाङ्गमप्यनेकचन्द्रशोभाभिरधिकधवलीभूतमित्यर्थः ॥ ११ ॥

 भालस्थले लोचनमेधमानधामाधरीभूतरवीन्दुनेत्रम् ।
 युगान्तकालोचितहव्यवाहं मीनध्वजप्लोषणमादधानम् ॥१२॥

पाठा०–१ कपाल. २ तलम्. ३ तरङ्गैः. ४ तैः. ५ बभ्रूभवन्तम्. ६ तुषारगौरैदिग्द्योतितम्. ७ एधमानम्.  भालस्थल इति ॥ भालस्थले ललाटदेश एधमानं वर्धमानं यद्धाम तेजस्तेन निमित्तेनाधरीभूते परीभावमुपागते रवीन्दू एव नेत्रे यस्मात् , ताभ्यामधिकतेजस्कमित्यर्थः । यद्वा,-एधमानधाम अधरीभूतं चेति पदद्वयम् । तत्रैवं व्याख्येयम् एधमानं वर्धमानं धाम तेजो यस्य वर्धिष्णुतेजस्कमित्यर्थः । तथोन्नतानतस्थानभेदेनाधरीभूते भालस्थनेत्रापेक्षया नीचैर्भूते रवीन्दू एव नेत्रे यस्य। तथा युगान्तकाले प्रलयकाल उचितं परिचितं हव्यवाहमग्निरूपम् । प्रलयकालिकानलरूपमित्यर्थः । अत एव मीनध्वजस्य कामस्य प्लोषणं दाहकम् । 'प्लुष दाहे', 'कृत्यल्युटो बहुलम्' (पा. ३१११३ ) इति कर्तरि ल्युट् । एवंभूतं लोचनमादधानम् , बिभ्राणमित्यर्थः ॥ १२॥

 महार्हरत्नाञ्चितयोरुदारं स्फुरत्प्रभामण्डलयोः समन्तात् ।
 कर्णस्थिताभ्यां शशिभास्कराभ्यामुपासितं कुण्डलयोश्छलेन॥१३।।

 महेति ॥ पुनः किंभूतम् ? महार्हाणि बहुमूल्यानि यानि रत्नानि मणयम्तैरणण्जञ्चितयोः खचितयोरत एव समन्तात्सर्वत उदारमधिकं यथा स्यात्तथा स्फुरत्प्रसरत्प्रभामण्डलं कान्तिवितानं ययोः । तथाभूतयोः कुण्डलयोः कर्णभूषणयोश्छलेन कैतवेन कर्णयोः श्रवणयोः स्थिताभ्यामुपविष्टाभ्यां शशिभास्कराभ्यां चन्द्रसूर्याभ्यामुपासितं सेवितम् । कुण्डलविषये कैतवात्सूर्याचन्द्रमसोरारोष्यमाणत्वादृप्यरूपकं कैतवापहृतिश्चेत्युभयोः संसृष्टिः ॥ १३ ॥

 स्वबद्धया कण्ठिकयेव नीलमाणिक्यमय्या कुतुकेन गौर्याः ।
 नीलस्य कण्ठस्य परिस्फुरन्त्या कान्त्या महत्या सुविराजमानम् १४

 स्वबद्धयेति ॥ पुनः किंभूतम् ? परिस्फुरन्त्या परितः प्रसरन्त्या नीलस्य श्यामस्य कण्ठस्यात्मगलस्य महत्या कान्त्या प्रभया सुतरां विराजमानं शोभमानम् । कयेवेत्युत्प्रेक्षते-कुतुकेन कौतुकेन स्वस्मिन्नात्मीयकण्ठे बद्धया निहितया नीलमाणिक्यमय्या नीलरत्नविशेषप्रचुरया गौर्याः कण्ठिकयेव कण्ठभूषयेव । 'कण्ठिका कण्ठभूषणम्' इति मेदिनी ॥ १४ ॥

पाठा०-१ उदार. २ सुबुद्धया. ३ गौर्या. ४ च विराजमानम्.

१७ कु. सं.

 कालार्दितानां त्रिदशासुराणां चितारजोभिः परिपाण्डुराङ्गम् ।
 महन्महेभाजिनमुद्गताभ्रप्रालेयशैलश्रियमुद्वहन्तम् ।। १५ ॥

 कालेति ॥ पुनः किंभूतम् ? कालेनावसानकालिकमृत्युनार्दितानां पीडितानाम् , मृतानामिति यावत् । त्रिदशासुराणां देवदैत्यानां चिताया मृतमण्डपस्यन रजोभिर्भस्मभिः परितः पाण्डुरं शुभ्रमङ्गं यस्य, विहितमृतमण्डपभस्मोद्धूलनमित्यर्थः । इह देवानाममरत्वाभावो दुर्धटः । तत्र ज्ञानाभावेन निहितपदस्य कवेः प्रमाद इत्याहुः । केचित्पुनः 'मनुजासुराणाम्' इति पाठान्तरं कल्पयन्ति । अथ यद्यपि कालार्दितानामिति विशेषणमुभयविशेष्यान्वयित्वेन द्वितीयविशेष्ये विवक्षितमप्यकालार्दितत्वविहशेषणस्य व्यभिचारनियमेन नियमनान्निषिद्धं भवति, तथापि प्रथमविशेप्ये लोकोपकारकतापक्षेऽपि व्यभिचारितार्थसंभवेन विशेषणानुपयोगासंभवप्रयुक्तप्रधानभूतद्वितीयविशेष्यसंबन्धेन प्रथमविशेष्यान्वयित्वनिरासः । एवं चोपकार्यमनुजसहचरितत्वेन लोकोपकारकतापक्षावलम्बेन च विवक्षितार्थस्याविवक्षितत्वात् । संहारकतापक्षे तु प्रायो गतिरन्वेषणीयेत्यलम् । तथा महत्परिणाहि मटेभस्य महतो गजस्याजिनं चर्म परिदधानमिति पूर्वेण संबन्धः । अत एवोद्गतमुदितमभ्रं मेघो यत्र स चासौ प्रालेयशैलो हिमवांस्तस्य श्रियं शोभामुद्वहन्तं दधानम् । निदर्शनालंकारः ॥ १५ ॥

 पाणिस्थितब्रह्मकपालपात्रं वैकुण्ठभाजापि निषेव्यमाणम् ।
 नरास्थिखण्डाभरणं रणान्तमूलं त्रिशूलं कलयन्तमुच्चैः ।। १६ ॥

 पाणीति ॥ पुनः किंभूतम् ? पाणौ स्थितं ब्रह्मकपालमेव पात्रं यस्य पाणिना ब्रह्मकरोटीपात्रं बिभ्राणमित्यर्थः । पुनः किंभूतम् ? वैकुण्ठभाजापि हरिणापि निषेव्यमाणम् । सेवनमत्र कादाचित्कं नत्विदानींतनमेव त्रयाणामभेदस्यैवेष्टार्थकरत्वात् । एकैव मूर्तिरिति सप्तमसर्गोक्तेरिति भावः । हरापेक्षया हरेरपि लघुत्वसंभावनया संभवत्येव कदाचित्सेवनम् । तथा नराणामस्थिखण्डान्येवाभरणानि यस्य, हिंसाकालसंल्लग्नस्वशूलत्रितयास्थिकमित्यर्थः ।

तथा रणे योऽन्तो रिपूणा-

पाठा०-१ परिपाण्डुरागम्. २ उन्नत. ३ वैकुण्ठकङ्कालकरालकायम्. ४ सुरास्थिकण्ठाभरणम् ; सुरास्थिस्वण्डाभरणम्. मवसानं तस्य, मूलं कारणम् । 'मूलं कारणमूल्ययोः' इति मेदिनी। उच्चैर्महत्रिशूलमायुधविशेषं कलयन्तं दधानम् ॥ १६ ॥

 पुरातनीं ब्रह्मकपालमालां कण्ठे वहन्तं पुनराश्वसन्तीम् ।
 उद्गीतवेदां मुकुटेन्दुवर्षत्सुधाभरौघाप्लवलब्धसंज्ञाम् ।। १७ ॥

 पुरातनीमिति ॥ पुनः किंभूतम् ? मुकुटे य इन्दुश्चन्द्रस्तस्माद्वर्षन्गलन् यः सुधाभरौघोऽमृतसमूहप्रवाहस्तत्र य आप्लवः स्नानं तेन निमित्तेन लब्धसंज्ञां प्राप्तचेतनामत एवाश्वसन्तीमुजीवन्तीम् । अत एव पुनर्भूयोऽप्युद्गीतवेदां पठितश्रुतिकाम् , ब्रह्मत्वादिति भावः । पुरातनी प्राक्तनीम् । 'सायंचिरम्(पा. ४।३।२३ ) इत्यादिना पुराव्ययाट्ट्युतुटौ । टिल्वाङीप् । ब्रह्मकपालानां मालां स्रजं कण्ठे गले वहन्तम् , दधानमित्यर्थः ॥ १७ ॥

 सलीलमङ्कस्थितया गिरीन्द्रपुत्र्या नवाष्टापदवैल्लिभासा ।
 विराजमानं शरदभ्रखण्डं परिस्फुरन्त्याचिररोचिषेव ॥ १८ ॥

 सलीलमिति । पुनः किंभूतम् ? नवं यदष्टापदं हेम । 'हेमन्यष्टापदं वरे' इति मेदिनी । तस्य वली लता। 'वल्ली नु व्रततिर्लता' इत्यमरः । प्रकृत्या तु वल्लीशदस्य ह्रस्वत्वमेव । 'कृदिकारादक्तिनः' (ग० ५० ) इति दीर्घत्वम् । तस्या भा इव भा यस्याः, तद्वच्छोभमानयेत्यर्थः । तथा सलीलं सक्रीडमङ्कस्थितयाङ्कमारूढया गिरीन्द्रपुत्र्या हिमालय न्यया परितः स्फुरन्त्या प्रप्तरत्या चिररोचिषा चलप्रभया विद्युता शरदभ्रस्य शरत्कालिकमेघस्य खण्डं शकलमिव विराजमानं शोभमानम् । महेश्वरस्य शुभ्रत्वं भस्मोद्धूलनादिति विवेचनीयम् । खण्डौपम्यं च शुभ्रत्वमात्रतात्पर्येण न विरुध्यते ॥ १८ ॥

 दृप्तान्धकमाणहरं पिनाकं महासुरस्त्रीविधवत्वहेतुम् ।
 करेण गृह्णन्तमगृह्यमन्यैः पुरा स्मरप्लोषणकेलिकारम् ॥ १९॥

 दृप्तेति ॥ दृप्तोऽभिमानी योऽन्धकोऽन्धकासुरस्तस्य प्राणानां हरमपहारकम् , तद्धननसाधनमित्यर्थः । तथा महासुरास्त्रिपुरादयस्तेषां याः स्त्रियस्तासां विधवत्वं

पाठा०-१ उद्गीर्णवेदाम् ; उदीर्णवेदाम्. २ सुधाघसंप्लावन. ३ तुल्यभासा. ४ गजासुर. ५ विधवात्वहेतुम्. ६ असह्यशूलम्. ७ सुर. वैधव्यम् , मृतभर्तृकत्वमिति यावत् । तस्य हेतुं कारणम् , महासुरविनाशकमित्यर्थः । तथा पुरा पूर्वं स्मरस्य कामस्य प्लोषणं दाहं केल्यानायासेन करोतीति तथा । अन्यैः शिवातिरिक्तैरगृह्यं ग्रहीतुमशक्यं पिनाकं धनुः करेण पाणिना गृह्णन्तं दधानम् ॥ १९ ॥

 भद्रासनं काञ्चनपादपीठं महार्हमाणिक्यविभङ्गिचित्रम् ।
 अधिष्ठितं चन्द्रमरीचिगौरैरुद्वीज्यमानं चमरैर्गणाभ्याम् ॥ २० ॥

 भद्रासनमिति ॥ महार्हाणां बहुमूल्यानां माणिक्यानां विभङ्गिभी रचनाभिश्चित्रं विचित्रम् । भद्रं शुभमासनं पट्टादिनिर्मितं यत्र तादृशम् । बध्नन्तमिति पदमध्याहार्य भद्रासनमासनविशेषमिति केचिद्व्याचक्षते, तत्त्वध्याहारदोषाद्योगाभ्याससमयाभावेन तदसंभवाच्चोपेक्षणीयमिति । काञ्चनपादपीठं सौवर्णसिंहासनमधिष्ठितम्, तत्रोपविष्टमित्यर्थः । 'अधिशीस्थासाम्-' (पा. ११४।४६ ) इति कर्मत्वम् । पुनश्च । चन्द्रमरीचिवद्गौरॅर्विशदैश्चमरैः कृत्वा गणाभ्यां कर्तृभ्यामुद्वीज्यमानं प्रेङ्ख्यमानम् । कर्तृद्वित्वे चमरबहुत्वं प्रतिक्षणनूतनग्रहणात्संगमनीयम् २०

 शस्त्रास्त्रविद्याभ्यसनैकसक्ते सविस्मयैरेत्य गणैः सुदृष्टे ।
 नीराज्यमाने स्फटिकाचलेन सानन्दनिर्दिष्टदृशं कुमारे ॥ २१ ॥

 शस्त्रास्त्रेति ॥ शस्त्राणि धनुरादीनि, अस्त्राणि मोहनादीनि, तान्येव विद्यास्तासामभ्यसन एवैकं केवलं सक्तेऽनुरक्ते । तथा गणैः प्रमथप्रभृतिभिरेत्य तत्समीपं प्राप्य सविस्मयैः साश्चर्यॅः सद्भिः सुतरां दृष्टे, साभिलाषमवलोकित इत्यर्थः । तथा स्फटिकाचलेन कैलासेन, जङ्गमात्मकेन सतेति शेषः । नीराज्यमाने, आर्तिक्येनेति शेषः । एवंभूते कुमारे पुत्रे सानन्दं सामोदं निर्दिष्टा सन्निहिता दृग्दृष्टिर्येन तम् , सानन्दतया कुमारमवलोकयन्तमित्यर्थः ॥ २१ ॥

 तथाविधं शैलसुताधिनाथं पुलोमपुत्रीदयितो निरीक्ष्य ।
 आसीत्क्षणं क्षोभपरो नु कस्य मनो न हि क्षुभ्यति धामधाम्नि ॥२२॥

 तथाविधमिति ॥ पुलोमपुत्री पुलोमजा, शचीति यावत् । 'पुलोमजा शची-

पाठा०-१ महार्घ्यम्. २ अवसक्ते; एकसक्तैः. ३ सुदृष्टम्. ४ संवीज्यमाने. ५ अम्बिकयाञ्चलेन. ६ अथ कस्य; अत्र कस्य; अन्तकस्य. न्द्राणी' इत्यमरः । तस्या दयितः प्रियः पुरंदरः । तथाविधं पूर्वोक्तविशेषणविशिष्टं शैलसुतायाः पार्वत्या अधिनाथं महेश्वरं निरीक्ष्य क्षणं मुहूर्त क्षोभे चित्तसंचलने पर आसक्तः संचलनेन व्याकुल आसीत् । ननु महेश्वरदर्शनेन कथं व्याकुल आसी- दित्यर्थान्तरं न्यस्यति हि यतः धामधाम्नि तेजोराशौ कस्य मनश्चेतो न क्षुभ्यति क्षोभं प्राप्नोति ? अपि तु सर्वस्यापीत्यर्थः ॥ २२ ॥

 विकस्वराम्भोजवनश्रिया तं दृशां सहस्रेण निरीक्षमाणः ।
 रोमालिभिः स्वर्गपतिर्बभासे पुष्पोत्कराकीर्ण इवाम्रशाखी ॥२३॥

 विकस्वरेति ॥ स्वर्गपतिर्महेन्द्रः । विकस्वराणां प्रफुल्लानामम्भोजानां कम- लानां वनस्य श्रीरिव श्रीः शोभा यस्य तथाभूतेन दृशां नेत्राणां सहस्रेण तं महेश्वरं निरीक्षमाणो विलोकमानः सन् । रोम्णामालिभिः समूहैर्निमित्तैः पुष्पाणा- मुत्करेण समूहेनाकीर्ण आसमन्ताद्व्याप्त आम्रशाख्याम्रवृक्ष इव बभासे शुशुभे । उपमालंकारः ॥ २३॥

 दृष्ट्वा सहस्रेण दृशां महेशमभूत्कृतार्थोऽतितरां महेन्द्रः ।
 सर्वाङ्गजातं तदथो विरूंपमिव प्रिंयाकोपकरं विवेद ।। २४ ॥

 दृष्ट्वेति ॥ दृशां सहस्रेण महेशं शिवं दृष्ट्वा महेन्द्र इन्द्रोऽतितरामातिशयं कृतार्थः कृतकृत्योऽभूत् । अथोऽनन्तरं तत्सर्वाङ्गजातं सर्वेष्वङ्गेषु भूतं विरूपं रोमाञ्चजनितवैरूप्यं प्रियायाः शच्याः कोपकरं क्रोधविधायीव विवेद जज्ञे । सपत्नीसंबन्धजनितत्वशङ्काकुलत्वादिति भावः ॥ २४ ॥

 ततः कुमारं कनकाद्रिसारं पुरंदरः प्रेक्ष्य धृतास्त्रशस्त्रम् ।
 महेश्वरोपान्तिकवर्तमानं शत्रोर्जयाशां मनसा बबन्ध ॥ २५॥

 तत इति ॥ ततोऽनन्तरम् । पुरंदर इन्द्रः कनकाद्रेः सुमेरोः सार इव सारो वीयं यस्य तम् , महाबलीयांसमित्यर्थः । अत एव ध्रतान्यस्त्राणि शस्त्राणि च येन । तथा महेश्वरस्य पितुरुपान्तिके समीपे वर्तमानं तिष्टन्तं कुमारं प्रेक्ष्य विलोक्य


कुमारसंभव

[ सर्गः १२ शत्रोस्तारकस्य जय आशां मनसा बबन्ध धृतवान् । एवंभूतोऽयं कुमारो मच्छ- क्षेप्यत्येवेनि पुरंदरस्य प्रतीतिरभूदित्यर्थः ॥ २५ ॥ अथ युग्मेनाह- श्रीनीलकण्ठ ! धुपतिः पुरोऽस्ति त्वयि प्रणामावसरं प्रेतीच्छन् । सहस्रनेत्रेव भव त्रिनेत्र ! दृष्टया प्रसादप्रगुणो महेश! ॥२६॥ इति प्रबद्धाञ्जलिरेत्य नन्दी निधाय कक्षामभि हेमवेत्रम् । प्रसादपात्रं पुरतो भविष्णुरथ स्मरारातिमुवाच वाचम् ।। २७ ।। श्रीति । इतीति ॥ अथ नन्दी गणः पुरतः सर्वेभ्योऽग्रगामितयेन्द्राधिष्ठितक- क्षामारभ्य महश्वराधिश्रितमन्दिरपर्यन्तमहम्पूर्विकया बहुविधगणसुरगणावृते मध्य- गतदेशेऽहम्पूर्विकावलम्बेनेति तात्पर्यार्थः । प्रसादस्येन्द्रागमनिवेदनामुदन्धेनान्ध- कारिणा दत्तपारितोषिकरूपस्य पात्रं योग्यो भविष्णुर्भवितुमिच्छुः सन्नेत्य, अन्तरिति शेषः । तथा कक्षा द्वारमभि संमुखं मवेत्रं सौवर्णयष्टिकां निधाय संस्थाप्य । इयं वेत्रधारिणो रीतिर्वर्णिता । प्रबद्धाञ्जलिः सन्स्मराराति महेश्वरम् । भोः श्रीयुक्तनीलकण्ठ सपार्वतीक महेश्वर ! छुपतिरिन्द्रस्त्वयि भवति प्रणामावसरं प्रणतिसमयं प्रतीच्छन्प्रतीक्षमाणः पुरोऽग्रेऽम्ति विद्यते । महेश्वरप्रणिनंसुः सन्बहिरास्त इत्यर्थः । अतो हे त्रिनेत्र भो महश! अत्र पुरोवर्तिनि सहस्रनेत्र इन्द्रे दृष्टया दर्शनेन प्रसादप्रगुणः प्रसादविधानानुकुलो भव, आत्मीयदर्शनरूपं प्रसादं तदुपरि कुर्वित्यर्थः । इत्येवंभूतां वाचमुवाचोक्तवान् ॥ २६-२७ ॥ पुरा सुरेन्द्रं सुरसङ्घसेव्यं त्रिलोकसेव्यस्त्रिपुरासुरारिः । प्रीत्या सुधासारनिधारिणेव ततोऽनुजग्राह विलोकनेन ॥ २८ ।। पुरेति ॥ ततोऽनन्तरं निवेदनानन्तरं त्रिलोकसेव्यस्त्रैलोक्यपूजनीयस्त्रिपुरासुर- स्यारिः शत्रुर्महेश्वरः सुरसङ्घन देवसमूहेन सेव्यं पूज्यं सुरेन्द्रमिन्द्रं पुरा प्रथम

पाठा०-१ तव. २ च पृच्छन्. ३ सहस्रनेत्रोऽत्र भव त्रिनेत्र; सहस्रनेत्रं प्रसर त्रिनेत्र. ४ दृष्ट्वा. ५ प्रवणः. ६ महेशः. ७ हेमदण्डम्. ८ भविष्णुमध्यन्धकारातिम् , भविष्णुरधिस्मरारातिम्. ९ मुदा. १० असुरारिम्. ११ त्रैलोक्यसेव्यः, त्रैलोकसेव्यः. १२ सुधासारविसारिणा; सुधासारविधारिणा. प्रीत्या निमित्तेन सुधासारम् , अमृततुल्यमित्यर्थः । निधारयति नितरां धारां धारारूपं करोति । 'तत्करोति-' (ग० २०४ ) इति करोत्यर्थे णिच् । सुधासार- धारां वर्षतेत्यर्थः । एवंभूतेनेव विलोकनेन दर्शनेनानुजग्राह, तदुपर्यनुग्रहमकार्षी- दित्यर्थः । स्वामिनां प्रसादपूर्वकमवलोकनमेव भृत्यानामुपरि महाननुग्रह इति भावः ॥२८॥

 किरीटकोटिच्युतपारिजातपुष्पोत्करेणानमितेन मूर्ध्ना ।
 स्वर्गैकवन्द्यो जगदेकवन्द्यं तं देवदेवं प्रणनाम देवः ॥ २९ ॥

 किरीटेति ॥ स्वर्ग एवैकं केवलं वन्द्यो नमस्करणीयो देव इन्द्रः । आनमिते- नात एव किरीटकोठ्याऽश्च्युतोऽधःपतितः पारिजातपुष्पाणां मन्दारकुसुमानामुत्करः समूहो यस्मात्तथाभूतेन मूर्ध्ना शिरसा जगतामेकमेव वन्द्यं नमस्करणीयम् , एत- त्सदृशो जगतां वन्द्यतयाऽन्यो न विद्यत इत्यर्थः । देवदेवं महेश्वरं प्रणनाम नमश्चक्रे ॥ २९॥

 अनेकलोकैकनमस्क्रियार्हं महेश्वरं तं त्रिदशेश्वरः सः।
 भक्त्या नमस्कृत्य कृतार्थतायाः पात्रं पवित्रं परमं बभूव ॥ ३०॥

 अनेकेति ॥ स त्रिदशेश्वर इन्द्रो भक्त्या, भक्तिपूर्वकमित्यर्थः । अनेक त्रयो ये लोकास्तेषामेक एव नमस्क्रियायामर्ह उचितस्तथोक्तं तं महेश्वरं नमस्कृत्य । 'उपपदविभक्तेः कारकविभक्तिर्बलीयसी' इत्युक्तेर्द्वितीया । परममत्यन्तं पवित्रं विशदं कृतार्थतायाः कृतकृत्यत्वस्य पात्रं स्थानं बभूव, महेन्द्रो महेश्वरं प्रणम्य कृतकृत्योऽभूदित्यर्थः ।। ३० ॥

 सुभक्तिभाजामधि पादपीठं प्रान्तक्षितिं नम्रतरैः शिरोभिः ।
 ततः प्रणेमुः पुरतो गणानां गणाः सुराणां क्रमतः पुरारिम् सुभक्तीति ॥३१॥

 सुभक्तीति ॥ ततोऽनन्तरम् । सुभक्तिं भजन्ति तेषाम् । 'भजो ण्विः' { पा. ३।२।६२ ) इति ण्विः । सुराणामिन्द्रातिरिक्तानां सुराणां गणाः । गणानां

पाठा०-१ पुष्पेण भक्त्या. २ स्वर्गैकवन्द्यः. ३ जगदेकदेवं ननाम देवः स सहस्रनेत्रः. ४ त्रिदिवेश्वरः, ५ पादपीठं प्रीताक्षिभिः; पादपीठं प्रान्तीकृतैः. ६ सुराणाम्. ७ सशक्राः स्मरारिम् ; सुरेन्द्रक्रमतः पुरारिम् . प्रमथप्रभृतीनां पुरतोऽग्रे । अनेन मर्यादातिरिक्तकरणस्य दुर्विधेयत्वमुक्तम् । पाद- पीठस्य चरणाधारपीठविशेषस्य प्रान्तक्षितिः समीपभूमिस्तामध्यधिकृत्य, आधार- भूतां कृत्वेत्यर्थः। अत्र 'अधिशब्देनाधिकरणमाधारः। स चौपश्लेषिकः । अव्यया- नामाकृतिगणत्वादधिशब्दोऽत्राधिकरणपर्यायोऽव्ययम् । अन्यथामन्तत्वमन्वेषणी- यम् । नम्रतरैः शिरोभिः पुरारिं महेश्वरं क्रमतः क्रमेण प्रणेमुर्नमश्चक्रुः ॥ ३१॥

 गणोपनीते प्रभुणोपदिष्टः शुभासने हेममये पुरस्तात् ।
 प्रापोपविश्य प्रमुदं सुरेन्द्रः प्रभुप्रसादो हि मुदे न कस्य ॥३२॥

 गणेति ॥ सुरेन्द्रो गणेन केनचिदुपनीते, प्रभुशासनेनेति शेषः । तथा हेममये सुवर्णमये शुभासने प्रभुणा हरेणोपदिष्ट आरोढुमाज्ञप्तः सन् । पुरस्ता- त्प्रभोरग्रत एवोपविश्य स्थित्वा प्रकृष्टां मुदं हर्षं प्राप । तथा हि-प्रभुप्रसादः प्रभुकर्तृकोऽनुग्रहः कस्यानुगस्य मुदे प्रीत्यै न भवति ? अपि तु सर्वस्यापीति काक्वा व्याख्येयम् ॥ ३२ ॥

 क्रमेण चान्येऽपि विलोकनेन संभाविताः सस्मितमीश्वरेण ।
 उपाविशंस्तोषविशेषमाप्ता दृग्गोचरे तस्य सुराः समग्राः ॥ ३३ ॥

 क्रमेणेति ॥ ईश्वरेण महेश्वरेण क्रमेणानुक्रमतोऽन्येऽपि च समग्राः सुराः सस्मितं सप्रसादव्यञ्जकहासं यथा तथा विलोकनेन संभाविता आदृता अत एव तोषविशेषं संतोषाधिक्यमाप्ताः प्राप्ताः सन्तस्तस्य प्रभोर्दृग्गोचरे दृष्टिविषय उपावि- शंस्तस्थुः, यथा युगपदेव भगवान्सर्वानवलोकयेत्तथैव सर्वे तस्थुरित्यर्थः ॥ ३३ ॥

 अथाह देवो बलवैरिमुख्यान् गीर्वाणवर्गान्करुणार्द्रचेताः ।
 कृताञ्जलीकानसुराभिभूतान् ध्वस्तश्रियः श्रान्तमुखानवेक्ष्य ॥३४॥

अथेति ॥ अथ देवो हरो बलवैरीन्द्रः स मुख्यो येषु तथाभूतान्गीर्वाणव- र्गान्देवसमूहान् । असुरेण तारकेणाभिभूताञ्जितानत एव ध्वस्तश्रियो नष्टलक्ष्मी- कानत एव श्रान्तं खिन्नं मुखं येषाम् , नष्टमुखतेजसः इत्यर्थः । अत एव कष्ट-

पाठा०-१ उपदिष्टे. २ नृपासने; ध्रुवासने. ३ प्रमदम्. ४ प्रभोः प्रसादः. ५ अन्येन. ६ उपाविशुः, ७ पुरः समेताः. ८ गीर्वाणमुख्यान्. ९ असुरावधूतान्. १० ध्वस्तप्रियान्. ११ शीर्णमुखान्. श्लो० ३२-३७] देवेभ्यो हरस्यागमनहेतुपरिप्रश्नः २६५

निवृत्त्यर्थं कृतोऽञ्जलिर्यैस्तानवेक्ष्य दृष्ट्वा करुणयार्द्रं स्निग्धं चेतो यस्य तथाभूतः सन्नाहोवाच ॥३४॥

अहो बतानन्तपराक्रमाणां दिवौकसो! वीरवरायुधानाम् । हिमोदबिन्दुग्लपितस्य किं वः पद्मस्य दैन्यं दधते मुखानि ॥३५॥

अहो इति ॥ 'अहो'शब्दोऽत्र हेशब्दपर्यायः । हे दिवौकसो देवाः! अनन्त- पराक्रमाणामपारविक्रमाणाम् । तथा वीरान्वृणतेऽभिलषन्ति, वीरहस्तजिगमिषा- शालीनीत्यर्थः । एवंभूतान्यायुधानि येषां तथाभूतानां वो युष्माकं मुखानि हिमत्य यदुदमुदकं तस्य यो बिन्दुस्तेन ग्लपितस्य क्षीणहर्षीकृतस्य । 'उदकस्योदः संज्ञायाम्' ( पा. ६।३।५७ } इत्युदादेशः । तथाभूतस्य पद्मस्य दैन्यं दीनतां किं कुतो दधते बिभ्रति ? यूयं कुतः कारणतो भ्रष्टलक्ष्मीका इति प्रश्नाशयः ॥ ३५ ॥

स्वर्गौकसः! स्वर्गपरिच्युताः किं स्वपुण्यराशौ सुमहत्तमेऽपि । चिह्नं चिरोढं न तु यूयमेते निजाधिपत्यस्य परित्यजध्वम् ॥३६॥

स्वर्गौकस इति ॥ हे स्वर्गौकसः ! स्वपुण्यराशौ स्वर्गप्राप्तिनिमित्तपुण्यव्रजे सुतरां महत्तमेऽपि, अक्षयेऽपीत्यर्थः । किं कुतः, स्वर्गपरिच्युताः स्वस्थानभ्रष्टाः ? भ्रंशे किं कारणमिति प्रश्नाशयः । अथ चाश्वासयति-एते यूयं चिरोढं बहु- कालमूढं निजाधिपत्यस्य स्वीयस्वामितायाश्चिह्नं छत्रचामरादि तु न परित्यजध्वं मा परित्यजत । विध्यर्थे लोट् । त्यजध्वमित्यात्मनेपदं चिन्त्यम् ॥ ३६ ॥

दिवौकसो! देवगृहं विहाय मनुष्यसाधारणतामवाप्ताः । यूयं कुतः कारणतश्वरध्वं महीतले मानभृतो महान्तः ॥ ३७॥

दिवौकस इति ॥ हे दिवौकसः ! महान्तोऽत एव मानभृतो मनस्विनो यूयं कुतः कारणतः कारणाद्देवगृहं स्वर्गं विहाय परित्यज्य मनुष्यसाधारणतां मानवसाम्यमवाप्ताः सन्तो महीतले चरध्वम् ? संप्रश्ने लोट् । अत्राप्यात्मनेपदं चिन्त्यम् ॥ ३५॥ पाठा०-१ दिवौकसाम्. २ सुपुण्यराशौ. ३ सुमहत्तरे. ४ वत; ननु. ५ स्वर्गौ- कसः. ६ चरध्वे. ७ महीभृतः. ८ मानधनाः. २६६ कुमारसंभवे [ सर्गः १२

अनन्यसाधारणसिद्धमुच्चैस्तदैवतं धाम निकामरभ्यम् । कस्मादकस्मान्निरगाद्भवद्भ्यश्चिरार्जितं पुण्यमिवापचारात् ॥ ३८ ॥

अनन्येति ॥ हे देवाः ! अन्यसाधारणेनान्यदीयदेशतुल्यत्वेन सिद्ध साधि- रचितमित्यर्थः । तन्न भवतीति तथोक्तमत एव निकामं बहु रम्यं मनोहर- मुञ्चैर्महत्तत्प्रसिद्धं दैवतं धाम स्वर्गमकस्मात्सहसैव कस्माद्धेतोः भवद्भ्योऽप- चारात्पापाद्वैतोश्विरार्जितं बहुकालेन संपादितं पुण्यमिव निरगान्निर्गतम् ? 'तुम्हांपासून स्थल कसें जातें जहाले ?' इति लोकोक्तिरीतिरत्रानुसंधेया ॥ ३८ ॥

दिवौकसो! वो हृदयस्य कस्मात्तथाविधं धैर्यमहार्यमार्याः । अगादगाधस्य जलाशयस्य ग्रीष्मातितापादिवशादिवाम्भः ॥३९।।

दिवौकस इति ॥ हे दिवौकसो हे आर्याः ! तथाविधं तादृशमहार्यमनिर्वच- नीयं वो युष्माकं हृदयस्य मनसो धैर्यं करस्माद्वेतोर्गीष्मेण योऽतितापादिः संता- पादिस्तस्य वशाद्वेतोः । अगाधस्य जलाशयस्याम्भ इव । अगादनशत् , अन्यत्र शुष्यतीत्यर्थः । धैर्यं न हेयमिति भावः ॥ ३९ ॥

संप्रति स्वयमेव भयनिमित्तं दर्शयति सुराः! सुराधीशपुरःसराणां समीयुपां वः सममातुराणाम् । तद्ब्रूतं लोकत्रयजित्वरात्किं महासुरात्तारकतो विरुद्धम् ।। ४० ।।

सुरा इति ॥ हे सुराः! तत्तस्मादातुराणामत एव समं सह समीयुषामाग- तानां यथा सुराधीशपुरःसराणामिन्द्रप्रमुखानां वो युष्माकं लोकत्रयजित्वरात्रैलोक्य- जेतुस्तारकतस्तारकसंज्ञकान्महासुराद्विरुद्दं वैरं किम् ? स भवतां वैरी किमिति प्रश्नः । ब्रूत वदत ॥४०॥

पाठा०-१ सुदैवतम् । तदैव तम्. २ निकामकामम् ; निकामकाम्यम्. ३ यमाद्यैः. ४ अगाधम्. ५ अपवादात्. ६ विरुद्धतः. ७ ग्रीष्मातपापत्तिवशात्. ८ पुरारातिपुरो विवर्णम् ; पुरारातिपुरः सुवर्णम् ; सुनासीरपुरःसराणाम्. ९ समी- यिवांसं सममातुराणाम् ; समीहितं यत्सममातुराणाम् ; समीयुषां सामसमातुराणाम्. १० ब्रूत लोकत्रयजित्वराः, भूतलोकत्रयजित्वराः. ११ महासुरप्रायकतः. श्लो० ३८-४४] तारक पीडानिवारणेदेवेभ्यः आश्वासनम् २६७

पराभवं तस्य महासुरस्य निषेद्धुमेकोऽहमलम्भविष्णुः । दावानलप्लोषविपत्तिमन्यो महाम्बुदात्किं हरते वनानाम् ॥ ४१ ॥

पराभवमिति ॥ भो देवाः! तस्य महासुरस्य तारकस्य तत्कर्तृकम् । 'कर्तृ- कर्मणोः ' ( पा. २।३।६५ ) इति कर्तरि षष्ठी । पराभवं पराजयम् , अर्थाद्यौष्मा- कीणमित्यर्थः । निषेद्धुं निवारयितुमहमेक एवालम्भविष्णुः, समर्थोऽस्मीत्यर्थः । तथा हि-वनानां संबन्धिनीं दावानलस्य दावानलकर्तृको यः प्लोषो दाहः स एव विपत्तिस्तां महाम्बुदान्महतो मेघादन्योऽपरः । 'अन्यारात्-' (पा. २।३।२९) इत्यादिना पञ्चमी । हरते किम् ? अपि तु नैवेति काक्वा व्याख्येयम् ॥ ४५ ॥

इतीरिते मन्मथमर्दनेन सुराः सुरेन्द्रप्रमुखा मुखेषु । सान्द्रप्रमोदाश्रुतरङ्गितेषु दधुः श्रियं सत्वरमाश्वसन्तः ॥ ४२ ॥

इतीति ॥ मन्मथमर्दनेन महेश्वरेण इतीत्थमीरित उक्ते सति सुरेन्द्रप्रमुखाः सुरा देवा आश्वसन्तो विश्वसन्तः सन्तः, उज्जीवन्त इति यावत् । सान्द्राणि सधनानि यानि प्रमोदाश्रूण्यानन्दबाष्पाणि तैस्तरङ्गिन्तेषु तरङ्गयुक्तेषु मुखेषु सत्वरं शीघ्रम् । महेश्वरवाक्यस्यात्यानन्दहेतुत्वाच्छैध्यम् । श्रियं शोभां दधुर्बभ्रुः ॥ ४२ ॥

ततो गिरीशस्य गिरां विरामे जगाद लब्धेऽवसरे सुरेन्द्रः। भवन्ति वाचोऽवसरे प्रयुक्ता ध्रुवं फलाविष्टमहोदयाय ॥ ४३ ॥

तत इति ॥ ततोऽनन्तरं गिरीशस्य हरस्य गिरां वाचां विरामे सति लब्धे प्राप्तेऽवसरे समये सुरेन्द्र इन्द्रो जगादोवाच । तथा हि-अवसरे काले प्रयुक्ताः प्रेरिताः, उक्ता इति यावत् । वाचो गिरः फलेनाविष्टः पूर्णो यो महोदयो महर्द्धि- स्तस्मै तदर्थं भवन्ति ध्रुवम् । क्रियाग्रहणात्संप्रदानत्वम् । तादर्थे वा चतुर्थी ॥४३॥

ज्ञानप्रदीपेन तमोपहेनाविनश्वरेणास्खलितप्रमेण । भूतं भवद्भावि च यञ्च किंचित्सर्वज्ञ ! सर्व तव गोचरं तत् ॥४४॥

पाठा०-१ निषेद्भुकामः. २ अरण्यस्य हर्तुं जलदात्प्रभुः किम्. ३ सान्द्रप्रमोदाः सुचिरस्मितेषु. ४ विताने. ५ लब्धावसरे. ६ सुरेशः. ७ प्रविस्पष्टफलोदयायः प्रभा- विष्टफलोदयाय. ८ सर्वत्र. ९ गोचरः. २६८ कुमारसंभवे [सर्गः १२

ज्ञानेति ॥ हे सर्वज्ञ ! तमोपहेनाज्ञानह--ऽविनश्वरेणाक्षयेणास्खलितप्रभेणा- स्खालतकान्तिना । अनेन विशेषणेनामन्दकान्तित्वं हि बोद्धव्यम् । अतो न पौन- रुक्त्यम् । तथाभूतेन ज्ञानप्रदीपेनात्मज्ञानरूपदीपकेन भूतं व्यतीतं भवद्वर्तमानं भावि भविष्यञ्च यत्किंचित्तत्सर्वमेव तव गोचरं ज्ञानविषयम् , अस्तीति शेषः । आत्मज्ञानेन त्रैकालिकस्यापि कर्मादिकस्य ज्ञातासीति भावः ॥ ४४ ॥

दुर्वारदोरुद्यमदुःसहेन यत्तारकेणामरघस्मरेण । तदीशतामाप्तवता निरस्ता वयं दिवोऽमी वद किं न वेत्सि ॥४५॥

दुर्वारेति ॥ हे भगवन् ! दुर्वारो दुर्धर्षणीयो यो दोरुद्यमो भुजदण्डबलं तेन कारणेन दुःसहेनात एवामराणां देवानां घस्मरेण वधकेन । 'घस्मरो वधकेऽपि च' इति मेदिनी । 'सृघस्यदः क्मरच्' ( पा. ३।२।१६० ) क्मरच्प्रत्ययः । ईशतां स्वर्गाधीशतामाप्तवता तारकेणामी वयं दिवः स्वर्गसकाशाद्यन्निरस्ता निष्कामिता- स्तन्न वेत्सि किम् ? अपि तु वेत्स्येव । वद । वाक्यार्थः कर्म ॥ ४५ ॥

विधेरमोघं स वरप्रसादमासाद्य सद्यस्त्रिजगज्जिगीषुः । सुरानशेषानहकप्रमुख्यान्दोर्दण्डचण्डो मनुते तृणाय ।। ४६॥

विधेरिति ॥ हे भगवन् ! स तारको विधेब्रह्मणः सकाशादमोघं सफलं वर- प्रसादमभिलाषानुग्रहम् । 'वरोऽभिलषिते वरे' इति मेदिनी । आसाद्य प्राप्य सद्यः सहसैव दोर्दण्डाभ्यां भुजदण्डाभ्यां चण्डः प्रचण्डः, दुर्जय इति यावत् । अत एव त्रिजगतो जिगीषुर्जेता सन् । अहकप्रमुख्यानहं प्रमुखो ज्येष्ठो येषु तथाभूतानशेषान्सर्वान्सुरान् । तृणाय तृणं मनुते मन्यते । 'मन्यकर्मण्य- नादरे विभाषाप्राणिषु' ( पा. २।३।१७ ) इति चतुर्थी सविकरणग्रहणात्तनोतियोगे चिन्त्या ॥ ४६॥

स्तुत्या पुरास्माभिरुपासितेन पितामहेनेति निरूपितं नः । सेनापतिः संयति दैत्यमेतं पुरः स्मरारातिसुतो निहन्ति ॥४७॥

पाठा०-१ दोर्दुर्मद. २ तदीश नन्वात्मपदान्निरस्ताः, तदीश वामाप्लवता निरस्ताः. ३ बत. ४ सुवर. ५ अम्मत्प्रमुख्यानमरानशेषान् ; सुरान्स जम्भारिमुखा- न्प्रचण्डं; सुरान्स जम्भारिमुरारिमुख्यान्. ६ एनम्. ७ पुरा स्मरारातिसुतः; पुरा स्मरारेस्तनयः. श्लो० ४५-५० ] देवैः स्वपराभवार्तिहरणे कुमारादेशयाचनम् २६९ स्तुत्येति ॥ हे भगवन् ! पुरा पूर्वमस्माभिः स्तुत्या श्लाघयोपासितेनानुकूलि- तेन पितामहेन ब्रह्मणा नोऽस्मान् हे देवाः ! संयति संगरे स्मरारातिसुतः शांकरिः सेनापतिः सेनानीः सन्नेतं दैत्यं पुरोऽग्रे निहन्ति, निहनिष्यतीत्यर्थः । यावत्पु- रानिपातयोर्लट्' (पा. ३।३।४ ) इति निरूपितं कथितम् ॥४७ ॥

अहो ! ततोऽनन्तरमद्ययावत्सुदुःसहां तस्य पराभवार्तिम् । विषेहिरे हन्त हृदन्तशल्यमाज्ञानिवेशं त्रिदिवौकसोऽमी ॥४८॥

अहो इति ॥ अहो भगवन् ! ततः पितामहनिरूपणादनन्तरमद्ययावदद्यपर्य- न्तममी त्रिदिवौकसो देवाः सुदुःसहाम् । 'ईषद्दुःसुपु-' (पा. ३।३।१२६ ) इति खल् । तस्य तत्कर्तृकां पराभवेन निमित्तेनार्ति पीडां हृदन्ते मनोमध्ये शल्यं तद्वदुःसहमाज्ञाया अनुशासनस्य 'भारं वहते' इत्यादिकस्य निवेशं स्थापनं विषेहिरेऽसहन्त । हन्तेति दुःखे ॥ ४८ ॥

निदाघधामक्लमविक्लवानां नवीनमम्भोदमिवौषधीनाम् । सुनन्दनं नन्दनमात्मनो नः सेनान्यमेतं स्वयमादिश त्वम् ॥४९॥

निदाघेति ॥ हे भगवन् ! त्वं स्वयमेव निदाघे ग्रीष्मे यद्धाम सौरं तेजस्तेन यः क्लमः खेदो दाहलक्षणस्तेन विक्लवानां मलिनानामौषधीनां सुतरां नन्दनमा- नन्दकारिणं नवीनमाषाढीयमम्भोदमिव नोऽस्माकं नन्दनमानन्दकारिणं तथा सेनान्यं सेनाधिपतिमेतं पुरोवर्तिनमात्मनो नन्दनं पुत्रम् । नन्द्यादित्वाल्युः । 'युवोः-' (पा. ७।१।१ ) इत्यनादेशः । आदिशानुशाधि । प्रार्थनायां लोट् । अस्मत्कार्यं कर्तुमिति शेषः ॥ ४९ ॥

त्रैलोक्यलक्ष्मीहृदयैकशल्यं समूलमुत्खाय महासुरं तम् । अस्माकमेषां पुरतो भवन्सन्दुःखापहारं युधि यो विधत्ते ॥५०॥

त्रैलोक्येति ॥ यो भवन्नन्दनस्त्रैलोक्यस्य लक्ष्म्या हृदय एकमद्वितीयं शल्यं तद्वदुर्धर्षं तं महासुरं तारकं युधि संगर एषामस्माकं पुरतोऽग्रे भवन्सन् , अग्रे

पाठा०-१ अकामतः; अतस्ततः. २ सुरा अदान्तस्य पराभवार्तिम् ; सुदुःसहं तस्य पराभवं तम्. ३ तस्य. ४ नियोगम्. ५ सन्नन्दनम्. ६ एनम्. ७ द्वितयैक. ८ भविष्णुः. ९ सुधिया विधाता. भूत्वेत्यर्थः । समूलं सकुटुम्बपरिवारमुत्खाय निहत्य दुःखापहारं दुःखविनाशं विधत्ते कुरुते, त्वन्नन्दनं विनास्माकं दुःखसमूहः केन निवार्यत इति भावः ॥ ५० ॥

महाहवे नाथ ! तवास्य सूनोः शस्त्रैः शितैः कृत्तशिरोधराणाम् । महासुराणां रमणीविलापैर्दिशो दशैता मुखरीभवन्तु ॥५१॥

महाहव इति ॥ हे नाथ! महाहवे महति सङ्ग्रामेऽस्य पुरोवर्तिनस्तव सूनोः पुत्रस्य शितैस्तीक्ष्णः शस्त्रैः करवालादिभिः कृत्तशिरोधराणां कर्तितग्रीवाणां महासुराणां दैत्यानां तारकपक्षाश्रयिणां रमणीनां विलापैर्वैधव्यप्रयुक्तप्रलापैरेता दश दिशो मुखरीभवन्तु वावदूका भवन्तु । 'मुखरो वावदूकेऽपि' इति मेदिनी । 'खमुखकुञ्जेभ्यो रः' ( वा० ३१९८ ) इति रप्रत्ययः ॥ ५१ ॥

महारणक्षोणिपशूपहारीकृतेऽसुरे तत्र तवात्मजेन । बन्दिस्थितानां सुदृशां करोतु वेणिप्रमोक्षं सुरलोक एषः ।। ५२ ॥

महेति ॥ हे भगवन् ! तत्रासुरे तारके तवात्मजेन पुत्रेण महती या रणक्षोणिः संग्रामभूमिस्तत्र ये पशवः क्रोष्ट्रयादयस्तेषामुपहारीकृत उपदीकृते सति । 'उपहारश्चोपदायाम्' इति मेदिनी । एष सुरलोको बन्दिर्बन्धनागारं तत्र स्थितानां सुदृशां स्वरमणीनां वेणिप्रमोक्षं वेणीमोचनं करोतु ॥ ५२ ॥

इत्थं सुरेन्द्रे वदति स्मरारिः सुरारिदुश्चेष्टितजातरोषः । कृतानुकम्पस्त्रिदशेषु तेषु भूयोऽपि भूताधिपतिर्बभाषे ॥ ५३॥

इत्थमिति ॥ सुरेन्द्रे महेन्द्र इत्थं वदति सति सुरारिस्तारकस्तस्य दुश्चेष्टितमपराधजनकश्चेष्टाविशेषस्तेन हेतुना जातरोष उत्पन्नामर्षः स्मरारिभूतानामधिपतिर्हरः। तेषु त्रिदशेषु कृतानुकम्पो विहितदयः सन् । 'कृपा दयानुकम्पा स्यात्' इत्यमरः । भूयोऽपि पुनरपि बभाष उवाच ॥ ५३ ॥

अहो अहो देवगणाः सुरेन्द्रमुख्याः! शृणुध्वं वचनं ममैते । विचेष्टते शंकर एष देवः कार्याय सज्जो भवतां सुताद्यैः ॥ ५४॥

अहो इति ॥ 'अहो अहो' इति संबोधने । संभ्रमे द्विरुक्तिः । हे देवगणाः

पाठा०-१ शरैः. २ क्षोणिपशूपहारे. ३ वेणिप्रमोकम्. ४ सः. ५ सुरेन्द्रमुखाः. ६ ममैतत्, ७ एव, ८ सकलं शुभाय; सकलैः शुभास्त्रैः, सुरेन्द्रमुख्याः पुरंदरप्रधानाः ! एते यूयं मम वचनं शृणुध्वं शृणुत । तदेव सार्ध- द्वयेनाह-एष शंकरो देवः सुताद्यैः पुत्रप्रभृतिभिः, पुत्रपौत्रादिभिरित्यर्थः । भवतां युष्माकं कार्याय, कार्यं कर्तुमित्यर्थः । 'क्रियार्थ-' (पा. २।३।१४) इत्यादिना चतुर्थी । सज्ज: सिद्धो विचेष्टते, वर्तत इत्यर्थः । मम पुत्रपौत्रजनक- तायामपि भवत्कार्यमेव बीजमिति भावः ॥ ५४॥

 पुरा मयाकारि गिरीन्द्रपुत्र्या: प्रतिग्रहोऽयं नियतात्मनापि ।
 तत्रैप हेतुः खलु तद्भवेन वीरेण यद्वध्यत एष शत्रुः ॥५५॥

 पुरेति ॥ हे देवाः ! पुरा पूर्वं नियतात्मनापि योगिनापि मया गिरीन्द्रपुत्र्या अयं प्रतिग्रह आदानम् , परिणयनमित्यर्थः । यदकारि कृतः । तत्रैष हेतुर्निमित्तम् । खलु । निश्चितम् । यद्यस्मादेष शत्रुस्तारकसंज्ञकस्तद्भवेन पार्वतीजन्मना वीरेण वध्यते हन्यते, अतस्तद्भवार्थं पार्वतीपरिग्रहः कृत इति भावः । अतोऽहं भवतामु- पालम्भपात्रं नेति श्लोकतात्पर्यम् ॥ ५५ ॥

 अत्रोपपन्नं तेदमी नियुज्य कुमारमेनं पृतनापतित्वे ।
 निघ्नन्तु शत्रुं सुरलोकमेष भुनक्तु भूयोऽपि सुरैः सहेन्द्रः॥५६ ।।

 अत्रेति ॥ तत्तस्मादमी भवन्तोऽत्र भवत्कार्यं उपपन्नं युक्तम् , योग्यमित्यर्थः। तथाभूतमेनं कुमारं पृतनापतित्वे सैनापत्ये नियुज्य नियुक्तं कृत्वा शत्रुं तारकं निघ्नन्तु । एतत्साहाय्येन भवन्तस्तारकं मारयन्त्विति भावः । अत एष इन्द्रः सुरेन्द्रः सुरैः सह भूयोऽपि पुनरपि सुरलोकं स्वर्गं भुनक्तु पालयतु । आशिषि लोट्॥५६॥

 इत्युदीर्य भगवांस्तमात्मजं घोरसंगरमहोत्सवोत्सुकम् ।
 नन्दनं हि जहि देवविद्विषं संयतीति निजगाद शंकरः ॥ ५७ ॥

 इतीति ॥ शंकरः शंकरसंज्ञको भगवानिति पूर्वोक्तमुदीर्योच्चार्य घोरो भीमः 'घोरं भीमं भयानकम्' इत्यमरः । यः संगरः सङ्ग्रामः स एव महोत्सवो महाना-

पाठा०-१ गिरीशपुत्र्याः. २ एकहेतुः. ३ हन्यते. ४ अथ. ५ इतः; अतः. ६ निहन्तु; निहत्य. ७ पुनातु; लभेत. ८ सुरेन्द्रः. ९ स्वम्, १० नन्दनैर्हि. ११ जय. १२ देवविद्विषः.

