पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/४४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३९८
[ सर्गः ८
कुमारसंभवे

 संप्रति प्रियवशंवदत्वमाह-

 तां विलम्बितपनीयमेखलामुद्वहञ्जघनभारदुर्वहाम् ।
 ध्यानसंभृतविभूतिसंभृतं प्राविशन्मणिशिलागृहं हरः ॥ ८१॥

 तामिति ॥ हरो विलम्बितपनीयमेखलां वित्रंसिहेमरसनां जघनभारेण दुर्वहां तां पार्वतीमुद्वहन् ध्यानसंभृतया संकल्पमात्रसिद्धया विभूत्या भोगसाधनेन संभृतं संपूर्ण मणिशिलागृहं प्राविशत् , रिरंसुरिति भावः ॥ ८१ ॥

 तत्र हंसधवलोत्तरच्छदं जाह्नवीपुलिनचारुदर्शनम् ।
 अध्यशेत शयनं प्रियासखः शारदाभ्रमिव रोहिणीपतिः॥८२॥

 तत्रेति ॥ तत्र मणिभवने हंसवाद्ववल उत्तरच्छदः प्रच्छदपटो यस्य तत्तथोक्तं जाह्नवीपुलिनमिव चारुदर्शनं शयनं शय्यां रोहिणीपतिश्चन्द्रः शरदि भवं शारदमभ्रं मेघमिव । शरद्रहणं धावल्यार्थम् । प्रियसखः सन् , प्रियया सहेत्यर्थः। अध्यशेत शयितवान् । 'अधिशीस्थासां कर्म' ( पा. १।४।४६ ) इति कर्मत्वम् । रोहिणीग्रहणसामर्थ्यादिन्दोरप्यभ्रारोहणे रोहिणीसाहित्यमनुसंधेयम् ॥ ८२ ॥

 क्लिष्टचन्द्रमदयैः कचग्रहैरुत्पथार्पितनखं समत्सरम् ।
 तस्य तच्छिदुरमेखलागुणं पार्वतीरतमभूदतृत्पये ।। ८३ ॥

 क्लिष्टेति ॥ अदयैर्निर्दयैः कचग्रहैः केशकर्षणैः क्लिष्टचन्द्रं पीडितहरचन्द्रमुत्पथमुन्मर्यादमर्पिता नखा यस्मिंस्तत्समत्सरमन्योन्यविजिगीषापूर्वकं छिदुराः स्वयमेव छिद्यमाना मेखलागुणा यस्मिंस्तत्तथोक्तम् । 'विदिभिदिच्छिदेः कुरच्' (पा. ३।२।१६२ ) इति कुरच्प्रत्ययः । 'कर्मकर्तरि' इति काशिका । पार्वतीरतं तस्येश्वरस्यातृत्पयेऽभूत् , तृप्तये नाभूदिति भावः ॥ ८३ ॥

 केवलं प्रियतमादयालुना ज्योतिषामवनतासु पङ्क्तिषु ।
 तेन तत्परिगृहीतवक्षसा नेत्रमीलनकुतूहलं कृतम् ॥ ८४ ॥

 केवलमिति ॥ प्रियतमादयालुना केवलम् । प्रियतमायां दययैव तस्येश्वरस्य सौकुमार्यादनवरत सुरतासहिष्णुत्वात् , नतु स्वयं तृप्त्येत्यर्थः । तत्परिगृहीतवक्षसा तया पार्वत्याश्लिष्टवक्षसा तेनेश्वरेण ज्योतिषां नक्षत्राणां पङ्क्लिष्ववनतासु सतीषु, पश्चिमायामित्यर्थः । नेत्रमीलनकुतूहलं कृतम्, निद्रा स्वीकृतेत्यर्थः ॥८४॥