पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/४२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० १-४]
३७५
शिवपार्वत्यो रतिकेलिवर्णनम्

नायिकानायकयोरन्योन्यानुभवदर्शनात्सुखमाविर्भवति । तच्च मदनोद्दीपकमिति रसविदां स्थितिः । तथा च हरस्य गौर्यां नवोढायां स्वगोचरभावप्रत्युक्तसाध्वस- दर्शनात्सुखमाविर्भवति, तच्च मदनाकारं प्रादुर्बभूवेत्यर्थः । तत्र रसभावस्थायिनः कार्यमनुभावः । तदुक्तम्—'रसा गच्छन्ति संस्थानं यत्कार्यमुपलक्ष्यते । सोऽनु- भावः….संस्थानसूचकः ॥' इति सर्गेऽस्मिन्रथोद्धता वृत्तम् ॥ १॥

 उक्तं भावसाध्वसम् । तस्य सुखमयत्वं च वर्णयति-

 व्याहृता प्रतिवचो न संदधे गन्तुमैच्छदवलम्बितांशुका ।
 सेवते स्म शयनं पराङ्मुखी सा तथापि रतये पिनाकिनः॥२॥

 व्याहृतेति ॥ सा पार्वती व्याहृता यत्किंचिदभिहिता सती प्रतिवचः प्रत्युत्तरं न संदधे, न ददावित्यर्थः । अवलम्बितांशुका गृहीतवस्त्रा सती गन्तुमपसर्पितु- मैच्छदिच्छति स्म । इषिधातोर्लङ् । 'इपुगमियमां छः' (पा. ७।३।७७ ) इति छकारः। पराङ्मुखी सती शयनं सेवते स्म, अनभिमुखमशयिष्टेत्यर्थः । तथापि इत्थं साध्वसाप्रतिकूलचेष्टितापीत्यर्थः । पिनाकिनः शिवस्य रतये सुखाय, बभूवेति शेषः । प्रातिकूल्यमपि तस्यानन्दकरमभूदित्यर्थः । एतेन नवोढाया देव्या मौग्ध्या- द्विजितं तन्ममत्वमवसेयम् ॥ २ ॥

 कैतवेन शयिते कुतूहलात्पार्वती प्रतिमुखं निपातितम् ।
 चक्षुरुन्मिपति सस्मितं प्रिये विद्युदाहृतमिव न्यमीलयत् ॥३॥

 कैतवेनेति ॥ प्रिये भर्तरि कुतूहलात् , एषा किं करिष्यतीति बुभुत्सयेत्यर्थः । कैतवेन कपटेन शयिते सुप्ते सति पार्वती क्त्री प्रतिमुखं यथा तथा निपातितम्, प्रियस्वापपरीक्षार्थं तदभिमुखं प्रवर्तितमित्यर्थः । चक्षुः स्वदृष्टिं सस्मितमुन्मिषति, पुनः प्रिये सहासं पश्यतीत्यर्थः । विद्युदाहतं विद्युता प्रतिहतमिव न्यमीलयत् । साध्वसादिति भावः । एतेन किंचित्साध्वसस्यापचयो व्यज्यते ॥ ३ ॥

 नाभिदेशनिहितः सकम्पया शंकरस्य रुरुधे तया करः ।
 तहुकूलमथ चाभवतस्वयं दूरमुच्छ्वसितनीविबन्धनम् ॥ ४॥

 नाभीति ॥ नाभिदेशनिहितः, नीविमोचनायेति शेषः । शंकरस्य करः सकम्पया वेपथुमत्या, प्रियकरस्पर्शादुत्पन्नसात्त्विकभावयेत्यर्थः । तया पार्वत्या रुरुधे निवारितः । अथ च, तथापीत्यर्थः । तद्दुकूलं स्वयं स्वत एव दूरमत्यन्त-