मन्दस्तत्रोत्सुकमुत्कण्ठितमत एव नन्दनमानन्दकरम् । 'नन्दिग्रहि-' (पा. ३।१।- १३४ ) इति ल्युः । तमात्मजं कुमारम्, 'हे पुत्र ! संयति सङ्ग्रामे देवानामिन्द्रा- दीनां विद्विषं विशेषेण द्वेष्टारं तारकं जहि' । 'हन्तेर्ज:' (पा. ६।४।३६ ) इति हनो जादेशः । इति निजगादोक्तवान् हि । रथोद्धतावृत्तम् ॥ ५७ ॥

 शासनं पशुपतेः स कुमारः स्वीचकार शिरसावनतेन ।
 सर्वथैव पितृभक्तिरतानामेष एव परमः खलु धर्मः ॥ ५८ ॥

 शासनमिति ॥ स कुमारः कार्तिकेयः पशुपतेः पितुर्हरस्य शासनमाज्ञा- मवनतेन नम्रीकृतेन शिरसा स्वीचकार, स्वीयं चकारेत्यर्थः । 'कृभ्वम्तियोगे-' (पा. ५।४।५० ) इति च्चि: । 'अस्य च्चौ' (पा. ७ ४।३२ ) इतीकारः । 'च्चौ च' ( पा. ७।४।२६) इति दीर्घः । तथा हि-सर्वथैव सर्वप्रकारेणैव पितृभक्तौ जनक- श्रद्धायां रतानां सक्तानां खल्वेष एव परमो धर्मः यदाज्ञा झटित्येव स्वीकुर्वन्तीति । स्वागतावृत्तम् ॥ ५८ ।।

 असुरयुद्धविधौ विबुधेश्वरे पशुपतौ वदतीति तमात्मजम् ।
 गिरिजया मुमुदे सुतविक्रमे सति न नन्दति का खलु वीरसूः ५९

 असुरेति ॥ विबुधेश्वरे सकलदेवस्वामिनि पशुपतौ हरे । असुरस्य तारकस्य यो युद्धविधिः सङ्ग्रामकरणं तत्र, उक्तमिति शेषः । तमात्मजं पुत्रमिति वदति सति । गिरिजया पार्वत्या मुमुदे प्रसेदे । तथा हि-'खलु' निश्चये, सुतविक्रमे पुत्रपराक्रमे सति का वीरसूर्वीरप्रसूतिः स्त्री न नन्दति ? अपि तु सर्वा अपि नन्द- न्तीत्यर्थः । पुत्रविषये पराक्रमसत्तैव परममुत्कारणं वीरसूनां भवतीति भावः । द्रुतविलम्बितं वृत्तम्-'द्रुतविलम्बितमाह नभौ भरौ' इति लक्षणात् ॥ ५९ ॥

  सुरपरिवृढः प्रौढं वीरं कुमारमुमापते-
   र्बलवदमरारातिस्त्रीणां दृगञ्जनभञ्जनम् ।
  जगदभयदं सद्यः प्राप्य प्रमोदपरोऽभव-
   द्भुवमभिमते पूर्णे को वा मुदा न हि माद्यति ॥६० ॥

पाठा०-१ तु. २ विबुधेश्वरः. ३ वदति प्रियमात्मजम् ; वदति प्रियपुत्रकम् ; वदति प्रियमातृकम्. ४ न किमु. ५ संयति. ६ दृगञ्जनभञ्जकम्.  सुरेति ॥ सुराणां परिवृढः परिशाम्तेन्द्रः । 'वृहृ उद्यमने' । कर्तरि क्तः । प्रौढमतिशयं वीरं पराक्रमशालिनं बलवान् योऽमरारातिस्तारकासुरस्तस्य स्त्रीणां दृगञ्जनस्य दृष्टिकज्जलस्य भञ्जनं भञ्जकम् । कर्तरि ल्युट् । मृतभर्तृकतया कज्जल- धारणस्यानुचितत्वादिति भावः । अत एव जगभ्द्योऽभयदमभयदातारमुमापते- र्हरस्य कुमारं पुत्रं प्राप्य सद्यः सहसा प्रमोदे प्रकृष्टोन्मोदे पर आसक्तोऽभव- ज्जातः । तथा हि-अभिमते मनोरथे पूर्णे सति मुदा प्रीत्या निमित्तेन को वा न माद्यति ? अपि तु सर्व एवोन्मत्तो भवतीत्यर्थः । अत्र सामान्येन विशेषसमर्थ- नरूपोऽर्थान्तरन्यासोऽलंकारः । इदं हरिणीछन्दः; 'रसयुगहयेर्न्सौ म्रौ स्लौ गो यदा हरिणी तदा' इति लक्षणात् ॥ ६ ॥

इति श्रीपर्वणीकरोपनामकश्रीलक्ष्मणभट्टात्मजसतीगर्भसंभवश्रीसीताराम-
कविविरचितया संजीविनीसमाख्यया व्याख्यया समेतः
श्रीकालिदासकृतौ कुमारसंभवे महाकाव्ये कुमार-
सेनापत्यवर्णनं नाम द्वादशः सर्गः

त्रयोदशः सर्गः ।

 प्रस्थानकालोचितचारुवेषः स स्वर्गिवर्गैरनुगम्यमानः ।
 ततः कुमारः शिरसा नतेन त्रैलोक्यभर्तुः प्रणनाम पादौ ॥१॥

 प्रस्थानेति ॥ ततोऽनन्तरं स कुमारः कार्तिकेयः प्रस्थानकाल उचितो योग्य- श्चारुश्च वेषो यस्य । तथा स्वर्गिवर्गैरिन्द्रादिदेवगणैरनुगम्यमानः सन् । नतेन शिरसा त्रैलोक्यभर्तुः शिवस्य पादौ प्रणनाम नमश्चक्रे । 'उपसर्गादसमासेऽपि' (पा. ८।४।१४) इति णत्वम् ॥ १॥

 जहीन्द्रशत्रुं समरेऽमरेशपदं स्थिरत्वं नय वीर ! वत्स! ।
 इत्याशिषा तं प्रणमन्तमीशो मूर्धन्युपाघ्राय मुदाभ्यनन्दत् ॥२॥

 जहीति ॥ प्रणमन्तं नमस्कुर्वन्तं तं कुमारमीशो हरो मुदा प्रीत्या मूर्धन्यु- पाघ्राय गन्धमुपादाय 'हे वीर! हे वत्स! समरे युधीन्द्रशत्रुं तारकं जहि मारय ।

पाठा०-१ त्रिलोक. अथामरेशपदमिन्द्रपदं स्वर्गं स्थिरत्वं स्थैर्यं नय प्रापय' । उभयत्राप्याशिषि लोट् । इत्येवंभूतयाऽऽशिषाशीर्वादेनाभ्यनन्ददस्तौपीत् ॥ २॥

 प्रह्वीभवन्नम्रतरेण मूर्ध्ना नमश्चकाराङ्घ्रियुगं स्वमातुः ।
 तस्याः प्रमोदाश्रुपयःप्रवृष्टिस्तस्याभवद्वीरवराभिषेकः ॥ ३ ॥

 प्रह्वीति ॥ स कुमारः प्रह्वीभवन्नम्रीभवन्सन् , नम्रतरेण मूर्ध्ना । अत्र प्रह्वीभव- नित्यनेनैव मूर्ध्नो नम्रत्वे सिद्धे पुनर्विशेषणोपादानं सामान्यतोऽन्येषामङ्गानां नम्रत्वोक्त्यपेक्षया मूर्ध्नि क्रियातिशयद्योतनार्थम् , पुनरुपादानेन तरब्ग्रहणलिङाच्च। स्वमातुरङ्घ्रियुगं चरणद्वन्द्वं नमश्चकार । तस्याः पार्वत्याः संबन्धीनि यानि प्रमोदा- श्रुपयांसि तेषां प्रवृष्टिर्वर्षणं तस्य कुमारस्य वीरेषु वरस्य श्रेयसः, सेनापतेरित्यर्थः । तस्याभिषेक इव योऽभिषेकः सोऽभवत् । तस्य यादगभिषेको भवति स मात्र- श्रुपयोवृष्टिरा शिरश्चरणनखपर्यन्तं प्लावयन्त्यभूदिति भावः ॥ ३ ॥

 तमङ्कमारोप्य सुता हिमाद्रेराश्लिष्य गाढं सुतवत्सला सा ।
 शिरस्युपाघ्राय जगाद शत्रुं जित्वा कृतार्थीकुरु वीरसूं माम् ॥४॥

 तमिति ॥ सुते पुत्रे वत्सला कृपावती सा हिमाद्रेः सुता पार्वती तं पुत्रम् । अस्य ल्यबन्तत्रयेण संबन्धो विधेयः । अङ्कमुत्सङ्गम् । 'अङ्को रूपकभेदाङ्गचिह्ने रेखाजिभूषणे । रूपकाण्डान्तिकोत्सङ्गस्थानेऽङ्कं पापदुःखयोः' इति मेदिनी । आरोप्य संस्थाप्य । तथा गाढं दृढं यथा तथा । 'प्रगाढः कृच्छदृढयोः' इति मेदिनी। प्रेति त्रित्वसंघातनिवेशनायैव । एवं विना तदलाभात् । आश्लिष्यालिङ्गय । तथा शिरस्युपाघ्राय च । 'हे वत्स! त्वं शत्रु तारकं जित्वा वीरं सूते सा वीरसूम्त- थोक्ता मां कृतार्थीकुरु' इति जगाद । एवंविधे महति कार्ये भवता प्रतिपादिते सति त्रैलोक्यं प्रसृतिशीलेन यशसा धवलीकृतं सत् 'एष यदीयः पुत्रः सा कृता- र्थैव' इति जनो वर्णयिष्यतीत्यतो मत्कृतार्थत्वं सिद्धमेवेति भावः ॥ ४ ॥

 उद्दामदैत्येशविपत्तिहेतुः श्रद्धालुचेताः समरोत्सवस्य ।
 आपृच्छय भक्त्या गिरिजागिरीशौ ततः प्रतस्थेर्भि दिवं कुमारः ५

 उद्दामेति ॥ ततोऽनन्तरमुद्दाम उद्भटो यो दैत्येशस्तारकस्तस्य विपत्तिमत्यु-

पाठा०-१ युगं सः; युगाय. २ प्रपूरः; प्रवर्षः. ३ महाद्रे:, ४ आश्लिष्ट- गात्रम्. ५ कृतार्थां कुरु. ६ दैतेय. ७ समरोद्धुरः सः. ८ त्रिदिवम्. स्तस्या हेतुः कारणम् , तत्कर्तेत्यर्थः । तथा समरोत्सवस्य सङ्ग्रामरूपस्योत्सवस्य 'मह उद्धव उत्सवः' इत्यमरः । इयं कर्मणि षष्ठी । संबन्धमात्रविवक्षितत्वात् । इह षाष्ठ्यन्तस्य वृत्तिगतेनापि 'श्रद्धा'शब्देन नित्यसंबन्धवशात्संबन्धं कृत्वा कृद्यो- गलक्षणा षष्ठी समर्थनीया । केचित्तु 'समरोत्सवे सः' इति विषयलक्षणसप्त- म्यन्तत्वमङ्गीकृत्य पठन्ति । तत्रापि समासवृत्तिगतस्य 'श्रद्वालु'शब्दस्य संबन्धो दुर्घट इत्यलम् । श्रद्धालु भक्तिशीलं चेतो यस्य, सङ्ग्रामश्रद्वाधायक इत्यर्थः । एवंभूतः कुमारो भक्त्या भक्तिपूर्वकं गिरिजागिरीशौ पितरावापृच्छय, 'मया गम्यते' इत्युक्त्वेत्यर्थः । दिवमभि प्रतस्थे चचाल । 'समवप्रवि-' (पा. १।३।२२ ) इत्यात्मनेपदम् ॥ ५ ॥

 देवं महेशं गिरिजां च देवीं ततः प्रणम्य त्रिदिवौकसोऽपि ।
 प्रदक्षिणीकृत्य च नाकनाथपूर्वाः समस्तास्तमथानुजग्मुः ॥६॥

 देवमिति ॥ ततोऽनन्तरम् । नाकनाथपूर्वा इन्द्रप्रमुखाः समस्तास्त्रिदिवौकवयो देवा अपि । पूर्वोक्तकुमारप्रस्थानसमुच्चायकः 'अपि'शब्दः । 'अपि संभावनाप्रश्न- शङ्कागर्हासमुच्चये' इति विश्वः । महेशं देवं गिरिजां देवीं च प्रणम्य । अथ प्रद- क्षिणीकृत्य, प्रदक्षिणौ परिक्रमणवशात्सव्यभागस्थौ कृत्वेत्यर्थः । 'ऊर्यादिच्चिडा. चश्च' (पा. १।४।६१ ) इति गतिसंज्ञकतया 'कुगतिप्रादयः' (पा. २।२।१८) इति समासत्वात् 'समासेऽनञ्पूर्वे-' (पा. ७।१।३७ ) इति क्त्वो ल्यबादेशः । तं कुमारमनु पश्चाज्जग्मुरित्यर्थः ॥ ६ ॥

 अथ व्रजद्भिस्त्रिदशैरशेषैः स्फुरत्प्रभाभांसुरमण्डलैस्तैः ।
 नेभो बभासे परितो विकीर्णं दिवापि नक्षत्रगणैरिवोग्रैः ॥ ७ ॥

 अथेति ॥ अथानन्तरं व्रजद्भिर्गच्छद्भिरत एव स्फुरत्प्रसरत्प्रभायाः कान्त्याः संबन्धि भासुरं दीप्यमानं मण्डलं चक्रवालं येषाम् । 'चक्रवालं तु मण्डलम्' इत्यमरः । तैरशषैः संपूर्णैस्त्रिदशैर्देवैर्विकीर्ण व्याप्तं नभोऽन्तरिक्षं दिवापि दिनेऽपि । उग्रैर्भासुरैर्नक्षत्रगणैर्विकीर्णमिव । बभासे । भासुरत्वरूपसाधारणधर्मेण त्रिदशः- विकिरणविशिष्टे नभसि नक्षत्रविकिरणविशिष्टत्वोत्प्रेक्षणादुत्प्रेक्षालंकारः । ननु 'उग्रः

पाठा०-१ सुरेशमुख्याः सुराः. २ अभिजग्मुः, ३ सरोषैः. ४ मण्डलभासुरैः. ५ ततः. ६ हरितोऽवकाशः. शूद्रासुते क्षत्राद्रुद्रे पुंसि त्रिपूत्कटे' इति कोशोक्त्योत्कटवाचिनोऽप्युग्रशब्दस्य कथं भासुरवाचकतेति चेत्, -सत्यम् ; अत्रौत्कट्यं केनचिद्धर्मेण विवक्षितं, न तु तेजसैव । कान्त्या तापेन वा सौन्दर्यादिना बोत्कटोऽधिक इत्यर्थप्रणयना- त्प्रकृते समाधेयम् ॥ ७ ॥

 रराज तेषां बजतां सुराणां मध्ये कुमारोऽधिककान्तिकान्तः ।
 नक्षत्रताराग्रहमण्डलानामिव त्रियामारमणो नभोन्ते ॥ ८ ॥

 रराजेति ॥ नभोन्तेऽन्तरिक्षमध्ये व्रजतां गच्छतां तेषां सुराणां मध्ये कुमारः कार्तिकेयः । अग्रेऽपि नभोन्त इत्यस्य संबन्धः कार्यः । नक्षत्राण्यश्विन्यादीनि, ताराः सप्तविंशतिव्यनिरिक्ताः, ग्रहाः सूर्यादयो नव, तेषां मण्डलानां गोलानां मध्ये त्रियामारमणश्चन्द्र इव रराज । यतोऽधिककान्त्या कान्तो मनोहरः । नक्षत्राणां मध्ये यथा चन्द्र एव शोभते तथा देवानां मध्ये कुमार एव शुशुभ इत्यर्थः । पूर्णोपमालंकारः ॥ ८॥

 गिरीशगौरीतनयेन सार्धं पुलोमपुत्रीदयितादयस्ते ।
 उत्तीर्य नक्षत्रपथं मुहूर्तात्प्रपेदिरे लोकमथात्मनीनम् ॥ ९ ॥

 गिरीशेति ॥ अथ पुलोमपुत्री शची तस्या दयित इन्द्रः स आदिर्येषां तथाभूतास्ते देवा गिरीशगौरीतनयेन । ननु गिरीशगौर्योरेकतरेण सिद्धिरिति चेत्,-सत्यम् ; उभयगतवीर्याश्रयीभूतत्वेन कुमारवीर्याधिक्यस्य द्योतनार्थमुभय- र्ग्रहणमिति समाधातव्यम् । सार्धं मुहूर्तात्क्षणमात्रेणैव नक्षत्रपथमाकाशमुत्तीर्योल्ल- ङ्घयात्मनीनमात्मने हितम् । 'तम्मै हितम्' (पा. ५।१।५) इत्यधिकारस्थेन 'आत्मविश्वजन-' (पा. ५।१।९) इत्यनेन खः । तथाभूतं लोकं स्वर्गं प्रपेदिरे प्रापुः । 'लोकस्तु भुवने जने' इत्यमरः ॥ ९ ॥

 ते स्वर्गलोकं चिरकालदृष्टं महासुरत्रासवशंवदत्वात् ।
 सद्यः प्रवेष्टुं न विषेहिरे तत्क्षणं व्यलम्बन्त सुराः समग्राः॥१०॥

 त इति ॥ ते समग्राः सुरा महासुरात्तारकाद्यस्त्रासो भयं तस्य वशंवदत्वाद-

पाठा०-१ अधिककान्तकान्तिः. २ दयितः. ३ अन्तः. ४ मुहूर्तम्. ५ अथो मुनीनाम्. ६ तम्. ७ समस्ताः. धीनत्वाद्धेतोः चिरकालेन बहुसमयेन दृष्टं स्वर्गलोकं सद्यः सहसा प्रवेष्टुं न विपेहिरे न शेकुः । तत् किं तु क्षगं व्यलम्बन्त, कालं चिक्षिपुरित्यर्थः । अन्योऽपि सभये स्वगृहेऽपि सद्यः प्रवेष्टुं न शक्नोति, किं तु विलम्बते तद्वदिति भावः ॥ १० ॥

 पुरो भव त्वं न पुरो भवामि नाहं पुरोगोऽस्मि पुरःसरस्त्वम् ।
 इत्थं सुँरास्तत्क्षणमेव भीताः स्वर्गं प्रवेष्टुं कलहं वितेनुः ॥११॥

 पुर इति ॥ तत्क्षणम् । 'कालाध्वनो:-' (पा. २।३।५) इति द्वितीया। प्रवेशसमय इत्यर्थः । भीता अतस्तारकावस्थानशङ्कया सभयाः सुराः स्वर्गं प्रवेष्टुम 'त्वं पुरोऽग्रे भव, अहं पुरो न भवामि, किं तु त्वमेव भव, अहं पुरोगो नास्मि न भवामि । त्वं पुरःसरो भव' इत्थमेवंभूतं कलहं विग्रहं वितेनुः, चक्रुरित्यर्थः । अस्मीत्यहमर्थकमव्ययम् । सर्वेषां त्रिधाभूततया न कोऽप्यन्तः प्रवेष्टुं शशाक, किं तु तत्रैव परस्परं कलहायमानास्तस्थुरिति भावः ॥ ११ ॥

 सुरालयालोकनकौतुकेन मुदा शुचिस्मेरविलोचनास्ते ।
 दधुः कुमारस्य मुखारविन्दे दृष्टिं द्विषत्साध्वसकातरान्ताम् ॥१२॥

 सुरालयेति ॥ सुरालयस्य स्वर्गस्य यदालोकनं तेन यत्कौतुकमानन्दस्तेन निमित्तन शुचीनि शुद्धानि स्मेराणि समन्दहासानि च विलोचनानि येषां तथा- भूतास्ते देवा द्विषत्साध्वसेन तारकशत्रुभयेन कातरान्तां भीतप्रान्ताम् , भय- चिह्नतरलत्वादियुतामित्यर्थः । तथाभूतां दृष्टिं नेत्रं मुदा प्रीत्या, प्रसादनेति यावत् । उपलक्षिते कुमारस्य मुखारविन्द वदनकमले दधुः । दुर्घटप्रवेशोपायोपदेशापेक्षयेति भावः । कुमारो बालोऽपि सन् न भीत इति मुंदति विशेषगेन व्यज्यते ॥ १२ ॥

 सहेलहासच्छुरिताननेन्दुस्ततः कुमारः पुरतो भविष्णुः ।
 स तारकापातमपेक्षमाणो रणप्रवीरो हि' सुरानवोचत् ॥ १३ ॥

 सहेलेति ॥ ततो दृष्टिपातानन्तरं रणे प्रकृष्टं वीरोऽत एव तारकस्यापातं

पाठा०-१ पुरो ह्यत त्वम्, २ नवः. ३ पुरःसर त्वम्. ४ द्विषा तेन कृते खवश्ये स्वर्गे; द्विषा तेन हता मिथस्ते स्वर्गे, ५ सुरत्वरा. ६ सुविस्मेरविलोचनस्य; सुविस्मेरविलोचनान्ताः. ७ कातरास्ते; कातरान्ते. ८ उद्धरित; उच्छुरित. ९ निविष्टः. १० अवेक्षमाणः, ११ अभि. युद्धार्थमागमनमपेक्षते सोऽपेक्षमाणः, प्रतीच्छन्नित्यर्थः । अत एव पुरतोऽग्रतो भविष्णुः स कुमारः कार्तिकेयः सहेलः सक्रीडो यो हासस्तेन च्छुरिताननेन्दुर्मिश्रित. मुखचन्द्रः सन् , किंचिद्विहस्येत्यर्थः । हि निश्चितम् । सुरानवोचज्जगाद ॥ १३ ॥

 भीत्यालमद्य त्रिदिवौकसोऽमी स्वर्ग भवन्तः प्रविशन्तु सद्यः।
 अत्रैव मे दृक्पथमेतु शत्रुर्महासुरो वः खलु दृष्टपूर्वः ॥ १४ ॥

 भीत्येति ॥ भी त्रिदिवौकसो देवाः ! अद्य संप्रति भीत्या भयेनालम् , न भेतव्यमित्यर्थः । किं त्वमी भवन्तः सद्यः सहसैव स्वर्ग प्रविशन्तु, स्वर्गप्रवेशे भयहेतुको विलम्बो न विधेय इति तात्पर्यम् । सद्यः सपदि । तरक्षणमित्यर्थः । अथ रोषादाह-पूर्वं दृष्टो दृष्टपूर्वः । 'राजदन्तादिषु-'( पा. २।२।३१) इति प्राक्प्रयोगार्हस्य ‘पूर्व'शब्दस्य परः प्रयोगः। संभवानुरोधाद्भवद्भिरिति लभ्यते । ननु व इत्यनेनैव सिद्धिरिति चेन्न । 'न लोक ' ( पा. २।३।६९ ) इति षष्टी निषेधात् । तथा वो युन्मार्क शत्रुद्वेष्टा महासुरम्तारकोऽत्रैव स्वर्ग एव मे मम दृक्पथं दृग्गोचर- स्वमेतु प्राप्नोतु । दृक्पथमिति 'ऋक्पूरब्धू:-' (पा. ५।४।७४) इति समासा- न्तोऽप्रत्ययः ॥ १४ ॥

 स्खर्लोकलक्ष्मीकचकर्षणाय दोर्मण्डलं वल्गति यस्य चण्डम् ।
 इहैव तच्छोणितपानकेलिमह्नाय कुर्वन्तु शरा ममैते ॥ १५ ॥

 स्वर्लोकेति ॥ स्वर्लोकस्य लक्ष्म्याः कचाः केशास्तेषां कर्षणाय । लक्ष्मीकेशानां हरणं कर्तुमित्यर्थः । 'तुमधातू-' ( पा. २।३।१५ । इति चतुर्थी । चण्डं प्रचण्डं यस्य तारकस्य दोर्मण्डलं भुजमण्डलं वल्गति चलति । तस्य तारकस्य यच्छोणितं रुधिरं तस्य पानं तदेव कलिः क्रीडा तां कर्मभूतामेते मम शरा अह्नाय झटिति । 'द्राग्झटित्यञ्जसाह्नाय' इत्यमरः । इहैव कुर्वन्तु । तं विनाशयन्त्वित्यर्थः ॥ १५ ॥

 शक्तिर्ममासावहतप्रचारा प्रभावसारा सुमहःप्रसारा ।
 खोकलक्ष्म्या विपदावहारेः शिरो हरन्ती दिशतान्मुदं वः १६

 शक्तिरिति ॥ अहतप्रचाराऽविघ्नितगतिः । तथा प्रभावः सामर्थ्यं स एव

पाठा० - १ य:, २ कालदष्ट: ३ स्वगैंकलक्ष्मी. ४ यस्य बलातिचण्डम्. ५ सुमहाप्रसारा. ६ लक्ष्मीः. ७ सहारिशिरः; सहारेः शिरः. ८ दिशतां सुखम्. सारो यस्याः । सुतरां महसस्तेजसः प्रसारो मण्डलं यस्याः, अतितेजस्विनीत्यर्थः । खर्लोकलक्ष्म्या या विपदा तस्या अवहा, किं तु सुखदेत्यर्थः । तथारेः प्रतिकूलस्य शिरः शीर्षं हरन्ती । असौ मम शक्तिरायुधं वो युष्माकं मुदं प्रीतिं दिशताद्दत्तात् । आशिषि लोट् ॥ १६॥

 इत्यन्धकारातिसुतस्य दैत्यवधाय युद्धोत्सुकमानसस्य ।
 सर्वं शुचिस्मेरमुखारविन्दं गीर्वाणवृन्दं वचसाननन्द ।। १७ ॥

 इतीति ॥ दैत्यवधाय दैत्यवधं कर्तुं युद्ध उत्सुकमानसस्योत्कण्ठितचेतसोऽन्ध- कारातिसुतस्य शिवपुत्रस्य कुमारस्य संबन्धिना इति पूर्वोक्तेन वचसा सर्वं गीर्वाण- वृन्दं देवसमूहः शुचि शुद्धं स्मेरं समन्दहासं मुखारविन्दं मुखकमलं यस्य तथाभूतं सत् आननन्द जहर्ष ॥ १७ ॥

 सान्द्रप्रमोदात्पुलकोपगूढः सर्वाङ्गसंफुल्लेसहस्रनेत्रः ।
 तस्योत्तरीयेण निजाम्बरेण निरुञ्छनं चारु चकार शक्र:।।१८।।

 सान्द्रेति ॥ सान्द्रप्रमोदाद्धनानन्दाद्धेतोः पुलकै रोमाञ्चैरुपगृढ आश्लिष्टः । 'पुलकः कृमिभेदेऽश्मभेदे च मणिदोषके । रोमाञ्चे हरिताले गजात्तपिण्डे च गन्धके' इति मेदिनी । तथा सर्वेष्वङ्गेषु संफुल्लानि सहस्रनेत्राणि यस्य । यतः सहस्त्राक्षस्तथाभूतः शक इन्द्रस्तस्य कुमारस्योत्तरीयेण संव्यानेन । 'संव्यानमुत्तरीयं स्यात्' इत्यमरः । तथा निजाम्बरेण निरुञ्छनं परिवर्तनं चारु चकार, भ्रातृभावा- यान्योन्यवस्त्रग्रहणं चक्रतुरित्यर्थः । तदुक्तं मेदिन्याम्-'निरुञ्छनं बन्धुतायै वाससः परिवर्तनम्' इति । लोकेऽपि भ्रातृतायै परस्परस्योष्णीषबन्धनव्यवहार- स्तद्वदत्रापीति । अनुशासने सामान्यतो वासोग्रहणेन प्रकृत उत्तरीयग्रहणं संगच्छते। लोकव्यवहारस्तु संप्रदायसिद्धः । उष्णीषे विशेषश्रैष्ठ्योपलम्भ एव व्यवहारमूल- मिति मन्तव्यम् ॥ १८॥

 धनप्रमोदाश्रुतरंगिताक्षैर्मुखैश्चतुर्भिः प्रचुरप्रसादैः ।
 अथो चुचुम्बे विधिराद्यवृद्धः षडाननं षट्सु शिरःसु चित्रम् ॥१९॥

पाठा०-१ बद्धोत्सवमानसस्य. २ सुविस्मेर. ३ आननन्द. ४ सान्द्रप्रमोदः. ५ संलग्न. ६ निर्मञ्छनम् ; निरूहणम् , निरुञ्छनम्. ७ परिप्लुताक्षै:. ८ प्रमोद. ९क्रमाञ्चुचुम्बे; अथो अचुम्बद्विधिरादिवृद्धः. १० मुखेषु. ११ हर्षात्. १२ सुसाधु.  घनेति ॥ अथो अनन्तरमाद्ययोर्हरिहरयोर्वृद्धो महान्विधिर्ब्रह्मा। घनः सान्द्रः। 'धनं स्यात्कांस्यतालादिवाद्यमध्यमनृत्ययोः । ना मुस्तादौ घनाद्येषु विस्तारे लोह- मुद्गरे । त्रिषु सान्द्रे च दृष्टार्थे' इति मेदिनी । यः प्रमोदो हर्षम्तेन निमित्तेन यदश्रु नेत्रपयम्तेन तरंगितानि संजाततरंगाणि । 'तारकादिभ्य इतच्' (पा. ५।२।३६) अक्षीणि नेत्राणि येषां तैः, हर्षवशादुद्गताश्रुभिरित्यर्थः । तथा प्रचुरप्रसादैरधिक- प्रसन्नतायुक्तैश्चतुर्भिर्मुखैः पट्सु शिरःसु मध्ये षडाननं कुमारं चुचुम्बे पस्पर्श । इति चित्रं विस्मयः । चतुर्भिर्मुखैः पण्णां मुखानां यौगपद्येन स्पर्शासंभवात् । परिहारस्तु प्रत्येकं षट्सु चतुर्भिश्चुम्बनेन संधेयः ॥ १९ ॥

 तं साधु साध्वित्यभितः प्रशस्य मुदा कुमारं त्रिपुरासुरारेः ।
 आनन्दयन्वीर ! जयेति वाचा गन्धर्वविद्याधरसिद्धसंघाः ॥२०॥

 तमिति ॥ गन्धर्वा देवगायकाः, विद्याधराः, सिद्धाश्च देवविशेषाः, तेषां संघाः समुदायाः कर्तारः तं त्रिपुरासुरस्यारेः शिवस्य कुमारं पुत्रं मुदा प्रीत्या निमित्तेन साधु साध्वित्यभितः संमुखत्वेन प्रशस्य स्तुत्वा 'हे वीर ! त्वं जय शत्रोः सकाशा- ज्जयं प्राप्नुहि' इत्येवंभूतया वाचानन्दयन्नानन्दितमकुर्वन् ॥ २० ॥

 दिव्यर्षयः शत्रुविजेष्यमाणं तमभ्यनन्दन्किल नारदाद्याः ।
 निरुञ्छनं चक्रुरथोत्तरीयैश्चामीकरीयैर्निजवल्कलैश्च ।। २१ ।।

 दिव्यर्षय इति ॥ नारदाद्या नारदप्रमुखा दिव्या दिवि भवा ऋषयः । 'द्युप्रागपागुदक्र्-' (पा. ४।२।१०१) इति यत् । शत्रुं तारकं विजेष्यमाणं जेष्यन्तं तं कुमारमभ्यनन्दंस्तुष्टुवुः किल । अथानन्तरं चामीकरीयैः सौवर्णैरुत्तरीयैर्वस्त्रैः । तथा निजैर्वल्कलैश्च निरुञ्छनं बन्धुतायै वासःपरिवर्तनं चक्रुः । निरुञ्छनं पूर्वमेव निर्णीतम् ॥ २१ ॥

 ततः सुराः शक्तिधरस्य तस्यावष्टम्भतः साध्वसमुत्सृजन्तः ।
 उत्सेहिरे स्वर्गमनन्तशक्तेर्गन्तुं वनं युथपतेरिवेभाः॥ २२ ॥

 तत इति ॥ ततोऽनन्तरं शक्तिरायुधविशेषस्तां धरतीति तथोक्तस्य कुमारस्य ।

पाठा०-१ तस्य वचो वरार्थम्. २ समभ्यनन्दन् ; तदभ्यनन्दन्. ३ निर्म- ञ्छनम् ; निरुच्छनम्. ४ नववल्कलैः. ५ उत्त्यजन्तः. ६ अनन्तशक्त्यै. ७ अभिपृष्ठे. 'शक्तिरस्त्रान्तरे शौर्ये उत्साहादौ बले स्त्रियाम्' इति मेदिनी । अवष्टम्भत आश्रयतः । 'अवष्टम्भः सुवर्णे च स्तम्भप्रारम्भयोरपि' इति मेदिनी । अत्र 'स्तम्भ' शब्दनाश्रयो लक्षितः; स्तम्भस्याश्रयमिति तत्त्वात् । साध्वसं भयम् । 'भीतिर्भीः साध्वसं भयम्' इत्यमरः । उत्सृजन्तस्त्यजन्तः सुरा देवाः । अनन्तश केरपारशौर्यस्य यूथपतेर्गजराजस्यावष्टम्भत इभा गजा वनमिव । स्वर्गं गन्तुं प्रवेष्टुमुत्सेहिर उत्साहं चक्रुः । 'अनन्तशक्तेः' इति विशेषणं कुमारेऽपि योजनीयम् ॥ २२ ॥

 अथाभिपृष्ठं गिरिजासुतस्य पुरंदरारातिवधं चिकीर्षोः ।
 सुरा निरीयुस्त्रिपुरं दिधक्षोरिव स्मरारेः प्रमथाः समन्तात् ॥२३॥

 अथेति ॥ अथोत्साहानन्तरं सुराः पुरंदरस्येन्द्रस्यारातेस्तारकस्य वधं मृत्यु चिकीर्षोः कर्तुमिच्छोगिरिजासुतस्य कुमारस्याभिपृष्टं पृष्ठसंमुखं त्रिपुरं दैत्यं दिधक्षोर्दग्धुमिच्छोः । 'दह भस्मीकरण' इति धातोरिच्छार्थे सनि ‘सन्यङोः' (पा. ६।१।९) इति द्वित्वे 'सनाशंसभिक्ष उः' (पा. ३।२।१६८) इत्युप्रत्ययः । स्मरारेः शिवस्याभिपृष्ठं प्रमथा इव स्थिताः समन्तानिरीयुनिर्जग्मुः, अन्तर्विविशुरित्यर्थः ॥२३॥

 सुराङ्गणानां जलकेलिभाजां प्रक्षालितैः संततमङ्गरागैः ।
 प्रपेदिरे पिञ्जरवारिपूरां स्वर्गौकसः स्वर्गधुनीं पुरस्तात् ।। २४ ॥

 सुराङ्गणानामिति ॥ स्वर्गौकसो देवाः पुरस्तादग्रे जलकेलिभाजां जलक्रीडासक्तानां सुराङ्गणानामप्सरसां संततं निरन्तरं प्रक्षालितैरङ्गरागैः कुङ्कुमादिरचितैः पिञ्जरवारिपूरां पीतजलप्रवाहां स्वर्गधुनीं मन्दाकिनीं प्रपेदिरे प्रापुः । सुराङ्गणानामिति 'कुमति च' (पा. ८।४।३) इति णत्वम् ॥ २४ ॥

 अथ चतुर्भिस्तामेव “दिग्दन्तिनाम्" इत्यादिभिर्विशिनष्टि-

 दिग्दन्तिनां वारिविहारभौजां कराहतैर्भीमतरैस्तरङ्गैः।
 आप्लावयन्तीं मुहुरालवालश्रेणिं तरूणां निजतीरजानाम् ॥ २५ ॥

 तत्र दिग्दन्तिनामिति ॥ किंभूतां स्वर्गधुनीम् ? वारिणि विहारभाजां क्रीडतां

पाठा०-१ जयम्. २ सुराङ्गनानाम्. ३ विहारलीलाम्, ४ भीमवराहयूथैः । आशंसयन्सादरमद्रिपुत्रीमहेशपुत्राय पुरःपुरोगाः । स कार्तिकेयः पुरतः परीतो विय- चरैर्लोलतैरस्तरंगैः. ५ श्रेणीः; श्रेणीम्. ६ गुरुतीरजानाम्, दिग्दन्तिनामैरावतादीनां करैः शुण्डादण्डैः । 'करो वर्षोपले पाणौ रश्मौ प्रत्ययशुण्डयोः' इति मेदिनी । आहतैस्ताडितैरत एव भीमतरैरतिशयभयानकैस्तरङ्गैः कल्लोलैः कृत्वा निजतीरजानामात्मीयतटोत्पन्नानां तरूणां वृक्षाणां संबन्धिनीमालवालानां मूलस्थलीनां श्रेणिम् । 'श्रेणिः स्त्रीपुंसयोः पङ्क्तौ समाने शिल्पिसंहतौ' इति मेदिनी । मुहुर्वारंवारम् । 'मुहुः पुनःपुनः शश्वत्' इत्यमरः । आप्लावयन्तीं सेचयन्तीम् ।। २५ ॥

 लीलारसाभिः सुरकन्यकाभिर्हिरण्मयीभिः सिकताभिरुच्चैः ।
 माणिक्यगर्भाभिरुपाहिताभिः प्रकीर्णतीरां वरवेदिकाभिः॥२६॥

 लीलेति ॥ पुनः किंभूताम् ! लीलायां क्रीडायां रसः प्रीतिर्यासां ताभिः सुराणां कन्यकाभिः पुत्रीभिः । तथा हिरण्मयीभिः सौवर्णीभिः सिकताभिर्वालुकाभिः तथा माणिक्यगर्भाभिर्मणिखचितमध्याभिः तथोपाहिताभिर्निर्मिताभिः, न त्वकृत्रिमाभिः । तथोच्चैर्महतीभिर्वराः श्रेयस्यो या वेदिकास्ताभिश्च प्रकीर्णतीरां व्याप्तसैकताम् ॥ २६ ॥

 सौरभ्यलुब्धभ्रमरोपगीतैर्हिरण्यहंसावलिकेलिलोलैः ।
 चामीकरीयैः कमलैर्विनिद्रश्च्युतैः परागैः परिपिङ्गतोयाम् ॥ २७ ॥

 सौरभ्येति ॥ पुनः किंभृताम् ? सौरभ्ये सौगन्ध्ये लुब्धा लम्पटा ये भ्रमरा द्विरेफास्तैरुपगीतैः, मुखरितैरित्यर्थः । हिरण्यस्य सुवर्णस्य ये हंसा मरालास्तेषामावल्यः पङ्क्तयस्तासां केलिः क्रीडा तया निमित्तेन लोलैश्चञ्चलैश्चामीकरीयैः सौवर्णैर्विनिर्विदलितैः कमलैरुपलक्षिताम् । अत एव च्युतैः कमलेभ्यो भ्रष्टैः परागैः सुमन । रजोभिः । 'परागः सुमनोरजः' इत्यमरः । परिपिङ्गं परितः पीतं तोयं जलं यस्यास्तथोक्ताम् ॥ २७ ॥

 कुतूहलाद्द्रष्टुमुपागताभिस्तीरस्थिताभिः सुरसुन्दरीभिः ।
 अभ्यूर्मिराजि प्रतिबिम्बिताभिर्मुदं दिशन्तीं व्रजतां जनानाम् ॥२८॥

 कुतूहलादिति ॥ द्रष्टुं कुतूहलात्कौतुकात् , आनन्दादिति यावत् । उपा-

पाठा०-१ लीलालसाभिः. २ हिरण्यहंसाभिरुताभिः; हिरण्यजाभिः सिकताभिः. ३ उपोहिताभिः. ४ अवकीर्णैः. ५ परिपिञ्जतोयाम्. ६ तीरे स्थिताभिः. ७ सुरकन्यकाभिः. ८ अभ्यूर्मिराजीः; अत्यूर्मिराजि. . गताभिरागताभिः । अत एव तीरस्थिताभिः । अत एवाभ्यूर्मिराजि । ऊर्मिराजावित्यभ्यूर्मिराजि तरङ्गमध्ये प्रतिबिम्बिताभिः सुरसुन्दरीभिर्देवाङ्गनाभिर्निमित्तेन व्रजतां गच्छतामपि जनानां मुदं दिशन्तीं ददनीम् । एतासामप्यप्सरसां प्रतिबिम्बवशादनेकधा दृश्यमानत्वाद्युक्ता प्रीतिजनकनेति भावः ॥ २८ ॥

 ननन्द सद्यश्चिरकालदृष्टां विलोक्य शक्रः सुरदीर्घिकां ताम् ।
 अदर्शयत्सादरमद्रिपुत्रीमहेशपुत्राय ततः पुरोगः ।। २९ ।।

 ननन्देति ॥ शक्र इन्द्रश्चिरकालेन बहुकालेन दृष्टां तां मुरदीर्घिकां मन्दाकिनी विलोक्य सद्यो झटिति ननन्द जहर्ष, अतिरमणीयं वस्तु चिरकालदृष्टं सद्बहुप्रीतिजनकं भवतीति भावः । ततोऽनन्तरमद्रिपुत्रीमहेशयोः पुत्राय कुमाराय सादरं यथा तथा पुरोगः सन्नदर्शयत् ॥ २९ ॥

 स कार्तिकेयः पुरतः परीतः सुरैः समस्तैः सुरनिम्नगां ताम् ।
 अपूर्वदृष्टामवलोकमानः सविस्मयः स्मेरविलोचनोऽभूत् ।। ३० ॥

 स इति ॥ समस्तैः सुरैः परीतो व्याप्तः स कार्तिकेयः कुमारः । अपूर्वदृष्टाम् , अधुनैव दृष्टामित्यर्थः । तां सुरनिम्नगां पुरतोऽग्रेऽवलेकमानः सन् सविस्मयः साश्चर्यः स्मेरविलोचन समन्दहासनेत्रश्चाभूत् ॥ ३० ॥

 उपेत्य तां तत्र किरीटकोटिन्यस्ताञ्जलिर्भक्तिपरः कुमारः।
 गीर्वाणवृन्दैः प्रणुतां प्रणुत्य नम्रेण मूर्ध्ना मुदितो ववन्दे ॥ ३१ ॥

 उपेत्येति ॥ भक्तिपरो भक्तिप्रवीणः कुमारः कार्तिकेयो गीर्वाणवृन्दैर्देवसमूहैः प्रणुतां प्रकर्षेण स्तुताम् । 'णु स्तुतौ' इति धातोः कर्मणि क्तः । तां मन्दाकिनीं तत्रोपेत्य, तत्समीपं गत्वेत्यर्थः । किरीटकोटौ मुकुटाग्रे । 'कोटिः स्त्री धनुषोऽग्रेऽस्त्री' इति मेदिनी । अत्र 'अग्रशब्दस्य धनुःशब्दोपलक्षिततया सर्वेषामग्रवाचकत्वं बोध्यम् । न्यस्तोऽञ्जलिर्येन तथाभूतः सन् । प्रणुत्येडयित्वा मुदितो मुमुदे । इदं कृदन्तरूपं क्रियापदम् । तथा नम्रेण मूर्ध्ना शिरसा ववन्दे नमश्चक्रे ॥ ३१ ॥

 प्रणर्तितस्मेरसरोजराजिः पुरः परीरम्भमिलन्महोर्मिः ।
 कपोलपालिश्रमवारिहारी भेजे गुहं तं सरितः समीरः॥ ३२ ॥


पाठा०-१ शक्रः. २ सद्यः. ३ पुरः. ४ पुरोज्ञः. ५ इव लोकमानः. ६ सविस्मय. ७ रत्नकिरीट, ८ प्रणताम्. ९ नमितः; प्रणतः. १० प्रपाटित. ११ स्वःसरितः,  प्रणर्तितेति ॥ प्रणर्तिता कम्पिता स्मेरमरोजानां विकसितकमलानां राजिर्माला येन । अनेन सौगन्ध्योक्तिः । तथा परीरम्भेणाश्लेषेण मिलन्त आत्मनि मिश्रीभवन्तो महोर्मयो यस्य । अनेन शैत्योक्तिः । कपोलपाल्याः, कपोलरूपलताग्रस्येत्यर्थः । 'पालिः कर्णे लताग्रेऽश्रौ' इति विश्वः । श्रमेण यद्वारि स्वेदस्तस्य हारी । अनेन मान्द्योक्तिः । अन्यथा श्रमहृतेरसंभवः । एवंभूतः सरितो मन्दाकिन्याः समीरः पवनः पुरोऽग्रे स्थित तं गुहं स्वामिकार्तिकेयम् । यद्वा पुरोऽग्रे भेजे सिपेवे ॥ ३२ ॥

 ततो व्रजन्नन्दननामधेयं लीलावनं जम्भजितः पुरस्तात् ।
 विभिन्नभग्नोद्धृतशालसंघ प्रेक्षांचकार स्मरशत्रुसूनुः ॥ ३३ ॥

 तत इति ॥ ततो गङ्गावलोकनानन्तरं व्रजंश्चलन् स्मरशत्रुसूनुः कुमारः पुरस्तादग्रे विभिन्नो विदारितः, बाणैः शतरन्ध्रीकृत इति तात्पर्यार्थः । तथा भन्न आमर्दितो मूलं विनोपर्येव शतशकलीकृत उद्धृत उत्पाटितश्च शालसंघो यस्य तत् । 'शालो हाले मत्स्यभेदे शालौकस्तत्प्रभेदयोः । शालद्रुस्कन्धशाखायां शालेति परिकीर्तिता ॥' इति मेदिनी । नन्दननामधेयं नन्दनसंज्ञकम् । 'नन्दनं वनम्' इत्यमरः । जम्भजित इन्द्रस्य लीलावनमुपवनं प्रेक्षांचकार ददर्श । 'इजादेश्च-' (पा. ३।१।३६ ) इत्याम् ॥ ३३ ॥

 सुरद्विषोपप्लुतमेवमेतद्वनं बलस्य द्विपतो गतश्रि ।
 इत्थं विचिन्त्यारुणलोचनोऽभूद्भ्रभङ्गदुष्प्रेक्ष्यमुखः स कोपात्॥३४॥

 सुरद्विषेति ॥ स कुमारः । एतत्पुरोवर्ति बलस्य द्विषत इन्द्रस्य । अत्र 'न लोक-' (पा. २१३।६९ ) इत्यादिना षष्ठीनिषेधेऽपि 'द्विषः शतुर्वा' (वा० १५२२) इति विकल्पात्षष्ठी । वनमुपवनं सुरद्विषा तारकेणैव, न केनापि । यथा तारकेणोपद्रुतं तथा न केनापीत्यवधारणार्थकैवकारेण ध्वन्यते । 'एव प्रकारोपमयोरङ्गीकारावधारणे' इति विश्वः । अभितः सर्वतः। उपप्लुतमुपद्रुतमत एव गतश्रि नष्टशोभमित्थं विचिन्त्य कोपादरुणे लोचने यस्य तथोक्तो भ्रूभङ्गेन दुष्प्रेक्ष्यं दुर्दर्शं मुखं यस्य तथोक्तश्चाभूत् । महतां सति स्वस्मिन्परदुःखं महादुःखावहं भवतीति भावः ॥ ३४ ॥


पाठा०-१ अवात्. २ वज्रभृतः. ३ उन्नतशाखि. ४ एव. ५ दुष्प्रेक्षमुखः. ६ च.

