मान्यभक्तिरथवा सखीजनः सेव्यतामिदमनङ्गदीपकम् ।
इत्युदारमभिधाय शंकरस्तामपाययत पानमम्बिकाम् ॥ ७७ ॥
मान्यभक्तिरिति ॥ अथवा सखीजनो मान्या भक्तिर्यस्य स तथोक्तः, सखीजनः स्वीकार्य इत्यर्थः । ततोऽनङ्गदीपकमिदं वक्ष्यमाणं पान सेव्यतामित्युदारं चतुरमभिधाय शंकरस्तामम्बिकां पीयत इति पानं मद्यमपाययत पाययामास ।पिबतेर्ण्यन्ताल्लुङि तङ् । पिबतेः प्रत्यवसानार्थादणि कर्तुः कर्मत्वम् ।पिबतेनिंगरणार्थत्वेऽपि 'न पादम्या-' (पा. १:३१८९) इति परस्मैपदप्रतिबेधः ।ननु मान्यभक्तिरित्यत्र कथं पुंवद्भावः ? 'अप्रियादिपु' इति निषेधाद्भक्तिशब्दस्य प्रियादिपाठान्नैष दोषो नपुंसकपूर्वपदत्वात् । यथाह वृत्तिकारः-दृढभक्तिरित्येवमादिपु स्त्रीपूर्वपदस्याविवक्षितत्वात्सिद्धम्' इति । भोजराजस्तु–'भज्यत इति कर्मसाधनस्यैव प्रियादिपाठतया दृढभक्तिरिति, न तु भजनं भक्तिरिति भावसाधनस्य । अतोऽत्र स्त्रीपूर्वपदत्वेऽपि न दोषः' इत्याह ॥ ७७ ॥
पार्वती तदुपयोगसंभवां विक्रियामपि सतां मनोहराम् ।
अप्रतक्र्यविधियोगनिर्मिता नम्रतेव सहकारतां ययौ ॥ ७८ ॥
पार्वतीति ॥ [ अस्य श्लोकस्य व्याख्या नोपलब्धा ] ॥ ७८ ॥
तत्क्षणं विपरिवर्तितह्रियोर्नेष्यतोः शयनमिद्धरागयोः ।
सा बभूव वशवर्तिनी द्वयोः शूलिनः सुवदना मदस्य च ॥७९॥
तदिति ॥ सुवदना पार्वती तत्क्षण तथैव विपरिवर्तितद्वियोर्निवर्तितलज्जयोः शयनं तल्पं नेष्यतोः प्रापयिष्यतोरित्थं प्रवृद्धो रागोऽनुराग आरुण्यं च ययोरिद्धरागयोः शूलिनः प्रियतमस्य मदस्य चेति द्वयोर्वशे वर्तत इति वशवर्तिन्यधीना बभूव ॥७९॥ मदपारवश्यं तावदाह-
घूर्णमाननयनं स्खलत्कथं खेदबिन्दुमदकारणस्मितम् ।
आननेन न तु तावदीश्वरश्चक्षुषा चिरमुमामुखं पपौ ।। ८० ॥
घूर्णमानेति ॥ ईश्वरो घूर्णमाननयनं भ्राम्यन्नेत्रं स्खलत्कथं स्खलद्वचनं स्वेदबिन्दुमत्स्वेदयुक्तमकारणस्मितमाकस्मिकहासयुक्तमुमामुखं तावत् , आ तृष्णापगममित्यर्थः । आननेन मुखेन न पपौ, न चुचुम्बेत्यर्थः । किंतु चिरं चक्षुषा पपौ,
तृष्णयाद्राक्षीदित्यर्थः । तस्या मदपारवश्यं दृष्ट्वा मुदं तावदन्वभूदित्यर्थः ॥ ८० ॥