पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/४२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३८०
[ सर्गः ८
कुमारसंभवे

क्ताभूत् । रञ्जर्दैवादिकारकर्तरि लकारः । स्वरितत्वादात्मनेपदम् । तथैव वरोऽपि नवोढाप्यात्मनः सदृशमात्मसदृशम् । 'त्यदादिषु दृशोऽनालोचने कञ्च' (पा. ३।२।६० ) इति चकारात्किप्पत्ययः । तां वधू प्रत्यन्वरज्यत, वध्वामनुरक्तो- ऽभूदित्यर्थः । 'गत्यर्थाकर्मक-' (पा. ३।४।७२ ) इत्यादिना सकर्मकत्वम् । दृष्टान्त- माह-जाह्नवी गङ्गा सागरान्नापगच्छतीत्यनपगानपेता हि । सोऽपि सागरस्तया जाह्नव्या मुखरसेनारग्रसलिलेन वक्त्रास्वादनैका मुख्या निर्वृतिरानन्दो यस्य स तथोक्तः । अत्र दृष्टान्तालंकारः । लक्षणं तूक्त्म् । इत्थं समानानुरागकथनाद्र- साभासत्वं निरस्तम् । तदुक्तम् –'योषितो बहुसक्तिश्चेद्रसाभासः स उच्यते' । कविनाप्युक्त मालविकायाम् ( ३१५४ )-'अनातुरोक्तं प्रति विप्रसिद्धता समी- पगेनापि रतिर्न मां प्रति । परस्परप्राप्तिनिराशयोर्वा शरीरनाशोऽपि समान- रागयोः ॥' इति ॥ १६॥

 अथ देव्याः प्रगल्भावस्थामाश्रित्य संभोगमाह-

 शिष्यतां निधुवनोपदेशिनः शंकरस्य रहसि प्रपन्नया ।
 शिक्षितं युवतिनैपुणं तया यत्तदेव गुरुदक्षिणीकृतम् ॥ १७ ॥

 शिष्यातामिति ॥ रहस्येकान्ते निधुवनमुपदिशतीनि निधुवनोपदेशिनः सुरत- विद्यागुरोः । 'व्यवायो ग्राम्यधर्मो मैथुनं निधुवनं रतम्' इत्यमरः । शंकरस्य शिष्यतां प्रपन्नया प्राप्तया तया पार्वत्या यद्युवतिनैपुणं युवतिजनोचितं नैपुणम् , सुरतकौशलमित्यर्थः । शिक्षितमभ्यस्तम् , आचरितमित्यर्थः । तदेव गुरुदक्षिणी- कृतम् , यथोपदेशकरणादृक्षिणासममभूदित्यर्थः । अनेन कृतप्रतिकृतं सूच्यते ॥१७॥

 दष्टमुक्तमधरोष्ठमम्बिका वेदनाविधुतहस्तपल्लवा ।
 शीतलेन निरवापयत्क्षणं मौलिचन्द्रशकलेन शूलिनः॥१८॥

 दष्टमिति ॥ अम्बिका पार्वती दष्टश्चासौ मुक्तश्च तं दृष्टमुक्तम् । 'पूर्वकाल-' (पा. २।१।४९) इत्यादिना समासः । अधरोष्ठं वेदनया विद्युतौ कम्पितौ हस्त- पल्लवौ पाणिपल्लवौं यस्याः सा तथोक्ता सती शीतलेन शूलिनो मौलिचन्द्रशकलेन क्षणं निरवापयत् । शीतलोपचारेण निर्च्यथमकरोदिति विश्रम्भोक्तिः । निवाते- र्धातोर्ण्यन्तात् 'अर्तिही-' (पा. ७।३।३६) इत्यादिना पुगागमः । अत्राधरपीड-

पाठा०-१'अनातुरोत्कण्ठितयोः प्रसिध्यता समागमेनापि'.