 नर्लूनलीलोपवनामपश्यद्दुःसंचरीभूतविमानमार्गाम् ।
 विध्वस्तसौधप्रचयां कुमारो विश्वैकसाराममरावतीं सः ॥ ३५॥

 निर्लूनेति ॥ स कुमारः कार्तिकेयः निर्लूनानि कर्तितानि लीलायाः क्रीडाया उपवनानि यस्याम् । तथा दुःखेन संचरः संचारो येषु तथाभूना विमानमार्गा विमानसंचारपथा यस्याम् । तथा विध्वस्ताः खण्डिताः, स्फोटिता इति यावत् । सौधप्रचया राजसदनसमूहा यस्याम् । 'सौधोऽस्त्री राजसदनम्' इत्यमरः । तथा विश्वस्मिन्नेकामेव सारां तत्त्वभूतां ताममरावतीमिन्द्रपुरीमपश्यत् । 'नगरी त्वमरावती' इत्यमरः ॥ ३५ ॥

 गतश्रियं वैरिवराभिभूतां दशां सुदीनामभितो दधानाम् ।
 नारीमवीरामिव तामवेक्ष्य स बाढमन्तः करुणापरोऽभूत् ॥३६॥

 गतश्रियमिति ॥ स कुमारः वैरिवरेण तारकेणाभिभूतां पूर्वोक्तविधिना पराभूताम् । पराभवोऽत्र विध्वंसनक्रियानुकुलो व्यापारो ग्राह्यः । अत एव गतश्रियं भ्रष्टशोभाम् । अत एव सुतरां दीनां कृपणाम् , अनुकम्प्यामिति यावत् । दशामवस्थामभितो दधानाम् । अत एवावीरां नपुंसकभर्तृकां नारीमिव स्थितां ताममरावतीमवेक्ष्यान्तर्मनसि बाढं बहु यथा तथा करुणायां पर आसक्तोऽभूत् ॥ ३६॥

 दुश्चेष्टिते देवरिपौ सरोपस्तस्याविषण्णः समराय चोत्कः ।
 तथाविधां तां स विवेश पश्यन्सुरैः सुराधीश्वरराजधानीम् ॥३७॥

 दुश्चेष्टित इति ॥ दुश्चेष्टिते दुष्कर्मणि देवरिपौ तारके विषये सरोपः सक्रोधः । तथा तस्य तत्कर्तृकाय समराय समरं युद्धं कर्तुमुत्कश्च तथाऽविषण्णोऽनलसः स कुमारः तथाविधां पूर्वोक्तप्रकारां तां सुराधीश्वरस्येन्द्रस्य राजधानीं पुरीं पश्यन्सन् सुरैः सह विवेश । तदन्तरिति शेषः ॥ ३७ ॥

 दैतेयदन्त्यावलिदन्तघातैः क्षुण्णान्तराः स्फाटिकहर्म्यपङ्क्तीः ।
 महाहिनिर्मोकपिनद्धजालाः स वीक्ष्य तस्यां विपसाद सद्यः।।३८॥


पाठा०-१ असंचरी. २ सौख्यप्रचयाम्. ३ प्रसृष्टविश्वौकसाराम् ; प्रमृष्टवस्त्वेकसाराम्. ४ गर्भश्रियम्. ५ वैरिपराभिभूताम्. ६ स गाढम् : सबाष्पम्. ७ तस्यां विषण्णः. ८ च. ९ दैत्येन्द्रदन्तावलः. १० क्षुण्णान्तर. ११ संवीक्ष्य. .  दैतेयेति ॥ दैतेयानां दैत्यानां दन्त्यावलिर्गजावलिस्तस्यास्तत्कर्तृका ये दन्तघाता रदनताडितानि तैः क्षुण्णान्तराः क्षोदितमध्या अत एव महाहीनां महासर्पाणां निर्मोकाः कञ्चुकाः । 'समौ कञ्चुकनिर्मोकौ' इत्यमरः । तैः पिनद्धानि जालानि सौधजलानि यासु ताः स्फाटिकहर्मपङ्क्तीः स्फटिकनिर्मितसौधनिचयान्वीक्ष्य स सद्यस्तस्यां विपसाद, खिद्यति स्मेत्यर्थः । 'सद्यः सपदि तत्क्षणे' इत्यमरः ॥ ३८ ॥

 अथ युग्मेनाह-

 उत्कीर्गचामीकरपङ्कजानां दिग्दन्तिदानद्रवदूपितानाम् ।
 हिरण्यहंसव्रजवर्जितानां विदीर्णवैडूयमहाशिलानाम् ॥ ३९ ॥
 आविर्भवद्भालतृणाञ्चितानांतदी यलीलागृहदीर्घिकाणाम् ।
 स दुर्दशां वीक्ष्य विरोधिजातां विषादवैलक्ष्यभरं बभार ॥ ४० ॥

 उत्कीर्णेति ॥ आविर्भवदिति ॥ स कुमारः । उत्कीर्णान्युत्खनितानि चामीकरस्य सुवर्णस्य पङ्कजानि कमलानि यासाम् , उत्खनितसुवर्णकमलानामित्यर्थः । तथा दिग्दन्निनामैरावतादीनां दानाः खण्डनाः, तज्जेतारस्तारकगजाः । कर्तरि ल्युट् । तेषां द्रवो मदजलं तेन दूषितानां म्लानीकृतानाम् , तारककुम्भीन्द्रमदकलुषीकृतजलानामित्यर्थः । हिरण्यप्रचुरा ये हंसास्तेषां व्रजेन वर्जितानां रहितानाम् । दैत्योपद्रवादिति भावः । तथा विदीर्णाः स्फोटिता वैडूर्याणां रत्नविशेषाणां महत्यः शिला यासाम् । तथाविर्भवन्युदयमानानि यानि बालतृणानि शष्पाणि तैरञ्चितानां व्याप्तानाम् । तदीया ऐन्द्र्या या लीलार्थं गृहदीर्घिका गृहवापिकास्तासां संबन्धिनीम् । विरोधिभ्योऽरिभ्यो जातां दुर्दशां दुष्टावस्थां वीक्ष्य विषादवैलक्ष्ययोः खेदलज्जयोर्भरम् । बह्व्यौ विषादलज्जे इत्यर्थः । बभार, दुर्दशादर्शनजनितकरुणाबीजं दुःखं मयि सत्यपि सुदुर्दशेति लज्जा हेतुरित्यर्थः ॥ ३९-४० ॥

 तद्दन्तिदन्तक्षतहेमभित्ति सुतन्तुजालाकुलरत्नजालम् ।
 निन्ये सुरेन्द्रेण पुरोगतेन स वैजयन्ताभिधमात्मसौधम् ॥ ४१॥

 तदन्तीति ॥ स कुमारः। सुरेन्द्रेणेन्द्रेण पुरोगतेनाग्रण्या सता तस्य तारकस्य


पाठा०-१ तदीय. २ तृणावृतानाम्. ३ सुदुर्दशाम्. ४ विरोधिजां ताम्. ५ हेमभित्तिम् ; गेहभित्तिम्. दन्तिनां गजानां दन्तैः क्षताः क्षुण्णा हैम्यो भित्तयः कुड्यानि यस्मिन् यस्य वा । सुतन्तदो लूतानां शोभनानि सूत्राणि तेषां जालेनाकुलं व्याकुलं रत्नजालं रत्नसमूहो यस्मिन् । तथा वैजयन्ताभिधं वैजयन्तसंज्ञकम् । 'स्यात्प्रासादो वैजयन्तः' इत्यमरः । आत्मसौधं स्वराजसदनं निन्ये प्रापितः । कर्मणि लिट् ॥ ४१ ॥

 निर्दिष्टवर्त्मा विबुधेश्वरेण सुरैः समग्रैरनुगम्यमानः ।
 स प्राविशत्तं विविधाश्मरश्मिच्छिन्नेन सोपानपथेन सौधम् ॥४२॥

 निर्दिति ॥ स कुमारः । विबुधेश्वरेणेन्द्रेण कर्त्रा । निर्दिष्टवर्त्मा 'इतो गमनं विधेयम्' इत्युक्तिपूर्वकप्रदर्शितमार्गः । तथा समग्रैः सुरैर्देवैरनुगम्यमानोऽनुस्नियमाणः सन् । विविधा अनेकवर्णा येऽश्मानो रत्नानि तेषां रश्मिभिः किरणैश्छिन्नेन भिन्नेन । रहितेनेति यावत् । तारककृतसोपानखचितरत्नोत्पाटनादिति भावः । सोपानपथेनारोहणमार्गेण । 'आरोहणे स्यात्सोपानम्' इत्यमरः । तं सौधं प्राविशत् ॥ ४२ ॥

 निसर्गकल्पद्रुमतोरणं तं स पारिजातप्रसवस्रगाढ्यम् ।
 दिव्यैः कृतस्वस्त्ययनं मुनीन्द्रैरन्तःप्रविष्टप्रमदं प्रपेदे ॥४३॥

 निसर्गेति ॥ स कुमारः । निसर्गेण स्वभावेन, अनायासेनेति यावत् । 'निसर्गः शीलसर्गयोः' इति विश्वः । कल्पद्रुमा एव तोरणानि यत्र । तथा पारिजातस्य देववृक्षविशेषस्य प्रसवानां पत्रपुष्पाणां स्रजा मालयाढ्यं युक्तम् , पूजनार्थमनेकपत्रपुष्पसहितमित्यर्थः । तथा दिव्यैः स्वर्गीयैर्मुनीन्द्रैः कश्यपादिभिः कृतस्वस्त्ययनं विहितस्वस्तिवाचनम् । तथान्तःप्रविष्टा मध्यं प्रविश्य स्थिताः प्रमदाः स्त्रियो यत्र तं सौधं प्रपेदे प्राप ॥ ४३ ॥

 पादौ महर्षेः किल कश्यपस्य कुलादिवृद्धस्य सुरासुराणाम् ।
 प्रदक्षिणीकृत्य कृताञ्जलिः सन्षड्भिः शिरोभिः सं नतैर्ववन्दे ॥४४॥

 पादाविति ॥ स कुमारः । सुरासुराणां देवदैत्यानां कुल आदिवृद्धस्य कश्य-


पाठा०-१ तद्विविधात्मरश्मिच्छन्नेन; तं विविधेन रत्नाच्छन्नेन. २ तोरणाङ्कम् ; तोरणान्तम्. ३ सुपारिजात. ४ स्रजाढ्यम्. ५ कृतस्वस्त्ययनः. ६ कुमारः; प्रविश्य. ७ सः. ८ विनतैः. पस्य महर्षेः पादौ चरणौ कर्मभूतौ । प्रदक्षिणीकृत्य कृताञ्जलिः सन् । नतैः षड्भिः शिरोभिर्ववन्दे नमश्चके । किलेत्यैतिह्ये ॥ ४४ ॥

 स देवमातुर्जगदेकवन्द्यौ पादौ तथैव प्रणनाम कामम् ।
 मुनेः कलत्रस्य च तस्य भक्त्या प्रह्वीभवशैलसुतातनूजः ॥ ४५ ॥

 स इति ॥ स शैलसुतातनूजः पार्वतीनन्दनो भक्त्त्या निमित्तेन प्रह्वीभवन्नम्रीभवन्सन् । मुनेश्च तस्य कलत्रस्य पत्न्याश्च देवानां मातुर्जनन्या अदितेः । जगत एकवन्द्यौ केवलनमस्करणीयौ पादौ तथैव मुनिनमस्कारप्रकारेणैव कामं यथायोग्य प्रणनाम नमश्चक्रे ॥ ४५ ॥

 स कश्यपः सा जननी सुराणां तमेधयामासतुराशिपा द्वौ ।
 तया यया नैकजगज्जिगीषुं जेता मृधे तारकमुग्रवीर्यम् ।। ४६ ॥

 स इति ॥ स कश्यपो मुनिः सा सुराणां जनन्यदितिः, एतौ द्वौ तं कुमार तयाशिषाशीर्वादेनैधयामासतुर्वर्धयतः स्म । ययाशिषा निमित्तेनोग्रवीर्यमत एव नैकजगन्त्यनेकजगन्ति, त्रीणि जगन्तीत्यर्थः । जिगीषुं जेतुमिच्छुम् । 'न लोक-' (पा. २।३।६९) इति षष्ठीनिषेधः । तारकं दैत्यं मृधे संगरे जेता, जेष्यतीत्यर्थः । कर्तरि लुट् ॥ ४६॥

 स्वदर्शनार्थं समुपेयुपीणां सुदेवतानामदितिश्रितानाम् ।
 पादौ ववन्दे पतिदेवतास्तमाशीर्वचोभिः पुनरभ्यनन्दन् ॥ ४७ ।।

 स्वेति ॥ स कुमारः । स्वदर्शनार्थं स्वावलोकनार्थं समुपेयुपीणां प्राप्नुवतीनाम् । तथाऽदितिं देवमातरं श्रितानाम् , देवमातुराश्रयेण जीवन्तीनामित्यर्थः । सु शोभनाः सौभाग्यवत्यो देवतास्तासां पादौ चरणौ ववन्दे प्रणनाम । अथ च पतिरेव देवता यासां ताः पतिव्रतास्ता देवतास्त्वाशीर्वचोभिः 'त्वं जय' इत्यादिभिः पुनस्तं कुमारमभ्यनन्दन् , अस्तुवनेत्यर्थः ॥ ४७ ॥

 पुलोमपुत्रीं विबुधाधिभर्तुस्ततः शचीं नाम कलत्रमेषः ।
 नमश्चकार स्मरशत्रुसूनुस्तमाशिषा सा समुपाचरच्च ॥ ४८ ॥


पाठा-१ द्वे. २ यथा तथा. ३ अनया; यथा. ४ उग्रवीर्यः. ५ तद्दर्शनार्थम्. ६ स देवतानाम्. ७ अदितेः सुतानाम्. ८ विनयेन ताः, ९ गुहम्. १० शची. ११ अत्र. १२ समुपाचचार. .  पुलोमपुत्रीमिति ॥ ततोऽनन्तरम् । 'नाम' इति योग्यताप्रतिपादकमव्ययम् ; अव्ययानामनेकार्थत्वात् , ततश्च प्रणामकर्तृत्वयोग्य इत्यर्थः । न च पुलोमपुत्र्या एव प्रणामार्हत्वविवक्षया विशेषणता स्यादिति वाच्यम् ; विबुधाधिभर्नुसंबन्धोद्धाटनेनैव ध्वनितत्वात् । एष स्मरशत्रुसूनुः कुमारो विबुधानां देवानामधिभर्तुरिन्द्रस्य कलत्रं स्त्रीभूतां शचीं शचीसंज्ञिकां पुलोमपुत्रीं नमश्चकार । अथ च सेन्द्राण्याशिषाशीर्वादेन तं कुमारं समुपाचरत् , अवर्धयदित्यर्थः ॥ ४८ ॥

 अथादितीन्द्रप्रमदाः समेतास्ता मातरः सप्त धनप्रमोदाः ।
 उपेत्य भक्त्या नमते महेशपुत्राय तस्मै ददुराशिषः प्राक् ॥४९॥

 अथेति ॥ अथानन्तरं धनप्रमोदाः सान्द्रानन्दाः, कुमारावलोकनादिति भावः । अत एव समेता एकत्रभूतास्ता अदितीन्द्रस्य कश्यपस्य प्रमदाः स्त्रियः सप्त मातरो ब्राह्मीप्रभृतयो भक्त्या निमित्तेनोपेत्य समीपमागत्य नमते नमस्कुर्वते तस्मै महेशपुत्राय कुमाराय तारकविजयसाधना आशिष आशीर्वादात्प्राङ्नमस्कारात्पूर्वमेव ददुः ॥ ४९ ॥

 समेत्य सर्वेऽपि मुदं दधाना महेन्द्रमुख्यास्त्रिदिवौकसोऽथ ।
 आनन्दकल्लोलितमानसं तं समभ्यपिश्चन्पृतनाधिपत्ये ॥ ५० ॥

 समेत्येति ॥ अथानन्तरं मुदं दधाना महेन्द्रमुख्या इन्द्रप्रभृतयः सर्वेऽपि त्रिदिवौकसो देवा आनन्देन भावितारकयुद्धकर्तृत्वजन्मना कल्लोलितं तरंगितं मानसं सर एवं मानसं चेतो यस्य तम् , महानन्दमित्यर्थः । तं कुमारं पृतनाधिपत्ये सैनापत्ये समभ्यषिञ्चन्नभिषिक्तमकुर्वन् ॥ ५० ॥

  सकलविबुधलोकः स्रस्तनिःशेषशोकः
   कृतरिपुविजयाशः प्राप्तयुद्धावकाशः ।
  अजनि हरसुतेनानन्तवीर्येण तेना-
   खिलविबुधचमूनां प्राप्य लक्ष्मीमनूनाम् ॥ ५१ ॥

 सकलेति ॥ अनन्तवीर्येणापारपराक्रमेणात एवानूनां महतीमखिला या

पाठा०-१ अदितिप्राप्रमुखाः समेताः; अदितीन्द्रप्रमदासमेताः; अदितीन्द्रप्रमुखाः समेताः. २ सः; तम्. ३ मातृकाः. ४ नमति. ५ स्म शर्वपुत्राय. ६ ताः. ७ मुदमादधानाः. ८ अत्र. ९ ते. १० तमभ्यषिञ्चन्. विबुधचम्बो देवसेनास्तासां लक्ष्मीं वैभवं प्राप्य स्थितेन तेन हरसुतेन, हरसुलसाहाय्येनेत्यर्थः । सकलविबुधलोकः समस्तवृन्दारकनिचयः । स्रस्ताः ध्वस्ताः, नष्टा इति यावत् । निःशेषाः समग्राः शोका यस्य तथा कृता रिपोस्तारकस्य विजय आशा येन । तथा प्राप्तो युद्धायावकाशोऽवसरो येन । तथाभूतश्चाजनि जातः, कुण्ठितवीर्याणां सवीर्यसाहाय्यकमेव कार्यसिद्धिहेतुर्भवतीति भावः । मालिनीवृत्तमेतत् । लक्षणं तु पूर्वमेवोक्तम् ॥ ५१ ॥

इति श्रीपर्वणीकरोपनामकश्रीलक्ष्मणभट्टात्मजसतीगर्भसंभवश्रीसीताराम-
कविविरचितया संजीविनीसमाख्यया व्याख्यया समेतः
श्रीकालिदासकृतौ कुमारसंभवे महाकाव्ये कुमार-
सैनापत्याभिषेको नाम त्रयोदशः सर्गः ॥

चतुर्दशः सर्गः ।

 रणोत्सुकेनान्धकशत्रुसूनुना समं प्रयुक्तैस्त्रिदशैर्जिगीषुणा ।
 महासुरं तारकसंज्ञकं द्विषं प्रसह्य हन्तुं समनह्यत द्रुतम् ॥ १॥

 रणेति ॥ जेतुमिच्छति जिगीषति, जिगीषतीति जिगीषुस्तेन जिगीषुणा । सन्नन्ताज्जयतेः 'सनाशंसभिक्ष उः' (पा. ३।२।१६८ ) इत्युप्रत्ययः । अत एव रणे समरे । 'रणः कोणे कणे पुंसि समरे पुंनपुंसकम् ।' इति मेदिनी । उत्सुकेनोत्कण्ठितेनान्धकशत्रोः शिवस्य सूनुना कुमारेण कर्त्रा । प्रयुक्तैः प्रेरितैः, संनहनार्थमिति शेषः। त्रिदशैर्देवैरिन्द्रादिभिः समं सार्धं तारकसंज्ञकं द्विषं शत्रुं महासुरं दैत्यं प्रसह्य बलाद्धन्तुं मारयितुं द्रुतं शीघ्रम् । 'लघु क्षिप्रमरं द्रुतम्' इत्यमरः । समनह्यत संनद्धम् । नह्यतेर्भावे लङ् । सर्गेऽस्मिन्नपि वृत्तमुपजातिरेव ॥ १ ॥

 इतः परं 'स' इत्यादिभिस्त्रिभिः कुमारसंनहनमाह-

 स दुर्निवारं मनसोऽतिवेगिनं जयश्रियः संनयनं सुदुःसहम् ।
 विजित्वरं नाम तदा महारथं धनुर्धरः शक्तिधरोऽध्यरोहयत् ।।२।।


पाठा०-१ स्वयम्. २ जयेषुणा. ३ तारकसंज्ञितं द्विषम् ; तारकमूर्जितद्विषम्. ४ संगमनम् ; संयमनम्. ५ ततः. ६ अध्यरोहत.  तत्र स इति ॥ स गुहः कार्तिकेयो धनुर्धरस्तथा शक्तिधरश्च सन् दुर्निवारं दुःखेन निवारयितुं प्रतिरोद्धुं शक्यम् , अप्रतिरुद्धगतिकमित्यर्थः । मनसः सका- शादप्यतिवेगिनम् , बहुगतिजववन्तमित्यर्थः । इहाति नाम बहुश्चासौ वेगो जवश्च । स विद्यते यस्येति कृते 'न कर्मधारयान्मत्वर्थीयः' इति निषेध- प्रसक्त्या मत्वर्थीयो न स्यात् । अतोऽतीत्यस्य क्रियाविशेषणतामाश्रित्य समर्थनी- यम् । केचित्पुनः 'मनसोऽपि' इति पठित्वा व्याचक्षते । तथा जयश्रियो विजयलक्ष्म्याः संनयनं सम्यक्प्राप्तिसाधनम् । यमारुह्य गच्छन्तो वीराः सजय- लक्ष्मीका एव भवन्तीति भावः । सुतरां दुःसहम् । दुःसहता चैतद्दर्शनविषयिणी बोध्या। एतद्दर्शनेनैव शत्रवः पराजिता भवन्ति । अतो युक्तमेव जयश्रीसन- यनत्वम् । अत एव विजित्वरम् । विजित्वरेत्यानुपूर्वीकं नाम । नामत्वं च व्यक्ति- बोधजनकतावच्छेदकसंकेतत्वम् , दधानमिति शेषः । तथाभूतं महारथं महान्तं स्यन्दनम् । 'रथः पुमानवयवे स्यन्दने वेतसेऽपि च' इति मेदिनी । तदाध्य- रोहयदारुरोह ॥ २॥

 सुरालयश्रीविपदां निवारणं सुरारिसंपत्परितापकारणम् ।
 केनापि दध्रेऽस्य विरोधिदारणं सुचारु चामीकरधर्मवारणम् ।।३।।

 सुरालयेति ॥ विरोधिनं तारकं दारयति मारयति तद्विरोधिदारणम् । णिजन्तप्रयोगं कुर्वता कविना छत्रस्य जडत्वात्स्वातन्त्र्येण दारणक्रियोपयोगित्वा- संभवात्तदीयधारणप्रभावेण वीरो ह्यसौ कुमारस्तारकं जेष्यतीति सूचितम् । 'ओजसापि खलु नूनमनूनं नासहायमुपयाति जयश्रीः' इति न्यायादिति भावः । अत एव सुरालयस्य स्वर्गस्य श्रियो लक्ष्म्या विपदामापदां निवारणं नाशकम् । अत एव सुरारेस्तारकस्य संपदां परितापस्य संतापस्य कारणं कर्तृ । सर्वत्र कर्तरि ल्युट । सुचारु सुतरां मनोहरं चामीकरस्य हेम्नो घर्मवारगं छत्रम् । अस्य कुमारस्योपरि केनापि देवेन दध्रे धृतम् । कर्मणि ल्युट् ॥ ३ ॥

 शरच्चरच्चन्द्रमरीचिपाण्डुरैः स वीज्यमानो वरचारुचामरैः ।
 पुरःसरैः किंनरसिद्धचारणै रणेच्छुरस्तूयत वाभिरुल्बणैः ॥ ४ ॥

पाठा०-१ संसत्. २ वारणम्. ३ विरागदारणम्. ४ शरद्वलत्. ५ रोचिभिः. ६ सुवीज्यमानः. ७ रणोत्सुक; स पण्मुखः. ८ उच्चकैः.  शरदिति ॥ शरदि घनात्यये चरतो भ्रमतश्चन्द्रस्य मरीचयो मयूखास्तद्वत् पाण्डुरैः शुभैः । 'शुक्लशुभ्रशुचिश्वेतविशदश्येतपाण्डुराः' इत्यमरः । चरत इति विशेषणं चामराणामपि वीजनवशेन चलत्वादन्वर्थमिति बोध्यम् । तथाभूतवरैः श्रेष्ठैः । 'वरो जामातरि वृतौ देवतादेरभीप्सिते । खड्गे पुंसि त्रिषु श्रेष्ठे कुङ्कुमे तु नपुंसकम्' इति मेदिनी । चारुभिर्मनोहरैश्च चामरैर्वीज्यमानः । तथा रणेच्छुः संघ्रामाभिलाषुकः स कुमार उल्बणैरुद्भटः । किंनराः किंपुरुषाः । 'स्यात्किंनरः किंपुरुषः' इत्यमरः । सिद्धा देवविशेषाश्चारणाश्च तैः कर्तृभिः । पुरःसरैः सद्भि- र्वाग्भिः कृत्वाऽस्तूयतेडितः । 'ष्टु स्तुतौ' इत्यतः कर्मणि लङ् ॥ ४ ॥

 इदानीमिन्द्रादीनामष्टानामनुप्रयाणमाह-

 प्रयाणकालोचितचारुवेषभृद्वज्रं वहन्पर्वतपक्षदारणम् ।
 ऐरावतं स्फाटिकशैलसोदरं ततोऽधिरुह्य द्युपतिस्तमन्वगात् ॥५॥

 प्रयाणेति ॥ ततोऽनन्तरं द्युपतिरिन्द्रः प्रयाणकाले प्रस्थानसमय उचितं योग्यं चारु मनोहरं च वेषं बिभर्ति धरति तथोक्तः । तथा पर्वतपक्षाणां दारणं छेदनम् । करणे ल्युट । वज्रं स्वायुधं वहन् , करेणेति शेषः । तथा स्फाटिक- शैलः कैलासम्तस्य सोदरं सदृशमैरावतं गजमधिरुह्यास्थाय तं कुमारमन्वगात् । अनुययावित्यर्थः । 'अभ्यगात्' इति पाठस्त्वसाधुः । सेनानीत्वेन वृतत्वादति- श्रेयः कुमारापेक्षयान्येषामिन्द्रादीनामपि गौणत्वात्पुरतो गमनानौचित्यात् ॥ ५॥

 तमन्वगच्छद्गिरिशृङ्गसोदरं मदोद्धतं मेषमधिष्ठितः शिखी।
 विरोधिविद्वेषरुषाधिकं ज्वलन्महोमहीयस्तरमायुधं दधत् ॥ ६॥

 तमिति ॥ विरोधिनस्तारकस्य विद्वेषेण वैरेण हेतुना या रुट् क्रोधस्तया निमित्तेनाधिकं ज्वलन् प्रदीप्यमानः शिख्यग्निगिरेः शृङ्गस्य सोदरं सदृशम् , तद्व- द्विशालमित्यर्थः। तथा मदेन गर्वेण । 'मदो रेतसि कस्तूर्यां गर्वे हर्षेभदानयोः' इति मेदिनी। उद्धतं मेषं पशुविशेषं लोके 'मेंढा' इति ख्यातमधिष्ठितोऽधिरूढः, तथा महसा तेजसा महीयस्तरमतिशयं महदायुधं शस्त्रं दधत् , अथवा 'महो मही- यस्तरम्' इति छेदः । महस्तेजोरूपं महीयस्तरमायुधमिति व्याख्यातव्यम् । दध- त्सन् । तं कुमारमन्वगच्छदनुगतवान् । अत्राप्यभ्यगच्छदित्यसाधुर्बोध्यः ॥ ६॥

पाठा०-१ वेषः. २ ऐरावणम्. ३ महोद्धुरम् ; महोद्धतम्. ४ महामहौज-

स्तरसा युधे दधे महो महीयस्तरमादधद्युधि.

 अथेन्द्रनीलाचलचण्डविग्रहं विषाणविध्वस्तमहापयोधरम् ।
 अधिष्ठितः कासरमुद्धरं मुदा वैवस्वतो दण्डधरस्तमन्वंगात् ॥७॥

 अथेति ॥ अथानन्तरं वैवस्वतो यमः । 'कालो दण्डधरः श्राद्धदेवो वैवस्वतो- ऽन्तकः' इत्यमरः । इन्द्रनीलानां नीलमणीनामचलः पर्वतस्तद्वश्चण्डविग्रहं प्रचण्ड- देहम् , कालत्वाद्भयानकमित्यर्थः । तथा विषाणाभ्यां शृङ्गाभ्यां विध्वस्ता अधः- पातिता महापयोधरा बृहन्मेधा येन तथा । उद्धरमुद्भटं कासरं महिषम् । 'लुलायो महिषो वाहद्विषत्कासरसैरिभाः' इत्यमरः । अधिष्ठितोऽधिरूढः । तथा दण्डं धरतीति तथाभूतश्च सन् । मुदा प्रीत्या तं कुमारमन्वगादनुजगाम ॥ ७ ॥

 मंदोद्भुतं प्रेतमथाधिरूढवांस्तमन्धकद्वेषितनूजमन्वगात् ।
 महासुरद्वेषविशेषभीषणः सुरोपणश्चण्डरणाय नैर्ऋतः ॥ ८॥

 मदोद्धतमिति ॥ अथानन्तरं महासुरद्वेषेण तारकासुरवैरेण विशेषमधिकं यथा तथा भीषणो भयानकः । 'भीषणं रसशल्लक्योर्ना गाढे दारुणेऽपि च' इति मेदिनी। तथा सुतरां रोषणः क्रोधनो नैर्ऋतो राक्षसो नैर्ऋतकोणाधीश्वरो मदेन गर्वेणोद्धतं प्रेतं पिशाचमधिरूढवानास्थितवान्सन् चण्डरणाय प्रचण्डरणं कर्तुं तमन्धकद्वेषिणो हरस्य तनूज पुत्रं कुमारमन्वगादन्वियाय ॥ ८॥

 नवोद्यदम्भोधरघोरदर्शने युद्धाय रूढो मकरे महत्तरे ।
 दुर्वारपाशो वरुणो रणोल्वणस्तमन्वियाय त्रिपुरान्तकात्मजम् ॥९॥

 नवेति ॥ रणे युद्ध उल्बण उद्भटो वरुणः प्रचेताः । 'वरुणस्तरुभेदेऽप्सु पश्चिमाशापतावपि' इति मेदिनी । नवो नव्यः । 'नवो नव्ये स्तुतौ' इति मेदिनी। उद्यन्नुदयमानो योऽम्भोधरो मेघस्तद्वद्घोरदर्शने भयानकदर्शने । 'घोरं भीमं

पाठा०-१ नन्विन्द्रनीलाचलचण्डविग्रहम् ; नवेन्द्रनीलोचितचण्ड विग्रहम्. २ शिलोच्चये. ३ स्थितोऽतिमत्ते महिषेऽसुभीषणः; अधिष्ठितः कासरमुद्धतं मुदा. ४ रणोत्सुकः, ५ अभ्यगात्. ६ मदोद्धतः प्रेतवराधिरोहणः; मदोद्धतप्रेतवराधिरूढः. ७ अभ्यगात्. ८ नवोदयाम्भोधरघोरदर्शनः, नवोदयस्तोरणधोरदर्शनम् ; नवोदयास्तोरणघोरदर्शनम्. ९ युद्धेऽधिरूढः; युद्धोपरूढः. १० मकरम्. ११ महातरम्. १२ रणोल्बणम्. भयानकम्' इत्यमरः । तथा महत्तरेऽतिशयदीर्घे मकरे नक्रे रूढः । तथा दुर्वारः पाश आयुधविशेषो यस्य, पाशधरः सन्नित्यर्थः । युद्धाय युद्धं कर्तुं तं त्रिपुरान्तकस्य शिवस्यात्मजं पुत्रं कुमारमन्वियायान्वगच्छत् ॥ ९॥

 दिगम्बराधिक्रमणोल्बणं क्षणान्मृगं महीयांसमरुद्धविक्रमम् ।
 अधिष्ठितः संगरकेलिलालसो मरुन्महेशात्मजमन्वगाद्द्रुतम् ॥१०॥

 दिगिति ॥ संगरकेलौ संग्रामक्रीडायां लालसा कामो यस्य । 'लालसौत्सुक्य- तृष्णातिरेकया्ज्चासु च द्वयोः' इति मेदिनी । तथाभूतो मरुत् पवनो वायुकोणा- धीशः क्षणान्मुहूर्तमात्रेणैव । 'क्षणः पर्वोत्सवे च स्यात्तथा मानेऽप्यनेहसि' इति मेदिनी । दिशामम्बरस्य च । 'अम्बरं वाससि व्योम्नि' इति मेदिनी । अधिक्रमण आक्रमण उल्बणमुद्भदं महीयांसं महत्तरम् । अरुद्धोऽप्रतिरूद्वो विक्रमो विवत् पक्षिवत् क्रमः पादक्षेपो यस्य तथाभूतं मृगं हरिगम् । 'मृगः पशौ कुरङ्गे च करिनक्षत्रभेदयोः' इति मेदिनी । अधिष्ठितः सन् । तं महेशात्मजं कुमारं द्रुतं सत्वरमन्वगादनुजगाम ॥ १०॥

 विरोधिनां शोणितपारणैषिणीं गदामनूनां नरवाहनो वहन् ।
 महाहवाम्भोधिविगाहनोद्धतं यियासुमन्वागमदीशनन्दनम् ॥११॥

 विरोधिनामिति ॥ नरवाहनः कुबेरः । 'पौलस्त्यो नरवाहनः' इत्यमरः । विरोधिनां शत्रूणां संबन्धि शोणितं रुधिरं तेन या पारणा भोजनं तामिच्छति तथाभूतामनूनामन्यूनसारां गदामायुधविशेषं वहन्धारयन्सन् महाहवो महारण: स एवाम्भोधिः समुद्रस्तस्य विगाहन उद्धतमुद्भटम् , समर्थमिति यावत् । अत एव यियासुं जिगमिषुमीशनन्दनम् शिवपुत्रं कुमारमन्वागमत् , अनुगच्छति स्मेत्यर्थः ॥ ११ ॥

 महाहिनिर्बद्धजटाकलापिनो ज्वलत्रिशूलप्रबलायुधा युधे ।
 रुद्रास्तुषाराद्रिसैखं महावृषं ततोऽधिरूढास्तमयुः पिनाकिनः॥१२॥

पाठा०-१ अद्रिक्रमण. २ लालसम्. ३ अभ्यगात्. ४ ध्रुवम्. ५ विग्रह. ६ विगाहमानः. ७ अभ्यागमत्. ८ निर्बन्ध. ९ प्रवरायुधाः. १० युधि. ११रुषा. १२ समम्.  महाहीति ॥ ततोऽनन्तरं पिनाकिनः पिनाकवन्तो रुद्रा ईशानकोणाधीशाः महाहिभिर्महद्भिः सर्पैः कृत्वा निर्बद्धो यो जटाकलापः सोऽस्ति येषां ते तथोक्ताः अथवा महाहिभिर्निर्बद्वा जटा वा येषाम् । शेषाद्विभाषा' (पा. ५।४।१५४) इति कप् । तथा लापिनः 'इदानीं तारकं जेष्यामः' इत्युद्धतवादिनश्च । ततो विशेषणसमासः । केचित्तु 'जटाभरावराः' इति पाठं कल्पयन्ति । यथास्थितव्याख्याने तु 'न कर्मधारयान्मत्वर्थीयः' इति मत्वर्थीयाप्रसङ्गो दुर्वार इत्यलम् । तथा ज्वलद्दीप्यमानं त्रिशूलमेव प्रबल सबलमायुधं येषाम् । तथा तुषाराद्रेर्हिमवतः सखं सखायम् , तद्दच्छुभ्रमित्यर्थः । महावृषम् । जातावेकवचनम् । अधिरूढाश्च सन्तः । युधे युद्धाय तं कुमारमयुः, अन्वयुरित्यर्थः ॥ १२ ॥

 अन्येऽपि संनाह्य महारणोत्सवश्रद्धालवः स्वर्गिगणास्तमन्वयुः ।
 स्ववाहनानि प्रबलान्यधिष्ठिताः प्रमोदविस्मेरमुखाम्बुजश्रियः॥१३॥

 अन्येऽपीति ॥ अन्येऽप्युक्तातिरिक्ता अपि स्वर्गिगणाः देवगणाः प्रमोदेन रणानन्देन विस्मेरा विशेषेण समन्दहासा मुखाम्बुजश्रीर्येषाम् । अत एव महति रणोत्सवे श्रद्वालवः श्रद्वाशीला अत एव प्रबलानि स्ववाहनान्यधिष्ठिताः । तथा कवचादिना संनह्य संनद्धा भूत्वा तं कुमारमन्वयुः, अनुजग्मुरित्यर्थः ॥ १३ ॥

 अथ युग्मेनाह-

 उद्दण्डहेमध्वजदण्डसंकुलाश्चञ्चद्विचित्रातपवाग्णोज्ज्वलाः ।
 चलद्धनस्यन्दनघोषभीषणाः करीन्द्रघण्टारवचण्डचीत्कृताः ॥१४॥
 स्फुरद्विचित्रायुधकान्तिमण्डलैरुद्द्योतिताशावलयाम्बरान्तराः।
 दिवौकसां सोऽनुवहन्महाचमूः पिनाकपाणेस्तनयस्ततो ययौ॥१५॥

 उद्दण्डेति ॥ स्फुरदिति ॥ ततः सर्वमनहनानन्तरं स पिनाकपाणेहरस्य तनयः कार्तिकेय उद्दण्डा उच्चनालदण्डा ये हेमध्वजाः सुवर्णविकारध्वजास्तेषां दण्डैर्नालदण्डैः संकुला व्याप्ताः, अनेकध्वजदण्डवत्य इत्यर्थः । चञ्चन्ति दीप्यमानानि तथा विचित्राणि हरितपीतादिवर्णयुक्तानि च यान्यातपवारणानि

पाठा०-१महामहोत्सव; महामहोत्सवाः, २ प्रवराणि. ३ चलत्.४ उल्बणाः. ५ घनाघना. ६ चक्रि. ७ कन्दलैः. ८ अम्बरा वराः, च्छत्राणि तैरुज्ज्वलाः, कान्तिमत्य इत्यर्थः । चलन्तो ये घना मेघास्त इव ये स्यन्दना स्थास्तेषां घोषेणारवेण भीषणा भयानकाः । तथा करीन्द्राणां मत्तद्विपानां संबन्धीनि घण्टारवाः, चण्डानि भीषणानि चीत्कृतानि च यासु । चीत्कृतेति शब्दानुकृतिः, तथा स्फुरन्ति सर्वतः प्रसरन्ति विचित्राण्यनेकवर्णान्यायुधसंबन्धिनीनां कान्तीनां द्युतीनां मण्डलानि वलयानि तैः कृत्वोद्द्योतितमुच्चैः शोभितमाशावलयं दिङ्म्ण्डलमम्बरान्तरमाकाशमध्यं च याभिः । 'अम्बरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये । छिद्रात्मीयविनाबहिरवसरमध्येऽन्तरात्मनि च' इति मेदिनी । एवंविधा दिवौकसां देवानां महाचमूर्महितीः सेना अनु पश्चाद्वहन्सन् ययौ, जगामेत्यर्थः ॥ १४-१५ ॥

 कोलाहलेनोच्चलतां दिवौकसां महाचमूनां गुरुभिर्ध्वजव्रजैः ।
 घनैर्निरुच्छ्वासमभूदनन्तरं दिङ्मण्डलं व्योमतलं महीतलम् ॥१६॥

 कोलाहलेनेति ।। उत्प्लुत्योड्डीय चलताम्, रोषवशादिति भावः । दिवौकसा देवानां कोलाहलेन घोरघोषेण । तथा महाचमूनां गुरुभिर्विशालैर्घनैः सघनैः । पुष्टैरिति यावत् । ध्वजव्रजैर्ध्वजसमूहैश्च कृत्वा निरुच्छ्वासं निरुद्धश्वासं निरोधहेतुकव्याप्तिमद्दिशां मण्डलं व्योमतलं महीतलमनन्तरमनुद्भासमानभेदमभूत् । 'एकमेवाद्वितीयं ब्रह्म' ( छा० ६।२।१ ) इत्यद्वैतवादिनां ब्रह्मणोऽद्वैतत्वप्रतिपादने निदर्शनमभूदिति भावः ॥ १६ ॥

 सुरारिलक्ष्मीपरिकम्पहेतवो दिक्चक्रवालप्रतिनादमेदुराः ।
 नभोन्तकुक्षिंभरयो घनाः स्वना निहन्यमानैः पटहैर्वितेनिरे ॥१७॥

 सुरारीति ॥ निहन्यमानैस्ताड्यमानैः पटहैः कर्तृभिः । 'पटहो ना समारम्भ आनके पुंनपुंसकम्' इति मेदिनी। 'आनकः पटहोऽस्त्री स्यात्' इत्यमरश्च । सुरारिलक्ष्म्यास्तारकसंपदः संबन्धिनि परिकम्पे हेतवो निदानम् । दिशां चक्रवाले मण्डले । 'चक्रवालं तु मण्डलम्' इत्यमरः । यः प्रतिनादः प्रतिध्वनिस्तेन मेदुराः पुष्टाः। तथा नभोन्तेनाकाशप्रान्तेन, प्रान्तपर्यन्तेनेस्यर्थः । कुक्षिं भरन्ति पिपुरन्ति नभोन्तकुक्षिंभरयः, सर्वं नभो व्याप्नुवन्त इत्यर्थः । 'फलेग्रहिरात्मंभरिश्च' (पा. ३।१२।२६ ) इत्यत्र चात्कुक्षेरपि समावेशात्कुक्षिंभरिरिति

पाठा०-१ उच्छलता. २ ध्वजाग्रैः ३ अलंतराम्. ४ घनस्वनाः. सिद्धम् । तथा घनाः सान्द्राः स्वनाः शब्दा वितेनिरे, वितस्तरिर इत्यर्थः ॥१७॥

 प्रमथ्यमानाम्बुधिगर्जितर्जनैः सुरारिनारीगणगर्भपातनैः ।
 नभश्चमूधूलिकुलैरिवाकुलं ररास गाढं पटहप्रतिस्वनैः ॥ १८ ॥

 प्रमथ्यमानेति ॥ चमूनां धूलिकुलै रेणुसमूहैः । 'कुलं जनपदे गोत्रे सजातीयगणेऽपि च' इति मेदिनी । आकुलं व्याप्तं पीडितं नभः प्रमथ्यमानोऽवलोड्यमानो योऽम्बुधिस्तस्य गर्जिर्गर्जनं तस्य तर्जना जेतारः, ततोऽप्यधिकगर्जनैरित्यर्थः । अत एव सुरारेस्तारकस्य यो नारीगणः स्त्रीसमूहस्तस्य यो गर्भस्तस्य पातनैः पातनकारिभिः, अतिगर्जनभयादिति भावः । पटहप्रतिस्वनैरानकप्रतिघोषैः कृत्वा गाढं दृढं यथा तथा ररासेव रुरोदेव । उत्प्रेक्षालंकारः ।आर्तानां रोदनमेवैकं शरणं भवतीति भावः ॥ १८ ॥

 क्षुण्णं रथैर्वाजिभिराहतं खुरैः करीन्द्रकर्णैः परितः प्रसारितम् ।
 धृतं ध्वजैः काञ्चनशैलजं रजो वातैर्हतं व्योम समारुहत्क्रमात् ॥१९॥

 क्षुण्णमिति ॥ रथैः स्यन्दनैः क्षुण्णमुत्खनितम् । तथा काञ्चनशैलजं सुमेरुपर्वतजनितम् । इदं विशेषणं पीतत्वद्योतनार्थम् । रजो धूलिः । वाजिभिरश्वैः कर्तृभिः । खुरैः करणैः । कृत्वाऽऽहतं चूर्णीकृतम् , पिष्टीकृतमिति यावत् । तथा करीन्द्राणां मत्तगजानां कर्णैः श्रवणैः परितः सर्वतः प्रसारितं विस्तृतम् । तथा ध्वजैर्धुतं कम्पितम् । एतेन सघनता द्योतिता । तथा वातैः पवनैर्हतं स्पृष्टम् । एतेन पवनस्योपरि रहःप्राप्तौ साधकतोक्ता । क्रमाद्यथाक्रमं व्योम कर्म । समारुहत् , आकाशमारूढमित्यर्थः । अत्र रुहेर्भौवादिकत्वाल्लङि गुणप्रसङ्गः, लुङि शलन्तत्वात्क्सप्रसङ्गः, णिजन्तत्वे लङि यकारश्रवणप्रसङ्गः, इत्यतोऽयं प्रयोगश्चिन्त्य इति बहवः । वयं तु व्योम्न्याकाशे सम्यगारोहतीति समारोहः, इगुपधलक्षणः कः, तत आचारार्थे क्विपि अल्लोपे धातुत्वाल्लङि शपि अल्लोपस्य स्थानिवत्त्वाद्गुणाभावे च रूपसिद्धिरिति समादध्महे ॥ १९ ॥

पाठा०-१ अर्णवगर्जितस्वनैः. २ वरारि. ३ आकुलैः. ४ क्षिप्तम्. ५ धृतं घनैः, ६ ससार तत् ; समासदत् . ७ क्षणात्.   न केवलं व्योमन्यारूढं, किंतु दिगन्तेष्वपि तथेत्याह--

 खातं खुरै रथ्यतुरंगपुंगवैरुपत्यकाहाटकमेदिनीरजः ।
 गतं दिगन्तान्मुखरैः समीरणैः सुविभ्रमं भूरि बभार भूयसा ॥२०॥

 खातमिति ॥ रथं वहन्ति ते रथ्याः। तद्वहति रथयुगप्रासङ्गम्' (पा. ४।४।७६) इति यत् । तथोक्ता ये तुरंगपुंगवा अश्वश्रेष्ठास्तैः कर्तृभिः । खुरैः कृत्वा खातं क्षुण्णम् । उपत्यकाद्रेरासन्ना या हाटकमेदिनी सुवर्णभूमिः । अद्रेः सौवर्ण्यासन्मभूमिरिति तात्पर्यार्थः । 'उपाधिभ्यां त्यकन्नासन्नारूढयोः' (पा. ५।२।३४ ) इत्यासन्नार्थे त्यकन्प्रत्ययः । तस्याः संबन्धि । रजः कर्तृ । भूरि बहुलं मुखरैः शब्दायमानैः समीरणैः पवनैर्दिगन्तान्दिक्प्रान्तान् गतम् , गमितमित्यर्थः । अन्तर्भावितणिजर्थोऽत्र बोध्यः । तथोक्तं सत् । भूयसातिशयेन शोभमानं विभ्रमं विलासम् , शोभामिति यावत् । बभार धृतवान् , अत्यन्तं शुशुभ इत्यर्थः ।'उपत्यकाद्रेरासन्ना भूमिरूर्ध्वमधित्यका' इत्यमरः ॥ २०॥

 अधस्तथोर्ध्वं पुरतोऽथ पृष्ठतोऽभितोऽपि चामीकररेणुरुच्चकैः ।
 चमूषु सर्पन्मरुदाहतोऽहरन्नवीनसूर्यस्य च कान्तिवैभवम् ॥२१॥

 अध इति ॥ चमूषु सेनासु मरुता पवनेनाहत उत्पादितः । अत एवाधो नीचैः । तथोर्ध्वमूर्ध्वभागे । तथा पुरतोऽग्रभागे । अथ पृष्ठतः पार्श्वभागे । तथाभितोऽपि इतस्ततश्च सर्पन्प्रसरन् । चामीकररेणुः सुवर्णरजः । सुवर्णपर्वतोद्भूतत्वादिति भावः । नवीनसूर्यस्योषस्यसूर्यस्य कान्तिवैभवं द्युतिसंपदमहरत् ,ततोऽप्यधिकं शुशुभ इत्यर्थः ॥ २१ ॥

 बलोद्धृतं काञ्चनभूमिजं रजो बभौ दिगन्तेषु नभःस्थले स्थितम् ।
 अकालसंध्याघनरागपिङ्गलं घनं घनानामिव वृन्दमुद्यतम् ॥ २२ ॥

 बलोद्धृतमिति ॥ काञ्चनस्य भूमौ जातं रजो धूलिर्बलोद्धृतं सैन्येनोत्पातितमत एव दिगन्तेषु दिक्प्रान्तेषु तथा नभःस्थल आकाशदेशे स्थितं च सत् । अकाले या संध्या तस्या यो घनः सान्द्रो रागो लौहित्यं तेन पिङ्गलं पिशङ्गम् ,


पाठा०-१ उपत्यकानां कनकस्थलीरजः. २ प्रखरैः. ३ दाहभ्रमम्. ४ तत्कालबालातपवैभवं बहु; तत्कालबालारुणवैभवं बहु. ५ वातोद्धतम् ; बलोद्धतम्. ६ नभस्तले. ७ पिङ्गितम्. ८ दण्डम्. 'पिशङ्गौ कद्रुपिङ्गलौ' इत्यमरः । तथा घनं सान्द्रमुन्नतमुत्पन्नम् , पर्वतेभ्य इति शेषः । घनानां मेघानां वृन्दं समूह इव । बभौ, अकालसंध्यालिप्तो मेघो यथा भाति तद्वत्सुवर्णभूमिजमपि रजो बभावित्यर्थः । अत्र पूर्णोपमालंकारः । ननु भानावाश्रयीभूते रजसि घनवृन्दत्वेनोत्प्रेक्षासंभवात् संभावनैवास्त्विति चेत्,- सत्यम्; क्रियाप्राधान्यमते रजःकर्तृकशोभायां घनवृन्दवोत्प्रेक्षापत्तेः ॥ २२ ॥

 हेमावनीपु प्रतिबिम्बमात्मनो मुहुर्विलोक्याभिमुखं महागजाः ।
 रसातलोत्तीर्णगजभ्रमात्क्रुधा दन्तप्रकाण्डप्रहृतानि तेनिरे ॥ २३ ॥

 हेमेति ॥ महागजा महान्तो दन्तिनो हेम्नः सुवर्णस्यावनीषु पृथ्वीषु पतितमात्मनः प्रतिबिम्बमभिमुखं विलोक्य रसातलात्पातालात् । 'अधोभुवनपातालं बलिसद्म रसातलम्' इत्यमरः । उत्तीर्णा उत्थिता ये गजास्तेषां भ्रमाद्भ्रान्त्या निमित्तेन, जातयेति शेषः । क्रुधा क्रोधेन । 'प्रतिघा रुट्क्रुधौ स्त्रियौ' इत्यमरः । मुहुरनुवेलं दन्ता एव प्रकाण्डाः स्तम्बाः । 'काण्डं स्तम्बे तरुस्कन्धे बाणेऽवसरनीरयोः' इति मेदिनी । तैस्तत्कर्मकानि प्रहृतानि प्रहारान् । भावे निष्टा । तेनिरे वितस्तरिरे । कर्तरि लिट् । 'अत एकहल्मध्येऽनादे-' (पा. ६।४।१२०) इत्येत्वाभ्यासलोपौ। पृथिव्यामात्मप्रतिबिम्बदर्शनेनान्यगजभ्रमवतां गजानां युक्तमेव प्रहारकरणमिति भावः । 'नान्यस्य गन्धमपि मानभृतः सहन्ते' इति गन्धस्यापि दुःसहत्वात् । किं पुनः साक्षाद्दर्शनस्य ? तद्दर्शनं तद्वति तत्प्रकारकमतद्वति तत्प्रकारकं वा, तत्र तेषां नातीव निग्रहः; मानान्धतायाः प्राधान्यात् ॥ २३ ॥

 सुजातसिन्दूरपरागपिञ्जरैः कलं चलद्भिः सुरसैन्यसिन्धुरैः ।
 शुद्धासु चामीकरशैलभूमिषु नादृश्यत स्वं प्रतिबिम्बमग्रतः ॥२४॥

 सुजातेति ॥ सुजातः शोभनो यः सिन्दूरस्य परागो रजस्तेन पिञ्जरैः पीतैः तथा कलं मन्द्रं यथा तथा चलद्भिर्गच्छद्भिः सुराणां देवानां सैन्यस्य सिन्धुरैर्गजैः कर्तृभिः । शुद्धासु निर्मलास्वपि चामीकरशैलस्य सुमेरुपर्वतस्य भूमिष्वग्रतः पतितमपि स्वं प्रतिविम्बं नादृश्यत नालोकि । कर्मणि लङ् । आधाराधेययोरेकवर्णतया पृथगभासमानत्वादिति भावः । सिन्दूरस्तनुभेदे स्यात्सिन्दूरे रक्तचूर्णके' इति मेदिनी ॥ २४ ॥

पाठा०-१ हैमावनीषु. २ गजभ्रमेण ते. ३ प्रहतानि; प्रकृतानि. ४ व्यदृश्यत.

