पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/४४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ८१-८९]
३९९
प्रभाते शिवपार्वत्योर्विबोधनम्

 स व्यबुध्यत बुधस्तवोचितः शातकुम्भकमलाकरैः समम् ।
 मूर्च्छनापरिगृहीतकैशिकैः किंनरैरुषसि गीतमङ्गलः ॥ ८५ ॥

 स इति ॥ बुधस्तवोचितो विद्वत्स्तोत्रार्हः स हर उपसि प्रभाते । स्वराणामारोहक्रमो मूर्च्छना । 'क्रमयुक्ताः स्वरास्तत्र मूर्च्छना परिकीर्तिता' ( नाट्य० ) इति भरतः। तया मूर्छनया परिगृहीतकैशिकैः स्वीकृतरागविशेषैः किंनरैर्गीतमङ्गलः सन् । शातकुम्भकमलाकरैः समं कनकपद्माकरैः सह। 'तपनीय शातकुम्भं गाङ्गेयं भर्म कर्बुरम्' इत्यमरः । व्यबुध्यत विबुद्धवान् । बुध्यतेदैवादिकात्कर्तरि लङ् । अत्र बुध्यतेर्जागिरविकासयोर्बोधयोः श्लेषनिमित्तकाभेदाध्यवसायमूला सहोक्तिरलंकारः ॥८५॥

 तो क्षणं शिथिलितोपगृहनौ दंपती रचितमानसोर्मयः ।
 पद्मभेदनिपुणाः सिषेविरे गन्धमादनवनान्तमारुताः ॥८६॥

 ताविति ॥ शिथिलितोपगृहनौ शिथिलितालिङ्गनौ । जाया च पतिश्च दंपती । 'जाया'शब्दस्य दंभावो निपातितः। तौ शिवौ रचितमानसोर्मयः, मानसे सरसि रचिततरङ्गा इत्यर्थः। पद्मभेदनिपुणाः, पद्मभेदपिशुना इति यावत् । विकाससूचका इत्यर्थः । गन्धमादनवनान्तमारुताः क्षणं सिषेविर ॥ ८६ ॥

 ऊरुमूलनखमार्गराजिभिस्तत्क्षणं हृतविलोचनो हरः ।
 वाससः प्रशिथिलस्य संयमं कुर्वतीं प्रियतमामवारयत् ॥ ८७ ॥

 ऊर्विति ॥ तत्क्षणं मारुतवीजनसमय ऊरुमूले नखमार्गराजिभिर्नखपद- पलिभिः, मरुता प्रसारितवस्त्रतया प्रकाशिताभिरित्यर्थः । हृतविलोचन माकृष्ट- दृष्टिहरः प्रशिथिलस्य वाससः संयम बन्धनं कुर्वती प्रियतमामवारयत् ॥ ८७ ॥

 स प्रजागरकषायलोचनं गाढदन्तपदताडिताधरम् ।
 आकुलालकमरंस्त रागवान्प्रेक्ष्य भिन्नतिलकं प्रियामुखम् ॥८८॥

 स इति ॥ रागवानरागी स हरः प्रजागरेण कषायलोचनं रक्तनेत्रं गाढैर्दन्तपदैर्दन्तक्षतैस्ताडिताधरमाकुलालकं भिन्नतिलकं प्रियामुखं प्रेक्ष्यारंस्तान्वरज्यत, तादृङ्मुखर्शनमेव तस्योद्दीपकमित्यर्थः ॥ ८८ ॥

 तेन भङ्गिविषमोत्तरच्छदं मध्यपिण्डितविसूत्रमेखलम् ।
 निर्मलेऽपि शयनं निशात्यये नोज्झितं चरणरागलाञ्छितम् ८९