 इति क्रमेणामरराजवाहिनी महाहवाम्भोधिविलासलालसा ।
 अवातरत्काञ्चनशैलतो द्रुतं कोलाहलाक्रान्तविधूतकन्दरा ॥२५॥

 इतीति ॥ महानाहवः सङ्ग्रामः स एवाम्भोधिः समुद्रस्तत्र यो विलासो लीला, क्रीडेति यावत् । 'विलासो हावभेदे स्याल्लीलायामपि पुंस्ययम्' इति मेदिनी। तत्र लालसोत्सुक्यं यस्याः। तथा कोलाहलेन कलकलेन । 'कोलाहल: कलकलः' इत्यमरः । आक्रान्ता व्याप्ता अत एव विधूताः कम्पिताः कन्दरा गह्वरा यया । 'कन्दरस्त्वङ्कुशे पुंसि गुहायां न नपुंसकम्' इति मेदिनी । एवंभूतामरराजवाहिनीन्द्रसेना । 'वाहिनी स्यात्तरङ्गिण्यां सेनासैन्यप्रभेदयोः' इति मेदिनी । इति क्रमेण पूर्वोक्तक्रमेण काञ्चनशैलतः सुमेरोः सकाशाद्द्रुतं शीघ्रमवातरत् , उत्ततारेत्यर्थः ॥ २५ ॥

 महाचमूस्यन्दनचण्डचीत्कृतैर्विलोलघण्टेभपतेश्च बृंहितैः ।
 सुरेन्द्रशैलेन्द्रमहागुहाशयाः सिंहा महत्स्वप्नसुखं न तत्यजुः ॥२६॥

 महेति ॥ सुरेन्द्रस्येन्द्रस्य शैलेन्द्रे मेरौ या महागुहा महागह्वराणि तासु शेरते स्वपन्ति, गुहासु निद्रां कुर्वन्त इत्यर्थः । तथाभूताः सिंहा मृगेन्द्रा महाचमूषु महतीषु सेनासु ये स्यन्दना रथास्तेषां चण्डैः प्रचण्डैः, तीव्रैरिति यावत् । 'चण्डो धनहरी शङ्खपुष्पास्त्रिष्वतिकोपने । तीव्रेऽपि चूडावलभौ शिखायां बाहुभूषणे ॥' इति मेदिनी । चीत्कृतैः शब्दविशेषैः । इयं च शब्दानुकृतिः, तथा विलोलघण्टोऽतिचपलघण्टो य इभपतिर्गजराजस्तस्य । जातावेकवचनम् । बृंहितैर्गर्जितैश्च । 'बृंहितं करिगर्जितम्' इत्यमरः । महद्दीर्घं स्वप्ने निद्रायां यत्सुखम् । 'सुखं शर्मणि ना नाके' इति मेदिनी । 'स्वपो नन्' (पा. ३।३।९१ ) इति नन्प्रत्ययः। न तत्यजुर्न जहुः । अत्र निद्राप्रतिबन्धाश्रयीभूतबहुविधकोलाहलरूपे सत्यपि निदाने निद्राभङ्गरूपकार्योत्पत्त्यभावाद्विशेषोक्तिरलंकारः । 'कार्याजनिर्विशेषोक्तिः सति पुष्कलकारणे' इति लक्षणात् । 'शयवासवासिष्वकालात् (पा. ६।३।१८ ) इति सूत्रे हलदन्तादेवेति नियमाद्गुहाशय इत्यत्र तदभावान्नालुक् ॥ २६ ॥

पाठा०-१ इवारम्भ. २ कोलाहलावृत्तिविधूतकन्दरा; कोलाहलाकृतविधूतकन्दरा; कोलाहलाकृत्तविधूतकन्दराः. ३ महाचमूनां करिचण्ड. ४ घण्टाक्वणितोपहितैः. ५ महास्वप्न.

 गम्भीरभेरीध्वनितैर्भयंकरैर्म[५३]हागुहान्तप्रतिनादमेदुरैः ।
 महारथानां गु[५४]रुनेमिनिःस्वनैरनाकुलैस्तैर्मगराज[५५]ताऽजनि ।। २७ ॥

 गम्भीरेति ॥ महान्तः परिणाहिनो ये गुहान्ता गह्वरमध्यानि तेषु यः प्रतिनादः प्रतिध्वनिस्तेन मेदुरैः पुष्टैः । अत एव भयंकरैर्विभीषकैः । 'मेघर्तिमयेषु कृमः'(पा.३।२।४३) इति खश् । गम्भीराणि मन्द्राणि यानि भेरीध्वनितानि दुन्दुभिशब्दाः । 'भेरी स्त्री दुन्दुभिः पुमान्' इत्यमरः । तैः । तथा महारथानां महतां स्यन्दनानां संबन्धिन्यो या गुरुनेमयो महत्यश्चक्रधाराः । 'चक्रधारा प्रधिर्नेमिः' इत्यमरः । तासां निःस्वनैः शब्दैश्चापि, निमित्तभूतैरित्यर्थः । अनाकुलैराकुलत्वाभाववद्भिस्तैः सिंहैर्निमित्तैर्मृगराजता मृगाधिपत्यम्, अन्वर्थेति शेषः । सार्थाऽजनि जाता । राज्ञामयमेव परमो धर्मः प्रतिकर्तुमशक्तैरपि यदरिभ्यो न भेतव्यमिति । तदेभिर्मगरावधारिभिः कथंचिदपि न भीतम्, अतो युक्तमेषां खलु मृगराज इत्यभिधानमित्यभिप्रायः । अत्रापि विशेषोक्तिरलंकारः ॥ २७ ।।

 [५६]मुत्थितेन त्रिदिवौकसां म[५७]हाचमुरवेणाद्रितटान्तदारिणा ।
 प्रपेदिरे केसरिणोऽधिकं मदं स्व[५८]वीर्यलक्ष्मीमृगराजतावशात् ॥२८॥

 समुत्थितेनेति ॥ समुत्थितेन समुदितेनात एवाद्रेः सुमेरोस्तटान्तानां शृङ्गमध्यानाम् । 'तटं नपुंसकं क्षेत्रे प्रतीरे तु तटी त्रिपु' इति मेदिनी । 'प्रपातस्त्वतटो' इत्यमरश्च । दारिणा विदारकेण । अतिघोषेण महान्तः पर्वतभृगवोऽपि विदीर्णा बभूवुरित्यर्थः । अत्र शब्दकर्तृकपर्वततटविदारणस्यायोगेऽपि तद्योगकल्पनात्संबन्धादतिशयोक्तिरलंकारः । त्रिदिवौकसां देवानां संबन्धिन्यो या महाचम्वो महत्यः सेनाः। 'चमूः सेनाविशेषेऽपि सेनामात्रे च योषिति' इति मेदिनी । तासां रवेण ध्वनिना निमित्तेन केसरिणः सिंहाः कर्तारः । स्वस्य वीर्यं पराक्रम एव लक्ष्मीः शोभा यस्याः, आत्मपराक्रमशालिनीत्यर्थः । तथाभूता या मृगराजता हरिणाधिपत्यं तस्या वशादायत्तत्वात् । 'वशो जनस्पृहायत्तेष्वायतत्वप्रभुत्वयोः' इति मेदिनी । अधिकं बहु मदं गर्व प्रपेदिरे । कर्तरि लिद । भयानकोऽपि चमूरवः प्रत्युत सिंहानामधिकमदकारक एव जात इति भावः ॥ २८॥

 भिया सुरानीकविमर्दजन्मना विदुद्रुवुर्दूरतरं द्रुतं मृगाः ।
 गुहागृहान्ताद्ब[५९]हिरेत्य हे[६०]लया तस्थुर्विश[६१]ङ्ग्कं नितरां मृगाधिपाः॥२९

 भियेति ॥ मृगा हरिणाः । 'मृगः पशौ कुरङ्गे च' इति मेदिनी । सुराणां देवानामनीकस्य सैन्यस्य । 'अनीकोऽस्त्री रणे सैन्ये' इति मेदिनी। यो विमर्दः प्राणापहारि मर्दनं तज्जन्मना, ततो जनितयेत्यर्थः । भिया भयेन निमित्तेन द्रुतं सत्वरं दूरतरं विदुद्रुवुः, पलायांचक्रिर इत्यर्थः ।भयशीलत्वादिति भावः । अथ च मृगाधिपाः सिंहा हेलया क्रीडया, सहसैवेत्यर्थः । गुहागृहस्य गह्वररूपस्य सद्मनोऽन्तान्मध्याद्बहिरेत्य । 'अपपरिबहिः - (पा.२।१।१२) इति समासविधानाज्ज्ञापकात्पञ्चमी । नितरां विशङ्कं निर्भयं यथा तथा तस्थुः ॥ २९ ॥

 वि[६२]लोकिताः कौतुकिनामरावतीजनेन जु[६३]ष्टप्रमदेन दूरतः ।
 मुराचलप्रान्त[६४]भुवः प्रपेदिरे सुविस्तृ[६५]तायाः प्रसरं सु[६६]सैनिकाः ॥३०॥

 विलोकिता इति ॥ कौतुकिना। सैनिकदर्शने कौतुकाविष्टचेतसेत्यर्थः । जुष्टप्रमदेन सेवितकलत्रेण। कलत्रसहितं वर्तमानेनेति फलितोऽर्थः । अमरावतीजनेन सुरेन्द्रनगरीलोकेन दूरतो दूरात् । 'दूरान्तिकार्थेभ्यो द्वितीया च'(पा.२।३।३५) इति पञ्चमी । 'पञ्चम्या:-'(पा. ५।३।७) इति तसिल। विलोकिता दृष्टाः सुसैनिकाः शोभनाः सेनास्थलोकाः कर्तारः सुतरां विस्तृतायाः सुराचलस्य सुमेरोर्या प्रान्तभूस्तस्याः प्रसरं प्रदेशं प्रपेदिरे प्रापुः । सुमेरोरवरुह्याधः प्रापुरिति भावः ॥३०॥

 पीता[६७]सितारक्तसितैः सुराचलप्रा[६८]न्तस्थितैर्धातुरजोभिरम्बरम् ।
 [६९]यनगन्धर्वपुरोदयभ्रमं बभार भूम्नोत्प[७०]तितैरितस्ततः ॥ ३१ ॥

 पीतासितेति ॥ अम्बरं नभः कर्तृ । इतस्ततः सर्वत्रेत्यर्थः । भूम्नाबाहुल्येनोत्पतितैरुड्डयितैरत एव सुराचलस्य सुमेरोः प्रान्तेषु स्थितैः । प्रान्तत्वं ह्यूर्ध्वदैशिकमवगन्तव्यम् । तथा पीतानि चासितानि चारक्तानि च सितानि च तैर्धातुरजोभिगैरिकादिधूलीभिर्निमित्तेन । अयत्नेन यत्नाभावेन, अनायासेनेति यावत् । यो गन्धर्वपुरस्य देवगायननगरस्योदय उत्पत्तिस्तस्य भ्रमं बभार धृतवान् । श्लो० २९-३४] अन्तर्भाविणिजथः । गन्धर्वपुरस्य ह्यनेकवर्णपरिमण्डितत्वरूपसामान्यधर्मेण नभसो योपमा तन्मूलिका भ्रान्तिः । अत उपमोत्थापितोऽयं भ्रान्तिमानलंकारः । तेनोभयोरङ्गाङ्गिभावेन संकरः ॥ ३१ ॥

 महा[७१]स्वनः सैन्यविमर्दसंभवः कर्णान्त[७२]कूलंकषतामुपेयिवान् ।
 पयोनिधेः क्षुब्धतरस्य व[७३]र्धनो बभूव भूम्ना भुवनोदरंभरिः ॥३२॥

महाखन इति ॥ कर्णान्तः श्रवणमध्यं स एव कूलं तटम् । 'अथ कूलं तटे सूर्ये सैन्यपृष्ठतडागयोः' इति मेदिनी । तत्कषत्युन्मार्ष्टि तस्य भावस्तत्ता ताम् । 'सर्वकूलाभ्रकरीषेषु कषः'(पा. ३।२।४२) इति खश्। 'अरुर्द्विषत्-'(पा.६।३।६७) इति मुम् । उपेयिवान्प्राप्तवान् । कर्णान्तं स्फोटयन्नित्यर्थः ।क्षुब्धतरस्यात्यन्तसंचलितस्य । वेलामतिक्रान्तस्येत्यर्थः । पयोनिधेः समुद्रस्य वर्धनः । कर्तरि ल्युट् । तथा भुवनैः कृत्वोदरं भरतीति तथोक्तः । आवृतसकलब्रह्माण्डत्वाद्भुवनानां मध्यपातो युक्त इति भावः । एवंभूतः सैन्यविमर्दसंभवः सेनासंघटनोत्पन्नो महास्वनो भूम्ना बाहुल्येन युक्तो बभूव । अतिमहत्त्वविशिष्टो जात इत्यर्थः ॥ ३२ ॥

 महागजानां गुरुबृंहितै[७४]स्ततैः सुहेषितैर्घोरतरैश्च वाजिनाम् ।
 [७५]नै रथानां गुरुचण्डचीत्कृतैस्तिरोहितोऽभूत्पटहस्य निःस्वनः ३३

महागजानामिति ॥ महागजानां महतां दन्तिनां संबन्धिभिर्गुरुबंहितैर्गुरूणि गम्भीराणि यानि बृंहितानि ध्वनितानि तैः । तथा ततैर्विस्तृतैः । तथा घोरतरैरत्यन्तभयंकरैर्वाजिनां सुहेषितैः शोभनहेषणैः । तथा धनैर्गम्भीरै रथानां संबन्धिभिर्गुरूणि महान्ति चण्डानि भयानकानि च यानि चीत्कृतानि तैश्च पटहस्य निःस्वनः स्वनस्तिरोहितोऽन्तर्हितः । अप्रकाशित इति यावत् । अभूत् ॥ ३३ ॥

 महासुराणामवरोधयोषितां कचाक्षिपक्ष्मस्तनमण्डलेषु[७६] च।
 ध्वजेषु नागेषु रथेषु वाजिषु क्षणेन तस्थौ सुरसैन्यजं रजः ॥३४॥

महासुराणामिति ॥ महासुराणां तारकादीनां संबन्धिनीनामवरोधयोषितामन्तःपुरस्त्रीणाम् । 'शुद्धान्तश्चावरोधश्च' इत्यमरः । संबन्धीनि कचाश्च, अक्षिपक्ष्माणि च, स्तनमण्डलानि च, तस्मिन् । 'द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम्। (पा. २।४।२) इति प्राण्यङ्गत्वादेकवद्भावः । तथा ध्वजेषु नागेषु हस्तिषु रथेषु वाजिषु च धनं सान्दं सुरसैन्यजं रजो धूलिः क्षणेन तस्थौ । अनेन तेषां शत्रूणामशुभमुक्तमिति ध्वनिः ॥ ३४ ॥

 धनै[७७]र्विलोक्य स्थगितार्कमण्डलैश्चमूरजोभिर्निचितं न[७८]भःस्थलम् ।
 [७९]यायि हंसैरभि मानसं घनभ्रमेण सानन्दमनर्ति केकिभिः ॥३५॥

 घनैरिति ॥ धनैः सान्दैरत एव स्थगितार्कमण्डलैराच्छादितसूर्यबिम्बैश्चमूरजोभिः सेनाधूलिभिर्निचितं व्याप्त नभःस्थलं व्योमदेशं विलोक्य घनभ्रमेण मेधभ्रान्त्या हंसैमरालैर्मानसं सरोऽभि संमुखमयायि गतम् । भावे लुङ् । तेषां वर्षास्वप्रगल्भत्वादिति भावः । अथ च केकिभिर्मयूरैः सानन्दं सहर्षमनर्ति नृत्यमकारि । अत्रापि भावे लुङ् ॥ ३५ ॥

 सा[८०]न्द्रैः सुरानीकरजोभिरम्बरे नवाम्बुदानीकनिभैर[८१]भिश्रिते ।
 चकाशिरे स्व[८२]र्णमया महाध्वजाः परिस्फुरन्तस्तडितां गणा इव ३६

 सान्द्रेरिति ॥ अम्बरे नभसि । 'अम्बरं वाससि व्योम्नि कार्पासे च सुगन्धके' इति मेदिनी । नवो नूतनः, वार्षिक इति यावत् । योऽम्बुदो मेघस्तस्यानीकं समूहस्तन्निभैस्तत्सदृशैः । 'निभस्तु कथितो व्याजे पुंलिङ्गः सदृशे त्रिषु' इति मेदिनी । तथा सान्द्रैः सघनैः । 'सान्द्रं बले वापि घने मृदौ च' इति मेदिनी। सुराणामनीकस्य सैन्यस्य रजोभी रेणुभिः । रजो रेणौ परागे स्यादार्तवे च गुणान्तरे' इति मेदिनी । अभिश्रित आवृते सति स्वर्णमया हेममया महाध्वजा महान्तो ध्वजाः। 'ध्वजः स्याच्छौण्डिके पुमान् । न स्त्रियां तु पताकायां खट्वाङ्गे मेढ्रचिह्नयोः' इति मेदिनी । परिस्फुरन्तः परितः स्फुरन्तः प्रकाशमानास्तडितां विधुताम् । 'तडित्सौदामिनी विद्युत्' इत्यमरः । गणाः समूहा इव चकाशिरे शुशुभिरे ॥३६॥

 विलोक्य धूलीपटलैभृशं भृतं द्यावापृथिव्योरलमन्तरं महत् ।
 किमूर्ध्वतोऽधः कि[८३]मधस्त ऊर्ध्वतो रजोऽभ्युपैतीति जनैरतर्क्यत ३७

 विलोक्येति ॥ जनैर्लोकैर्द्यावापृथिव्योर्द्यौश्च पृथिवी च तयोः । 'दिवसश्च पृथिव्याम्' इत्यत्र चकाराद्दयावादेशः । महद्विशालमन्तरमवकाशो धूलीपटलै रजोनिचयैर्भृशं बहु यथा तथा भृतं पूर्ण विलोक्य रज ऊर्ध्वतः सकाशादध उपैति किंवाधस्तः सकाशादूर्ध्वत ऊर्ध्वभागे। सार्वविभक्तिकस्तसिः । अभ्युपैति किमित्यलं पर्याप्तमतर्क्यत तर्कितम् । भावे लङ् । सर्वतो रजोव्याच्या कुत आगच्छतीति

निश्चयाभावादिति भावः ॥ ३७ ॥

 नोर्ध्वं न चाधो न पुरो न पृष्ठतो न पार्श्वतोऽभूत्खलु च[८४]क्षुषोगतिः।
 सू[८५]च्यग्रभेद्यैः पृतनार[८६]जश्चयैरा[८७]च्छादिता प्राणिगणस्य सर्वतः ॥३८॥

 नोर्ध्वमिति ॥ सूच्यग्रेण सीवनद्रव्यपुरोभागेन । 'सूची तु सीवनद्रव्येऽप्याङ्गिकाभिनयान्तरे' इति मेदिनी । भेद्यैर्भेत्तुं योग्यैः । 'ऋहलो:-'(पा. ३।१।१२४) इति ण्यत् । अनेनातिसद्यस्ता द्योतिता । तथाभूतैः पृतनायाः सेनायाः । 'पृतना तु स्त्रियां सेनामात्रसेनाविशेषयोः' इति मेदिनी। रजसां चयैः समूहैः । 'चयः समूहे प्राकारमूलबन्धे समाहतौ' इति मेदिनी । सर्वत आच्छादितावृता प्राणिगणस्य जन्तुसमूहस्य चक्षुषोर्नेत्रयोः । 'लोचनं नयनं नेत्रमीक्षण चक्षुरक्षिणी' इत्यमरः । गतिः प्रसरणमूर्ध्वं नाभूत्, अधश्च नाभूत्, पुरो नाभूत्, पृष्ठतो नाभूत्, पार्श्वतोऽप्युभयतो नाभूत् । खलु निश्चयेन ॥ ३८ ॥

 दिगन्तद[८८]न्त्यावलिदानहारिभिर्विमानरन्ध्रप्रतिनादमेदुरैः ।
 अनेकवाद्य[८९]ध्वनितैरनारतैर्जगर्ज गाढं गु[९०]रुभिर्नभस्तलम् ॥ ३९ ॥

 दिगन्तेति ॥ दिगन्तेषु या दन्त्यावलिर्गजपङ्क्तिस्तस्या दानं मदजलं तस्य हारिभिः शोषकैः । घोरध्वनितश्रवणजनितभयवशाद्दिगन्तदन्तिनोऽपि शुष्कमदजला जाता इति भावः । तथा विमानानां देवस्यन्दनानां रन्ध्रेषु जालेषु यः प्रतिनादः प्रतिध्वनिस्तेन मेदुरैः पुष्टैर्गुरुभिर्दीधैरनारतैरविद्यमानक्षणिकविरामैरनेकवाद्यानां मृदङ्गादीनां ध्वनितैर्घोषैः कृत्वा नभम्तलं कर्तृ गाढं दृढ़ जगर्ज । प्रतिननादेत्यर्थः । अन्योऽपि कस्मिंश्चित्कर्णकटुरवकारिणि सति तटस्थोऽपि प्रतिनदति तद्वत् । समासोक्तिरलंकारः-'समासोक्तिः परिस्फूर्तिः प्रस्तुतेऽप्रस्तुतस्य यत्' इति लक्षणात् ॥ ३९॥

 भुवं विगाह्य प्रययौ महाचमूः क्व[९१]चिन्न मान्ती म[९२]हतीं दिवं खलु ।
 सुसंकुलायामपि तत्र निर्भरा[९३]त्किं कांदिशीकत्वमवाप नाकुला ४०

 भुवमिति ॥ महाचमूर्महती सेना भुवं विगाह्य व्याप्य क्वचिदपि भूमिस्थले न मान्त्यसमाविशन्ती सती महतीं विशालां दिवं स्वर्ग प्रययौ प्राप । खलु निश्चयेन । अथ च निर्भरादधिकात्मभाराद्धेतोस्तत्रापि दिव्यपि सुतरां संकुलायां व्याप्तायां सत्यामाकुला व्याकुला सती कांदिशीकत्वं भयद्गुतत्वम् । 'कांदिशीको भयद्रुतः' इत्यमरः । किं नावाप ? अपि त्ववापैवेत्यर्थः । परस्परपेषणभिया व्याकुलत्वाद्दुद्रुवुरित्यर्थः । अत्र द्रवणं द्रवणेच्छामाप्रपरं द्रवणं कर्तुमैच्छदिति तात्पर्यार्थः । अन्यथा व्याप्तेः प्रतिबन्धकत्वेन द्रवणासंभवाद्रवणोक्तेरफलत्वापत्तिः ॥ ४०॥

 उद्दामदानद्वि[९४]पवृन्दबंहितैर्नितान्तमुत्तुङ्गतुरंगहेषितैः ।
 [९५]लद्धनस्यन्दननेमिनिःस्वनैरभून्निरुच्छ्वासमिवाकु[९६]लं ज[९७]गत् ॥४१॥

 उद्दामेति ॥ उद्दामदाना उत्कटमदा ये द्विपा गजाम्तेषां वृन्दस्य समूहस्य बृंहितैः शब्दैः । तथोत्तुङ्गा उन्नता ये तुरंगा अश्वाम्तेषां हेषितैर्हेषाभिः । तथा नितान्तमत्यन्तं चलन्तो धना इव स्यन्दना रथाम्तेषां या नेमयश्चक्रधारास्तासां निःस्वनैश्च नितरामाकुलं व्याकुलं जगन्निरुच्छासमिव निरुद्धश्वासमिवाभूत् । आकुलत्वसाधारणधर्मेण निरुद्धश्वासत्वमुत्प्रेक्षत इत्युत्प्रेक्षालंकारः ॥ ४ ॥

 महागजानां गुरुभिस्तु गर्जितर्विलोलघण्टारणितै रणो[९८]ल्बणैः ।
 वीर[९९]प्रणादैः प्रमदप्रमेदुरैर्वाचालतामादधिरेतरां दिशः ॥ ४२ ॥

 महागजानामिति ॥ महागजानां संबन्धिभिर्गुरुभिर्दीर्घैर्गर्जितै रणोल्बणैर्विलोला या घण्टास्तासां रणितैश्च प्रमदेनोन्मादेन निमित्तेन प्रमेदुरैः प्रकर्षेण पुष्टैर्वीरप्रणादैर्वीराणां शब्दैश्च दिशः काष्ठाः कर्त्र्यः । वाचालतां मुखरतामादधिरेतरामतिशयेन धृतवत्यः । तरपि 'किमेत्तिङ् -' (पा. ५।४।११) इत्याम् ॥४२॥

 दन्तीन्द्रदा[१००]नद्रववारिवीचिभिः सद्योऽपि नद्यो बहु[१०१]धा पुपूरिरे ।
 धा[१०२]रा रजोभिस्तुरगैः क्षतैर्भृता याः पङ्कतामेत्य रथैः स्थलीकृताः ४३

 दन्तीन्द्रेति ॥ दन्तीन्द्राणां गजेन्द्राणां ये दानद्रवा मदस्रुतयस्तेणां वारीणि जलानि तेषां वीचिभिस्तरङ्गैः कर्तृभिः । नद्यो वाहिन्योऽपि सद्यो बहुधा पुपूरिरे पूरिताः । कर्मणि लिट् । ग्रीष्मसंतापेन शुष्का अपि नद्यो जलपूर्णा आसन्नित्यर्थः । अथ या नद्यस्तुरगैः क्षतैः क्षुण्णै रजोभिर्भृताः पूर्णा अत एव पङ्कतां कर्दमतामेत्य स्थिताः ता रथैः कर्तृभिः । धाराश्चक्रधारा भ्रामयित्वा स्थलीकृताः ॥ ४३ ॥

 नि[१०३]म्नाः प्रदेशाः स्थलतामुपागमनिम्नत्वमुच्चैरपि स[१०४]र्वतश्च ते ।
 तुरंगमाणां व्रजतां खुरैः क्ष[१०५]ता रथैगजेन्द्रैः परितः स[१०६]मीकृताः ४४

 निम्ना इति ॥ निम्ना नीचाः प्रदेशा भूमयः स्थलतां समानभूमित्वमुपागमन्प्रापुः । सर्वत उच्चैरप्युन्नता अपि ते प्रदेशा निम्नत्वमुपागमन् । निम्नमुच्चैरभवत्, अन्यप्रदेशोत्थापितधूलिपूरितत्वात् । उच्चैर्निम्नमभवत्, आत्मधूलीनामन्यत्र पतितत्वादिति भावः । अथ च ते प्रदेशा जतां गच्छतां तुरंगमाणां खुरैः क्षताश्रुक्षुदिरे । अत एव रथैर्गजेन्द्रैश्च परितो निम्नोन्नतेषु समीकृताः, समाश्चक्रिर इत्यर्थः ॥ ४४ ।।

 नभोदिगन्तप्रतिघोषभीषणैर्महामहीभृत्तटदारणोल्बणैः ।
 [१०७]योधिनिर्धूननकेलिभिर्जगद्बभूव भेरीध्व[१०८]नितैः समाकुलम् ॥४५॥

 नभ इति ॥ नभसि व्योम्नि दिगन्तेषु च यः प्रतिघोषः प्रतिध्वनिस्तेन भीषणैर्भयानकैः । महान्ति यानि महीभृतां पर्वतानां तटानि भृगवस्तेषां दारणे भेदन उल्बणैरुद्भटैः, समर्थैरिति यावत् । तथा पयोधेः समुद्रस्य निर्धूनने कम्पने केलिः क्रीडा येषाम्, पयोधिमपि कम्पयद्भिरित्यर्थः । भेरीध्वनितैर्वदनैकवाद्यमानवाद्यविशेषरवैर्निमित्तैर्जगत्समाकुलं व्याकुलं बभूव ॥ ४५ ॥

 इतस्ततो वातविधूत[१०९]चञ्चलैनीरन्ध्रि[११०]ताशागमनैर्ध्वजांशुकैः ।
 [१११]क्षैः क्वणत्काञ्चनकिङ्किणीकुलैरमज्जि धूलीजलधौ न[११२]भोगते ॥४६॥

 इत इति ॥ इतस्ततो वातविधूतानि पवनकम्पितान्यत एव चञ्चलानि च तैः । तथा नीरन्ध्रितं निरवकाशीकृतमाशासु दिक्षु गमनं यैः, आत्मव्याप्त्या रुद्धपथिकपथैरित्यर्थः । क्वणद्रणकाञ्चनकिङ्किणीनां सौवर्णनूपुराणां कुलं जालं येषां प्रान्तभागेपु तैः, शोभायं प्रतिबद्धनूपुरजालैरित्यर्थः । लक्षैर्लक्षसंख्यैः । 'लक्षं शरण्ये संख्यायाम्' इति मेदिनी । ध्वजांशुकैर्ध्वजपटैः । 'अंशुकं शुक्लवस्त्रे स्याद्वस्त्रमात्रोत्तरीययोः' इति मेदिनी । नभसि गते प्रसृते धूलीजलधौ रजोऽम्बुधावमज्जि मज्जितम् । भावे लुङ् । सर्वाणि ध्वजांशुकानि धूलीभिरलक्षितानि बभूवुरित्यर्थः॥४६॥

 घण्टारवै रौद्रतरैर्निरन्त[११३]रं विसृत्वरैर्गजरवैः सुभैरवैः ।
 [११४]त्तद्विपानां प्रथयांबभूविरे न वाहिनीनां पटहस्य निःस्वनाः ॥४७॥

 घण्टारवैरिति ॥ मत्तद्विपानां संबन्धिभिर्निरन्तरं विसृत्वरैः प्रसृमरैः । सुतरां भैरवैर्भीषणैः । 'भैरवः पुंसि शम्बरे। भीषणेऽपि च' इति मेदिनी । गर्जरवैर्गर्जनारूपघोषैः । रौद्भतरैरत्युग्रैः । 'रौद्रं तूग्रममी त्रिषु' इत्यमरः । घण्टास्वैश्च । वाहिनीनां सेनानां संबन्धिनः पटहस्यानकाख्यवाद्यविशेषस्य निःस्वनाः शब्दा न प्रथयांबभूविरे न प्रकटीचक्रिरे ॥ ४७ ॥

 करालवाचालमुखा[११५]श्च[११६]मूखनैर्ध्वस्ता[११७]म्बरा वीक्ष्य दिशो रजस्वलाः ।
 तिरोबभूवे ग[११८]हनैर्दिनेश्वरो रजोन्धकारैः परितः कुतोऽप्यसौ ॥४८॥

 करालेति ॥ चमूस्वनैः सेनाघोषैः करालानि वाचालानि च मुखानि प्रारम्भाः । 'मुखं निःसरणे वक्त्रे प्रारम्भोपाययोरपि' इति मेदिनी । तथा ध्वस्तं रजोव्याप्तमम्बरं यासाम् । तथा रजस्वला रजोयुक्ता दिशो वीक्ष्य परितो गहनैः सघनैः रजोन्धकारैः कर्तृभिः असौ दिनेश्वरः सूर्यः कुतोऽपि कुत्रापि तिरोबभूवे तिरोगमितः, अन्तर्हित इत्यर्थः । 'भूङ् गतौ' इत्यतो लिद, 'भू प्राप्तौ' इत्यतो वा । वीक्ष्येवेति गम्योत्प्रेक्षा । अथ द्वितीयपक्षे-रजस्वला आर्तववतीः। अत एव कराला भीषणा वाचं वाणीमलान्त्यगृह्णन्ति मुखानि यासाम् । ततो विशेषणसमासः मौनव्रतधारिणीरित्यर्थः । तथा ध्वस्ताम्बराः वस्तशाटिकाः, नग्ना इत्यर्थः । एवंभूता चमूर्योषितः । 'चमूः सेनाविशेषे च सेनामात्रे च योषिति' इति मेदिनी । वीक्ष्य रजस्यार्तवविषयेऽन्धकारोऽन्धवत्कारः कृतिः, क्रिया इति यावत् । भावे घञ्, आर्तवमपन्नपद्भिरित्यर्थः । रजस्वलादर्शननिषेधात् । गहनैर्गहनमनोभिः सद्भिरित्यर्थः । दिनेश्वरः कश्चित्पुरुषः कुतोऽपि कुत्रापि तिरोबभूवे, कश्चिदसत्पुरुषो रजस्वलां पश्यन्नपि सद्भिः करुणया पटादिभिस्तिरोधीयते तद्वदित्यर्थः ॥ ४८॥

 आक्रान्तपूर्वा रभसेन सैनिकैर्दिगङ्गना व्योम रजोभिदूषिता ।
 भेरीरवाणां प्रतिशब्दितैर्घनैर्जगर्ज गाढं घ[११९]नमत्सरादिव ॥ ४९ ॥

 आक्रान्तपूर्वेति ॥ सैनिकैः सेनाजनै रभसेन वेगेनाक्रान्तपूर्वा पूर्वमाक्रान्ता दिगङ्गना दिग्रूपा नायिका रजसा धूल्या । आर्तवेन च । 'रजो रेणौ परागे स्यादार्तवे च गुणान्तरे' इति मेदिनी । अभिदूषिता कृता, वीक्ष्येति शेषः । अतो घनमत्सरादिव गाढवेषादिव व्योम कर्तृ भेरीरवाणां घनैः प्रतिशब्दितैः कृत्वा गाढं जगर्ज । अन्योऽप्यात्मपत्नीमन्यसंगमेन रजोयुक्तां वीक्ष्य गर्जति ॥ ४९ ॥

 गुरुसमीरसमीरितभूधरा इव गजा गगनं विजगाहिरे ।
 गुरुतरा इ[१२०]व वारिधरा रथा भुवमि[१२१]तीह विव[१२२]र्त इवाभव[१२३]त् ॥ ५० ॥

 गुरुसमीरेति ॥ गुरुणा महता समीरेण वातेन समीरिता उपरि क्षिप्ता भूधराः पर्वता इवेत्युत्प्रेक्षा। गजा गगनं विजगाहिरे, अवगाहितवन्त इत्यर्थः । गुरुतरा अपि महान्तो वारिधरा मेघा इवेत्युत्प्रेक्षा । स्था भुवं विजगाहिरे। इह सङ्गर इत्येवं विवर्त इव व्यत्यय इवाभवत् ; गगनपृथिव्यवगाहने स्यन्दननागयोर्भूधरसंभवात् । उत्प्रेक्षितं च तस्सादृश्यदर्शनात् । द्रुतविलम्बितं वृत्तम् ॥ ५० ॥

  [१२४]लमदसुरलोकानल्पक[१२५]ल्पान्तकाले
   निरवधय इवाम्भोराशयो घोर[१२६]घोषाः ।
  गुरुतरपरिमज्जद्भूभृतो देवसेना
   [१२७]वृधुरपि सु[१२८]पूर्णा व्योमभूम्यन्तराले ॥५१॥

 बलवदिति ॥ गुरुतरा अत एव परिमज्जन्तो भूभृतो राजानः पर्वताश्च यासु येषु च व्योमभूम्योर्द्यावापृथिव्योरन्तराले मध्ये सुतरां पूर्णा अपि । इत्युभयत्रापि समानम् । घोरघोषा भयानकरवा देवसेना ववृधुः । तत्रोत्प्रेक्षते-बलवतामसुरलोकानामनल्पो महान् यः कल्पान्तकालः प्रलयकालस्तत्र निरवधयोऽपारा अम्भोराशय इव समुद्रा इव । अत्रोपमैवास्त्विति चेत्-न; तत्राभिन्नलिङ्गमुभयोरिति नियमात् । मालिनी छन्दः । लक्षणं पूर्वमुक्तम् ॥ ५१ ॥

इति श्रीपर्वणीकरोपनामकश्रीलक्ष्मणभट्टात्मजसतीगर्भसंभवश्रीसीताराम-
कविविरचितया संजीविनीसमाख्यया व्याख्यया समेतः
श्रीकालिदासकृतौ कुमारसंभवे महाकाव्ये देव-
सेनाप्रयाणं नाम चतुर्दशः सर्गः ॥

पञ्चदशः सर्गः।

 सेनापति नन्दनमन्धकद्विषो यु[१२९]धे पुरस्कृत्य बलस्य शात्रवः ।
 सैन्यैरुपैतीति सुरद्विषां पुरोऽभूत्किंवदन्ती हृ[१३०]दयप्रकम्पिनी ॥१॥

 सेनापतिमिति ॥ बलस्य बलनामकराक्षसस्य शात्रवः शत्रुरेव शात्रवः । प्रज्ञादित्वात्स्वार्थेऽण् । इन्द्रः । सेनापतिं पृतनाधिपम् । अन्धकद्विषो हरस्य नन्दनं पुत्रं कार्तिकेयं पुरस्कृत्याग्रे कृत्वा सैन्यैः सह युधे युद्धाय, युद्धं कर्तुमिति यावत् । 'क्रियार्थ-'(पा.२।३।१४ ) इत्यादिना चतुर्थी । उपैत्यायाति । इत्येवंभूता हृदयप्रकम्पिनी हृदयं वेपयन्ती किंवदन्ती जनश्रुतिः । 'किंवदन्ती जनश्रुतिः' इत्यमरः । सुरद्विषां दैत्यानां तारकनगरनिवासिनां पुरोऽग्रेऽभूत् । सर्गेऽस्मिन्निन्द्रवंशोपजाती वृत्ते ॥ १॥

 [१३१]मूप्रभुं मन्मथमर्दनात्मजं विजित्व[१३२]रीभिर्विजयश्रिया श्रितम् ।
 श्रुत्वा सुराणां पृतनाभि[१३३]रागतं चित्ते[१३४] चिरं चुक्षुभिरे महासुराः ॥२॥

 चमूप्रभुमिति ॥ महासुरास्तारकनगरनिवासिनो दैत्या विजयश्रिया विजयलक्ष्म्या श्रितं सेवितम् । एतेनास्य कादाचित्कोऽपि पराभवो न भवतीति ध्वनितम् । अत एव चमूप्रभुं सेनाधिपं मन्मथमर्दनस्य शिवस्यात्मजम् । अनेन यदीयः पिता सकलभुवनजेतुर्मकरध्वजस्यापि प्लोषिता, अतोऽस्य किं वक्तव्यम् ? 'कार्य निदानाद्धि गुणानधीते', 'प्रवर्तितो दीप इव प्रदीपात्' इत्यादिन्यायेन तारकेणाप्ययं दुर्जेय इति ध्वनितम् । तं कार्तिकेयं विजित्वरीभिर्जयशीलाभिः । जयतेः 'इण्नशजिसतिभ्यः क्करप्'(पा.३।२।१६३) इति क्करपि परे 'हस्वस्य पिति-'(पा. ६।१।७१) इति तुकि कृते 'टिड्ढाणञ्-'(पा.४।१।१५) इत्यनेन ङीप् । सुराणां देवानां पृतनाभिः सेनाभिः सहागतमायातं श्रुत्वा चिरं बहुकालपर्यन्तं चित्ते मनसि चुक्षुभिरे संचेलुः, बिभ्युरित्यर्थः । 'क्षुभ संचलने', कर्तरि लिट् । अत्र वाच्यापेक्षया व्यङ्गयार्थस्याधिकचमत्कृतिजनकत्वाद्ध्वनिः ॥ २ ॥

 समेत्य दैत्याधिपतेः पु[१३५]रे स्थिताः किरीटबद्धाञ्जलयः प्रणम्य ते ।
 न्यवेदयन्मन्मथश[१३६]त्रुसूनुना युयुत्सुना जम्भ[१३७]जितं स[१३८]हागतम् ॥३॥

 समेत्येति ॥ दैत्याधिपतेस्तारकस्य पुरे नगरे स्थितास्ते महासुराः समेत्य समुदित्य, संघीभूयेति यावत् । तथा किरीटेषु मुकुटेषु बद्धोऽञ्जलिर्यैस्तथा सन्तः प्रणम्य युयुत्सुना योद्धुमिच्छुना मन्मथशत्रोः शिवस्य सूनुना पुत्रेण कुमारेण सहागतं जम्भजितमिन्द्रं न्यवेदयन्, स शंभुपुत्रो महेन्द्र आगत इति निवेदितवन्त इत्यर्थः ॥३॥

 दासीकृताशेषजगत्त्रयं न[१३९] मां जिगाय युद्धे कतिशः शचीपतिः ।
 गिरीशपुत्रस्य बलेन सांप्रतं ध्रुवं विजेतेति[१४०][१४१] काकुतोऽहसत् ॥४॥

 दासीकृतेति ॥ दासीकृतं भृत्यीकृतम् । 'दासो भृत्ये च शूद्रे च' इति मेदिनी । अशेषजगत्त्रयं समस्तलोकत्रितयं येन तथाभूतं मां शचीपतिरिन्द्रः कतिशः कतिवारं युद्धे न जिगाय जयति स्म, अपि त्वनेकवारं जिगायेति काकुः । जयनिषेधस्य काक्काश्रितत्वाजयनिषेध एव ध्वन्यते । सांप्रतं वर्तमानकाले गिरीशपुत्रस्य कुमारस्य बलेन वीर्येण, तदाश्रयेणेत्यर्थः । ध्रुवं निश्चयेन विजेता विजेष्येत इति स तारकः काकुतः काक्काऽहसज्जहास, कदाचिदपि न विजेष्यत इति ध्वन्यते ॥ ४ ॥

 ततः क्रुधा विस्फुरिताधराधरः स तारको दर्पितदोर्बलोद्धतान् ।
 युधे त्रिलोकीजयकेलिलालसः सेनापतीन्सनहनार्थमादिशत् ।।५।।

 तत इति ॥ ततोऽनन्तरं क्रुधा क्रोधेन निमित्तेन विस्फुरित उच्छसितोऽधरो- Sनूर्ध्व ओष्ठो यस्य । प्रसिद्धं चैतद्यत्क्रोधवशादधरविस्फुरणम् । तथाऽधरो हीनः, नीच इति यावत् । 'अधरस्तु पुमानोष्ठे हीनेऽनूर्ध्वे च वाच्यवत्' इति मेदिनी। विस्फुरिताधरश्चासावधरश्चेति विशेषणसमासः । तथा त्रिलोक्या जय एव केलिः क्रीडा तस्यां लालसेच्छा यस्य । अनायासेनैव त्रिलोकी जेष्यामीत्यभिमानवानि- त्यर्थः । एवंभूतः स तारकोऽसुरो दर्पिताः संजातदर्पस्तथा दोर्बलेन भुजबलेनो- द्धतान्प्रगल्भान्सेनापतीन्सेनाधिपान् युधे युद्धाय, युद्धं कर्तुमित्यर्थः । संनहनार्थं संनद्वीभवनार्थं चादिशदाजज्ञे । 'युद्धे' इति पाठे युद्धे विषये त्रिलोकीजयके विलास इत्यन्वयितव्यम् ॥ ५ ॥

 महाचमूनामधिपाः समन्ततः संनह्य सद्यः सुतरामुदायुधाः ।
 तस्थुर्विनम्रक्षितिपालसंकुले तँदङ्गनद्वारवरप्रकोष्टके ॥६॥

 महेति ॥ उदायुधा उद्धृतान्यायुधानि शस्त्राणि यैरेवंभूता महाचमूनां महतीनां सेनानामधिपाः स्वामिनः सद्यस्त्वरितं सुतरां संनह्य संनद्धा भूत्वा विनम्रा ये क्षितिपाला राजानस्तैः संकुले व्याप्ते तस्य तारकस्य यदङ्गनद्वारं चत्वरप्रवेशद्वारं तस्य वरः श्रेष्ठो यः प्रकोष्ठकोऽन्तरम् , मध्यमिति यावत् । 'प्रकोष्ठो मणिबन्धे स्यात् कूर्परस्यान्तरेऽपि च । भूपकक्षान्तरेऽपि स्यात्' इति मेदिनी। तत्र समन्ततः सर्वतस्तस्थुः, नृपं प्रतीक्षमाणा इति शेषः । 'समन्ततस्तु परितः सर्वतो विष्वगित्यपि' इत्यमरः ॥ ६॥

पाठा०-१ अधरच्छदः. २ बलात् ; निजान्. ३ युद्धे. ४ तदङ्गणद्वारि

बहिःप्रकोष्ठके; तदङ्गणद्वारबहिःप्रकोष्ठके,

 स द्वारपालेन पुरः प्रदर्शितान्कृतानतीन्बा[१४२]हुवरानधिष्ठितान्[१४३]
 महाहवाम्भोधिविधूननोद्धतान्द[१४४]दर्श राजा पृ[१४५]तनाधिपान्बहू[१४६]न् ॥७॥

 स इति ॥ स राजा तारकः पुरोऽग्रे द्वारपालेन प्रदर्शितान्कृतानतीन्बाहुवरान् बाहवो वराः श्रेष्ठा येषां तथोक्तानधिष्ठितान्, द्वार इति शेषः । महाहवरूपिणोऽम्भोधेः समुद्रस्य विधूनने कम्पन उद्धतान्प्रगल्भान्, महावीरानित्यर्थः । 'सङ्ग्रामाभ्यागमाहवाः' इत्यमरः । बहून्पृतनाधिपान्सेनापतीन् ददर्श दृष्टवान् । 'अदभ्रं बहुलं बहु' इत्यमरः ॥ ७ ॥

 [१४७]ली बलारातिबलातिशातनं दिग्दन्तिना[१४८]दरवनाशनखनम् ।
 महीध[१४९]राम्भोधिनवारितक्रमं ययौ रथं घोरमथाधिरुह्य सः॥८॥

 बलीति ॥ अथानन्तरं बली वीर्यवान् स तारको बलारातेरिन्द्रस्य संबन्धिनो बलस्य सैन्यस्य । 'बलं गन्धरसे रूपे स्थामनि स्थौल्यसैन्ययोः' इति मेदिनी । अतिशातनं तनूकर्तारम्, हन्तारमित्यर्थः । दिग्दन्तिनामैरावतादीनां नादद्रवयोर्घोषमदयोर्नाशनो नाशकः स्वनो घोषो यस्य तम् यदीयघोषवशाद्दिग्दन्तिनोऽपि तूष्णीं शुष्कमदाश्च भवन्तीति भावः । महीधरेषु पर्वतेप्वम्भोधिषु च नवारितक्रममनिवारितसंचारम् । नशब्देन सह 'सुप्सुपा-'(पा.२।१।४ ) इति समासः। घोरं भीमं स्थमधिरुह्य ययौ जगाम, प्रतस्थ इति यावत् ॥ ८ ॥

 युगक्षयक्षुब्धपयोधिनिःस्वनाश्वलत्पताकाकुलवारितातपाः ।
 धरारजोग्रस्तदिगन्तभास्कराः प[१५०]तिं प्रयान्तं पृतनास्तमन्वयुः ॥९॥

 युगेति ॥ युगक्षये प्रलयकाले क्षुब्धः संचलितो यः पयोधिः समुद्रस्तस्य निःस्वन इव निःस्वनो यासाम् , प्रलयकालोद्वेलीभूतसागरसदृशघोरघोषा इत्यर्थः । चलन्तीनां पताकानां वैजयन्तीनाम् । 'पताका वैजयन्त्यां स्यात् सौभाग्ये नाटकाङ्कयोः' इति मेदिनी । कुलेन समूहेन वारितातपा दूरीकृतघर्मा धराया भूमे रजोभिर्ग्रस्ता दिगन्तानि दिक्प्रान्तानि भास्करश्च याभिस्तथाभूताः पृतनाः सेनाः कर्त्र्यः । प्रयान्तं प्रतिष्ठमानं तं पति तारकासुरमन्वयुः, अनुजग्मुरित्यर्थः ॥ ९ ॥

 चमूरजः प्राप दिगन्तदन्तिनां महासुरस्याभिसुरं प्र[१५१]सर्पिणः ।
 दन्तप्रकाण्डेषु सितेषु शुभ्रतां कुम्भेषु दाना[१५२]म्बुधनेषु पङ्कताम् ॥१०॥

 चमूरज इति ॥ अभिसुरं सुरसंमुखं प्रसर्पिणः प्रतिष्ठमानस्य महासुरस्य तारकस्य संबन्धिनीनां चमूनां रजो रेणुः । दिगन्तदन्तिनामैरावतादीनां सितेषु शुभ्रेषु दन्तप्रकाण्डेषु, दन्तरूपासु शाखास्वित्यर्थः। 'प्रकाण्डो न स्त्री विटपे मूलशाखान्तरे तयोः' इति मेदिनी । शुभ्रतां पाण्डुतां दानाम्बुना मदजलेन घनेषु सघनेषु कुम्भेषु मूर्धान्तरेषु, गण्डस्थलेष्विति यावत् । 'कुम्भो राश्यन्तरे हस्तिमूर्धान्ते राक्षसान्तरे' इति मेदिनी । पङ्कतां कर्दमताम् । 'पकोऽस्त्री कर्दमे पापे' इति मेदिनी । प्राप । धवलिमाश्रयीभूतसंबन्धेन युक्तं हि धवलत्वमिति भावः । अन्यत्स्फुटम् ॥ १० ॥

 महीभृतां कन्दरदारणोल्बणैस्तद्वाहिनीनां पटहस्वनैर्घनैः ।
 [१५३]द्वेलिताश्रुक्षुभिरे महार्णवा नभःस्रवन्ती सहसाभ्य[१५४]वर्धत ॥ ११ ॥

 महीभृतामिति ॥ महीभृतां पर्वतानां संबन्धिनो ये कन्दरा दर्यः । 'दरी तु कन्दरो वा स्त्री' इत्यमरः । तेषां दारणे स्फोटन उल्बणैरुद्भटैः, आत्मव्याप्तिवशात्स्फोटद्भिरिव भासमानैरित्यर्थः । तथा घनैर्दृढैः, कठोरैरिति यावत् । 'धनं स्यात्कांस्यतालादिवाद्यमध्यमनृत्ययोः । ना मुस्तादौ घनायेषु विस्तारे लोहमुद्गरे । त्रिषु सान्द्रे दृढे च' इति मेदिनी । तद्वाहिनीनां तारकसेनानां संबन्धिनो ये पटहा आनकाः । 'पटहो ना समारम्भ आनके पुंनपुंसकम्' इति मेदिनी । तेषां स्वनैः कर्तृभिः । उद्वेलिता वेलामतिक्रामिता महार्णवा महान्तः समुद्राश्चक्षुभिरे संचेलुः, पटहध्वनिजनितभयादिति भावः । तथा नभःस्रवन्त्याकाशगङ्गा च सहसाऽकस्सादभ्यवर्धत, अतिवेला बभूवेत्यर्थः ॥ ११ ॥

 सुरारिनाथस्य महाचमूखनैर्विगाह्यमाना तुमुलैः सुरापगा ।
 अभ्युच्छ्रि[१५५]तैरूर्मिशतैश्च वारिजैरक्षालयन्नाकनिकेत[१५६]नावलीम् ॥१२॥

 सुरारिनाथस्येति ॥ तुमुलैः संकुलैः । 'तुमुलः कलिवृक्षे ना तुमुलं रणसंकुले' इति मेदिनी । सुरारिरेव नाथो राजा तस्य । यद्वा,-सुरारीणां नाथो राजा तस्य । संबन्धिनीनां महाचमूनां स्वनैः शब्दैर्विगाह्यमाना व्याप्यमाना सुरापगा मन्दाकिनी अभ्युच्छ्रितैरभ्युत्पतितैर्वारिजर्वारिजानि कमलानि विद्यन्ते येषु तैः- कमलसहितैरित्यर्थः । 'अर्शआदिभ्य-'(पा.५।२।१२७) इत्यच् । ऊर्मिशतैस्तरङ्गशतैश्च।'भङ्गस्तरङ्ग उर्मिर्वा' इत्यमरः । नाकनिकेतनावलीं स्वर्गवेश्मपङ्किमक्षाल, यन्ममार्ज ॥ १२ ॥

 अथ प्रयाणाभिमुखस्य नाकिनां द्विषः[१५७] पुरस्तादशुभोपदेशिनी ।
 अगा[१५८]धदुःखाम्बुधिमध्यमञ्जनं बभूव चोत्पातपरम्परा तव ॥१३॥

 अथेति ॥ अथानन्तरं प्रयाणाभिमुखस्य प्रस्थानसंमुखस्य नाकिनां देवानां द्विषो वैरिणस्तारकस्य पुरस्तादग्रे 'भो तारक ! तव त्वत्कर्मकम् । अगाधोऽतलस्पर्शः । 'अगाधमतलस्पर्शे त्रिषु श्वभ्रे नपुंसकम्' इति मेदिनी । यो दुःखाम्बु. धिर्दुःखसमुद्रस्तन्मध्ये मज्जनं भविष्यति' इत्येवमशुभोपदेशिन्यशुभवादिन्युत्पातपरम्परा दुःशकुनपङ्किर्बभूव ॥ १३ ॥

 इतः परम् 'आगामि-' इत्यादिभिरेकादशभिरुत्पातपरम्परामेव प्रपञ्चयति-

 [१५९]गामिदैत्याशनकेलिकाङ्क्षिणी कु[१६०]पक्षिणां घोरतरा परम्परा ।
 दधौ पदं व्योम्नि सुरारिवाहिनीरुपर्युपर्येत्यनिवारितातपा॥१४॥

 तत्र आगामीति ॥ घोरतरातिशयभयानका कुपक्षिणां गृध्रादीनां कपोतादीनां वा परम्परा । आगामि भविष्यद्यदैत्यस्याशनकेलिर्भोजनक्रीडा तत्काङ्क्षतीति तथाभूता। तथा सुरारिवाहिनीस्तारकसेना उपर्युपरि । 'उपर्यध्यवसः सामीप्ये'(पा. ८।१।७) इति द्विर्भावः, तद्योगे द्वितीया । तदुक्तं वामनेन (काव्या.सू. ५।२।८५)--'उपर्यादिषु सामीप्ये द्विरुक्तेषु द्वितीया' इति । अनिवारितातपा न निवारितधर्मा च सती व्योझ्याकाशे पदं स्थानं दधौ धृतवती । अनेन पद्येन प्रयाणानौचित्यद्योतकमुत्पातद्वयं वर्णितम् । तथा हि – आकस्मिकोपरि वृत्तिः आतपानिवृत्तिश्च । तस्मात् सर्वथैवास्य मरणं भविष्यतीति सूच्यते ॥ १४ ॥

 मुहुर्विभग्नातपवारणध्वजश्वलद्धराधूलिकलाकुलेक्षणः ।
 धूताश्वमातङ्गमहारथाकरानवेक्षणोऽभूत्प्रसभं प्रभञ्जनः ॥ १५ ॥

 मुहुरिति ॥ विभग्ना त्रोटिता आतपवारणसहिता ध्वजा येन । चलन्त्यो विसरन्त्यो या धराधूलयः पृथिवीरजांसि तासां कुलेन साधनीभूतेनाकुलानि व्याकुलीकृतानीक्षणानि लोकनेत्राणि येन । तथा धूतस्य कम्पितस्य । नभसि भ्रमितस्येति यावत् । अश्वानां मातङ्गानां महारथानां चाकरस्य निकरस्य । 'आकरो निकरे रत्नस्थाने श्रेष्ठे च कथ्यते' इति मेदिनी । अनवेक्षणमदर्शनं येन । आच्छा- दितसकलसेनाङ्गः प्रभञ्जनो वायुः । 'पवमानप्रभञ्जनाः' इत्यमरः । अभूदुत्पन्नः । "मुहुः,' 'प्रसभम्' इत्यस्य विशेषणत्रयेऽपि संबन्धः । अयं तृतीय उत्पातः ॥ १५ ॥

 सद्योविभिन्नाञ्जनपुञ्जतेजसो मुखैर्विषाग्निं विकिरन्त उच्चकैः ।
 पुरः पथोऽतीत्य महाभुजंगमा भयंकराकारभृतो भृशं ययुः ॥१६॥

 सद्य इति ॥ सद्योविभिन्नं तत्क्षणपतितं यदञ्जनं कज्जलम् । 'अञ्जनं कज्जले चाक्तौ सौवीरे च रसान्तरे' इति मेदिनी । तस्य पुञ्ज इव निकर इव तेजो ध्यम येषाम् । नूतनपातितकज्जलसमूहश्यामभास इत्यर्थः । उच्चकैर्महान्तः, विस्तीर्णा इति यावत् । तथा भृशं भयंकराकारभृतः, अतिभीषणस्वरूपधारिण इत्यर्थः । महाभुजंगमा महान्तः सर्पाः पुरोऽग्रे विषाग्निं गरलरूपमग्निम् । 'क्ष्वेडस्तु गरलं विषम्' इत्यमरः । विकिरन्तो विक्षिपन्तः सन्तः पथः सैन्यगन्तव्यमार्गानतीत्य. पूर्वविहितात्मसंबन्धेन वियोज्य ययुः । चतुर्थोऽयमुत्पातः ॥ १६ ॥

 मिलन्महाभीमभुजंगभीषणं प्रभुर्दिनानां परिवेषमादधौ ।
 महासुरस्य द्विषतोऽतिमत्सरादिवान्तमासूचयितुं भयंकरः ॥१७॥

पाठा०-१ विभिन्न. २ धुताश्वमातङ्गमहारथव्रजोऽनवेक्षणोऽभूत् ; जनाश्व- मातङ्गमहारथव्रजानवेक्षमाणः. ३ संनिभाः. ४ परोत्पात. ५ नु मत्सरात् ; न मत्सरात्. ६ आत्तमास्यं प्रयतुर्भयंकरम् ; आत्तमास्यप्रयतुर्भयंकराः.  मिलदिति ॥ दिनानां प्रभुः सूर्यो द्विषतः शत्रुभूतस्य । "द्विषट्वेषणदुर्हृदः' इत्यमरः । महासुरस्य तारकस्यान्तं विनाशम् , मरणमिति यावत् । 'अन्तः स्वरूपे नाशे ना स्त्री शेषे चान्तिके त्रिषु' इति मेदिनी। आसूचयितुं ज्ञापयितुं मिलन्तः संयुजन्तः । तथा महाभीमा अतिभयंकरा ये भुजंगाः सर्पास्तैर्भीषणं भयदं परिवेषं परिधिं कुण्डलाकारम् । 'परिवेषस्तु परिधिरुपसूर्यकमण्डले' इत्यमरः । अतिमत्स रादिवादधौ धृतवान् । विनाशरूपफलसूचकपरिवेषाधाने मत्सरस्य हेतुत्वाभावेऽपि हेतुत्वकल्पनाद्धेतूत्प्रेक्षा । अत एव भयंकरो विभीषकः । 'मेघर्ति-'(पा. ३।२।४३) इति खश् । पञ्चमोऽयमुत्पातः ॥ १७ ॥

 त्विषामधीशस्य पुरोऽधिमण्डलं शिवाः समेताः परुष ववासिरे ।
 सुरारिराजस्य रणान्तशोणितं प्रसह्य पातुं द्रुतमुत्सुका इव ॥१८॥

 त्विषामिति ॥ त्विषां तेजसामधीशस्य रवेरधिमण्डलम् । मण्डल इत्यर्थः । विभक्त्यर्थेऽव्ययीभावः । समेताः समुदिताः शिवाः क्रोष्ट्रयः । 'शिवा झाटामलौ- षधौ । अभयामलकीगौरीकोष्ट्रीसशकफलसु च' इति विश्वः । सुरारिराजस्य तार- कस्य संबन्धिनि रणान्ते सङ्ग्रामसमीपे यच्छोणितं रक्तं द्रुतं शीघ्रं प्रसह्य बलात्पातुं पानं कर्तुमुत्सुका इव परुषं कठोरं यथा तथा ववासिरे चुक्रुशुः । अत्रोत्पात- द्वयम् । मार्तण्डमण्डलाधिकरणकं शिवासमुदितत्वं तत्कर्तृककठोररुदितं चेति । षष्ठसप्तमावेतावुत्पातौ ॥ १८ ॥

 दिवापि तारास्तरलास्तरस्विनीः परापतन्तीः परितोऽथ वाहिनीः।
 विलोक्य लोको मनसा व्यचिन्तयत्प्राणव्ययान्तं व्यसनं सुरद्विषः।।

 दिवापीति ॥ अथ दिवापि दिनेऽपि तरलाश्चञ्चलाः तरस्विनीर्वेगवतीः। 'रंह- स्तरसी तु स्यः स्यदः' इत्यमरः । तारा नक्षत्राणि, वाहिनीः परितः 'अभितःपरितः- समया-' (पा. ५।४।६० ) इत्यादिना द्वितीया । परापतन्तीर्विलोक्य लोको मनसा सुरद्विषः संबन्धि प्राणव्ययान्तं प्राणनाशावधि व्यसनं व्यचिन्तयत् । प्राणनाशा- वधि राज्ञो दुःखं भविष्यतीति चिन्तयामासेत्यर्थः । अष्टमोऽयमुत्पातः ॥ १९ ॥

पाठा०-१ अभिमण्डलम्. २ सुराधिराजस्य. ३ तदानिशम्. ४ अभिवाहि-

नीम्. ५ लोकाः, ६ व्यचिन्तयन् ; ७ प्राणात्ययान्तं व्यसनम्,

 ज्वलद्भिरुच्चैरभितः प्रभाभरैरुद्भासिताशेषदिगन्तराम्बरम् ।
 रवेण रौद्रेण हृदन्तदारणं पपात वज्रं नभसो निरम्बुदात् ॥२०॥

 ज्वलद्भिरिति ॥ निरम्बुदादनुभूतमेघान्नभसो व्योम्नः सकाशादभितो ज्वलद्भिः प्रस्फुरद्भिः प्रभाभरैः कान्तिसमूहैः कृत्वा । उचैरतिशयितं यथा तथोद्भासितानि प्रकाशितान्यशेषदिगन्तराम्बराणि समस्तदिशां प्रान्तगगनानि येन । तथा रौद्रेण भयानकेन रवेण घोषेण हृदन्तस्योरोमध्यस्य दारणं विदारकं वज्रं स्फूर्जथुः पपात । 'स्फूर्जथुर्वज्रनिर्घोषः' इत्यमरः । अत्राप्युत्पातद्वयम् । अम्बुद- सांनिध्याभावेऽपि वज्रदर्शनं तत्पातश्चेति । एवं नवमदशमावुत्पातावुक्तौ ॥ २० ॥

 ज्वलद्भिरङ्गारचयैर्नभस्तलं ववर्ष गाढं सह शोणितास्थिभिः ।
 धूमं ज्वलन्त्यो व्यसृजन्मुखै रजो दधुर्दिशो रासभकण्ठधूसरम् २१

 ज्वलद्भिरिति ॥ नभस्तलम् , निरम्बुदं सदिति शेषः । ज्वलद्भिरङ्गारचयैः काष्ठशकलसमूहैः । तथा शोणितास्थिभिश्च सह गाढं दृढम् , बह्विति यावत् । ववर्ष, ज्वलदङ्गाररुधिरास्थिगर्भितं जलं ववर्पेत्यर्थः । अम्बुदसांनिध्याभावेऽपि वृष्टिः । एकादशतमोऽयमुत्पातः । साप्यङ्गारादिमिश्रितेति द्वादशतमः । अत एव ज्वलन्त्यो दिशो रासभकण्ठधूसरं खरगलसदृशधूसरवर्णम् । 'रासभो गर्दभे क्षुदजन्तुरोगप्रभेदयोः' इति मेदिनी । धूम धूमरूपं रजो रेणुं मुखैः प्रारम्भदेशैः व्यसृजंस्तत्यजुः । त्रयोदशतमोऽयमुत्पातः ॥ २५ ॥

 निर्घातघोषो गिरिशृङ्गशातनो घनोऽम्बराशाकुहरोदरंभरिः।
 बभूव भूम्ना श्रुतिभित्तिभेदनः प्रकोपिकालार्जितगर्जितर्जनः॥२२॥

 निर्घातेति ॥ प्रकोपिना प्रकृष्टरोषेण कालेन यमेनार्जितोत्पादिता गर्जिनी गर्जनां कुर्वती तर्जनाऽपकारगीर्यत्र । अत एवाम्बरस्याशानां च कुहरेणान्तरेणोदरं- भरिरत एव गिरीणां शृङ्गस्य शातनो भेदकः । तथा घनः सान्द्रो निर्घातश्चासौ घोषश्च स भूम्ना बाहुल्येन श्रुतिभित्तिभेदनः कर्णकुड्यताडनो बभूव । चतुर्दश- तमोऽयमुत्पातः ॥ २२ ॥

पाठा०-१ चलद्भिः. २ दिगन्तदारणम्. ३ अङ्गारभरैः. ४ धूम्रम्. ५ मुखे. ६ गिरिशृङ्गघातनः; गिरिशृङ्गशाननैः. ७ धराम्बराशाकुहरोदरंभरिः; धनैराशाकुह-

रोदरंभरिः. ८ भूमा. ९ गर्जितस्वनः; गर्जतर्जनः.

 स्खलन्महेभं प्रपतत्तुरङ्गमं परस्पराश्लिष्टजनं समन्ततः।
 प्रक्षुभ्यदम्भोधिविभिन्नभूधराद्धलं द्विषोऽभूदवनिप्रकम्पात् ॥२३॥

 स्खलदिति ॥ द्विषस्तारकस्य बलं सैन्यम् । 'बलं गन्धरसे रूपे स्थामनि स्थौल्यसैन्ययोः' इति विश्वः । प्रक्षुभ्यद्भिरुन्मध्यमानैरम्भोधिभिर्विभिन्ना विदीर्णा भूधराः पर्वता यत्र । प्रोत्पद्यमानविकटतरधरणिकम्पप्रोच्छलत्समुद्वेलजलधिघोर- तरप्रवाहस्फुटन्तो धराधरा बभूवुरिति भावः । एवंभूनादवनिप्रकम्पाद्भूकम्पाद्धेतोः स्खलन्महेभं मूर्च्छद्धहत्करीन्द्रं प्रपतत्तुरंगमं प्रकृष्टपतद्वाजिराजं परस्पराश्लिष्टोभय- वदन्योन्यासंसक्ताननो यत्र तथाभूतं बभूव । पञ्चदशतमोऽयमुत्पातः ॥ २३ ॥

 ऊर्ध्वीकृतास्या रविदत्तदृष्टयः समेत्य सर्वे सुरविद्विषः पुरः ।
 श्वानः स्वरेण श्रवणान्तशातिना मिथो रुदन्तः करुणेन निर्ययुः २४

 ऊर्ध्वीकृतास्या इति ॥ सर्वे श्वानः समेत्य समुदेत्योर्ध्वीकृतास्या ऊर्ध्वदिशा- विहितवदनाः । तथा रविदत्तदृष्टयः सूर्यनिबद्धलोचनाः । तथा करुणेन करुण- रसपूरितेनात एव श्रवणान्तशातिना कर्णमध्यतनूकारिणा स्वरेण शब्देन कृत्वा रुदन्तः कोशन्तः सन्तः सुरविद्विषस्तारकस्य पुरोऽग्रे निर्ययुर्निरगच्छन् । षोडश- तमोऽयमुत्पातः ॥ २४॥

 अपीति पश्यन्परिणामदारुणां महत्तमां गाढमरिष्टसंततिम् ।'
 दुर्दैवदष्टो न खलु न्यवर्तत क्रुधा प्रयाणव्यवसायतोऽसुरः ॥२५॥

 अपीति ॥ गाढं दृढं यथा तथा परिणाम उत्तरकाले दारुणां भयप्रदां महत्तमामतिशयमहतीमरिष्टसंततिमुत्पातपरम्परां पश्यन्नप्यसुरस्तारकः क्रुधाऽमर्षेण प्रयाणव्यवसायतः प्रस्थानोद्योगान्न न्यवर्तत न निवृत्तः खलु । यतो दुर्दैवेन दुरदृष्टेण दृष्टो हतः । 'विनाशकाले विपरीतबुद्धिः' इति न्यायादिति भावः ॥२५॥

 अरिष्टमाशङ्कय विपाकदारुणं निवार्यमाणोऽपि बुधैर्महासुरः ।
 पुरः प्रतस्थे महतां वृथा भवेदसद्ग्र्हान्धस्य हितोपदेशनम् ॥२६॥

पाठा०-१ चलन्. २ प्रणयत्तुरंगमम्. ३ संक्षुभ्यत्. ४ भूधरम्. ५ पुरः. ६ प्रकम्पम् ; प्रकम्पतः. ७ पतिना. ८ इति प्रपश्यन्. ९ महत्तराम्. १० दृष्टः, ११ खलः. १२ निवर्तते. १३ निवार्यमाणैः, १४ विबुधैः; विविधैः. १५ महासुरैः. १६ हितोपदेशना; हितोपदेशिता.  अरिष्टेति ॥ महासुरस्तारकोऽरिष्टं विपाक उत्तरकाले दारुणं भयदमाशङ्क्य तर्कयित्वा निवार्यमाणो निषिध्यमानोऽपि पुर एव प्रतस्थे न तु पश्चानिववृते। तथा हि-महतां महता कृतमसद्ग्रेहेणान्धस्याविवेकिनः संबन्धिनो हितस्योप- देशनं वृथा व्यर्थ भवेत् । दुराग्रहशीलस्य सम्यगुपदेशोऽपि तदमततया व्यर्थः स्यादिति भावः ॥ २६ ॥ इदानीं पञ्चभिः पञ्च महोत्पातानाह-

 क्षितौ निरस्तं प्रतिकूलवायुना तदीयचामीकरधर्मवारणम् ।
 रराज मृत्योरिव पारणाविधौ प्रकल्पितं हाटकभाजनं महत् ॥२७॥

 क्षिताविति ॥ प्रतिकूलवायुना प्रतीपपवनेन क्षितौ पृथिव्यां निरस्तं निःक्षि- प्तम् । 'असु क्षेपणे' इत्यतः कर्मणि निष्ठा । तदीयं तारकसंबन्धि चामीकरस्य हेम्नः। 'चामीकरं जातरूपं महारजतकाञ्चने' इत्यमरः । धर्मवारणं छत्रं मृत्यो- र्यमस्य संबन्धिनि पारणाविधौ। भोजनक्रियानिमित्तमित्यर्थः । 'निमित्तात्कर्मयोगे' (वा० १४९० ) इति सप्तमी । योगोऽत्र संयोगः । प्रकल्पितं निर्मितं महद्विशालं हाटकभाजनं सुवर्णपात्रमिवेत्युत्प्रेक्षा । रराज शुशुभे ॥ २७ ॥

 विजानता भावि शिरोनिकृन्तनं प्रज्ञेन शोकादिव तस्य मौलिना।
 मुहुर्गलद्भिस्तरलैरलंतरामरोदि मुक्ताफलबाष्पविन्दुभिः ॥ २८ ॥

 विजानतेति ॥ प्रज्ञेन बुधेन । 'प्रज्ञस्तु पण्डिते वाच्यलिङ्गो ब्रद्धौ तु योषिति' इति मेदिनी। अत एव भावि भविष्यच्छिरोनिकृन्तनं मस्तकच्छेदनं विजानता बुध्यमानेन तस्य तारकस्य मौलिना किरीटेन । 'मौलिः किरीटे शृङ्गारे धम्मिल्ले द्रुमचूडयोः' इति विश्वः । शोकाद्धेतोर्मुहुर्गलद्भिर्निःसरद्भिस्तरलैश्चञ्चलैः । 'तरलं चञ्चले लिङ्गे हारमध्यमणावपि' इति विश्वः । मुक्ताफलान्येव बाप्पबिन्दवो- ऽश्रुबिन्दवः । 'बिन्दुस्तु दन्तनाले स्यात्तथा वेदितृविप्लुषोः' इति विश्वः । तैः कृत्वा- ऽलंतरामतिशयपर्याप्तं यथा तथा । 'अलं भूषणपर्याप्तिवारगेषु निरर्थके' इति विश्वः । अरोदीव रुदितमिवेत्युत्प्रेक्षा । मुकुटखचितमणिनिचयसाहसिकभूपतनरूप उत्पातोयमिति भावः ॥ २८ ॥


पाठा०-१ राजतपानभाजनम्. २ विकर्तनम्. ३ स्रस्तेन; प्रश्नेन.

निवार्यमाणैरभितोऽनुयायिभिर्ग्रहीतुकामैरिव तं मुहुर्मुहुः ।
अपाति गृध्रै[१६१]रभि मौलिमाकुलै[१६२]र्भविष्यदेतन्मरणोपदेशिभिः ॥२९॥

 निवार्यमाणैरिति ॥ भविष्यत एतस्य तारकस्य मरणमुपदिशन्ति बोधयन्ति तथाभूतैः तथाऽऽकुलैर्भक्षणक्रियासंभ्रमितैर्गंधैः पक्षिविशेषैः । 'गृध्रः खगान्तरे गृध्री वाच्यवच्चाथ लुब्धके' इति विश्वः । अभितः सर्वतोऽनुयायिभिर नुगच्छद्भिः । अत एवोत्प्रेक्षते-मुहुर्मुहुरनेकवेलं निवार्यमाणैरपि तं ग्रहीतुकामैरिव मौलिं किरीटमभि संमुखमपाति पतितम् । भावे लुङ् । पुनःपुनर्निवार्यमाणा अपि तद्बुभुक्षया मौलिमुद्दिश्यैव पेतुरिति भावः । अयमपि महोत्पातः ॥ २९ ॥

सद्योनिकृत्ताञ्जनसोद[१६३]रद्युतिं फणामणिप्रज्वलदंशुमण्डलम् ।
निर्यद्विषोल्का[१६४]नलगर्भफूत्कृतं ध्वजे जनस्तस्य महाहिमक्षत ॥३०॥

 सद्य इति ॥ जनो लोकस्तस्य तारकस्य ध्वजे, तदुपरीत्यर्थः । सद्योनिकृत्तस्य तत्कालपातितस्याञ्जनस्य कज्जलस्य सोदरा समाना धुतिः शोभा यस्य, अञ्जनसदृशश्यामलमित्यर्थः । तथा फणामणिभिः फणारत्नैः प्रज्वलदधिकीभवदंशुमण्डलं यस्य । निर्यद्विपमेचोल्कानलः स गर्भे मध्ये येषां तादृशानि फूत्कृतानि यस्य तथाभूतं महाहिं महान्तं सर्पमैक्षत ददर्श । अयमपि महोत्पातः ॥ ३० ॥

[१६५]थाश्वकेशावलिकर्णचा[१६६]मरं ददाह बाणासनबाण[१६७]वाणधीन् ।
[१६८]काण्डतश्चण्डतरो हुताशनस्तस्यातनुस्यन्दनधु[१६९]र्यगोचरः ॥३१ ।।

 रथेति ॥ अकाण्डतोऽसमये । सार्वविभक्तिकस्तसिल् । तस्य तारकस्य संबन्धी योऽतनुस्यन्दनो महान्रथस्तस्य धुर्योऽग्रभागस्तस्य गोचरः, तल्लम इत्यर्थः । चण्डतरोऽतिशयप्रचण्डो हुताशनोऽग्निः । रथाश्वसंबन्धिनी या केशावलिः कर्णचामराणि च तेषां समाहारस्तत् । प्राण्यङ्गत्वादेकवद्भावः । तथा बाणासनं बाणक्षेपक्रियासाधनम् । करणे ल्युट् । धनुर्बाणाः बाणधिस्तूणीरश्चेत्येतानित्यर्थः । ददाह । अयमपि महोत्पातः ॥३१॥

[१७०]त्याधरिष्टैरशुभोपदेशिभिर्विहन्यमानोऽप्यसुरः पुनः पुनः ।
यदा मदान्धो न[१७१] गतान्न्यवर्त[१७२]ताम्बरात्तदाभून्मरुतां सरस्वती ॥३२॥

 इत्यादीति ॥ मदान्धोऽसुरस्तारकोऽशुभोपदेशिभिरमङ्गलसूचकैरित्याद्यरिष्टैः पूर्वोक्तमहोत्पातैः पुनःपुनर्विहन्यमानोऽपि विघ्नितः क्रियमाणोऽपि यदा गताद्गमनात् । भावे निष्ठा । न न्यवर्तत न निवृत्तः तदाम्बराब्द्योम्नः सकाशान्मरुतां देवानां सरस्वती वाण्यभूत् ॥ ३२ ॥

मदान्ध ! मा गा भुजदण्डचण्डिमावलेपतो म[१७३]न्मथहन्तृसूनुना ।
सुरैः स[१७४]नाथेन पुरंदरादिभिः समं समन्तात्स[१७५]मरं विजित्वरैः ॥३३॥

 मदान्धेति ॥ भो मदान्ध ! भुजदण्डयोर्यश्चण्डिमा प्रचण्डत्वं तेन योऽवलेपो गर्वः । 'अवलेपस्तु गर्वे स्याल्लेपने दूषणेऽपि च' इति मेदिनी, विश्वश्च । तस्मात् । पञ्चम्यास्तसिल् । हेत्वर्थे पञ्चमी । विजित्वरैर्जयनशीलैः पुरंदरादिभिः सुरैः समन्तात्परितः सनाथेन सहितेन मन्मथहन्तृसूनुना शिवपुत्रेण समं सह समरं युद्धम् , कर्तुमिति शेषः । मा गा मा याहि ॥ ३३ ॥
 अथ 'गुहः-' इत्यादिभिश्चतुर्भिः कुमारविषये तारककर्तृकसमरानौचित्यमेव दर्शयति-

गु[१७६]होऽसुरैः पडूदिनजातमात्रको निदाघधामेव निशातमोभरैः ।
विष[१७७]ह्यते ना[१७८]भिमुखो हि[१७९] संगरे कुतस्त्व[१८०]या [१८१]तस्य समं विरोधिता ३४

 तत्र गुहेति ॥ भो मदान्ध! संगरे युद्धेऽभिमुखः संमुखः षड् दिनानि जातानि न्वतीतानि यस्य, जन्मदिनादारभ्यातिक्रान्तषड्दिनीक इत्यर्थः । गुहः सेनानीः । 'गुहः पाण्मातुरे गुह्ये' इति मेदिनी । असुरैदैत्यैः कर्तृभिः । निशातमोभरै रात्र्यन्धतमससमूहैर्निदाधधामा उष्णतेजाः सूर्य इव न हि नैव विषयते विमृष्यते । ल्वया समं सह तस्य संबन्धिनी विरोधिता वैरं कुतः कारणात्स्यात् ? कुमारविषयकभवत्कृतवैरनिमित्तसमरोऽनुचित एवेति भावः ॥ ३४ ॥

अभ्रंलिहैः शृङ्गशतैः समन्ततो दि[१८२]क्चक्रवालैः स्थगितस्य भूभृतः ।
क्रौञ्चस्य रन्ध्रं विशि[१८३]खेन निर्ममे येनाहवस्तस्य सह त्वया कुतः ३५

 अभ्रंलिहेरिति ॥ भो मदान्ध ! येन सेनान्या का । अभ्रंलिहैराकाशस्पृग्भिः शृङ्गशतैः सानुशतैः । तथा दिक्चक्रवालैः काष्ठामण्डलैः । 'चक्रवालं तु मण्डलम्' इत्यमरः । समन्ततः परितः स्थगितस्याच्छादितस्य क्रौञ्चस्य क्रौञ्चसंज्ञकस्य भूभृतः पर्वतस्य संबन्धि रन्ध्र छिद्रम् । जातानेकवचनम् । विशिखेन बाणेन निर्ममे निर्मितम् । कर्मणि लिट् । तस्याहवः सङ्ग्रामस्त्वया सह कुतः कारणात्म्यात्? अपि तु नेदमुचितमिति भावः ॥ ३५ ॥
 अथ युग्मेनाह-

लब्ध्वा धनुर्वेदमनङ्गविद्विषस्त्रिःसप्तकृत्वः समरे महीभुजाम् ।
कृ[१८४]त्वाभिषेकं रुधिराम्बुभिर्धनैः स्वक्रोधवाह्निं शमयांबभूव यः ३६

 लब्ध्वेति ॥ यो जामदग्न्यः परशुरामोऽनङ्गविद्विषो हरसकाशाद्धनुर्वेदं लब्ध्वा प्राप्य, अधीत्येति यावत् । अतः समरे युधि महीभुजां राज्ञां संबन्धिभी रुधिराम्बुभिः शोणितज्जलैस्त्रिःसप्तकृत्वस्त्रिगुणसप्तवारम् , एकविंशतिवारमिति यावत् । अभिषेकं स्नानं कृत्वा स्वक्रोधवह्निमात्मीयकोपाग्निं शमयांबभूव, एकविंशतिवारं क्षत्रियान्हत्वा शान्तोऽभूदिति भावः ॥ ३६ ॥

न जामदग्न्यः क्षयकालरात्रिकृत्स क्षत्रियाणां समराय वल्गति ।
येन त्रिलोकीसु[१८५]भटेन तेन कुतोऽव[१८६]काशः सह विग्र[१८७]हग्रहे ॥ ३७॥

 नेति ॥ क्षत्रियाणाम् । 'क्षत्राद्धः' (पा. ४।१।१३८ ) इति घप्रत्ययः । 'आयनेयी-' (पा. ७।१।२ ) इति तस्येयादेशः । क्षयसंबन्धिनीं कालरात्रिं करोति यः स जामदग्न्यो जमदग्नेरपत्यं पुमान् रामस्त्रिलोक्यां सुभटेन सुतरां योद्ध्रा येन सेनान्या सह समराय समरं कर्तुं न वल्गति न चलति, नैवोद्युक्त इत्यर्थः । तेन सकलराजकुलजिघत्सद्रामविभीषकेण सेनान्या सह सव त्वत्कर्तृके विग्रहग्रहे रणग्रहे । 'विग्रहः कायविस्तारविभागे ना रणे स्त्रियाम्' इति मेदिनी । कुतः कस्मादवकाशोऽवसरः स्यात् ? अपि तु न स्यादिति काका व्याख्येयम् । अतः सर्वथैवामुना सह त्वया न योद्धव्यं, किंतु निवर्तनीयमेवेति भावः ॥ ३७ ॥
 ननु निवर्तने पुनरपि वधशङ्केति चेत्तत्राह-

त्यजाशु ग[१८८]र्वं मदमूढ ! मा स्म गाः स्मरारिसूनोर्वरशक्तिगोचरम् ।
तमेव नूनं शरणं व्रजाधुना ज[१८९]गत्सुवीरं [१९०]स चिराय जीव तत् ३८

 त्यति ॥ भो मदमृढ उन्मादमूर्ख ! आशु शीघ्रं गर्वमभिमानं त्यज । स्मरारिसूनोः सेनान्याः संबन्धिनी या वरा श्रेष्ठा शक्तिरायुधं तस्या गोचरं विषयं मा स्म गा मा स्म याहि । तर्हि किं कर्तव्यमित्याह-अधुनेदानीं नूनमेव निश्चयेनैव । 'नूनमवश्यं निश्चये द्वयम्' इत्यमरः । शरणं रक्षितारम् । 'शरणं गृहरक्षित्रोर्वधरक्षणयोरपि' इति मेदिनी । तं जगत्सुवीरं सेनान्यं व्रज गच्छ । तत्तस्माद्गमनाद्धेतोः स त्वं चिराय जीव बहुकालं प्राणान्धारय, कुमारगमनं विना न तवान्यज्जीवातुरिति भावः ॥ ३८ ॥

श्रत्वेति वाचं वियतो ग[१९१]रीयसीं क्रोधादहंकारपरो महासुरः।
प्रकम्पिताशेषजगत्रयोऽपि स[१९२]न्न[१९३]कम्पतोच्चैर्दिवम[१९४]भ्यधाच्च सः ॥३९॥

 श्रुत्वेति ॥ वियत आकाशस्येत्येर्वभृतां गरीयसीमशयगुर्वी वाचं श्रुत्वा क्रोधाद्देतोरहंकारेऽभिमाने । 'गर्वोऽभिमानोऽहंकारः' इत्यमरः । परः सक्तः । 'परः श्रेष्ठादिदूरान्योत्तरे क्लीबं तु केवले' इति मेदिनी । 'आदि'शब्दसंगृहीतत्वेन सक्तिवाचकत्वं विवेचनीयम् । सोऽसुरम्तारकः प्रकर्षेण कम्पितं वेपितमशेषं समस्तं जगतां त्रयं येन तथाभूतः सन्नप्यकम्पत चकम्पे, भारत्या अत्याप्तत्वादिति भावः । अथ च दिवं स्वर्गमुच्चैरुच्चैःस्वरेणाभ्यधादचकथत् ॥ ३९ ॥
 अथ 'किम्' इत्यादिभिस्त्रिभिस्तदुतिमाह-

किं ब्रूथ रे[१९५] व्योमचरा महासुराः! स्म[१९६]रारिसूनुप्रतिपक्षवर्तिनः ।
मदीयबाणव्रणवेद[१९७]ना हि साऽधुना कथं विस्मृ[१९८]तिगोचरीकृता ४०

 किमिति ॥ रे व्योमचराः !। रे इति नीचसंबोधने । महासुरा महान्तः सुरा यूयं स्मरारिसूनोः कुमारस्य प्रतिपक्षे कोटौ वर्तन्ते तथाभूताः सन्तः किं ब्रूथ वदथ ? नेदं वाच्यमिति ध्वनिः । ननु वादे त्वया किं कृतमित्याह--सा पूर्वतरा

मदीयानां बाणानां संबन्धिनां व्रणानां रन्ध्राणां वेदना पीडाऽधुना हीदानीमेव कथं केन प्रकारेण विस्मृतिगोचरीकृता विस्मरणविषयीकृता ? अपि त्विदानीमपि सैव स्मर्तव्या, अग्रे भोक्ष्यमाणत्वात् ॥ ४० ॥

[१९९]टुस्वरैः प्रालपथाम्बरस्थिताः शिशोर्बलात्षड्दिनजातकस्य किम् ।
श्वानः प्र[२००]मत्ता इव का[२०१]र्तिके निशि स्वैरं वनान्ते मृगधूर्तका इव ॥ ४१ ॥

 कटुस्वरैरिति ॥ भो देवाः ! यूयमम्बरस्थिता आकाशवर्तिनः सन्तः षड्दिनजातकस्य षड्दिनजन्मनः शिशोर्बालस्य बलाद्वीर्याद्धेतोः कार्तिके बहुले मासि प्रमत्ता उन्मत्ताः श्वान इव निशि वनान्ते वनमध्ये मृगधूर्तका मृगा एव धूर्तकास्त इव किं प्रालपथ प्रलापं कुरुथ ? अपि तु मदपेक्षया निर्वीर्यैर्भवद्भिः प्रलापो न विधेय इति भावः ॥ ४१ ॥

सङ्गेन वो ग[२०२]र्भतपस्विनः शिशुर्वराक एषोऽन्तमवाप्स्यति ध्रुवम् ।
[२०३]तस्करस्तस्करसङ्गतो यथा तद्वो निहन्मि प्रथमं ततोऽ[२०४]प्यमुम् ४२

 सङ्गेनेति ॥ भो देवाः ! वो युष्माकं सङ्गेन संबन्धेन निमित्तेन वराकोऽतिकृपणत्वाच्छोचनीयः । 'वराकः शंकरे पुंसि शोचनीयेऽभिधेयवत्' इति मेदिनी । एष पुरोवर्ती गर्भतपस्विनः । अत्र 'गर्भ'शब्देन गर्भत्वं तदस्यास्तीति गर्भः । अर्शआद्यच् । ततो गर्भत्ववानिति निष्पन्नम् । गर्भत्वं चात्र बालत्वम् । 'गर्भो भ्रूणेऽर्भके कुक्षौ' इति मेदिनी । एवं च बाल इति निष्कर्षः । स चासौ तपस्वी च । बालत्वेऽपि तपस्वित्वकथनाद्वार्धक्ये त्वर्थात्सिद्धम् । एवं च बालत्वमारभ्य तपस्वित्वेन निष्किंचनस्येति तात्पर्यार्थः । अथवा गर्भत्वादिति ल्यब्द्योतनिका या पञ्चमी तदन्तेन 'तपस्वि'शब्दस्य समासो विधेयः, गर्भत्वं बालत्वमारभ्य तपस्वीत्यर्थः । तथाभूतस्य शिवस्य शिशुर्बालः कुमारः । तस्करसङ्गतश्चौरसङ्गेनातस्करो यथा चौर इव ध्रुवं निश्चयेनान्तं मरणमवाप्स्यति प्राप्स्यति । तत्तस्माद्वो युष्मान्प्रथमं प्राङ् निहन्मि । 'वर्तमानसामीप्ये वर्तमानवद्वा' (पा. ३।३।१३१) इति भविष्यकालेऽपि वर्तमानप्रयोगः । ततो भवद्धननानन्तरममुं कुमारमपि निहन्मि निहनिष्यामि ॥ ४२ ॥

इतीरयत्युग्रतरं महासुरे महाकृपाणं कलयत्यलं [२०५]क्रुधा ।
परस्परोत्पीडितजानवो भयान्नभश्चरा दूरतरं विदुद्रुवुः ॥ ४३ ॥

 इतीति ॥ इति पूर्वोक्तमीरयति वदति महासुरे तारके क्रुधा हेतुनोग्रतरमत्यन्तभयानकं महाकृपाणं महान्तं खड्गम् । अलं पर्याप्तत्वेन । अनेन प्रथमं स्पर्शमात्र एवेति व्यज्यते । 'अलं भूषणपर्याप्तिवारणेषु निरर्थके' इति विश्वः । कलयति विभ्रति सत्ति । नभश्चरा देवा भयाद्धेतोः परस्परमन्योन्यमुत्पीडिता अतिसंकीर्णतया धृष्टत्वाद्यथिता जानव ऊरुपर्वाणि येषाम् । 'जङ्घा तु प्रसृता जानूरुपर्वाष्ठीवदस्त्रियाम्' इत्यमरः । तथाभूताः सन्तो दूरतरमतिदूरम् । 'दूरान्तिकार्थेभ्यो द्वितीया च' (पा. २।३।३५) इति प्रातिपदिकार्थमात्रे द्वितीया । विदुद्रुवुः पलायांचक्रिरे । 'द्रु गतौ' इत्यस्मात्कर्तरि लिट् ॥ ४३ ॥

ततोऽवलेपाद्विकटं विह[२०६]स्य स व्य[२०७]धत्त कोशादसिमुत्तमं बहिः ।
रथं द्रुतं प्रापय वासवान्तिकं न[२०८]न्वित्यवोचन्नि[२०९]जसारथिं रथी ॥४४॥

 तत इति ॥ ततोऽनन्तरं स तारको विकटं करालं यथा तथा । वक्ष्यमाणस्यासेर्विशेषणं वा । 'विकटा वज्रवाराह्यां त्रिषु रुचिकरालयोः' इति मेदिनी । विहस्याट्टहासं कृत्वा । उत्तममसिं करवालं कोशाद्धहिर्व्यधत्त कृतवान् । अथ च रथी सः 'रथं वासवान्तिकमिन्द्रसमीपं द्रुतम् । ननु निश्चयेन प्रापय' इति निजं स्वीयं सारथिं सूतमवोचत् । 'ननु प्रश्नेऽप्यनुनयेऽनुज्ञानेऽप्यवधारणे' इति विश्वः ॥४४॥

मनोतिवेगेन रथेन सारथिप्रणोदितेन प्रचलन्महासुरः।
ततः[२१०] प्रपेदे सुरसैन्यसागरं भयंकराकारमपारमग्रतः ॥ ४५ ॥

 मन इति ॥ ततोऽनन्तरं मनोतिवेगेनान्तःकरणादपि बहुलगतिजवेन सारथिना प्रणोदितेन प्रेरितेन रथेन प्रचलन्गच्छन् महासुरस्तारकोऽग्रतः पुरतः, स्थितमिति शेषः । अपारमनवधिकं भयंकराकारम् , विभीषणाकृतिमत्पुरुषमित्यर्थः । सुरसैन्यसागरं देवसेनासमुद्रं प्रपेदे प्राप ॥ ४५ ॥

पुरः सुराणां पृ[२११]तनां प्रथीयसीं विलोक्य वीरः पुलकं प्रमोदजम् ।
बभार भू[२१२]म्नाथ स बाहुदण्डयोः प्रचण्डयोः संगरकेलिकौतुकी ४६

 पुर इति ॥ वीरः शूरः । 'वीरो रसविशेषे पुंस्युत्तरे सुभटे त्रिपु' इति मेदिनी । स तारकः प्रथीयसीमतिपृथुलां सुराणां देवानां संबन्धिनी पृतनां सेन्घं पुरोऽग्रे विलोक्य प्रचण्डयोबीहुदण्डयोर्भुजदण्डयोः । 'दण्डोऽस्त्री लगुडे पुमान्' इति मेदिनी । प्रमोदजमानन्दजनितं पुलकं रोमाञ्चं भूम्ना बाहुल्येन बभार धृतवान् । यतः संगरकेलौ सङ्ग्रामक्रीडायां कौतुक्युत्साहवान् , वीराणां सेनादर्शनमेव महान्मुदो हेतुरिति भावः ॥ ४६ ॥

ततो म[२१३]हेन्द्रस्य चराश्चमूचरा रणान्तलीलारभसेन भूयसा ।
पुरः प्रचेलुर्मनसोऽतिवेगिनो युयुत्सुभिः किं समरे विलम्ब्यते ४७

 तत इति ॥ ततोनऽन्तरं मनसः सकाशादप्यतिवेगिनोऽत्यन्तजववन्तः । तथा भूयसाऽतिशयेन रणान्ते सङ्ग्राममध्ये या लीला विलासः । विलासोऽत्र समराङ्गणाधिकरणकमात्मीयभुजदण्डगतपराक्रमचमत्कृतिदर्शनम् । तत्र रभसेन वेगेन । 'लीलां विदुः केलिविलासखेलाशृङ्गारभावप्रभवक्रियासु' इति विश्वः । चम्वां सेनायां चरन्तीति विग्रहे 'चरेष्टः' (पा. ३।२।१६) इति टप्रत्ययः । तथाभूता महेन्द्रस्येन्द्रस्य चराश्वाराः, दूता इति यावत् । 'चरो द्यूतप्रबन्धे स्याच्चारजङ्गमयोश्चले' इति विश्वः । समरे सङ्ग्रामे युयुत्सुभिर्योद्धुमिच्छुभिः, भवद्भिरित्यर्थः । किं विलम्ब्यते किं विलम्बः क्रियते ? अपि तु सत्वरमेव युध्यतामिति प्रतिपक्षान् , वक्तुमित्यपि शेषः । पुरोऽग्रे प्रचेलुः ॥ ४७ ॥

पु[२१४]रःस्थितं देवरिपोश्चमूचरा बल[२१५]द्विषः सैन्यसमुद्रम[२१६]भ्ययुः ।
भुजं समुत्क्षिप्य प[२१७]रेभ्य आत्मनोऽभिधानमुच्चैरभितो न्यवेदयन् ४८

 पुर इति ॥ देवरिपोस्तारकस्य चमूचराः सेनाचराः पुरःस्थितमनस्थितं बलद्विष इन्द्रस्य संबन्धिनं सैन्यसमुद्रं सेनासागरमभ्ययुः संमुखत्वेन जग्मुः। अथ चाभितः संमुखम् । 'अभितः शीघ्रसाकल्यसंमुखोभयतोऽन्तिके' इति विश्वः । भुजं बाहुं समुव्क्षिप्योत्थाप्य आत्मनोऽभिधानं नाम । 'आख्याह्ने अभिधानं च नामधेयं च नाम च' इत्यमरः । उच्चैःस्वरेण परेभ्यः शत्रुभ्यो न्यवेदयन् 'वयममुकनामानो वयममुकनामानः' इति निवेदितवन्तः ॥ ४८ ॥

पुरोगतं दैत्यचमूमहार्णवं दृष्ट्वा प[२१८]रं चुक्षुभिरे म[२१९]हासुराः ।
पु[२२०]रारिसूनोर्नयनैककोणके म[२२१]मुर्भटा[२२२]स्तस्य रणेऽवहेलया[२२३] ॥४९॥

 पुर इति ॥ महासुरा महान्तः सुरा इन्द्रादयः पुरोगतमग्रे प्राप्तं दैत्यस्य तारकस्य चमूरेव महानर्णवः समुद्रस्तं दृष्ट्वा परं केवलम् । 'परमव्ययमिच्छन्ति-' इति विश्वः । चुक्षुभिरे मंचेलुः, विव्यथुरिति यावत् । रणे संगरेऽवहेलया 'मदपेक्षया केयं वराकिका सेना' इत्यनादरेणोपलक्षितस्य तस्य पुरारिसूनोः शिवपुत्रस्य नयनैककोणके नेत्रैकदेश एव । 'कोणो वाद्यप्रभेदे स्यात्कोणोऽब्धौ लगुडेऽर्कजे । वीणादिवादनोपायेऽप्येकदेशे गृहस्य च ॥' इति विश्वः । अत्र गृहस्यैव कोण इत्यविवक्षितम् , किंत्वन्यसाधारणत्वेन प्रकृत इष्टसिद्ध्यर्थमुपलक्षितत्वे गमनीय इत्यलम् । भटा योद्धारो ममुः समाविविशुः ॥ ४९ ॥

द्विषब्दलत्रासवि[२२४]भीषिताश्चमूर्दिवौकसामन्धकशत्रुनन्दनः ।
अपश्यदुद्दिश्य म[२२५]हारणोत्सवं प्रसादपीयूषधरेण चक्षुपा ॥ ५० ॥

 द्विषदिति ॥ महारणोत्सवमुद्दिश्य स्थितोऽन्धकशत्रुनन्दनः कार्तिकेयो द्विषब्दलत्रासेन तारकसैन्यशासनेन विभीषिता भीता दिवौकसां देवानां चमूः सेना कर्म । प्रसादोऽनुग्रहः, स एव पीयूषममृतं तद्धरति तथाभूतेन चक्षुषाऽपश्यद्ददर्श । अवेन 'यूयं मा भैष्ट, प्रसन्ना भवत, निःशङ्कं युध्यध्वं च' इति व्यज्यते ॥ ५० ॥

[२२६]त्साहिताः शक्तिधरस्य दर्शनान्मृधे महेन्द्रप्रमुखा म[२२७]खाशनाः ।
[२२८]हं मृधे जेतुमरीनरीरमन्न कस्य वीर्याय वरस्य संगतिः ॥५१॥

 उत्साहिता इति ॥ शक्तिधरस्यायुधविशेषधारिणः । 'शक्तिर्बले प्रमावादौ शक्तिः प्रहरणान्तरे' इति विश्वः । अत एव मृधे मङ्खये । 'मृधमास्कन्दनं सङ्ख्यम्' इत्यमरः । तस्य कुमारस्य दर्शनाद्धेतोरुत्साहिता उत्साहं प्राप्ता महेन्द्रप्रमुखा इन्द्रपूर्वा मखाशना यज्ञहविर्भाक्तारो देवा मृधे संगरे 'अहमेवारीञ्शत्रूञ्जेतुं समर्थोऽस्मि नान्यः' इति वदन्तः सन्तोऽरीरमन् रेमिरे। तथा हि-वरस्य श्रेष्टस्य संगतिः संबन्धः कस्य पुरुषस्य वीर्याय वीर्यं कर्तुं न भवति ? अपि तु सर्वस्थापीत्यर्थः । गतवीर्यस्य वीर्यकरणे महदाश्रय एव निदानं नान्यदिति काक्का ध्वन्यते ॥ ५१ ॥

परस्परं वज्रधरस्य सैनिका द्विपोऽपि योद्धुं स्वकरोद्धृतायुधाः[२२९]
वैता[२३०]लिकश्राविततारविक्रमाभिधानमीयुर्विजयैषिणो रणे ॥ ५२॥

 परस्परमिति ॥ रणे युद्धे विजयैषिणो विजयं प्राप्तुमिच्छवः । अत एवं योद्धं युद्धुं कर्तुं स्वकरैरात्मीयपाणिभिरुद्धृतानि गृहीतान्यायुधानि खङ्गादीनि यैस्तथाभूता वज्रधरस्येन्द्रस्य द्विषोऽपि तारकस्य च । अपिरत्र समुच्चयार्थः । 'अपि संभावनाप्रश्नशाङ्कागार्हासमुच्चये' इति विश्वः । सैनिकाः सेनाचराः । 'चरनि' (पा. ४।४।८ ) इति ठक् । वैतालिकैर्बन्दिभिः श्रावितान्याकर्णितानि तार उच्चैर्विक्रमोऽभिधानानि नामानि च यस्मिन्कर्मणि यथा तथा परस्परमन्योन्यमीयुः प्रापुः, मिमिलुरिति यावत् ॥ ५२ ॥

 [२३१]ङ्ग्रामं प्रलयाय संनिपततो वेलामतिकामतो
  वृन्दारासुरसैन्यसागरयुग[२३२]स्याशेषदिग्व्यापिनः ।
 का[२३३]लातिथ्यभुजो बभूव बहलः कोलाहलः क्रोष[२३४]णः
  शैलोत्तालतटीविघट्टनपटुर्ब्रह्माण्डकुक्षिंभरिः ॥ ५३॥

 सङ्ग्राममिति ॥ प्रलयाय नष्टचेष्टतायै, तां कर्तुमित्यर्थः । प्तङ्ग्रामं समरं संनिपततः समुदितवतः । अन्यत्र प्रलयाय लोकसंहाराय संनिपततो वर्धमानस्य । अत एव वेलां मर्यादाम् । एकत्र न्याय्याचरणम्, अन्यत्रावधिम् , सीमानमिति यावत् । 'वेला काले च जलधौ तीरे नीरविकारयोः । क्लिष्टरसने रोगे च सीम्निवाचि युधि स्त्रियाम्' इति विश्वः । अतिक्रामत उल्लङ्घयतः, निर्मर्यादत्वेन युध्यमानस्य सीमानमुल्लङ्घ्य चलत इत्यर्थः । अत एवाशेषासु दिक्षु व्यापिनो व्यप्नुवतः । उभयत्रापि समानमेतत् । तथा कालस्य यमस्य संबन्ध्यातिथ्यमतिथ्युचितसत्कारं भुनक्ति भोक्ष्यति तथोक्तस्य । 'वर्तमानसामीप्ये-' (पा. ३।३।१३१) इति लट् । अन्यत्र कालं कृष्णमातिथ्यमतिथिसत्कारं भुनक्ति भोजयति । अन्तर्भाविणिजर्थः । प्रलये वर्धमानसमुद्रनीरे केवलं तस्यैव वर्तमानत्वात् । वृन्दाराणां देवानामसुराणां च ये सैन्ये ते एव सागरौ समुद्रौ तयोर्युगस्य युग्मस्य । 'युग्मं तु युगलं युगम्' इत्यमरः । तत्संबन्धी क्रोषणो मुखरः कोलाहलः कलकलो बहलः । अत एव शैलसंबन्धिनीनामुत्ताला उच्चतालवृक्षसहिता यास्तठ्यः सैकतानि, शृङ्गाणीति यावत् । तासां विघट्टने स्फोटने पटुः समर्थः । अत एव ब्रह्माण्डे न कुक्षि भरति तथोक्तश्च बभूव । शार्दूलविक्रीडितं वृत्तम् , 'सूर्याश्चैर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम्' इति लक्षणात् ॥ ५३ ॥

इति श्रीपर्वणीकरोपनामकश्रीलक्ष्मणभट्टात्मजसतीगर्भसंभवश्रीसीताराम-
कविविरचितया संजीविनीसमाख्यया व्याख्यया समेतः
श्रीकालिदासकृतौ कुमारसंभवे महाकाव्ये सुरा-
सुरसैन्यसंघट्टो नाम पञ्चदशः सर्गः ।

षोडशः सर्गः।


  अथा[२३५]न्योन्यं विमुक्तास्त्रशस्त्रजालैर्भयंक[२३६]रैः ।
  युद्धमासीत्सुनासीरसुरारिबलयोर्महत् ॥ १ ॥

 अथेति ॥ अथ सुरासुरसंमेलनानन्तरम् । भयंकरैर्भयमुत्पादयद्भिः । अन्योन्यं परस्परं विमुक्तानि प्रहर्तुं विसृष्टान्यस्त्रशस्त्राणां शरादिमोहनादीनां जालानि समूहास्तैः कृत्वा । सुनासीर इन्द्रः, सुरारिस्तारकः, तयोर्बले सैन्ये तयोः । 'बलं गन्धरसे रूपे स्थामनि स्थौल्यसैन्ययोः' इति विश्वः । महद्धौरं युद्धं सङ्ग्राम आसीद्बभूव । सर्गेऽस्मिन्वृत्तमनुष्टुप् ॥ १ ॥

  पत्तिः पत्तिमभीयाय रणाय रथिनं रथी ।
  तुरंगस्थं तुरंगस्थो दन्तिस्थं दन्तिनि स्थितः ॥ २ ॥

 पत्तिरिति ॥ पत्तिः पादचारी पत्तिं पादचारिणम्, रथी रथारूढो रथिनं रथारूढम्, तुरंगस्थोऽश्ववाहस्तुरंगस्थमश्ववाहम्, दन्तिनि गजे स्थितो दन्तिस्थं गजारोहम्, रणाय रणं कर्तुमभीयाय संमुखमगमत् । अत्र प्रत्येकं क्रियासंबन्धो विधेयः, अन्यथा बहुत्वप्रसङ्गः ॥ २ ॥

  युद्धाय धावतां धीरं वीराणामितरेतरम् ।
  वैतालिकाः कु[२३७]लाधीशा नामान्यलमुदाहरन् ॥ ३ ॥

 युद्धायेति ॥ इतरेतरं परस्परं युद्धाय युद्धं कर्तुं धीरं गम्भीरं यथा तथा धावतां विद्रुवतां वीराणां योद्धॄणां नामानि कुलाधीशाः कुलस्वामिनः, कुलप्रदीपा इति यावत् । अनेन स्वात्मविद्यायामतिप्रावीण्यं व्यज्यते । वैतालिका बन्दिनः । अलं भूषणम्, शोभेति यावत् । यथा स्यात्तथोदाहरन्नूचुः । 'अयममुकसंज्ञको वीरो धावति, अयममुकसंज्ञको वीरो धावति' इत्येवंभूतं जगदुरित्यर्थः । आत्मपरावबोधार्थमिति भावः ॥ ३ ॥

  [२३८]ठतां बन्दिवृन्दानां प्रवीरा विक्रमावलीम् ।
  क्षणं विलम्ब्य चित्तानि ददुर्युद्धोत्सुकाः पु[२३९]रः ॥ ४ ॥

 पठतामिति ॥ प्रवीराः प्रकृष्टयोद्धारो विक्रमावलीं पराक्रमसमाहारं पठतां स्तुवताम् 'साधु पराक्रान्तम्, साधु पराक्रान्तम्' इति वदतां बन्दिवृन्दानां वैतालिकसमूहानां पुरोऽग्रे चित्तानि मनांसि क्षणं विलम्ब्य ददुः । यतो युद्धोत्सुकाः समरोत्कण्ठिताः, समरोत्कण्ठितमनोदानाभावो न श्रवणेन्द्रियस्य

केवलस्यैवार्थबोधासंभवात् ॥ ४ ॥

  सङ्ग्रामानन्दवर्धिष्णौ विग्रहे पुलकाञ्चिते ।
  आसीत्कवचविच्छेदो वीराणां मिलतां मिथः ॥५॥

 सङ्ग्रामेति ॥ सङ्ग्रामानन्देन समरोत्साहेन वर्धिष्णौ वृद्धिशीले अत एव पुलकाञ्चिते रोमाञ्चव्याप्ते मिथो मिलतां संगच्छमानानां वीराणां योद्धॄणां विग्रहे शरीरे । जातावेकवचनम् । कवचानां वारणानां विच्छेदो विभेद आसीत् ॥ ५ ॥

  निर्दयं खड्गभिन्नेभ्यः कवचेभ्यः समुत्थितः ।
  आसन्व्योमदिशस्तूलैः पलितैरिव पाण्डुराः ॥ ६ ॥

 निर्दयमिति ॥ निर्दयं निष्कृषं खड्गभिन्नेभ्यः करवालविदीर्णेभ्यः कवचेभ्यः सकाशात्समुत्थितैरुड्डयितैस्तूलैः कार्पासैः । 'तूलः पिचौ भवेत्तूलं ब्रह्मदारुविहायसोः' इति विश्वः । पलितैरिव जराजनितशुक्लत्वैरिव । 'पलितं जरसा शौक्ल्यम्' इत्यमरः । व्योमसहिता दिशः पाण्डुराः श्वेता आसन् । उत्प्रेक्षया कवचविच्छेदेऽपि वीराणां युद्धविषयक उत्साहो न विच्छिन्न इति ध्वन्यते । अतोऽलंकारेण, वस्तुध्वनिः ॥ ६॥

  खड्गा रुधिरसंलिप्ताश्चण्डांशुकरभासुराः ।
  इतस्ततोऽपि वीराणां विद्युतां वैभवं दधुः ॥ ७ ॥

 खड्गा इति ॥ रुधिरेण संलिप्ताः । तथेतस्ततश्चण्डांशुकरैः सूर्यकिरणव्यतिकरैर्भासुराश्चमत्कुर्वन्तो वीराणां खङ्गा विद्युतां तडितां वैभवं सादृश्यं दधुः, तद्वच्छुशुभिर इत्यर्थः । अत्रोपमया खङ्गानां वीरकरसंपर्कजनितपरिकम्पचमत्कारकारित्वं ध्वन्यते । अतोऽत्राप्यलंकारेण वस्तुध्वनिः । तथा वीरकरसंपर्कजनितपरिकम्पचमत्कारकारित्वरूपव्यङ्ग्येन प्रतिद्वन्द्विविहननजनितद्विगुणोत्साहवत्त्वं च व्यज्यते ॥७॥

  विसृजन्तो मुखैर्ज्वाला भीमा इव भुजंगमाः ।
  विसृष्टाः सुभटै रुष्टैर्व्योम व्यानशिरे शराः ॥ ८॥

पाठा०-१ पुलकाङ्किते. २ धीराणाम्. ३ समुच्छ्रितैः. ४ स्थूलैः, ५ पतितैः ६ पिञ्जराः. ७ वैद्युतम् ; विद्युतः. ८ तुष्टैः; तुङ्ग. ९ असुराः,  विसृजन्त इति ॥ रुष्टैः सुभटैः शोभनयोद्धुभिर्विसृष्टा विमुक्ताः शरा बाणाः । मुखैरग्रैर्ज्वाला उल्का विसृजन्तो मुञ्चन्तः । अत एव भीमा भयानका भुजंगमा इवेत्युत्प्रेक्षा । व्योम कर्म । व्यानशिरे व्यापुः । अत्र सुभटकर्तृकविसर्जनव्यापारपूर्वकव्योमव्याप्त्या प्राग्भाविताविशिष्टशत्रुविग्रहभेदनं ध्वन्यते । अन्यथा व्योमव्याप्तिमात्रस्यैव विवक्षितत्वेन व्यापृतेर्व्यर्थत्वमुद्भाव्येत । तेनात्र वस्तुना वस्तुध्वनिः ॥ ८॥

  बाढं वपूंषि निर्भिद्य धन्विनां निघ्नतां मिथः ।
  अशोणितमुखा भूमिं प्राविशन् दूरमाशुगाः ॥ ९ ॥

 बाढमिति ॥ मिथोऽन्योन्यं दूरमतिशयेन निघ्नतां प्रहरतां धन्विनां धनुर्धारिणां वपूंषि गात्राणि बाढं गाढम् , दृढमिति यावत् । निर्भिद्याप्यशोणितमुखाः शोणितसाहित्यराहित्यवन्ति मुखान्यग्राणि येषां त आशुगा बाणा भूमिं प्राविशन् प्रविष्टाः । अत्र विभेदका अप्यशोणितमुखा इति विरोधाभासालंकारेण बाणानामतिशीघ्रगामित्वरूपवस्तुध्वनिः । न च शीघ्रमेव व्यञ्जनीयमिति वाच्यम् ; आशुगा इत्यनेनैव तदभिहितत्वात् ॥ ९॥

  निर्भिद्य दन्तिनः पूर्वं पातयामासुराशुगाः ।
  पेतुः प्रवरयोधानां प्रीतानामाहवोत्सवे ॥ १० ॥

 निर्भिद्येति ॥ आहवोत्सवे सङ्ग्रामरूपोत्सवे प्रीतानां प्रवरयोधानामतिश्रेष्ठयोद्धॄणां संबन्धिन आशुगा बाणा दन्तिनो गजान्निर्भिद्य भेदयित्वा पूर्वं पातयामासुः । पश्चात्स्वयमपि पेतुः । अत्र वाक्यार्थरूपवस्तुना प्राणापहारकं तेषामतितैक्ष्ण्यं वस्तु ध्वन्यत इति वस्तुना वस्तुध्वनिः ॥ १० ॥

  ज्वलदग्निमुखैर्बाणैर्नीरन्ध्रैरितरेतरम् ।
  उच्चैर्वैमानिका व्योम्नि कीर्णे दूरमपासरन् ॥ ११ ॥

 ज्वलदिति ॥ ज्वलदग्निमुखैः प्रज्वलद्वह्निसहिताः । तथेतरेतरं परस्परं नीरन्ध्रैर्निर्गतावकाशैः, परस्परसंघट्टितैरिति तात्पर्यार्थः । बाणैः शरैः । उच्चैरतिशयितं यथा तथा कीर्णे व्याप्ते व्योम्नि वैमानिका विमानचारिणो देवा विष्ण्वादयो दूरमपासरन्दुद्रुवुः । आत्मशरीरसंबन्धशङ्काकुलत्वादिति भावः ॥ ११॥

पाठा०-१ गाढम्. २ निर्भेद्य. ३ कीर्णैः.

  विभिन्न धन्विनां बाणैर्व्यथार्तमिव विह्वलम् ।
  ररास विरसं व्योम श्येनप्रतिरवच्छलात् ॥ १२ ॥

 विभिन्न मिति ॥ धन्विनां बाणैर्विभिन्नं विदीर्णम् । अत एव व्यथार्तं पीडया दुःखितम् । अत एव विह्वलम्, इतिकर्तव्यताविस्मरणाश्रयमित्यर्थः । व्योम नभः श्येनप्रतिरवस्य पक्षिविशेषप्रतिध्वनेश्छलान्मिषेण विरसं कठोरं यथा तथा ररासेव रुरोदेवेत्युत्प्रेक्षालंकारः ॥ १२ ॥

  चापैराकर्णमाकृष्टैर्विमुक्ता दूरमाशुगाः ।
  आधावन्रुधिरास्वादलुब्धा इव रणैषिणाम् ॥ १३ ॥

 चापैरिति ॥ आकर्णं कर्णपर्यन्तमाकृष्टै रणैषिणां योद्धॄणां संबन्धिभिश्चापैर्धनुर्भिर्विमुक्ता विसृष्टा आशुगाः शरा रुधिरास्वादे लुब्धा लम्पटा इव दूरमधावन्विद्रुताः । लम्पटोऽपि भोजनास्वादाय द्रुतं पलायते तद्वत् ॥ १३ ॥

  गृहीताः पाणिभिर्वीरैर्विकोशाः खड्गराजयः ।
  कान्तिजालच्छलादाजौ व्यहसन्संमदादिव ॥ १४ ॥

 गृहीता इति ॥ आजौ सङ्ग्रामे वीरैः कर्तृभिः । पाणिभिर्गृहीताः । तथा विकोशाः कोशरहिताः । 'कोशोऽस्त्री कुड्मले पाले दिव्यखड्गपिधानके' इति मेदिनी । खड्गराजयः करवालपतयः कान्तिजालच्छलाद्दयुतिसमूहकैतवेन संमदाद्वीराणामपि शत्रुविघातसाधने वयमेव यथोचितास्तथा नान्य इति प्रमोदाद्व्यहसन्निव जहसुरिवेत्युत्प्रेक्षा ॥ १४ ॥

  खड्गाः शोणितसंदिग्धा नृत्यन्तो वीरपाणिषु ।
  रजोघने रणेऽनन्ते विद्युतां वैभवं दधुः ॥१५॥

 खड्गा इति ॥ शोणितसंदिग्धा रुधिरसंलिप्ताः । तथा वीरपाणिषु नृत्यन्तः खड्गाः। रजसा घने सान्द्रे । तथानन्तेऽपारे रणे विद्युतां वैभवं दधुः, तद्वच्छुशुभिर इत्यर्थः । अत्र पदार्थवृत्तिनिदर्शनालंकारः ॥ ५५ ॥

पाठा०-१ यथार्थमिव विह्वलम् ; वेश्याया इव विह्वलम् ; विशाख इव विह्वली. २ सेनापतिरवच्छलात् ; सेनापतिरिव च्छलात्. ३ कान्तिजालच्छलादाजौ

व्यहसन्समदा इव; कान्त्याननच्छलादाजेर्व्यहसन्सुमदा इव; कान्त्या जनच्छलादानैर्व्यहसन्प्रमदा इव. ४ रजोघनरणे. ५ विभ्रमम्.

  कुन्ताश्चकाशिरे चण्डमुल्लसन्तो रणार्थिनाम् ।
  जिह्वाभोगा यमस्येव लेलिहाना रणाङ्गणे ॥ १६ ॥

कुन्ता इति ॥ रणाङ्गणे सङ्ग्रामचत्वरे चण्डं प्रचण्डं यथा तथोल्लसन्तो दीप्यमानाः कुन्ताः प्रासाः, भल्ला इति यावत् । 'कुन्तः प्रासे चण्डभावे क्षुद्रजन्तौ गवेधुके' इति विश्वः । लेलिहानाः पुनःपुनरतिशयेन वा लिहन्ति ते लेलिहानाः, आस्वादयन्त इत्यर्थः । लिहेर्यङन्ताच्छानच् । यमस्य जिह्वाभोगा इव रसनारूपयन्त्राणीव । 'आभोगो वरुणच्छन्ने पूर्णतायन्त्रयोरपि' इति विश्वः । चकाशिरे दिद्युतिरे ॥ १६॥

  प्रज्वलत्कान्तिचक्राणि चक्राणि वरचक्रिणाम् ।
  चण्डांशुमण्डलश्रीणि रणव्योमनि बभ्रमुः ॥ १७ ।।

 प्रज्वलदिति ॥ प्रज्वलत्प्रदीप्यमानं कान्तिचक्रं द्युतिमण्डलं येषां तानि । तथा चण्डांशुमण्डलस्य सूर्यमण्डलस्य श्रीरिव श्रीः शोभा येषां तानि । वराः श्रेष्ठा ये चक्रिणो योधास्तेषां संबन्धीनि चक्राण्यायुधविशेषाः । 'चक्रो गणे चक्रवाके चक्रं सैन्यरथाङ्गयोः । ग्रामजाले कुलालस्य भाण्डे राष्ट्रास्त्रयोरपि' इति विश्वः । रणव्योमनि सङ्ग्रामरूपगगने बभ्रमुः । 'वा जभ्रमुत्रसाम्' ( पा. ६।४।१२४ ) इत्येत्वाभ्यासलोपयोर्विकल्पः । व्याख्यानान्तरम्-वरचक्रिणां वराणां वीराणां ये चक्रिणो रथास्तेषां चक्राण्यङ्गानि रणव्योमनि बभ्रमुः । विशेषणद्वयमुभयत्रापि समानम् ॥ १७ ॥

  केचिद्धीरैः प्रणादैश्च वीराणामभ्युपेयुषाम् ।
  निपेतुः क्षोभतो वाहादपरे मुमुहुर्मदात् ।। १८ ।।

 केचिदिति ॥ अभ्युपेयुषां संमुखमागतवतां वीराणां धीरैर्गम्भीरैः प्रणादैर्गर्जितैः केचिद्वीराः क्षोभतश्चित्तसंचलनाद्धेतोर्वाहादश्वान्निपेतुर्मुमूर्च्छुः । अपरे केचिन्मदाद्गर्वान्मुमुहुः, चेतनाविरहिता बभूवुरित्यर्थः ॥ १८ ॥

पाठा०-१ रणार्पिताः. २ जिह्वाभागा. ३ रणक्षये; रणाजिरे, ४ वक्राणि.

५ चण्डेषुमण्डल. ६ घोरैः. ७ तु. ८ वाहा न.

  कश्चिदभ्यागते वीरे जिघांसौ मुदमादधौ ।
  परावृत्य गते क्षुब्धे विषसादाहवप्रियः ॥१९॥

 कश्चिदिति ॥ कश्चिद्वीरो जिघांसौ हन्तुमिच्छौ वीरेऽभ्यागते संमुखमागते सति । मुदमादधौ प्रससाद । अथ च क्षुब्ध एतदीयप्रहारक्षुभितेऽत एव परावृत्य गते तु विषसाद खिन्नोऽभूत् । यत आहवप्रियः सङ्ग्रामप्रियः । वीराणां प्रतिद्वन्द्विसंमुखागमनमेव प्रोतिजनकं भवतीति भावः ॥ १९ ॥

  बहुभिः सह युद्ध्वा वा परिभ्रम्य रणोल्बणाः ।
  उद्दिश्य तानुपेयुः केऽपि ये पूर्ववृता रणे ॥ २० ॥

 बहुभिरिति ॥ रण उल्बणा उद्भटाः केऽपि योधा रणे सङ्ग्रामे बहुभिः सह युद्ध्वा परिभ्रम्य वा तानुद्दिश्योपेयुर्युद्धार्थमभिजग्मुः । ये पूर्वं वृता अङ्गीकृताः । यैः सह पूर्वमयोधि तैरेव सह पुनरपि योद्धुं जग्मुरित्यर्थः ॥ २० ॥

  अभितोऽभ्यागतान्योद्धुं वीरान्रणमदोद्धतान् ।
   प्रत्यनन्दन्भुजादण्डरोमोद्गमभृतो भटाः ॥ २१ ॥

अमित इति ॥ भुजादण्डेषु यो रोम्णामुद्गमस्तं विभ्रति तथाभूता भटा योधाः कर्तारः रणस्य सङ्ग्रामस्य मदनोद्धतान् । अत एव योद्धुमभितोऽभ्यागतान्वीरान् , आलोक्येति शेषः । प्रत्यनन्दन्नहृष्यन् ॥ २१ ॥

  शस्त्रभिन्नेभकुम्भेभ्यो मौक्तिकानि च्युतान्यधः ।
  अध्याहवक्षेत्रमुप्तकीर्तिबीजाङ्कुरश्रियम् ॥ २२ ॥

 शस्त्रेति ॥ शस्त्रभिन्ना विदीर्णा य इभकुम्भा गजगण्डस्थलानि । 'कुम्भः स्थाकुम्भकर्णस्य सुते वेश्यापतौ घटे । राशिभेदे द्विपाङ्गे च' इति विश्वः । तेभ्योऽधः युतानि मौक्तिकानि कर्तॄणि । अध्याहवक्षेत्रमधिसङ्ग्रामकेदारम् । उप्तम् । पाठा०-१ क्षुब्धः; क्षुद्रे. २ सहयुध्वानः. ३ नामग्राहमुपेयुः केऽप्यग्रे पूर्ववृता वयम्. ४ अप्यागतान्. ५ योधी. ६ मदोल्बणान् ; मदोद्धताः. ७ प्रत्यघ्नंस्तद्भुजादण्डे रोमोद्गमभृतो मदात्. ८ अधुः. ९ आहवक्षेत्रमभ्युप्तकीर्तिबीजोत्करश्रियम्, 'टुवप् बीजसंताने' इत्यतो निष्ठा । यत्कीर्तिबीजं यशोरूपमहीरुहबीजं तस्याङ्कुरस्तस्य श्रियं शोभाम्, दधुरिति शेषः ॥ २२ ॥

  वीराणां विषमैर्घोषैर्विद्रुता वारणा रणे ।
  शास्यमाना अपि त्रासाद्भेजुर्धूताङ्कुशा दिशः ॥ २३ ॥

 वीराणामिति ॥ रणे विषमैर्दुःसहैर्वीराणां घोषैर्विद्रुताः पलायिता वारणा गजाः शास्यमानाः शिष्यमाणा अपि, यन्तृभिरिति शेषः । धूताङ्कुशा अपमानिताङ्कुशाः सन्तस्त्रासाद्दिशो भेजुः । तॄफलभज-' (पा. ६।४।१२२ ) इत्येत्वाभ्यासलोपौ । दिशः प्रति पलायांचक्रिरे ॥ २३ ॥

  रणे बाणगणैर्भिन्ना भ्रमन्तो भिन्नयोधिनः ।
  निममज्जुर्मिलद्रक्तनिम्नगासु महागजाः ॥ २४ ॥

 रण इति ॥ रणे सङ्ग्रामे बाणगणैः शत्रुशरनिकरैर्भिन्नयोधिनो विदीर्णयन्तारः । अत एव स्वयमपि भिन्ना अत एव भ्रमन्तो महागजा मिलन्त्यः संयुजन्त्यो या रक्तस्य निम्नगा नद्यस्तासु निममज्जः ॥ २४ ॥

  अपारेऽसृक्सरित्पूरे रथेषूच्चैस्तरेष्वपि ।
  रथिनोऽभिरिपुं क्रुद्धा हुंकृतैर्व्यसृजञ्शरान् ॥ २५ ॥

 अपार इति ॥ उच्चस्तरेष्वपि रथेष्वपारेऽगाधेऽसृक्सरित्पूरे रुधिरनदीप्रवाहे मजत्सु सत्सु रथिनो रथारोहाः क्रुद्धाः । अत एव हुंकृतैः, भीषयन्त इति शेषः । अभिरिपुं शत्रुसंमुखं शरान्व्यसृजन्तत्यजुः ॥ २५ ॥

  खड्गनिर्लूनमूर्धानो व्यापतन्तोऽपि वाजिनः ।
  प्रथमं पातयामासुरसिना दारितानरीन् ॥ २६ ॥

 खड्गेति ॥ खड्गनिर्लूनमूर्धानः करवालकृत्तशिरसः । अत एव वाजिनोऽश्वाद्यापतन्तोऽप्यसिना खड्गेन दारितान्विदीर्णानरीन् प्रथमं पातयामासुः, पुनः स्वयं पेतुरिति शेषः । अत्र 'दारयित्वासिना रिपून्' इति पाठः साधीयान् ॥ २६ ॥

पाठा०-१ गलत्. २ निमग्नाः सुमहागजाः. ३ अपरेऽस्रसरित्पूरे. ४ अभिरथि क्रुद्धा हुंकृतैः; अभिक्रुधा क्रुद्धहुंकृतैः. ५ व्यापतन्तः.

२२ कु. सं.

  वीराणां शस्त्रभिन्नानि शिरांसि निपतन्त्यपि ।
  अधावन् दन्तदष्टोष्ठभीमान्यभिरिपुं क्रुधा ॥ २७ ॥

 वीराणामिति ॥ शस्त्रभिन्नान्यत एव निपतन्त्यपि दन्तैर्दष्टाः पीडिता य ओष्ठा अधरास्तैर्भीमानि घोराणि वीराणां शिरांसि क्रुधाऽभिरिपुं वैरिसंमुखमधावन् ॥२७॥

  शिरांसि वरयोधानामर्धचन्द्रहृतान्यलम् ।
  आदधाना भृशं पादैः श्येना व्यानशिरे नभः ॥ २८ ॥

 शिरांसीति ॥ अर्धचन्द्रहृतान्यर्धचन्द्राकारबाणकर्तितानि वरयोधानां शिरांसि। पादैरादधाना गृह्णन्तः श्येनाः पक्षिविशेषा भृशमतिशयेन नभो व्यानशिरे न्यापुः । सर्वस्मिन्नेव नभसि श्येननीतमस्तकान्येव जातानीति भावः ॥ २४ ॥

  क्रोधादभ्यापदद्दन्तिदन्तारूढाः पदातयः ।
  अश्वारोहा गजारोहप्राणान्प्रासैरपाहरन् ॥ २९ ॥

 क्रोधादिति ॥ पदातयः पद्गतयोऽश्वारोहाश्च क्रोधाद्धेतोरभ्यापततां संमुखमागच्छतां दन्तिनां दन्तेष्वारूढाः सन्तः । प्रासैः कुन्तैर्गजारोहप्राणान् यन्तॄणामसूनपाहरन् ॥ २९॥

  शस्त्रच्छिन्नगजारोहा विभ्रमन्त इतस्ततः ।
  युगान्तवातचलिताः शैला इव गजा बभुः ॥ ३० ॥

 शस्त्रेति ॥ शस्नैश्छिन्ना गजारोहा येषामत एवेतस्ततो विभ्रमन्तो गजाः । युगान्तवातैः प्रलयप्रभञ्जनैश्चलिता उत्पातिताः शैला इव बभुः शुशुभिरे ॥ ३० ॥ मिलितेषु मिथो योद्धुं दन्तिषु प्रसभं भटाः । अगृह्णन् युध्यमानाश्च शस्त्रैः प्राणान्परस्परम् ॥ ३१ ॥ मिलितेष्विति ॥ योद्धुं मिलितेषु दन्तिषु, आरूढा इति शेषः । भटा मिथोऽन्योन्यं युध्यमानाः प्रसभं बलाच्छस्त्रैः कृत्वा परस्परं प्राणानगृह्णन् ॥३१॥ पाठा०-१ भिन्नानाम्. २ दन्तदष्टौष्ठभीषणान्यरिषु. ३ अपि. ४ आददानाः. ५ दिशः.६ दन्तारूढेषु वाजिषु; दन्तारूढा नृवाजिषु. ७ अक्षारूढाः. ८

सहयुध्वानः.

  रुषा मिथो मिलद्दन्तिदन्तसंघर्षजोऽनलः ।
  योधाञ्शस्त्रहृतप्राणानदहत्संहसारिभिः ॥ ३२ ॥

 रुषेति ॥ रुषा क्रोधेन मिथोऽन्योन्यं मिलतां दन्तिनां ये दन्तास्तेषां संघर्षाज्जातोऽनलोऽग्निररिभिर्वैरिभिः शस्त्रैर्हताः प्राणा येषां तान्योधान् सहसाऽकस्माददहत्पुप्लोष ॥ ३२ ॥

  आक्षिप्ता अपि दन्तीन्द्रः कोपनैः पत्तयः परम् ।
  तदसूनहरन् खड्गघातः स्वस्य पुरः प्रभोः ॥ ३३ ॥

आक्षिप्ता इति ॥ परमतिशयितं कोपनैः क्रुद्वैर्दन्तीन्द्रैराक्षिप्ता अपि, आक्षेप्तुं शुण्डेन गृहीता अपीत्यर्थः । पत्तयः पादचारिणः स्वस्य प्रभोः पुरः खड्गघातैस्तदसून् दन्तीन्द्रप्राणानहरञ्जगृहुः ॥ ३३ ॥

  उत्क्षिप्य करिभिर्दूरान्मुक्तानां योधिनां दिवि ।
  प्रापि जीवात्मभिर्दिव्यां गतिर्वा विग्रहैर्मही ॥ ३४ ॥

 उत्क्षिप्येति ॥ करिभिरुत्क्षिप्योत्थाप्य दिवि दूरान्मुक्तानां योधिनां जीवात्मभिर्जीवैः, प्राणैरिति यावत् । दिव्या स्वर्गीया गतिः प्रापि । विग्रहैर्देहैर्मही वा प्रापि प्राप्ता । कर्मणि लुङ्॥ ३४ ॥

  खङ्गैर्धवलधारालैर्निहत्य करिणां करान् ।
  तैर्भुवापि समं विद्वान्संतोषं न भटा ययुः ॥ ३५ ॥

 खङ्गैरिति ॥ भटा योधा धवलधारालैर्धवलां धारां लान्ति गृह्णन्ति तैः, शुभ्रधारैरित्यर्थः । अद्वितीयैः खड्गैः कृत्वा भुवा पृथिव्या समं विद्धान्प्रहृतान्करिणां कराञ्शुण्डादण्डान्निहत्यापि लवित्वापि संतोषं तृप्तिं न ययुः, अन्यानपि निहन्मीति बुद्धिमन्तो बभूवुरित्यर्थः ॥ ३५ ॥

पाठा०-१ गजारूढान्. २ सह सादिभिः. ३ उत्क्षिप्ता. ४ हस्तीन्द्रः, ५ करैः. ६ ते रिपूनहनन् ; तद्रिपूनहरन्, ७ खड्गपातैः. ८ दूरम्. ९ दिवः. १० दिव्याङ्गनाकण्ठपरिग्रहः; दिव्याङ्गनैषां विग्रहैर्मही. ११ यैर्भुवा. १२ वृद्धं शस्त्र्या

तान्पत्तयोऽहरन्.

  आक्षिप्याभिदिवं नीताः पत्तयः करिभिः करैः ।
  दिव्याङ्गनाभिरादातुं रक्ताभिर्द्रुतमीषिरे ॥ ३६ ॥

 आक्षिप्येति ॥ करिभिः कर्तृभिः । करैर्दण्डैः कृत्वाक्षिप्योत्थाप्याभिदिवमाकाशसंमुखं नीताः प्रापिताः पत्तयः पादचारिणो रक्ताभिरनुरक्ताभिर्दिव्याङ्गनाभिर्द्रुतं शीघ्रमादातुं ग्रहीतुमीषिरे इष्टा बभूवुः । ‘अहमेतान्ग्रहीष्यामि, अहमेतान्ग्रहीष्यामि' इति त्वरिता बभूवुः ॥ ३६ ।।

  धन्विनस्तुरगारूढा गजारोहाञ्शरैः क्षतान् ।
  प्रत्यैच्छन्मूर्च्छितान्भूयो योद्धुमाश्वसतश्चिरम् ॥ ३७॥

 धन्विन इति ॥ तुरगारूढा धन्विनो धनुर्धारिणो योधाः शरैः क्षतान् । अत एव मूर्च्छितान्गजारोहान्यन्तॄन् भूयोऽपि पुनरपि योद्धुमाश्वसतो जीवत एतादृशांश्चिरं प्रत्यैच्छन् , प्रतीक्षन्ते स्मेत्यर्थः ॥ ३७॥

 क्रुद्धस्य दन्तिनः पत्तिर्जिघृक्षोरसिना करम् ।
 निर्भिद्य दन्तमुसलावारुरोह जिघृक्षया ॥ ३८ ॥

 क्रुद्धस्येति ॥ पत्तिः पादचारी कश्चिद्योधः क्रुद्वस्यात एव जिघृक्षोर्ग्रहीतुमिच्छोर्दन्तिनः करं दन्तगोरधोभागम् । असिना निर्भिद्य छित्त्वा जिघृक्षया प्रत्युत तस्यैव ग्रहीतुमिच्छया दन्तमुसलावारुरोहारूढवान् ॥ ३८ ॥

  खड्गेन मूलतो हत्वा दन्तिनो रदनद्वयम् ।
  प्रातिपक्ष्ये प्रविष्टोऽपि पदातिर्निरगाद्रुतम् ।। ३९ ॥

 खड्गेनेति ॥ प्रातिपक्ष्ये शत्रुसंवन्धिनि सैन्ये प्रविष्टोऽपि पदातिः पादचारी दन्तिनो गजस्य रदनद्वयं दन्तद्वयं खड्गेन कृत्वा मूलतो मूलाद्धत्वा भित्त्वा द्रुतं निरगान्निश्चक्राम । शत्रुसैन्यप्रविष्टस्य मरणमेव ध्रुवम् , तदस्य विपरीतमभूदित्यपिना द्योत्यते ॥ ३९॥

  करेण करिणा वीरः सुगृहीतोऽपि कोपिना ।
  असिनासूञ्जहाराशु तस्यैव स्वयमक्षतः ॥ ४० ॥

पाठा०-१ उत्क्षिप्य. २ वृतमम्बरम् ; व्याप्तमम्बरम्. ३ प्रत्यैक्षन्. ४ करिणः. ५ दन्तमुसलान् ; दन्तमुसलेन. ६ आमूलतः. ७ अङ्गिचतुष्टयम्. ८ प्रपतिष्णोः.  करेणेति ॥ कोपिना क्रुद्धेन करिणा दन्तिना कर्त्रा । करेण कृत्वा सुतरां गृहीतोऽपि वीरोऽसिना खड्गेन तस्यैव करिण एवासून्प्राणाञ्जहार हृतवान् । स्वयमक्षतोऽभूत् ॥४०॥

  तुरंगी तुरगारूढं प्रासेनाहत्य वक्षसि ।
  पततस्तस्य नाज्ञासीत् प्रासघातं स्वके हृदि ॥४१॥

 तुरंगीति ॥ तुरंग्यश्वारोहः कश्चिद्योद्धा तुरगारूढमश्ववारं प्रासेन कुन्तेन वक्षस्याहत्य ताडयित्वा पततस्तस्याश्ववारस्य कर्तृकं स्वक आत्मीये हृदि प्रासघातं कुन्तक्षतं नाज्ञासीन्न विजज्ञे, तदीयपतनजानन्दस्योद्वेलत्वादिति भावः ॥४१॥

  द्विषा प्रासहतप्राणो वाजिपृष्ठदृढासनः ।
  हस्तोद्धृतमहाप्रासो भुवि जीवन्निवाभ्रमत् ॥ ४२ ॥

 द्विषेति ॥ द्विषा शत्रुणा प्रासेन कृत्वा हृतप्राणो मारितः । तथा वाजिपृष्ठेऽश्वपृष्ठभागे दृढासनः । प्राग्दृढासनत्वान्मृतत्वे दृढत्वं युक्तम् । तथा हस्त उद्धृतो महाप्रासो येन तथाभूतः कश्चिज्जीवन्निव भुव्यभ्रमत्, अश्वभ्रमणवशाद्भ्रमञ्शवोऽशव इव लक्षित इति भावः ॥ ४२ ॥

  तुरंगसादिनं शस्त्रहृतप्राणं गतं भुवि ।
  अबद्धोऽपि महावाजी न साश्रुनयनोऽत्यजत् ॥ ४३ ॥

 तुरंगेति ॥ अबद्धोऽप्यनिरुद्धोऽपि महावाजी महानश्वः साश्रुणी सबाष्पे नयने यस्य तथाभूतः सन् । शस्त्रहृतप्राणमत एव भुवि गतं तुरंगसादिनमश्ववारं नात्यजन्न जहौ, किंतु तज्जीवनमपेक्षमाणस्तत्रैव तस्थावित्यर्थः ॥ ४३ ॥

  भल्लेन शितधारेण भिन्नोऽपि रिपुणाश्वगः ।
  नामूर्च्छत् कोपतो हन्तुमियेष प्रपतन्नपि ।। ४४ ॥

 भल्लेनेति ॥ रिपुणा कर्त्रा । शितधारेण तीक्ष्णधारेण भल्लेन भिन्नोऽपि

पाठा०-१ तुरगी. २ प्रासपातम्. ३ हस्तोद्धतमहाप्रासाः, ४ भटः, ५ अभवत्. ६ अन्त्राढ्यः; अन्त्राद्यः. ७ नात्रस्तनयनः, ८ खड्गेन. ९ च पतन् ; निपतन, विदारितोऽप्यश्वगस्तुरंगगामी कोपतः क्रोधवशानामूर्च्छन्न मुह्यति स्म, किंतु प्रपतन्नप्यश्वादधः स्रंसमानोऽपि रिपुं हन्तुमियेषैच्छत् ॥ ४४ ॥

  मिथःप्रासाहतौ वाजिच्युतौ भूमिगतौ रुषा ।
  शस्त्र्या युयुधतुः कौचित्केशाकेशि भुजाभुजि ॥ ४५ ॥

 मिथ इति ॥ मिथोऽन्योन्यं प्रासेनाहतौ । अत एव वाजिभ्यां सकाशाच्च्युतावधः पतितौ । अत एव भूमिं गतौ कौचिद्योधौ रुषा युतौ सन्तौ शस्त्र्या खड्गपुत्र्या युयुधतुर्ययुधाते । अथ च केशाकेशि केशेषु केशेषु गृहीत्वा प्रवृत्तं यद्युद्धम् , भुजाभ्यां भुजाभ्यां प्रहृत्य प्रवृत्तं यद्युद्धं तदभूत् । 'तत्र तेनेदमिति सरूपे' ( पा. २।२।२७) इति सूत्रेण समासः ॥ ४५ ॥

  रथिनो रथिभिर्बाणैर्हतप्राणा दृढासनाः।
  क्षतकार्मुकसंधानाः सप्राणा इव मेनिरे ॥४६॥

 रथिन इति ॥ रथिभी रथारोहैः कर्तृभिः । बाणैः कृत्वा हृतप्राणास्तथा दृढासनाः क्षतं नष्टं कार्मुकसंधानं धनुःसज्जीकरणं येषामेवंभूता रथिनो रथारोहाः सप्राणा इव जीवन्त इव मेनिरे मताः। कर्मणि लिट् । द्रष्टृभिरिति शेषः ॥ ४६॥

  न रथी रथिनं भूयः प्राहरच्छस्त्रमूर्ञ्छितम् ।
  प्रत्याश्वसन्तमन्विच्छन्नातिष्ठद्युधि लोभतः ॥४७॥

 नेति ॥ रथी रथारोहः शस्त्रेण मूर्च्छितमचेतितं रथिनं भूयो न प्राहरत् । किंतु पुनरपि युधि लोभतो लोभेन । तृतीयार्थे तसिः। प्रत्याश्वसन्तं पुनरुज्जीवन्तमन्विच्छन्नपेक्षमाणः सन्नतिष्ठत् ॥ ४७ ॥

  अन्योन्यं रथिनौ कौचिद्गतप्राणौ दिवङ्गतौ ।
  एकामप्सरसं प्राप्य युयुधाते वरायुधौ ॥४८॥

 अन्योन्यमिति ॥ वरायुधौ श्रेष्ठायुधौ कौचिद्रथिनावन्योन्यं परस्परेण कृत्वा

पाठा०-१ प्रासहतौ; प्रहारतः. २ शस्त्रैः. ३ कृत. ४ रेजिरे. ५ मत्वैनम्. ६ नागाद्युद्धमलोमतः. ७ हृतप्राणौ; हतप्राणो. गतप्राणौ गमितासू अत एव दिवङ्गतावेकामप्सरसं प्राप्य युयुधाते । 'अहमेतां ग्रहीष्यामि, अहमेतां ग्रहीष्यामि' इति वदन्तौ कलहं चक्रतुरित्यर्थः ॥ ४८ ॥

  मिथोऽर्धचन्द्रनिर्लूनमूर्धानौ रथिनौ रुचा।
  खेचरौ भुवि नृत्यन्तौ स्वकबन्धावपश्यताम् ॥ ४९ ॥

 मिथ इति ॥ मिथोऽन्योन्यमर्धचन्द्रेण तदाकारबाणेन निर्लूनमूर्धानौ छिन्नमस्तकावत एव खेचरावाकाशचारिणौ रुचा कान्त्या युतौ कौचिद्रथिनौ रथारोहौ कर्तारौ । भुवि नृत्यन्तौ गात्रं विक्षिपन्तौ स्वकबन्धौ शिरोरहितस्वदेहौ कर्म । अपश्यतां दृष्टवन्तौ ॥ ४९ ॥

  रणाङ्गणे शोणितपङ्कपिच्छिले कथंकथंचिन्ननृतुर्धृतायुधाः।
  नदत्सु तूर्येषु परेतयोषितां गणेषु गायत्सु कबन्धराजयः ५०

 रणेति ॥ तूर्येषु नदत्सु सत्सु, परेतयोषितां भूताङ्गनानां गणेषु गायत्सु सत्सु, सायुधाः कबन्धराजयः शिरोरहितदेहपतयः शोणितपङ्कपिच्छिले रुधिरकर्दमलिप्ते । अनेन स्निग्धत्वमुक्तम् । रणाङ्गणे सङ्ग्रामचत्वरे कथंकथंचिन्महता कष्टेन ननृतुर्गानं विचिक्षिपुः, भूमेरतिस्निग्धतया पादयोः स्थैर्येण स्थापनासंभवान्नृत्ये प्रयत्नो योग्य इति भावः । एषां श्लोकानां स्फुटार्थत्वाद्विस्तरेण विवृतिर्नोक्ता । प्रसङ्गाद्वक्तव्यनिर्धारणेन लाघवाद्यवारि । अतः क्षन्तव्यमित्यलम् । उपजातिर्वृत्तम् ॥ ५० ॥

  इति सुररिपुर्वृत्ते युद्धे सुरासुरसैन्ययो
   रुधिरसरितां मञ्जद्दन्तिव्रजेषु तटेष्वलम् ।
  अरुणनयनः क्रोधाद्भीमभ्रमद्भृकुटीमुखः
   सपदि ककुभामीशानभ्यागमत्स युयुत्सया ॥ ५१ ॥

 इतीति ॥ इति पूर्वोक्तप्रकारेण सुरासुरसैन्ययोर्देवदैत्यसैन्ययोर्युद्धे सङ्ग्रामे वृत्ते भूते सति । तथा रुधिरसरितां शोणितनदीनां तटेषु मज्जन्तो निमग्नीभवन्तो दन्तिव्रजा गजसमूहा येषु तथाभूतेषु सत्सु । अलमतिशयेन क्रोधाद्धेतो-

पाठा०-१ रुषितौ. २ रुषा. ३ खचरैः. ४ शोभित. ५ क्रोधापीनभ्रमद्भुकुटीमुखः, क्रोधासीनभ्रमद्भुकुटीमुखः. ररुणनयनो रक्तलोचनः । तथा भीमे भयानके भ्रमती विवर्तमाने भृकुटीमुखे भृकुट्योरग्रे यस्य तथोक्तः स सुररिपुस्तारको युयुत्सया योद्धुमिच्छया सपदि तत्क्षणमेव ककुभां दिशामीशानिन्द्रादीनष्टदिक्पालानभ्यागमत्संमुखमाजगाम । हरिणी वृत्तम् ; 'रसयुगहयैन्सौ म्रौ स्लौ गो यदा हरिणी तदा' इति लक्षणात् ॥५१॥

इति श्रीपर्वणीकरोपनामकश्रीलक्ष्मणभट्टात्मजसतीगर्भसंभवश्रीसीताराम-
कविविरचितया संजीविनीसमाख्यया व्याख्यया समेतः
श्रीकालिदासकृतौ कुमारसंभवे महाकाव्ये सुरासुर-
सैन्यसङ्ग्रामवर्णनं नाम षोडशः सर्गः ॥

सप्तदशः सर्गः

इदानीं तारकवधं चिकीर्षुस्तत्रभवान्कालिदासः सप्तदशतमं सर्गमारभते-

  दृष्ट्वाभ्युपेतमथ दैत्यपतिं पुरस्ता-
   त्सङ्ग्रामकेलिकुतुकेन घनप्रमोदम् ।
  योद्धुं मदेन मिमिलुः ककुभामधीशा
   बाणान्धकारितदिगम्बरगर्भमेत्य ॥१॥

 दृष्ट्वेति ॥ अथ तारकसंमुखगमनानन्तरम् । एते ककुभामधीशा इन्द्रादयोऽष्टौ दिक्पालाः । सङ्ग्रामः समरः, स एव केलिः क्रीडा, न तु प्रयत्नसाध्यं कर्मेति भावः । तत्र यत्कुतुकं कौतूहलम् , तदनुभवहेतुक उत्साह इति यावत् । तेन घनः सान्द्रः, बहल इति यावत् । यः प्रमोद आनन्दः स यस्य । तथा बाणैरन्धकारितः संजातान्धकारी कृतो दिशामम्बरस्य च गर्भः कुक्षिः, मध्य इति यावत् । येन । तथाऽभ्युपेतं संमुखमागतं दैत्यपतिं तारकं दृष्ट्वा विलोक्य योद्धुं संप्रहर्तुं मदेन गर्वेण, वीररसानुभावेनेति यावत् । मिमिलुः संयुयुजुः । सर्गेऽस्मिन्वसन्ततिलका वृत्तम् ; 'उक्ता वसन्ततिलका तभजा जगौ गः' इति लक्षणात् ॥१॥

पाठा०-१ तं च पतिम्. २ प्रसादम्. ३ भक्तिम्.

  देवद्विषां परिवृढो विकटं विहस्य
   बाणावलीभिरमरान्विकटान्ववर्ष ।
  शैलानिव प्रवरवारिधरी गरिष्ठा-
   नद्भिः पराभिरथ गाढमनारताभिः ॥२॥

 देवेति । अथानन्तरं देवद्विषामसुराणां परिवृढो नायकस्तारको विकटं यथा स्यात्तथा । 'विकटः सुन्दरे प्रोक्तो विशालविकरालयोः' इति विश्वः । विहस्य हसित्वा, अट्टाट्टहासं कृत्वेत्यर्थः । अट्टाट्टहासोऽत्र रुडभिव्यञ्जकः, न तु सुरसैन्यविषयिणोऽवहेलनस्य । तत्र शांकरेरधिष्ठितत्वात् । विहस्येत्यत्र वेर्व्यर्थत्वं नाशङ्कनीयम् , विकटत्वेऽपि विशेषाधानात् । प्रवरः प्रकर्षेण श्रेष्ठः, वर्षाकालिक इति यावत् । स चासौ वारिधरो मेघो गरिष्ठातिशयगुरूञ्शैलान् , उद्दिश्येति शेषः । पराभिरुत्कृष्टाभिरनारताभिर्निरन्तरं पतन्तीभिरद्भिर्जलैरिव विकटान्करालानमरानिन्द्रादिदेवान् , उद्दिश्येति शेषः । बाणावलीभिः शरपङ्क्तिभिः कृत्वा ववर्ष वृष्टिमकार्षीत् ॥ २ ॥

  जम्भद्विपत्प्रभृतिदिक्पतिचापमुक्ता
   बाणाः शिता दनुजनायकबाणसङ्घान् ।
  अह्नाय तार्क्ष्यनिवहा इव नागपूगान्
   सद्यो विचिच्छिदुरलं कणशो रणान्ते ॥३॥

 जम्भद्विपदिति ॥ दनुजानां दैत्यानां नायकस्य स्वामिनस्तारकस्य संबन्धिनो बाणसङ्घाञ्शरसमूहान्कर्मभृतान् । जम्भद्विषत्प्रभृतयो महेन्द्रादयो ये दिक्पतयो दिगधिपास्तैः कर्तृभिः । चापेभ्यो मुक्ता विसृष्टाः शितास्तीक्ष्णा बाणाः शराः। नागपूगान्सर्पव्रजान् । 'नागः पन्नगमातङ्गकराचारिषु तोयदे' इति, 'पूगस्तु क्रमुके वृन्दे' इति च विश्वः । अह्नाय शीघ्रम् । 'द्राग्झटित्यञ्जसाह्नाय' इत्यमरः। तार्क्ष्यनिवहा गरुडसमूहा इव । 'तार्क्ष्यं रसाञ्जने तार्क्ष्यो गरुडे गरुडाग्रजे' इति

पाठा०-१ अभितः कुपितो ववर्ष. २ प्रवलवारिधरो गरिष्ठानम्भस्ततीभिः. प्रबलवारिधरोपरिष्टानम्भस्तटीभिः; प्रचुरवारिधरो गरिष्ठानम्भस्ततीभिः, ३ शितान्. ४ असुरराजकबाण. विश्वः । रणान्ते सङ्ग्राममध्ये सद्यः सपद्यलमतिभयेन कणशो विचिच्छिदुर्बिभिदुः । कणश इति 'बह्वल्प-' ( पा. ५।४।७२) इति शस् ॥ ३ ॥

  तान्प्रज्वलत्फलमुखैर्विर्षमैः सुरारि-
   नामाङ्कितैः पिहितदिग्गगनान्तरालैः ।
  आच्छादितस्तृणचयानिव हव्यवाह-
   श्चिच्छेद सोऽपि सुरसैन्यशराञ्शरौघैः ॥ ४ ॥

 तानीति ॥ सोऽपि तारकोऽपि प्रकर्षेण ज्वलन्ति दीप्यमानानि फलानां फलकानाम् , अयोनिर्मितपुरोभागानामिति यावत् । 'फलं हेतुकृते जातीफले फलकसस्ययोः' इति मेदिनी । मुखान्यग्राणि येषाम् । अत एव विषमैर्दुःसहैः । तथा सुरारिनाम्ना तारक इति वर्णपाठ्याङ्कितैर्युक्तः । तथा पिहितमाच्छादितं दिशां गगनस्याम्बरस्य चान्तरालं मध्यं यैस्तथाभूतैः शरौघैर्बाणसङ्घैः कृत्वा तानद्वितीयान् सुरसैन्यस्य देवसैन्यस्य शरान् । आच्छादित उपर्यावृतो हव्यवाहोऽग्निस्तृणचयानिव घासराशीनिव । चिच्छेद, ज्वालयति स्मेत्यर्थः । हव्यवाहस्य तृणचयभस्मीकरणे यावान्प्रयत्न उद्भवति तावानेव सुरशरभस्मसात्करणे । इत्यतोऽसुरबाणानां सामर्थ्यातिशयो ध्वन्यत इत्यलंकारेण वस्तुध्वनिः ॥ ४ ॥

  दैत्येश्वरो ज्वलितरोषविशेषभीमः
   सद्यो मुमोच युधि यान्विशिखान्सहेलः।
  ते प्रापुरुद्भटभुजंगमभीमभावं
   गाढं बबन्धुरपि तांस्त्रिदशेन्द्रमुख्यान् ॥५॥

 दैत्येश्वर इति ॥ ज्वलितः प्रदीप्तो यो रोषः क्रोधः । 'कोपक्रोधामर्षरोषप्रतिधाः' इत्यमरः । तस्य विशेष आधिक्यं तेन भीमो घोरो दैत्येश्वरस्तारकः । युधि युद्धविषये सहेलः किमेतद्युद्धमित्यनादरसहितः सन् । यान्विशिखान्बाणान् । 'विशिखो लोमशे शरे' इति विश्वः । मुमोच विससर्ज । ते शराः सद्यः सपद्युद्भटा

पाठा०-१ ते; तैः. २ विशिखैः सुरारिम् ; समरेऽसुरारिम्. ३ प्राच्छादयंस्तृणचयैरिव. ४ हव्यवाहम्. ५ सहेलम्. ६ बाढम्. ७ त्रिदिवेन्द्र. विकटा ये भुजंगमाः सर्पाः, भीमा भयानकास्तदुभयभावं तदुभयत्वं प्रापुः । सत्यपि भुजंगमत्वे भीमत्वस्यैच्छिकत्वात्पृथग्व्यपदेशः । अथ च त्रिदशेन्द्रमुख्यानिन्द्रप्रभृतींस्तान्देवान्गाढं दृढं यथा तथा बबन्धुरपि । अपिरत्र प्राप्तिक्रियापेक्षया समुच्चयार्थः । 'अपि संभावनाप्रश्नशङ्कागर्हासमुच्चये' इति विश्वः । इन्द्रप्रभृतयो देवास्तारकोन्मुक्तनागपाशबद्धा बभूवुरित्यर्थः ॥ ५ ॥

  ते नागपाशविशिखैरसुरेण बद्धाः
   श्वासानिलाकुलमुखा विमुखा रणस्य ।
  दिङ्नायका बलरिपुप्रमुखाः स्मरारि-
   सूनोः समीपमगमन्विपदन्तहेतोः ॥ ६ ॥

 त इति ॥ असुरेण तारकेण नागपाशविशिखैर्नागपाशरूपबाणैः कृत्वा बद्धाः । अत एव श्वासानिलैर्निःश्वासपवनैराकुलानि व्याप्तानि मुखानि येषाम् । अत एव रणस्य विमुखाः पराङ्मुखाः, भीतस्य च रणवैमुख्यं नानुचितमिति भावः । बलरिपुप्रमुखा इन्द्रप्रभृतयो दिङ्नायका अष्टदिगधिपाः, कर्तारः। विपदोऽन्तो नाशः स एव हेतुः कारणं तस्मात्स्मरारिसूनोः कुमारस्य समीपं संनिधिमगमन्प्रापुः ॥ ६ ॥

  दृष्टिप्रपातवशतोऽपि पुरारिसूनो-
   स्ते नागपाशघनबन्धविपत्तिदुःखात् ।
  इन्द्रादयो मुमुचिरे स्वयमस्य देवाः
   सेवां व्यधुर्निकटमेत्य महाजिगीषोः ॥ ७ ॥

 दृष्टीति ॥ त इन्द्रादयो देवाः पुरारिसूनोस्त्रिपुरशत्रुपुत्रस्य दृष्टिर्नेत्रम् । 'स्त्रियां दृष्टिः स्त्रियां बुद्धौ लोचने दर्शनेऽपि च' इति विश्वः । तस्याः प्रपातः पतनं तस्य वशतो वशेन प्रभुत्वेन, प्रभावेणेति यावत् । 'वशं मिथ्याप्रभुत्वयोः' इति विश्वः । नागपाशेन घनो दृढो बन्धो बन्धनमेव विपत्तिस्तेन यद्दुःखं ततस्तस्मान्मुमुचिरे मुक्ताः । अथ च महाजिगीषोरस्य कुमारस्य स्वयमात्मना, न तु परोक्षेण निकटं सांनिध्यमेत्यागत्य सेवां सेवनम् । स्तुतिमिति फलितोऽर्थः । व्यधुश्चक्रुः ॥ ७ ॥

पाठा०-१ श्वासाकुल. २ रणान्तात्. ३ व्यधुश्च पुनरेत्य.  अथ युग्मेनाह-

  उद्दीप्तकोपदहनोऽथ सुरेन्द्रशत्रु-
   रह्नाय सारथिमवोचत चण्डबाहुः ।
  बद्धा मया सुरपतिप्रमुखाः प्रसह्य
   बालस्य धूर्जटिसुतस्य निरीक्षणेन ॥ ८ ॥

  मुक्ता बभूवुरधुना तदिमान्विहाय
   कर्तास्म्यमुं समरभूमिपशूपहारम् ।
  तत्स्यन्दनं सपदि वाहय शंभुसूनुं
   द्रष्टास्मि दर्पितभुजाबलमाहवाय ॥ ९ ॥

 उद्दीप्तेति ॥ मुक्ता इति च ॥ अथ नागपाशविमोचनानन्तरम् । उद्दीप्तः प्रदीप्तः कोप एव दहनोऽग्निर्यस्य । तथा चण्डौ प्रचण्डौ बाहू यस्य । एवंभूतः सुरेन्द्रशत्रुस्तारकोऽह्नाय झटिति 'भो सारथे ! मया प्रसह्य बलाद्बद्धा नागपाशवशीकृताः सुरपतिप्रमुखा इन्द्रादयो देवा बालस्य शिशोः, न तु यूनः, धूर्जटिसुतस्य शिवपुत्रस्य निरीक्षणेन दर्शनमात्रेण, न तु प्रत्यस्त्रादिप्रयत्नेन, मुक्ता बभूवुः । अनेन शिशुनात्मनिरीक्षणेनैव स्वपक्षवर्तिनो देवा मोचिताः, अतो महाधन्योऽयमिति भावः । तत्तस्मान्मदीयशत्रूणां पक्षवृत्तित्वेन कृतनागपाशमोचनरूपापराधादिमान् पुरोवर्तिन इन्द्रादिदेवान्विहाय परित्यज्य । आहवाय, मया सहाहवं कर्तुमित्यर्थः । दार्पितमभिमानमूलकं भुजाबलं बाहुवीर्यं यस्य, न तु तत्त्वतः, तथाभूतममुं पुरोवर्तिनं शंभुसूनुं द्रष्टास्मि द्रक्ष्यामि । लुट उत्तमैकवचनम् । अथ च समरभूमौ सङ्ग्रामभुवि ये पशवो गृध्रप्रभृतयस्तेषामुपहारमुपदारूपं कर्तास्मि करिष्यामि । प्रागवलोकितमेनमत्र हत्वा सङ्ग्रामभूमिस्थेभ्यो विहंगेभ्योऽत्तुं विभज्य दास्यामीत्यर्थः । तत्तस्माद्देवकार्यत्वात् सपदि सद्य एव स्यन्दनं रथं वाहय प्रापय, अवश्यकर्तव्ये विलम्बानौचित्यादिति भावः । इति सार्धै-

पाठा०—१ उद्यत्प्रकोपदहनोऽथ सुरेन्द्रशत्रुः; उद्दण्डकोपदहनोऽप्यसुरेन्द्रसूनुः. २ अहम्. कपद्योक्तं सारथिमवोचत जगाद । 'नियन्ता प्राजिता यन्ता सूतः क्षत्ता च सारथिः' इत्यमरः ॥ ८-९ ॥

  तत्स्यन्दनः सपदि सारथिसंप्रणुन्नः
   प्रक्षुब्धवारिधरधीरगभीरघोषः ।
  चण्डश्चचाल दलिताखिलशत्रुसैन्य-
   मांसास्थिशोणितविपङ्कविलुप्तचक्रः ॥ १० ॥

 तत्स्यन्दन इति ॥ प्रक्षुब्धः कोपाविष्टः । अनेन प्रलयकालीन इति व्यज्यते, प्रायस्तत्रैव तस्य क्रोधाविष्टत्वदर्शनात् । यो वारिधरो मेघस्तस्य घोष इव धीरो गभीरो घनश्च घोषो यस्य तथोक्तः । तथा दलितं चूर्णीकृतमखिलं समस्तं यच्छत्रुसैन्यं वैरिसैन्यं तस्य मांसमस्थीनि शोणितविपङ्को रुधिरकर्दमश्चेत्येतैर्विलुप्तानि चक्राणि चरणानि यस्य । अत एव चण्डः प्रचण्डस्तत्स्यन्दनस्तारकरथः सपदि । स्वामिनोऽनुशासनक्षण एव, न तु मुहूर्तमात्रं स्थित्वेति भावः । सारथिना संप्रणुन्नश्चलितुं नोदितः सन् । चचाल ॥ १० ॥

  दृष्ट्वा रथं प्रलयवातचलद्गिरीन्द्र-
   कल्पं दलद्बलविरावविशेषरौद्रम् ।
  अभ्यागतं सुररिपोः सुरराजसैन्यं
   क्षोभं जगाम परमं भयवेपमानम् ॥ ११ ॥

 दृष्ट्वेति ॥ प्रलयवातेन युगान्तकालप्रभञ्जनेन चलतोड्डीयमानेन गिरीन्द्रकल्पं गिरीन्द्रेण हिमालयेनेषन्न्यूनम् । हिमालयौपम्यं धवलवसनवेष्टितत्वात् । 'ईषदसमाप्तौ कल्पप्' ( पा. ५।३।६७ ) इति कल्पप्प्रत्ययः । तथा दलतामुपरि वेगपूर्वकवशाच्चूर्णीभवतां बलानां देवसैन्यानां विरावो हाहा हाहेति रुदितं तेन कृत्वा विशेषरौद्रमतिशयभयानकम् । आत्मीयघोरारवरौद्रत्वाश्रयीभूतत्वेऽप्यतिजवप्रपतनचूर्णीकृतसकलसुरसैन्यविहितमहाघोरविरावधारणाजनितरौद्रत्वधारणानुकूलव्यापाराश्रयीभूतमित्यर्थः । तथाऽभ्यागतं संमुखमागतं सुररिपोस्तारकस्य

पाठा०-१ प्रारब्ध. २ चण्डं. ३ शोणितमुपङ्कविलुप्तवेगः; शोणितसपङ्कविलुप्तचक्रः, ४ विराम. रथं दृष्ट्वा भयेन वेपमानं कम्पमानं सुरराजस्य महेन्द्रस्य सैन्यं सेनाजनसमूहः कर्तृ । परममतुलं क्षोभं व्यथां जगाम प्राप । तदीयरथावलोकनादेव क्षोभप्राप्तिः, किं पुनस्तदीयाकृतिविलोकनादिति भावः ॥ ११ ॥

  प्रक्षुभ्यमाणमवलोक्य दिगीशसैन्यं
   शंभोः सुतं कलहकेलिकुतूहलोत्कम् ।
  उद्दामदोःकलितकार्मुकदण्डचण्डः
   प्रोवाच वाचमुपगम्य स कार्तिकेयम् ॥ १२ ॥

 प्रक्षुभ्यमाणमिति ॥ स तारको दिगीशसैन्यं देवसैन्यं प्रकर्षेण क्षुभ्यमाणं क्षाभं प्राप्नुवत् , बिभ्यदिति यावत् । क्षुभ्यतेर्दैवादिकत्वं तदाकृतिगणत्वाद्बोध्यम् । तथाभूतमवलोक्य दृष्ट्वोद्दामयोरुद्भटयोर्दोष्णोर्बाह्वोः कलितेन निहितेन कार्मुकरूपदण्डेन चण्डः सन् । कलहः सङ्ग्रामरूपो विग्रहः स एव केलिः, न तु प्रयत्नसाध्यं कर्म, तत्र यत्कुतूहलं तत्रोत्कम् , तदभिलापुकमित्यर्थः । तथा शंभोः शिवस्य सुतं पुत्रम् । अनेन तारकवीररसस्यानुभाव उक्तः । कार्तिकेयं कुमारमुपगम्य समीपं गत्वा वाचं प्रोवाचावोचत् ॥ १२ ॥

 इतः परम् 'रे' इत्यादिभिस्त्रिभिः श्लोकैर्वाचमेव प्रपञ्चयति-

  रे शंभुतापसशिशो ! बत मुश्च मुञ्च
   दोर्दर्पमत्र विरम त्रिदिवेन्द्रकार्यात् ।
  रेः किमत्र भवतोऽनुचितरतीव
   बालत्वकोमलभुजातुलभारभूतैः ॥ १३ ॥

 रे इति ॥ 'रे' इति नीचोक्तिसंबोधने । भोः शंभुतापसशिशो शंभुः शिवः स एव तापसस्तपस्वी । अनेन महाकृपणत्वं व्यज्यते । तस्य शिशो कौमारावस्थानुभवरसिक ! अत्र मयि विषये, विधीयमानमिति शेषः । दोर्दपं भुजदण्डगतवीर्यहेतुकमभिमानम् । 'दर्पोऽहंकारकस्तूर्योः' इति विश्वः । मुञ्च मुञ्च, सर्वथैव

पाठा०-१ समरकेलि. २ शंभुतान्तव शिशो. ३ दौहृद्यम्. ४ त्रिदिवेश. ५ शश्वत्. ६ असारैः; चरित्रैः. ७ बालत्वकोमलभुजक्लमभारभूतैः; बालाब्जकोमलभुजाक्रमभीरुभूतैः. मुञ्चेत्यर्थः । अथ च त्रिदिवेन्द्रकार्यान्मदीयवधरूपमहेन्द्रविधेयाद्विरम, अनुद्युक्तो भवेत्यर्थः । 'व्याङ्परिभ्यो रमः' (पा. १|३|८३ ) इति परस्मैपदम् । नन्वनेक- साधनकर्माश्रयीभूतत्वेन त्वदीयवधं चिकीर्पुरहं कथं विरमामीत्याशङ्कर न हि तव साधनानि मयि विषये परिपक्त्रिमाणि भविप्यन्तीत्याह-अतीव बालस्य भवतः संबन्धिनोः कोमलभुजयोर्बालत्वादतिशयपेलवबाह्वोरतुलं बहुभारभूतैः, दुर्वहैरित्यर्थः । अत एवात्र मय्यनुचितैरयोग्यैः शस्त्रैः कृपाणप्रभृतिभिः किम् ? अपि तु न किमपीति भावः ॥ १३ ॥

  एवं त्वमेव तनयोऽसि गिरीशगौर्योः
   किं यासि कालविषयं विषमैः शरैर्मे ।
  सङ्ग्रामतोऽपसर- जीव पितुर्जनन्या-
   स्तूर्ण प्रविश्य वरमङ्कतलं विधेहि ॥ १४ ॥

 एवमिति ॥ रे शिशो! एवं नाम मद्विषयको यो दोर्दर्पस्तस्याङ्गीकारे रसिकः, त्वमिति शेषः । ‘एवं प्रकारोपमयोरङ्गीकारावधारणे' इति विश्वः । विषमैर्दुःसहैमें मम शरैर्बाणैः कृत्वा कालविषयं दण्डधरदेशम् , संयमिनीं पुरी- मित्यर्थः । किं किमर्थं यासि प्राप्नोषि ? 'नीवृज्जनपदो देशविषयौ तूपवर्तनम्' इत्यमरः । ननु कालविषयप्राप्तौ कैव नः खलु वीराणां हानिरित्याशङ्कयाह-यतो गिरीशगौर्योः शिवपार्वत्योः । अत्र गिरीशस्याभ्यर्हितत्वाद्ववचोऽपि पूर्वनिपातः । त्वमेव तनयोऽसि पुत्रोऽसि । अतिकृच्छूलब्धैकपुत्रस्य वृद्धस्य तनयकर्मककाल- विषयप्राप्तिरतिदुःखावहा भवतीति भावः । एतेन मया सह भवता न कदापि योद्धव्यमिति व्यज्यते । तर्हि किं कर्तव्यं मयेत्यत्राह-सङ्ग्रामत इति ।। रे शिशो! सङ्ग्रामतः समरसकाशादपसर पलायस्व, मदग्रे मा तिष्टेत्यर्थः । अत एव जीव प्राणान्धरस्व, इतः पलायनमेव तव परमं जीवातुरिति भावः । ननु पलायनपूर्वकजीवनेन कः पुरुषार्थो भवित्यतीत्यत आह-पितुरिति ॥ पितुर्जन- कस्य तथा जनन्या मातुश्च ।अङ्कतलमुत्सङ्गतलं तूर्णं शीघ्रं प्रविश्योपविश्य वरं श्रेष्ठम् , कृतार्थमिति यावत् । विधेहि कुरु । पुत्रस्यायमेव परमो धर्मों यन्माता- पित्रोर्येन केनापि सध्यापारेण चित्तस्य । परितोषकृत्याश्रयो भवति । कथं सङ्ग्रामत

पाठा०-१ एकः. २ एकतनयः, ३ तत्रासतः, ४ पूर्णम्. पलायनं सध्यापारपदवाच्यमित्यस्याः शङ्कायाः पूर्वश्लोके तापसपदेन निवर्ति- सत्वात्॥ १४ ॥

 इदानीं हितोपदेशव्याज्ञेन पलायनविधिमुपदिशति--

  सम्यक्स्वयं किल विमृश्य गिरीशपुत्र !
   जम्भद्विषोऽस्य जहिहि प्रतिपक्षमाशु |
  एष स्वयं पयसि मज्जति दुर्विगाह्ये
   पाषाणनौरिव निमज्जयते पुरा त्वाम् ॥ १५॥

 सम्यगिति ॥ भो गिरीशपुत्र शिवपुत्र! त्वं सम्यक्साधु यथा स्यात्तथा विमृश्य विचार्य । साधुविचारणमत्रोदर्कविचारणम । तत्कृत्वास्य पुरोवर्तिनो जम्भद्विष इन्द्रस्य प्रतिपक्षं मां स्वयं किलात्मनैव, न तु परोक्षेण; प्रयोज्यकर्त्रेति यावत् । आशु सत्वरं जहिहि नाशय । साधु विचार्यैव मदीयहननकृत्याश्रयो भव । 'सहसा विदधीत न क्रियामविवेकः परमापदां पदम् । वृणते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव संपदः ॥' (किरात० २।३० ) इति न्यायादिति भावः । प्रस्तुतेऽविमृश्य करणेन कैव विपत्तिरित्याशङ्क्याह-एष इति ॥रे शिशो! एष जम्भद्विट् पुराग्रे दुःखेन कृच्छेण विगाह्य उत्तार्ये पयसि नीरे। मदीयनाराच- वर्षणरूप इत्यर्थः । पाषाणनौरिव प्रस्तरतरिरिव स्वयं मज्जति मङ्क्ष्यति । त्वां च निमज्जयते, निमज्जयित्यत इत्यर्थः । यावत्पुरा-' (पा. ३।३।४ ) इति भविष्य- दर्थे लट् । यथा पाषाणघटितनौका पयःपतिता मज्जति, आत्मोपर्यारूढांश्च निमज्जयति, तथायमिन्द्रोऽपि मदीयघोरनाराचनिचयरूपजलेनावृतः सन्मरिष्यति। स्वात्माश्रयीभूतं त्वामपि तत्र पातयित्वा मारयिष्यतीति वाच्यार्थः । अत आत्मजीवनाभिलापुकत्वपक्ष एतदाश्रयीभूतत्वं विहाय वृद्धयोर्मातापित्रोः समीप- मेव गन्तव्यम् । तेनेहामुत्र च महान्ति श्रेयांसि भविष्यन्तीति व्यङ्ग्यार्थः । तेनात्रालंकारेण वस्तुध्वनिः ॥ १५ ॥

  इत्थं निशम्य वचनं युधि तारकस्य
   कम्प्राधरो विकचकोकनदारुणाक्षः।

पाठा०-१ दुर्विगाह; दुर्विगाढे.


            क्षोभात्रिलोचनसुतो धनुरीक्षमाणः
             प्रोवाच वाचमुचितां परिमृश्य शक्तिम् ॥१६ ॥
     इत्थमिति ॥ युधि सङ्ग्रामे स्थितस्य तारकस्य संबन्धीत्थमेवंभूतं वचनं
    निशम्य श्रुत्वा क्षोभात्क्रोधावेतोः कम्प्रः कम्पनशीलोऽधरोऽधरोष्ठो यस्य । क्रोध-
    वशादधरविस्फुरणं लोकप्रसिद्धमेव । तथा विकचकोकनदवद्विलसद्भक्तोत्पलवदरुणे
    शोणिते अक्षिणी नेत्रे यस्य । क्रोधवशादरुणनेत्रत्वमपि प्रसिद्धमेव । एवंभूतस्त्रि-
    लोचनसुतः कुमारः शक्तिमात्मीयवीर्यवैभवं परिमृश्य तुलयित्वा, मदीयवीर्या-
    पेक्षया किमेतदीयवीर्यमित्यनादरपूर्वकमात्मीयशक्तेराधिक्यं परामृश्येत्यर्थः । धनु-
    रीक्षमाणः पश्यन्सन् । अनेन त्वां क्षणादेव निहन्मि, सावधानो भव, मदीयै-
    तद्धनुरग्रे कुतो यास्यसि ?' इति व्यज्यते । तेन वस्तुना वस्तुध्वनिः । उचितां
    योग्यां वाचं वचनं प्रोवाच प्रोचे ॥ १६ ॥
         दैत्याधिराज ! भवता यदवादि गर्वा-
           त्तत्सर्वसप्युचितमेव तवैव किंतु ।
         द्रष्टास्मि ते प्रवरबाहुबलं बरिष्ठं
           शस्त्रं गृहाण कुरु कार्मुकमाततज्यम् ॥ १७ ॥

     दैत्येति ॥ भो दैत्यानामधिराज तारकसंज्ञक महाराज ! भवता त्वया गर्वा-
    द्धेतोर्यदवादि 'रे शंभुतापस-' ( १७.१३) इत्यादिना यदुक्तं, तत्सर्वमपि
    तवोचितमेव योग्यमेव । अभिमानिनो महाराजस्य तव बालत्वाद्वराकीभूतमदवज्ञा
    योग्यैव । ननु मदुक्त्यौचित्याज्ञानवतस्तव कथमयं सङ्ग्रामकरणसमारम्भ इति
    चेत्तत्राह-किंत्विति ॥ किंतु वरिष्ठमतिशयश्रेष्ठं ते त्वत्संबन्धि प्रवरौ प्रकृष्टौ
    श्रेष्ठौ यौ बाहू भुजौ तयोर्बलं वीर्यमेव द्रष्टास्मि द्रक्ष्यामि । त्वदीयपराजयं कृत्वा
    मदीयो विजयः स्यादित्यभिलाषे न मम तात्पर्यम्, किंतु लोकारोप्यमाणवीरता-
    श्रयीभूतेन मया त्वदीयवीरतावलोकनमेव युद्धकरणे तात्पर्यम् । वस्तुतस्तु मयि
    वीरत्वासंभवात्त्वया सह युद्धकरणानौचित्येऽपि तत्र प्रवृत्तिः केवलं बालत्वजनित-
    बालिशत्वमेवोद्भावयति । अतोऽपि भवता क्षन्तव्यम् । 'जनक इव शिशुत्वेऽसु-
    प्रियस्यैकसूनोरविनयमपि सेहे पाण्डवस्य स्मरारिः' इत्यादिन्यायादिति भावः ।
    पाठा ० - १ कोपात्. २ परिमृज्य. ३ यदवोचि.
        २३ क० सं० 


     अतो युद्धकरणपक्षे शस्त्रं कृपाणादिकं गृहाणादत्स्व । कार्मुकं धनुराततज्यं विस्तृत-
    मौर्वीकं कुरु । युद्धार्थं शस्त्रसंधानेन सज्जो भवेति वाच्यार्थः ॥ १७ ॥
          इत्युक्तवन्तमवदन्त्रिपुरारिपुत्रं
             दैत्यः कुधौष्ठमधरं किल निर्विभिद्य ।
          युद्धार्थमुद्भटभुजाबलदर्पितोऽसि
            बाणान्सहस्व मम सादितशत्रुपृष्ठान् ॥ १८ ॥
     इतीति ॥ इत्युक्तवन्तं निगदितवन्तं त्रिपुरारिपुत्रं कुमारं कर्म । दैत्यस्तारकः
    कुधा निमित्तेनाधरं नीचैरोष्टम् , अधरोष्टमित्यर्थः । निर्विभिद्य दन्तैश्चर्वयित्वा । रे
    बाल! सादितं विभिन्नं शत्रुपृष्टं यैर्नतु मुखम् । मदीयबाणानां तदुद्देशेनाभिगच्छतां
    प्रहृतिसहनासमर्थतया पलायमानत्वात् । एवंभूतान्मम बाणान्सहस्व, अपि तु
    त्वया न सहिप्यन्त इति ध्वन्यते । ननु बालत्वात्कथमहं सहे इत्याह-यतस्त्वं
    युद्धार्थं युद्धकरणायोभ्दटे विपरीतलक्षणयानुभ्दटे ये भुजे बाहू तयोर्बलं वीर्यं तेन
    दर्पितोऽसि संजातगर्वोऽसि । विपरीतलक्षणापन्नभुजानुद्भटत्वमेव न सहिष्यन्त
    इति व्यङ्गये हेतुः । अतो मया सह कथंचिदपि त्वया न योद्धव्यमिति फलितोऽर्थः ।
    'द्वौ परौ द्वयोः । भुजबाहू' इत्यमरः ॥ १८ ॥
          दुःप्रेक्षणीयमरिभिर्धनुराततज्यं
            सद्यो विधाय विषमान्विशिखान्न्यधत्त ।
          स क्रोधभीमभुजगेन्द्रनिभं स्वचापं
            चण्डं ग्रपञ्चयति जैत्रशरैः कुमारे ॥ १९ ॥
     दुरिति ॥ स तारकः कुमारे क्रोधेन भीमो यो भुजगेन्द्रस्तेन निभं सदृशम् ।
    अत एव चण्डं प्रचण्डं स्वचापमात्मधनु्र्जै्त्रशरैर्जयसाधनबाणैः प्रपञ्चयति संदधति
    सति । अरिभिर्वैरिभिर्दुःप्रेक्षणीयं दुरवलोकनीयं धनुः सद्यः सपद्याततज्यं विस्तृत-
    प्रत्यञ्चं विधाय कृत्वा विषमानतितीक्ष्णान्विशिखान्बाणाभ्यधत्त निदधे । कुमारं
    सज्जमवलोक्य स्वयमपि तथाभूदिति भावः ॥ १९ ॥
     पाठा०-१ निर्विभुज्य. २ भुजावलिदर्पितः. ३ शातितशत्रुपृष्टान् ; शोणि-
तरक्तपृष्टान्. ४ चण्डं ग्रपञ्चयति जैत्रशरे कुमारे; चण्डप्रभं यशसि जैत्रशरं कुमारः.

  कर्णान्तमेत्य दितिजेन विकृष्यमाणं
   कोदण्डमेतदभितः सुषुवे शरौघान् ।
  व्योमाङ्गणे लिपिकरान्किरणप्ररोहैः
   सान्द्रैरशेषककुभां पलितंकरिष्णून् ॥ २० ॥

 कर्णान्तमिति ॥ दितिजेन तारकेण कर्णान्नं श्रवणप्रान्तमेत्य प्रापय्य । अन्तर्भाविणिजर्थः । आकर्णान्तमित्यर्थः । विकृप्यमाणं विस्तार्यमाणमेतत्कोदण्डं धनुः सान्द्रैः सघनैः किरणप्ररोहैर्मयूखाङ्कुरैः कृत्वा व्योमाङ्गण आकाशचत्वरे लिराल्लेपनकर्तृन् । तथा अशेषककुभां समस्तदिशां संबन्धि पलितंकरिप्णृ- ञ्जराजनितशौक्लयं कर्तुं शीलं येषाम् । 'अलंकृञ्-' (पा. ३।२।१३६) इत्यादि- नेष्णुच् । एवंभूताञ्न्शरौघान्बाणसंघानमितः सर्वतः सुपु्त्रे प्रासूत, कुमारोद्देशेन तारकनिःक्षिप्तविशिखसमूहैर्व्योम दिशाश्र्च व्याप्ता बभूवुरित्यर्थः । अनेन वाच्यार्थेन 'मदीयविशिखनिचयव्याप्यमानोऽयं बाल इतिकर्तव्यताहीनः सन्नन्तरेव निरुद्ध- श्वासतया प्रयत्नमन्तरैव मरिप्यति किं पुनरायोधनप्रयत्नेन ?' इति व्यङ्ग्यार्थस्य प्रतीयमानत्वाद्गम्योत्प्रेक्षोत्थापिततद्रुणालंकारेण पिततद्गुणालंकारेण वस्तुध्वनिः ॥ २० ॥

  बाणैः सुरारिधनुषः प्रसृतैरनन्तै-
   र्निर्गोपभीषितभटो लसदंशुजालैः ।
  अन्धीकृताखिलसुरेश्वरसैन्य ईश-
   सूनुः कुतोऽपि न जगाम दृष्टेः ॥ २१ ॥

 बाणैरिति ॥ सुरारेस्तारकस्य धनुषः कार्मुकसकाशात्प्रसृतैः, निःसृतैरिति

    फलितोऽर्थः । तथानन्तैरपारैः, असंख्यैरिति  यावत्  । लसद्दीप्यदंशुजालं
    किरणजालं येषाम् । अनेन सोल्का बाणा निक्षिप्ता इति व्यज्यते । तथाभूतै-
    र्बाणैः कर्तृभिः । अन्धीकृतं सर्वत आच्छादितत्वात्प्रतिरुद्धविलोचनीकृतसकल-
    जनम् । अखिलं सर्वं यत्सुरेश्वरसैन्यमिन्द्रसैन्यं तत्र मध्ये । 'यतश्च निर्धारणम्'
   ( पा. २।३।४१ )इति सप्तमी । निर्घोषेण निर्ह्रादेन भीषिता भयं प्रापिता भटा 
   पाठा०-१ कोदण्डदण्डम्. २ शुशुभे. ३ स्वकरप्रहासान्. ४ अग्रैः. ५ पति-
   वत्करिष्यत्. ६ भटैः, ७ सैन्यकोऽसौ छन्नाकृतिः स; सैन्यकैः स छन्नः कुतोऽपि.
   सूनुः कुतोऽपि योधास्तारकपक्षवर्तिनो येन । एवंभूत ईशसूनुः कुमारः कुतोऽपि कुत्रापि । सप्त-

म्यर्थे तसिः । दृष्टेर्विषयं गोचरं न जगाम । तारकपरिक्षिप्तशितशरगणैः सर्वत आच्छादितत्वात् 'कुत्रासौ कुमारो गतः' इति चिन्तयतां सैनिकानां दृगिन्द्रिय- ग्रहणविषयतासंबन्धावच्छिन्नकोटिगणनाबहिर्भूतोऽभूदिति भावः । 'विषयो गोचरे देशे' इति मेदिनी ॥ २१ ॥

  देवेन मन्मथरिपोस्तनयेन गाढ-
   माकर्णकृष्टमभितो धनुराततज्यम् ।
  बाणानसूत निशितान्युधि यान्सुजैत्रा-
   स्तैः सायका बिभिंदिरे सहसा सुरारेः ॥२२॥

 देवेनेति ॥ मन्मथरिपोः शिवस्य तनयेन पुत्ररूपेण देवेन कुमारेण गाढं दृढं यथा तथाऽऽकर्णकृष्टं कर्ण मर्यादीकृत्य कृष्टमाकृष्टम् । तथाऽऽततज्यं विस्तृतमौर्वीकं धनुः कर्तृ । युध्यायोधनेऽभितः सर्वतः सुतरां जैत्राञ्जयनशीलान्निशितांस्तीक्ष्णा- न्यान्बाणानसूत, कुमाराकृष्टाद्धनुषः सकाशान्निशिता ये बाणा निःसृता इत्यर्थः । तैर्वाणैः कर्तृभिः । सुरारेस्तारकस्य सायका बाणा विभिदिरे भिन्नाः । कर्मणि लिद। अनेन वाच्येन यथा यामिनीनामन्धतमसमम्बरमणिकिरणसमूहेन दूरीक्रियते, तथा कुमारनिक्षिप्तप्रज्वलद्धोरायमाणसायकनिकरेण तारकनिक्षिप्तसायकजनित- मन्धतमसं निराकृतमित्युपमा व्यज्यते । अतोऽत्र वस्तुनामालंकारध्वनिः ॥ २२ ॥

  रेजे सुरारिशरदुर्दिनके निरस्ते
   सद्यस्तरां निखिलखेचरखेदहेतौ ।
  देवः प्रभाप्रभुरिव स्मरशत्रुसूनुः
   प्रद्योतनः सुघनदुर्धरधामधामा ॥ २३ ॥

 रेज इति ॥ निखिलाः समस्ता ये खेचराः सूर्यादयस्तेषां खेदस्य शरीरसंबन्ध- जनितदहनहेतुकदुःखस्य हेतौ निदाने सुरारेस्तारकस्य ये शरास्तैर्यद्दुर्दिनकं मेघ- च्छन्नदिवसस्तस्मिन्सद्यस्तरामतिसत्वरं निरस्ते दूरीकृते सति । सुतरां घनं सान्द्रं

पाठा०-१ विविधान्. २ विजैत्रै; विजैत्रान्. ३ विविदिरे. ४ सद्यः स्वयम्. ५ खिन्नदेहे. ६ देवप्रभोः प्रभुः. ७ धाम. दुर्धरं दुर्धर्षणीयम् , दुःसहमिति यावत् । तथाभूतं यद्धाम तेजस्तस्य धाम स्थानम् । अत एव प्रकर्षेण द्योतते शोभते । कर्तरि ल्युट । अथवा नन्द्यादि- स्वाल्युः । तथाभूतः स्मरशत्रुसूनुः कुमारः । प्रभायाः कान्त्याः प्रभु्र्देवः सूर्य इव । रेजे बभौ । यथा मेघजनितदुर्दिनोन्मुक्तोऽम्बरमणिः शोभते, तथा तारकविकिर्ण- सायकजनितदुर्दिनोन्मुच्यमानोऽसौ कुमारो रराजेत्यर्थः ॥ २३ ॥

  तत्राथ दुःसहतरं समरे तरस्वी
   धामाधिकं दधति धीरतरं कुमारे ।
  मायामयं समरमाशु महासुरेन्द्रो
   मायाप्रचारचतुरो रचयांचकार ॥ २४ ॥

 तत्रेति ॥ अथानन्तरं तत्र कुमारे धीरतरं गम्भीरतातिशयशालि धाम तेजोऽधिकं दुःसहतरं दधति सति । 'अयं बालोऽपि मदपेक्षयाधिकतरधामवान् , अतः शस्त्रयुद्धेन नैव धर्षणीयः' इति मनोविपयविचारकर्तृकता व्यज्यते । समरे युद्धे तरस्वी बलवान्महानसुराणामिन्द्रस्तारको मायामयं मायारूपं समरं युद्धमाशु सत्वरं रचयांचकार निर्ममे । शस्त्रैरधर्षणीयोऽयं मायाप्रधानैरस्त्रैः पराजयं प्राप्स्य तीति बुद्धचा मायारचनापरो बभूवेत्यर्थः । यतो माग्राप्रचारे मायानिर्माणे चतुरः कुशलः ॥ २४ ॥

  अह्वाय कोपकलुषो विकटं विहस्य
   व्यर्तां समर्थ्य वरशस्त्रयुधं कुमारे ।
  जिष्णुर्जगद्विजयदुर्ललितः सहेलं
   वायव्यमस्रमसुरो धनुषि न्यधत्त ॥ २५ ॥

 अह्नायेति ॥ जिष्णुर्जयनशीलः, अत एव जगतां विजयेन दुर्ललित उद्भटः । तथा कोपेन क्रोधेन निमित्तेन कलुषोऽनच्छः, आविल इति यावत् । 'कलुषो- ऽनच्छ आविलः' इत्यमरः । असुरस्तारको विकटं करालं यथा स्यात्तथा विहस्य, 'इदानीं त्वां जेष्यामि' इति, 'कुतो गमिष्यसि' इति च विकटहासेन व्यज्यते ।

पाठा०--१ तरसा. २ धामाधिकं दधति धीरतरे; धामादधादधिकधीरतरः. ३ प्रपञ्च. ४ व्यर्थम्. ५ जिष्णौ. तथा कुमारे विषये वरैः श्रेष्ठैः शस्त्रैः कृत्वा युधं युद्धम् । 'समुदायः स्त्रियः संय- त्समित्याजिसमिद्युधः' इत्यमरः । व्यर्थां फलराहित्येन निरर्थकां समर्थ्य सिद्धान्त- यित्वा, निश्चित्येति यावत् । सहेलं सानादरम् । 'अयं मायोचितो नास्ति, व्यर्थ- मेवात्र मायायुद्धम्' इत्यवहेलनासहितं यथा स्यात्तथा । वायव्यं वायुदेवताक- मस्त्रमह्नाय झटिति धनुषि न्यधत्त निदधे ॥ २५ ॥

  संधानमात्रमपि यस्य युगान्तकाल-
   भूतभ्रमं परुषभीषणघोरघोषः।
  उद्धूतधूलिपटलैः पिहिताम्बराशः
   प्रच्छन्नचण्डकिरणो व्यसरत्समीरः ॥ २६ ॥

 संधानेति ॥ यस्य वायव्यास्त्रस्य संधानमात्रमपि कोदण्डे प्रक्षेपणार्थमारो- पणमात्रमपि युगान्तकाल इव भूतानां प्राणिनां भ्रमो भ्रान्तिरोगो येन तथाभूतम् । यस्य संधानमात्रेणैव भूतानां भ्रान्तिरोग उत्पद्यते, किं पुनस्तस्य प्रक्षेपणेन वाच्यम् । तस्य प्रक्षेपणेनेति शेषः । परुषः कठोरो भीषणो भयदायी घोरो महान् । परुषेण भयदत्वं दीर्घत्वेन भयदत्वं चेत्युभयविधस्य भयदायित्वस्य विवक्षितत्वान्न पौनरुक्त्यम् । तथाविधो घोष आरत्रो यस्य । तथोद्भूतान्युपर्यु- त्पातितानि यानि धूलिपटलानि रजोमण्डलानि तैः कृत्वा पिहिता आच्छादिता अम्बरं व्योम दिशश्च येन । तथा प्रच्छन्नः पिहितश्चण्डकिरणो रविर्येन तथाभूतः । एवंभूतश्च समीरो वायुर्व्यसरत्प्रससार, प्रचचालेति यावत् ॥ २६ ॥

  कुन्दोज्ज्वलानि सकलातपवारणानि
   धूतानि तेन मरुता सुरसैनिकानाम् ।
  उड्डीयमानकलहंसकुलोपमानि
   मेघाभधूलिमलिने नभसि प्रसस्रुः ॥ २७ ॥

 कुन्दोज्ज्वलानीति ॥ कुन्दपुष्पवदुज्ज्वलानि विमलानि, श्वेतानीति फलितो-

पाठा-१ संधानमात्रसममस्य; संधानकालसममस्य. भूतभ्रमः, ३ पटली- पिहिताम्बरान्तः; पटलीपिहिताम्बराशः; पटलीपिहिताम्बराङ्गः. ४ व्यहरत् ; अप्य- सरत, ५ वरहंस. ६ संग्रामधूलिमलिने; मेघाभ्रधूलिमिलिते. ऽर्थः । तथा तेन वायव्यास्त्रप्रभूतेन मरुता धूतानि कम्पितानि, उपर्युहुयिता- नीति यावत् । अत एवोड्डीयमाना उत्पतन्तो ये कलहंसा राजहंसास्तेषां कुलेन समुदायेनोपमा सादृश्यं येषाम् , उत्पतत्कलहंससदृशानीत्यर्थः । सुरसैनिकान देवरूपसेनालोकानां सकलातपवारणानि समस्तानि छत्राणि मेघाभा वर्षा कालीनपयोदसदृशभासो या धूलयः सेनोत्पतितरजांसि ताभिर्मलिने मेचके नभसि प्रसस्रुः, प्रभञ्जनवेगोड्डयितानि विशदधर्मवारणान्युत्पतत्कलहंसकुलानीव रेजुरित्यर्थः ॥ २७ ॥

  विध्वस्य तेन सुरसैन्यमहापताका
   नीता नभःस्थलमलं नवमल्लिकाभाः ।
  स्वर्गापगाजलमहौघसहस्रलीलां
   व्यातेनिरे दिवि सिताम्बरकैतवेन ॥ २८ ॥

 विध्वस्येति ॥ तेन प्रभञ्जनेन कर्त्राऽलं विध्वस्य भञ्जयित्वा नभःस्थलमा- काशतलं नीताः प्रापिताः । तथा नवमल्लिकाभा नूतनविदलन्मल्लिकाकुसुमसदृश- भासः सुरसैन्यस्य महान्त्यः पताकाः सिताम्बरकैतवेन श्वेतवस्त्रव्याजेन स्वर्गाप- गाया जलस्य महतामोघानां पूराणां सहस्त्रस्य लीलां शोभां व्यातेनिरे वितस्तरिरे । उत्पतन्त्यो व्योमनि स्थिताः श्वेताः पताका अतिविदूरदोषेण, अलघवोऽपि लघव इव प्रतीयमाना नभोगतगगनवाहिनीनिर्झरा इव रेजुरिति भावः । अत्र कैतवा- पहुतिनिदर्शनालंकारयोः संसृष्टिः ॥ २८ ॥

  धृतानि तेन सुरसैन्यमहागजानां
   सद्यः शतानि विधुराणि दलत्कुथानि ।
  पेतुः क्षितौ कुपितवासववज्रलून-
   पक्षस्य भूधरकुलस्य तुलां वहन्ति ॥ २९ ॥

 धूतानीति ॥ तेन वायुना धूतानि कम्पितानि, नभसि भ्रामितानीति यावत् । अत एव विधुराणि पीडितानि तथा । दलन्तः 'चरड् चरड्' इति

पाठा०-१ नभस्तलम्. २ दिविचरीं चिरविभ्रमेण; दिवि चराचरविभ्रमेण. ३ कुलानि. ४ गलत्कुथानि. स्फुटन्तः कुथाः कम्बला येषाम् । 'कुथः स्त्रीपुंसयोर्वस्त्रकम्बले पुंसि बर्हिषि' इति मेदिनी । अत एव कुपितस्य वासवस्य वज्रेण पविना लूनपक्षस्य छिन्नपत्रस्य भूधरकुलस्य पर्वतसमूहस्य तुलां साम्यं वहन्ति दधति । सुरसैन्यमहागजानां देवसैन्यबृहद्दन्तिनां शतानि शतसंख्याककुलानि क्षितौ भुवि पेतुः पतित- वन्ति ॥ २९॥

  तास्ताः खरेण मरुता रथराजयोऽपि
   दोधूयमाननिपतिष्णुतुरंगमाश्च ।
  विस्रस्तसारथिकुलप्रवराः समन्ता-
   व्ध्यावृत्य पेतुरवनौ सुरवाहिनीनाम् ॥ ३० ॥

 ता इति ॥ तास्ताः सुरवाहिनीनां देवसेनानां रथराजयोऽपि स्यन्दनपङ्क्तयोऽपि खरेण तीक्ष्णेन मस्ता वायुना दोधूयमानाः पुनःपुनरतिशयेन वा कम्प्यमाना अत एव निपतिष्णवः पतनशीलास्तुरंगमा अश्वा यासाम् । तथा विस्रस्ता अधःपतिताः सारथय एव कुलप्रवराः कुलश्रेष्ठाः, कुलीना इति यावत् । यासाम् । तथाभूताः सन्त्यो नभसि समन्ताव्ध्यावृत्य परिभ्रम्यावनौ पेतुः ॥ ३०॥

  हित्वायुधानि सुरसैन्यतुरंगवाहा
   वातेन तेन विधुराः सुरसैन्यमध्ये ।
  शस्त्राभिघातमनवाप्य निपेतुरु्र्व्यां
   स्वीयेषु वाहनवरेषु पतत्सु सत्सु ॥ ३१ ॥

 हित्वेति ॥ तेन वातेन विधुराः पीडिताः सुरसैन्यस्य देवसैन्यस्य तुरंगवाहा अश्ववाहाः, अश्वारोहा इति यावत् । सुरसैन्यमध्य आयुधानि भल्लादीनि हित्वा परित्यज्य स्वीयेप्वात्मीयेषु वाहनवरेपु श्रेष्ठवाहनेषु पतत्सु सत्सु शस्त्राभिघातं शस्त्रप्रहारमनवाप्यापि न प्राप्याप्यु्र्व्यां भूमौ निपेतुः ॥ ३१ ॥

पाठा०-१ भ्रष्टाः. २ तुरंगमध्ये. ३ वित्रस्तसारथिवरप्रकराः; विध्वस्तसार- थिरथप्रवराः. ४ व्यावृत्तिमापुः. ५ तुरंगधारावेगेन; तुरंगवारा दैत्येन. ६ विधुतां

विधुरा रणान्ते. ७ शस्त्राभिघातमथिताः परिपेतुः. ८ वारणवरेषु.

  तेनाहतास्त्रिदशसैन्यपदातयोऽपि
   स्रस्तायुधाः सुविधुराः परुषं रसन्तः ।
  वात्यावि[२४०]वर्तदलवद्भ्रममेत्य दूरं
   निःपेतुरम्बरतलाद्वसुधातलेऽस्मिन्[२४१] ॥ ३२ ॥

 तेनेति ॥ तेन प्रभञ्जनेनाहताः पीडिताः । अत एव सस्तान्यधःपतितान्यायुधानि शस्त्राणि येषाम् । अत एव सुतरां विधुरा दुःखिताः । करेभ्यः शस्त्रगलनं वीराणामतिदुःखावहं भवतीति भावः । तथा परुषं कठोरं यथा स्यात्तथा रसन्तः क्रोशन्तः, रुदन्त इति यावत् । त्रिदशसैन्यपदातयोऽपि देवसैन्यपादचारिणो योधा अपि । पूर्वोक्तानां गजादीनामपेक्षया समुच्चयार्थकोऽपिशब्दः । 'अपि संभावनाप्रश्नशङ्कागर्हासमुच्चये' इति विश्वः । वात्यया वातसमूहेन विवर्तं भ्रान्तं यद्दलं पत्रं तद्वद्दूरमतिशयेन भ्रमं भ्रान्तिमेत्य प्राप्याम्बरतलादाकाशमध्यादस्मिन्वसुधातले भूतले निःपेतुः । वातसमूहविवर्तिनानि वृक्षशुष्कपत्राणि यथाधः पतन्ति, तथा देवसैन्यपत्तयोऽपि वायव्यास्त्रजनितप्रभञ्जनवशादम्बरमभित उड्डीयमानाः कियन्तमपि कालं तत्र रथचक्रवत्परिभ्रम्य प्रतिक्षीणभ्रमणजवाः सन्तोऽधः पेतुरिति वाच्यार्थः । यथा पतितमपि दलं न चूर्णीभवति, तथाधः पतन्तोऽपि सैनिका न चूर्णीभूता इत्यभिहितयोपमया व्यज्यते । सति पतनेऽपि चूर्णत्वाभावे दैवत्वादिति गूढो हेतुः । अतोऽलंकारेण वस्तुध्वनिः ॥ ३२ ॥

  इत्थं विलोक्य सुरसैन्यम[२४२]थो अशेषं
   दैत्येश्वरेण विधुरीकृतमस्त्रयोगात् ।
  स्वर्लोकनाथकम[२४३]लाकुशलैकहेतु-
   र्दिव्यं प्रभावमतनोदत[२४४]नुः स देवः ॥ ३३ ॥

 इत्थमिति ॥ अथो तारकप्रयोजितवायव्यास्त्रकृतसैन्यविप्लवानन्तरम् । अतनुर्महान् । महत्त्वं च विद्यया, विद्या चास्त्रशस्त्रनैपुण्यम् । स देवः षाण्मातुरः । अशेषं सकलं सुरसैन्यं देवसैन्यं कर्म दैत्येश्वरेण तारकेणेत्थं पूर्वोक्तप्रकारेणास्त्रयो गाद्वायव्यास्त्रप्रयोगाग्निमित्ताद्विधुरीकृतं पीडितं विलोक्य दिव्यं लोकोत्तरं प्रभावं सामर्थ्यमतनोत् । अनेन वायव्यप्रतिरोधकं पवनाशनास्त्रमक्षिपदिति व्यज्यते । यतः स्वर्लोकनाथस्येन्द्रस्य कमलाया लक्ष्म्याः कुशले श्रेयस्येक एव हेतुर्निदानम् ॥ ३३ ॥

  तेनोज्झितं सकलमेव सुरेन्द्रसैन्यं
   स्वास्थ्यं प्रपद्य पुनरेव युधि प्रवृत्तम् ।
  दृष्ट्वासृजद्दहनदैवतमस्त्रमिद्ध-
   मुद्दीप्तकोपदहनः सहसा सुरारिः ॥ ३४ ॥

 तेनेति ॥ तेन कुमारप्रभावेण सकलमेव, न तु त्यक्तभागम् । उज्झितं वायव्यास्त्रनिर्मुक्तं सुरेन्द्रसैन्यं इन्द्रसैन्यं कर्म स्वास्थ्यमविकलत्वं प्रपद्य प्राप्य पुनर्युध्येव, न त्वन्यकार्ये पलायनरूपे । एवंविधास्त्रप्रयोक्तासौ दुर्जेय इति बुद्या । पलायनप्रसक्तिशङ्कानिरासार्थमेवकारः । प्रवृत्तं युद्धव्यापाराश्रयीभूतंदृष्ट्वा । उद्दीप्तोऽनुभावसान्निध्यात्प्रदीप्तः कोप एव दहनोऽग्निर्यस्यैवंभूतः सुरारिस्तारकाः सहसा झटिति, न तु विलम्बेन । इदं सिद्धम्, न तु तत्कालसाधनीयम् । प्रदीप्तमिति वा । दहनदैवतमग्निदेवताकमस्त्रमसृजद्व्यसृजत् । 'सृज विसर्गे' इत्य- मात्तौदादिकाल्लङ् । वायव्यास्त्रपरिहारानन्तरं वह्वस्त्रमक्षिपदित्यर्थः ॥ ३४ ॥

  वर्षातिकालजलदद्युतयो नभोन्ते
   गाढान्धकारितदिशो घनधूमसंघाः ।
  सद्यः प्रसस्रुरसितोत्पलदामभासो
   दृग्गोचरत्वमखिलं न हि सन्नयन्तः ॥३५॥

 वर्षेति ॥ वर्षास्वतिकाला मेचकतरा ये जलदा मेघास्तेषां द्युतिः कान्तिरिव कान्तिर्येषाम् , वर्षाकालीनमेघसदृशमेचकितभास इत्यर्थः । श्यामत्वे द्वितीय- विशेषगेनोपमिमीते-असितानां नीलानामुत्पलानां कमलानां दाम्नः सजो भा इव भा रुक् येषामत एव गाढं नितरामन्धकारिता विसंजातान्धकारीकृता दिशो

पाठा०-१ उद्गतम् ; अन्वितम्. २ युधे. ३ उच्चैःप्रकोपदहनः. ४ तत्काल- आतजलद. ५ तत्र. ६ धुसदा हरन्तः. यैरेवंभूता धनधूमसंघा निबिडधूमसमृहा अखिलं घटादिवस्तु दृग्गोचरत्वं दृष्टि- विषयत्वं न हि नैव । 'हि पादपूरणे हेतौ विशेष्येऽप्यवधारणे' इति विश्वः । नयन्तः प्रापयन्तः सन्तः, घनधूमसंघव्यायैव हि किंचिदपि वस्तु लक्षणीयं बभूवेति भावः । सद्यः सपदि प्रसस्त्रः । प्रज्वलिप्यद्दहनप्राग्भावित्वेन धूमप्रसरण्स्यो चितत्वाध्दूमप्रसरणमुक्तम् । प्रपूर्वात् 'सृ गतौ' इत्यतो लिट् ॥ ३५ ॥

  दिक्चक्रवालगिलेनैमलिनैस्तमोभि-
   र्लिप्त नभःस्थलमलं घनवृन्दसान्द्रैः ।
  धूमैर्विलोक्य मुदिताः खलु राजहंसा
   गन्तुं सरः सपदि मानसमीपुरुच्चैः ॥ ३६ ॥

 दिगिति ॥ दिशां चक्रवालस्य मण्डलस्य गिलनैराच्छादकैः । 'गृ निगरणे' इत्यतः कर्तरि ल्युट् । 'अचि विभाषा' (पा. ८।२।२१ ) इति रेफस्य लत्वम् । तथा मलिनैर्मेचकैः, अत एव घनवृन्दमिव मेघमण्डलमिव सान्द्रैः सघनैर्धूमैर्धूमरूपैस्त मोस्भिर्लिप्तं व्याप्त नभःस्थलं विलोक्य दृष्ट्वा मुदिताः प्रसन्ना राजहंसाः सपदि सद्य उच्चैर्महन्मानसं सरः पल्वलं गन्तुमीपुरैच्छन् , दहनास्त्रप्रभूतधूमावलीव्याप्तन नभोदर्शनजनितमेघागमभ्रान्तिमतां कलहंसानां मानससरोजिगमिषोचितैवेति भावः ॥ ३६ ॥

  जज्वाल वह्निरतुलः सुरसैनिकेषु
   कल्पान्तकालदहनप्रतिमः समन्तात् ।
  आशामुखानि विमलान्यखिलानि कीला-
   जालैरलं कपिलयन्सकलं नभोपि ॥ ३७॥

 जज्वालेति ॥ कल्पान्तकालस्य प्रलयकालस्य दहनोऽग्निस्तस्य प्रतिमेव प्रतिमा स्वरूपं यस्य । तथाऽतुलो बहुलो वह्निः कीलाजालैर्ज्वालासमूहैः । 'वह्नेर्द्वयॉज्चालकील शिखा स्त्रियाम्' इत्यमरः । अखिलानि समस्तानि विमलानि शुद्धान्याशामुखानि 'दिगग्राणि । तथा सकलं नभोऽपि व्योम चालं

पाठा०-१ मिलितैः. २ नभस्तलम्. ३ पिहिताः. ४ अपिदधन्निखिलानि. ५ कपिशयन्. कपिलयन्पिशङ्गीकुर्वन् सुरसैनिकेषु मध्ये । 'यतश्च निर्धारणम्' (पा. २।३।४१) इति सप्तमी । समन्तात्परितो जज्वाल दिदीपे ॥ ३७ ॥

  उज्जागरस्य दहनस्य निरर्गलस्य
   ज्वालावलीभिरतुलाभिरनारताभिः ।
  कीर्ण पयोदनिवहैरिव धूमसंधै-
   र्व्योमालक्ष्यत कुलस्तडितामिवोच्चैः ॥ ३८ ॥

 उज्जागरेस्येति ॥ उज्जागरस्योद्दीप्तस्य । जागर्तेः 'ऋदोरप्' (पा. ३।३|१५७) इति भावेऽप् । निरर्गलस्य निर्गतप्रतिबन्धस्य दहनस्य वह्नेरतुलाभिर्बहुलाभिरनारताभिक्षणिकाभि ज्वालावलीभिः, कीलपङ्क्तिभिः । तथा पयोदनिवहैरिव मेघसमूहैरिव धूमसंधैः, व्याप्तमिनि शेषः

तथाभूनं व्योम नभः । कर्तृ । उच्चैर्महद्भिस्तडितां विद्युतां कुलंगणैः कीर्ण 
वृतमिवाभ्यलक्ष्यत दर्शनीयं बभूव, मेघमण्डलान्तरे चमत्कारकारिणीभिः
क्षणदाभिर्नभो यथा राजति, तथा मेघमण्डलसदृशधूमसंघमण्डलान्तर्गतक्षणदासदृशज्वालावलीभिरपि
बभावित्यर्थः । भानुक्रियार्तोभयत्राप्येक एव, अतो ज्वालावलीपु क्षणदात्वेनोत्प्रेक्षितम् ॥ ३८ ॥

  गाढाभ्देयाद्वियति विद्रुतखेचरेण
   दीप्तेन तेन दहनेन सुदुःसहेन ।।
  दन्दह्यमानमखिलं सुरराजसैन्य-
   मत्याकुलं शिवसुतस्य समीपमोप ॥ ३९ ॥

 गाढादिति ॥ गाढाद्भयाद्वेतोर्वियति नभसि विद्रुता विद्राविताः, पलायिता इति यावत्। खेचरव्यादयो येन,

रव्यादयो ग्रहा अपि यावदुद्रुवुरित्य्र्र्थ्ः तथा दीप्तेन प्रदीप्तेन । तथा सुतरां दुःसहेन सोढुमशक्येन तेन दहनेन

कर्ता दन्दह्यमानं पुनःपुनरतिशयेन वा दह्यते भस्मीक्रियते तथाभूतमत एवात्याकुलमतिपीडितमखिलं

समस्तं सुरराजसैन्यं कर्तृ शिवसुतस्य कुमारस्य समीप्ं

पाठा०-१ तद्भीतितः; तत्प्रान्ततः. २ चाद्भुतसंचरेण. ३ दीर्घेण. ४ अनि- शम्. ५ आगात्. संनिधिमाप। अतो नः पाहीति निवेदयितुं जगामेति व्यज्यते । तेन वस्तुना वस्तुध्वनिः ॥ ३९॥

  इत्यग्निना धनतरेण ततोऽभिभूतं
   तदेवसैन्यमखिलं विकलं विलोक्य ।
  सस्मेरवक्त्रकमलोऽन्धकशत्रुसनु-
   बाणासनेन समधत्त स वारुणास्त्रम् ॥ ४० ॥

 इतीति ॥ ततः सैन्यागमनानन्तरम् । सोऽन्धकशत्रुसूनुः कुमारः । इति पूर्वोक्तप्रकारेण घनतरेणातिसान्द्रेणाग्निनाभिभूतं पराभूतमखिलं समस्तं तद्देवसैन्य विकलं विधुरं विलोक्य सम्मेरं समन्दहासं वक्त्रकमलं यस्य, किंचिद्विहस्येत्यर्थः । अनेनात्मोत्कर्षव्यञ्जक उपहासो व्यज्यते । बाणासनेन धनुषा वारुणास्त्रमन्यस्त्र- प्रतिरोधकं वरुणदेवताकमस्त्रं समधत्त, संदध इत्यर्थः ॥ ४० ॥

  घोरान्धकारनिकरप्रतिमो युगान्त-
   कालानलप्रबलधूमनिभो नभोन्ते ।
  गर्जारवैर्विर्घटयनवनीधराणां
   शृङ्गाणि मेघनिवहो धनमुजगाम ॥ ४१ ॥

 घोरेति ॥ घोराणि भयानकानि यान्यन्धकाराणि तमांसि तेषां निकरस्य समूहस्य प्रतिमेव प्रतिमा स्वरूपं यस्य, गाढान्धकारसदृशकान्तिरित्यर्थः । तथा युगान्तकालस्य योऽनलोऽग्निस्तस्य प्रबलोऽधिको यो धूमस्तेन सदृशः । तथा गोरवैर्गर्जनाघोषैः कृत्वावनीधराणां पर्वतानां शृङ्गाणि सानूनि विघटयन्स्फोटयन् मेघनिवहः पयोधरसमुदायो नभोन्ते व्योममध्ये घनं सान्द्रम्, न तु विरलतया । उज्जगामोदियाय ॥ ४१ ॥

  विद्युल्लता वियति वारिदवृन्दमध्ये
   गम्भीरभीषणरवैः कपिशीकृताशा ।

पाठा०-१तदा. २ बाणासनेऽथ. ३ विधमयन्. ४ वृन्दवर्ग; वृन्द-

वर्ग. ५ रवे. Ì

  घोरा युगान्तचलितस्य भयंकराथ
   कालस्य लोलरसनेव चमच्चकार ॥ ४२ ॥

 विद्युदिति ॥ अथ मेघोदयानन्तरं वियति नभसि गम्भीराः सान्द्रा अत एव भीषणा भयदा ये रवा घोषास्तैरुपलक्षिता । तथा कपिशीकृताः पिशङ्गिता आशा दिशो यया । तथा युगान्तचलितस्य प्रलयकाले लोकादनाय प्रस्थितस्य कालस्य यमस्य भयंकरा भयदा लोलरसना चपलजिह्वेव घोरा भीमा विद्युल्लता तडिदूपिणी हाटकलता वारिदवृन्दमध्ये जलदमण्डलान्तराले चमञ्चकार, प्रतिक्षणव्यक्ती- कृतात्मरोचिरासीदित्यर्थः । अनेनोपमालंकारेण तारकासुरसैनिकानामियमिव चमत्कुर्वन्ती वैवस्वतरसना नोऽभ्यवहरिष्यतीति बुद्धिरुत्पन्नेति ध्वन्यते । अतो. ऽलंकारेण वस्तुध्वनिः ॥ ४२ ॥

  कादम्बिनी विरुरुचे विषकण्ठिकाभि-
   रुचालकालरजनीजलदावलीभिः ।
  व्योम्युच्चकैरचिररुक्परिदीपितांशा-
   ऽदृष्टिच्छदा विपमघोपविभीषणा च ॥४३॥

 कादम्बिनीति ॥ अचिररुग्भिर्वियु द्भिः प्रयोज्य कर्तॉभिः परिदीपिताः प्रका- शिता आशा यया प्रयोज्यककर्म्या । तथाऽदृष्टिच्छदा दृष्टिच्छदा नेत्रावरणकत्रीम् सा न भवतीति, किं तु नेत्रप्रकाशिका । 'पुंसि संज्ञायां घः' (पा. ३।३।११८) इति घः । 'छादेर्धे-' (पा. ६।४।९६ ) इति ह्रस्वः । तथा विषमेण करालेन घोषेण विभीषणा भयदा । उच्चकैर्महति व्योम्न्यन्तरिक्षे विषं जलम् । 'विषं तुङ्गबले तोये' इति विश्वः । कण्ठे मध्ये यासाम् , जलपूर्णमध्याभिरित्यर्थः । उत्ताला विकरालाः। 'उत्तालो होमकुण्डे स्याद्गर्ते चोत्ताल उत्कटे । श्रेष्ठेऽपि विकरालेऽपि स्यादुत्तालः प्लवंगमे ॥' इति विश्वः । तथा कालाः कृष्णपक्षीयाः । 'कालश्यामलमेचकाः' इत्यमरः । एवंभूता या रजन्यो रात्रयः। 'रजनी यामिनी तमी' इत्यमरः । ता इव या जलदावल्यो मेघपङ्क्त्तयः । 'मयूरव्यसकादयश्च' (पा. २।१।७२) इति समासः । ताभिरुपलक्षिता कादम्बिनी माला विरुरुचे बभौ । अत्र 'काद-

पाठा०-१ भयंकरस्य. २ बिस. ३ रजनीत्र रदावलीभिः. ४ अचिररोचताग्ने. ५ दृष्टिच्छलात् ; दृष्टिच्छटा. ६ विषमकोपविभीषणेव; विषमरोषविभीषणेव. म्बिनी'शब्दः केवलमालापरः । तदुक्तम् – 'विशिष्टवाचकानां पदानां सति हि पृथग्विशेषणसमवधाने विशेष्यमानपरता' इति ॥ ४३ ॥

  व्योम्नस्तलं पिदधतां ककुभां मुखानि
   गर्जारवैरविरतैस्तुदतां मनांसि ।
  अम्भोभृतामतितरामनणीयसीभि-
   र्धारावलीभिरभितो ववृषे समूहैः ॥४४॥

 व्योम्न इति ॥ व्योम्न आकाशस्य तलं स्वरूपम् । 'तलं स्वरूपाधरयोः खगमुष्टिचपेटयोः' इति विश्वः । तथा ककुभां दिशां मुखान्यप्राणि च पिदधतामाच्छादयताम् । 'पिधानाच्छादनानि च' इत्यमरः । तथाऽविरतैर्निरन्तरभवद्भिर्जारवैर्गर्जनाघोस्स्षैःकृत्वा मनांसि तुदतां व्यथयतामम्भोभृतां जलधराणां समूहैः कर्तृभिः । अनणीयसीभिरणीयस्योऽतिलघ्व्यो न भवन्ति तथोक्तामिः, महतीभिरित्यर्थः । धारावलीभिः संपातपतिङ्तिभिः कृत्वातितरां ववृषे वृष्टम् । भावे लिट् ॥ ४४ ॥

  घोरान्धकारपटलैः पिहिताम्बराणां
   गम्भीरगर्जनरवैर्यथितासुराणाम् ।
  वृष्ट्या तया जलमुचां वरुणास्त्रजानां
   विश्वोदरंभरिरपि प्रशशाम वह्निः ॥४५॥

 घोरेति ॥ घोराणि भयदानि यान्यन्धकारपटलान्यन्धतमसपटलानि तैः कृत्वा पिहिताम्बराणामावृतगगनानाम् । तथा गम्भीरगर्जनस्वैः कृत्वा व्यथिताः पीडिता असुरा यैस्ते वरुणास्त्रजानां वरुणदेवतास्त्रोत्पन्नानां जलमुचां मेघानाम् ।

पाठा०-१ अविततैः. २ बैह्वीयसाधितकराः सहसा रसेन घ्नन्त्यस्तटे निजकुले- ऽप्येसुरप्ररूढे । मेघान्धकारपटलीपिहिते नभोन्ते नद्यः प्रचेलुरभितः प्रेमदा इवाढ्याः ॥ ३ आलावितो बहुभवोऽपि हताम्बराणां गम्भीरगर्जनिपतद्विधुरासुराणाम् ; आप्लाविता- हवभुवा विहिताम्बराणां गम्भीरगर्जितपतद्विधुरासुराणाम्. ४ अथ. (१ बहीयसा. २ इव सुप्ररूढे. ३ प्रमदाहवाय.) तथाद्वितीयया वृष्ट्या वर्षेण विश्वेन समस्तजगता कृत्वोदरं भरतीति तथोक्तोऽपि समस्तलोकव्याप्यमानोऽपि वह्निरग्निः प्रशशाम । कुमारकृतवारुणास्त्रप्रयोगेणाम्यत्रमप्यनशदिति भावः ॥ ४५ ॥

{bold|

  दत्योऽपि रोषकलुषो निशितैः क्षुरप्रै-
   
{राकर्णकृष्टधनुरुत्पतितैः स भीमैः ।
  तद्भीतिविद्रुतसमस्तसुरेन्द्रसैन्यो
   गाढं जघान मकरध्वजशत्रुसूनुम् ॥ ४६॥

}}

 दैत्य इति ॥ रोषेण क्रोधेन कलुष आविलः । 'कलुषं त्वाविले पापे' इति मेदिनी । स दैत्योऽपि निशितः खरः । अत एव भीमैर्भ्यदैः|तथाकर्ण्माश्रवणं कृष्टाद्वनुषः सकाशादुत्पतितर्निःसृतैः क्षुरप्रैः शरविशेषैः कृत्वा । तेभ्यः क्षुरप्रेभ्यो भीत्या निमित्तेन विद्रुतं विद्रावितं समस्तं सुरेन्द्रसैन्यं पुरंदरबलं येन । 'सैन्यं क्लीब बले सेनासमवेते तु वाच्यवत्' इति मेदिनी । तथाभूतः सन् । गाढं दृढं यथा स्यात्तथा मकरध्वजस्य कामस्य शत्रोः शंभोः सूनुं पुत्रं जघान । प्राणापहरणकरणाभिप्रायेण हिनस्ति स्मेत्यर्थः । 'पुनस्तत्रैवावलम्बितो वेतालः' इति न्यायेन मायया सुखेन जेय एवेति मन्यमानेन तारकेण बाणसमरं हित्वा मायासमरं कुर्वाणेन तत्र सत्यपि दुर्जेयताबुद्ध्या पुनर्बाणयुद्धमकार्षीदित्यर्थः । अनेन वाच्यार्थेन 'अप्रतिहतप्रचारा मदीया मायाप्यनेन वीरेण प्रतिहता' इति शोकनस्तेन दैत्येन यथा पराजितेनापि विदुषा युक्त्या विवाद्यते तथा युध्यते, न तु वीररसानुगतत्वेनेति ध्वन्यत्ं ॥ ४६ ॥

  देवोऽपि दैत्यविशिखप्रकरं सचाप्ं
   बाणैश्वकर्त कणशो रणकेलिकारी ।
  योगीव योगविधिशुष्कमना यमाधैः
   सांसारिकं विषयसंघममोघवीर्यम् ॥ ४७॥

 देवोऽपीति ॥ रण एव केलिः क्रीडा तो करोति । सङ्ग्रामरूपक्रीडा-

पाठा-१ कोपकलुषः. २ सैन्यः. ३ प्रवरम्. ४ रणकेलिकारः. ५ विनिषक्तमनः.

६ विषयवर्गम्. ७ अयोधवीर्यः. विधायीत्यर्थः । देवोऽपि कुमारोऽपि बाणैः शरैः सचापं सकोदण्डं दैत्यस्य

तारकस्य विशिखानां शराणां प्रकरं समूहं योगविधिना योगाभ्यासविधानेन शुष्कमना नीरसमनाः । निःस्पृहचेता इति तात्पर्यार्थः । योगी यमाद्यैर्यमनियमप्रभृतिभिर्योगसाधनैः कृत्वाऽमोघवीयं योगिनामपि मनःसंभ्रान्तिकरणे सफलप्रभावं सांसारिकं संसारः प्रयोजनमस्येति तथोक्तम् । प्रयोजने टक् । विषयसंघ चक्षुरादिकरणोपभोग्यसमाहारमिव कणशश्चकन बिभेद । यथा योगाभ्यासनिरतो यमनियमपूर्वेश्चक्षुरादिकरणभोग्यं दर्शनीयादिकरणवस्तु कृन्तति, तथा कुमारोऽपि यमनियमवत्तीवैर्बाणैर्विषयसंघमिव सफललक्ष्यभेदनक्रियोचितत्वमपि शरनिकरमभनगिति भावः ॥ ४ ॥

  भ्रूभङ्गभीपणमुखोऽसुरचक्रवर्ती
   संदीप्तकोपदहनोऽथ रथं विहाय ।
  क्रीडत्करालकरवालकरोऽसुरेन्द्र-
   स्तं प्रत्यधाबदाभितत्रिपुरारिसूनुम् ।। ४८ ॥

 भ्रूभङ्गेति ॥ अथ शस्त्रास्त्रयुद्धानन्तरं सम्यगधिकं यथा तथा दीप्तः कोप एव दहनोऽग्निर्यस्य । अत एव र्भ्रुवोर्भ्र्कुठ्योर्भ्ंङेन वक्रत्वेन भीषणं विलोकयितॄणां भयदं मुखं वदनं यस्य तथोक्तोऽसुराणां दैत्यानां चक्रवर्ती सम्राट् । सार्वभौम इत्यर्थः । 'राजा तु प्रणताशेषसामन्तः स्यादधीश्वरः । चक्रवर्ती सार्वभौमो नृपोऽन्यो मण्डलेश्वरः' इत्यमरः । असुरेन्द्रस्तारको रथं स्यन्दनं विहाय परित्यज्य क्रोडन्नधैर्यदिशि कम्पमानस्तथा करालो भीषणः करवालः स्वंङः स करे पाणौ यस्य, धारितविकटकृपाणः सन्नित्यर्थः । तं त्रिपुरारिसूनुं शिवपुत्रमभितः संमुखं प्रत्यधावत् , कुण्ठितसर्वशस्त्रास्त्रत्वात्करवालेन शिरोनालजिहीर्षया प्रतिदुद्रा- वेत्यर्थः । 'धावु गतौ' इत्यस्मात्कर्तरि लङ् ॥ ४८ ॥

  अभ्यापतन्तमसुराधिपमीशपुत्रो
   दुर्वारबाहुविभवं सुरसैनिकैस्तम् ।
  दृष्ट्वा युगान्तदहनप्रतिमां मुमोच
   शक्तिं प्रमोदविकसद्वदनारविन्दः ॥ ४९ ।।

पाठा०-१ दधानश्चर्माभ्यधावत् . २ पुत्रम्. ३ अमुरेश्वरम्. ४ तैः. २४कुमं स्ं  अभ्यापतन्तमिति ॥ सुरसैनिकैर्देवसेनाजनैर्दुर्वारो दुःसह्यो बाहुविभवो भुजवीर्यं यस्य । सुरसैनिकैर्दुर्जेयमित्यर्थः । तमसुराधिपं दैत्यराजमभ्यापतन्तं संमुखमागच्छन्तं दृष्ट्वा विलोक्येशपुत्रो महेशतनयः कुमारः प्रमोदेन तदीयवशंग- तत्वजनितानन्देन विकसद्विदलद्वदनारविन्दं मुग्वकमलं यस्य, किंचिद्विहस्येत्यर्थः । युगान्तदहनस्य प्रलयकालीनानलस्य प्रतिमेव प्रतिमा प्रतियातना यस्याः, प्रज्वल- दृहनकीलाजालपरिवृतामित्यर्थः । शक्तिमायुधविशेषं मुमोच । 'शक्तिः प्रहरणान्तरे' इति विश्वः ॥ ४९॥

  उद्दयोतिताम्बरदिगन्तरमंशुजालैः
   शक्तिः पपात हृदि तस्य महासुरस्य ।
  हर्षाश्रुभिः सह समस्तदिगीश्वराणां
   शोकोष्णबाष्पसलिलैः सह दानवानाम् ॥५०॥

 उद्दयोतितेति ॥ अत्र सेति शेषः । सा कुमारमुक्ताशक्तिः समस्ता ये दिगीश्वरा इन्द्रादयोऽष्टदिक्पालास्तेषां हर्षाश्रुभिरानन्दबाप्पैः सह । तेषामभिलषितत्वाद्युक्तमेव तदीयहृदयशक्तिपतनजनित आनन्दो यदासीत् । दानवानां तदीयपक्षपातिनां रक्षसां शोकन भर्तृमरणजनितेनोष्णानि यानि बाप्पसलिलानि तैः सह । अंशुजालैः किरणसमूहैः कृत्वोयोतितं प्रकाशितमम्बरस्य दिशां चान्तरं मध्यं यत्र यस्यां क्रियायां यथा भवति तथा । उज्वालितसकलदिगम्बरमध्यं तस्य महासुरस्य तारकस्य हृदि हृदये पपात पतितवती ॥ ५० ॥

  शक्त्या हतासुमसुरेश्वरमापतन्तं
   कल्पान्तवातहतभिन्नमिवाद्रिशृङ्गम् ।
  दृष्ट्वा प्रेरूढपुलकाञ्चितचारुदेहा
   देवाः प्रमोदमगमंस्त्रिदशेन्द्रदशेन्द्रमुख्याः ।। ५१ ।।

 शक्तयेति ॥ शक्त्या कर्त्र्या हृता अपगमिता असवः प्राणा यस्य, शक्तिप्रहारेण गतप्राणमित्यर्थः । एवंभूतमसुरेश्वरं तारकं कल्पान्तवातेन प्रलयकालीन-

पाठा०-१ समग्र. २ शोकोन्थ. ३ हतासुम् ; अथ तारम्. ४ हति. ५ प्ररू- ढपुलकाङ्कित; अवरूढपुलकाञ्चित. ६ निदिवेशमुख्याः. पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/४१७ पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/४१८ पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/४१९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/४२० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/४२१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/४२२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/४२३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/४२४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/४२५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/४२६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/४२७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/४२८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/४२९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/४३० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/४३१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/४३२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/४३३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/४३४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/४३५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/४३६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/४३७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/४३८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/४३९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/४४० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/४४१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/४४२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/४४३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/४४४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/४४५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/४४६

  1. वारिनिधी.
  2. विगाह्य.
  3. निषङ्ग; निषक्त.
  4. विलोकितानि च.
  5. दिग्धफलैः.
  6. इवार्दितः.
  7. गुरु.
  8. लघुः पाठ्यांशः
  9. लघुः पाठ्यांशः
  10. लघुः पाठ्यांशः
  11. लघुः पाठ्यांशः
  12. लघुः पाठ्यांशः
  13. लघुः पाठ्यांशः
  14. लघुः पाठ्यांशः
  15. लघुः पाठ्यांशः
  16. लघुः पाठ्यांशः
  17. लघुः पाठ्यांशः
  18. लघुः पाठ्यांशः
  19. लघुः पाठ्यांशः
  20. लघुः पाठ्यांशः
  21. लघुः पाठ्यांशः
  22. लघुः पाठ्यांशः
  23. लघुः पाठ्यांशः
  24. लघुः पाठ्यांशः
  25. लघुः पाठ्यांशः
  26. लघुः पाठ्यांशः
  27. लघुः पाठ्यांशः
  28. लघुः पाठ्यांशः
  29. भुजेन.
  30. हेम.
  31. शश्वत्.
  32. उद्धतया.
  33. बभासे.
  34. मेरोरिवान्तपरिवर्त.
  35. विभात.
  36. च.
  37. अनुबिम्बम्.
  38. अपि.
  39. समाश्वसीत्.
  40. तया निशाक्षये.
  41. वंशिकैः.
  42. समुपगीत.
  43. प्रशिथिला.
  44. रचित.
  45. निपुणा:.
  46. पङ्किभिः.
  47. संचयम्.
  48. सुपूर्णम्.
  49. तलम्.
  50. विधेहि.
  51. तथा.
  52. नाक.
  53. मुहुर्मुहान्तः.
  54. गुरुनादनिःस्वनैः.
  55. तापि किम्.
  56. समुच्छ्रितेन.
  57. चमूरवेण तेन.
  58. स्ववीरलक्ष्मी.
  59. अभिसृत्य,
  60. लीलया.
  61. विनिःशङ्कतराः
  62. विलोकिता.
  63. जातप्रमदेन, दुष्ट प्रमदेन.
  64. भुवि.
  65. सुविस्तृतायाम्.
  66. न सैनिकाः
  67. पीतासितं रक्तसितम.
  68. प्रान्तोत्थितैः.
  69. अखर्व.
  70. सुतराम् ; नितराम्.
  71. रवः प्रगल्भाहतभेरिसंभवः.
  72. मूलंकषताम्.
  73. मन्थनः.
  74. शतैः;
    स तैः.
  75. स्वनैः.
  76. ष्वलम्.
  77. चलै.
  78. नभस्तलम्.
  79. अयापि;
  80. सान्द्रे.
  81. विलासिभिः श्रिते; निभैरभिस्नुतैः.
  82. वर्णमयध्वजवजाः; वर्णमया ध्वजवजाः.
  83. अधस्तात्.
  84. चक्षुषः,
  85. सूच्याभिन्नैः.
  86. रजोभरैः; रजोभिः.
  87. सुनिर्भरम्;
    सुनिर्भरैः.
  88. दन्तावल.
  89. वाह.
  90. गुरुमत्सरादिव.
  91. १ ततः.
  92. दिवमभ्यगात्ततः.
  93. निर्भरा विकांदिशीकत्वम्.
  94. द्विपबृंहितः शतैः.
  95. चलध्वज.
  96. अथ.
  97. नभः; तत्.
  98. रणोज्वलैः
  99. वीरप्रभेदैः.
  100. दानाम्बुधि; दानद्रुत.
  101. बहु ताः.
  102. धरारजोभिस्तुरगक्षतै तं याः पङ्कतामेत्य रजस्वलीकृतम् ; धारारजोभिस्तुरगैः क्षितिभृता या पढ़तामेत्य रथैः स्थलीकृता.
  103. निम्नप्रदेशाः.
  104. सर्वतःस्थलम् ; सर्वतःस्थलाः.
  105. क्षिती.
  106. समीकृता.
  107. पयोविनिधूननकेलिभिः; पयोधिनिधूतककेलिभिः,
  108. स्खनितैः.
  109. विधूति.
  110. आराधिताशा.
  111. लघु क्वणत्; चलत्कणत्,
  112. नभोगतैः.
  113. निरन्तैः.
  114. मदद्विपानाम्.
  115. मुखैः; रवैः.
  116. चमूरवैः.
  117. सस्ताम्बराः; स्रस्तां धराम्.
  118. गगने; गहने.
  119. गुरुमत्सरादिव.
  120. बहुवारिभराद्धनाः,
  121. अतीव.
  122. नमन्तः.
  123. अभवत्.
  124. वरतरसुर.
  125. संहारकाले.
  126. घोरघोरः.
  127. ववृषुः.
  128. भूम्यन्तरालाः; समाना व्योनि भूम्यन्तराले.
  129. युद्धे.
  130. हृदयस्य कम्पिनी.
  131. चमूपतिम्
  132. विजित्वराभिः.
  133. आवृतम् ; आगमम्.
  134. स्वान्ते.
  135. पुरः.
  136. दूनसूनुना;शत्रुसूनुम्.
  137. जम्भजिता.
  138. समागतम्.
  139. तु; नु.
  140. इव; एव.
  141. सकाकु सोऽहसत्.
  142. वाहवरान्.
  143. ननन्द.
  144. दैत्यः; पश्यन्.
  145. पृतनायुधान्.
  146. निजान्.
  147. ततः.
  148. दानद्रवनाशनस्वनम् ; दानद्रवताननिःस्वनम्.
  149. अम्भोध्यनिवारित; अम्भोधिनिवारित.
  150. प्रति प्रयातुम् ; प्रतिप्रयातम्.
  151. प्रसर्पतः
  152. दानाम्बुधरेषु.
  153. उद्वेजिताः.
  154. व्यवर्धत.
  155. ऊर्मिशतैरवारितैः.
  156. निकेतनावलीः.
  157. द्विषः पुरस्तादशुभौघदायिनीं; पताकिनी प्रत्यसुरेश्वरस्य हि.
  158. अगाधदुःखाम्बुधिमध्यमज्जनं बभूव चोत्पातततिर्विशंसती; मुहुर्महारिष्टपरम्परा ह्यभूत्परापतन्मृत्युमहापताकिनी.
  159. भविष्यदैत्याशमकेलिकामिनी.
  160. द्युपक्षिणाम्
  161. अभिमौलि चाकुलैः
  162. तस्यातनुच्छायमपायदर्शिभिः
  163. सोदरं क्वचित्
  164. उल्काततगर्भ
  165. रथस्य
  166. चामरात्
  167. बालबालधीन्
  168. अखण्डेन
  169. धूयुगोद्गतः
  170. इत्याद्यनिष्टैः; इत्यादिरिष्टैः
  171. न च विन्यवर्ततः; न गतः स वर्त्मना
  172. अम्बरे
  173. मन्मथशत्रु
  174. सनाथैस्त्रिदिवेश्वरादिभिः; सनाथैस्त्रिदशेश्वरादिभिः
  175. समरे
  176. महासुरैः; सुरासुरैः
  177. विमुह्यते
  178. सोऽभिमुखम् ; योऽभिमुखम्
  179. त्वियम्
  180. तेन
  181. दिक्चक्रवालस्थगितस्य; दिक्चक्रवालस्थगतस्य
  182. स्वशरैर्विनिर्ममे येनाहवे तेन कुतः समो भवान्
  183. कृताभिषेकः
  184. तिलकेन
  185. अवकाशी; अवकेशी
  186. विग्रहग्रहः
  187. दर्पम्
  188. जगत्प्रवीरम्
  189. सुचिराय
  190. वरीयसीम्
  191. सः
  192. नाकम्पत; प्राकम्पत
  193. अभ्यधात्ततः; अभ्यगात्ततः
  194. हे
  195. मखारि
  196. वेदनामहोऽधुनेव
  197. विस्मृत्य गताः स्वपृष्ठतः
  198. कटुस्वरैरारटथ; कटुस्वरैरीरयथ.
  199. प्रवृत्ताः.
  200. कार्तिकीनिशि.
  201. भर्गतपस्विनः.
  202. अतस्करम्
  203. तु.
  204. ध्रुवम्
  205. निकृष्य
  206. अभिकोशमाधादसिमंशुभासुरम्
  207. बत
  208. प्रति
  209. द्रुतम्
  210. पृतनाः प्रथीयसीः
  211. भूम्ना बहु
  212. ऽसुरेन्द्रानुचराः ऽसुरेन्द्रस्य चराः
  213. पुरःसराः
  214. सुरद्विषः
  215. अभ्यगुः
  216. सहेलमात्मनः
  217. अभितः
  218. अखिलाः सुराः; अखिलाः स तु
  219. स्मरारिसूनोः
  220. ममौ
  221. भटः; पुरः
  222. भावि रणे हि हेलया
  223. विसंकुला चमूम्
  224. महाहवोत्सवम् ; महाहवे बलम्
  225. उत्साहिनः
  226. सुधाशिनः
  227. अहंजुषः; अयत्नतः
  228. प्रवरोद्धृतायुधाः; प्रचुरोद्धतायुधाः
  229. वैमानिकैः श्रावितमानसत्क्रमाभिधानम् ; वैतालिकैः श्रावितनामविक्रमाः सोत्साहम् ; वैतालिकश्रावितनामविक्रमाभिधानम्
  230. संग्रामप्रलयाय; संग्रामे प्रलयाय
  231. आरोहदिभ्व्यापिनः
  232. कालातिथ्यपृथुप्रदानबहलः; कालातिथ्यपृथूच्चचाल बहलः
  233. क्रोधिनः क्रोधिलः
  234. अन्योन्य
  235. भयंकरम्
  236. कुलाधीशनामानि.
  237. पठिता बन्दिभिः श्रुत्वा प्रवीरबिरुदावलीः;
    पठिता बन्दिवृन्देन प्रवीरबिरुदावलीः; पठतां बन्दिवृन्दानां प्रवीरबिरुदावलिम्.
  238. अपि.
  239. वात्याविधूतदलवद्भ्रमम्; वायोर्द्विवृन्तदलवृन्दमिव.
  240. अपि; ते.
  241. अशेषमेव.
  242. कमलाकलनैकहेतुम्; कमलाकुशलैकहेतुम्.
  243. अतनुम्.