पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/४१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ५०-५३]
३७१
कुमारशक्त्या तारकहननम्

प्रभञ्जनेन हतमास्फोटितमत एव भिन्नं विदीर्णमद्रिशृङ्गमिव पतसादापतन्त मूर्च्छन्तं दृष्ट्वा प्ररूढैः प्रोद्गतैः पुलकैः रोमभिरञ्चिता व्याप्ता अत एव चारवो मनोहरा देहा गात्राणि येषाम् , प्रफुल्लितरोमाञ्चितविग्रहास्त्रिदशेन्द्रमुख्याः पुरंदर-प्रभृतयो देवाः प्रमोदमानन्दमगमन्प्रापुः ॥ ५१ ॥

  यत्रापतत्स दनुजाधिपतिः परासुः
   संवर्तकालनिपतच्छिखरीन्द्रतुल्यः ।
  तत्रादधात्फणिपतिधरणीं फणाभि-
   स्तद्भूरिभारविधुराभिरधो व्रजन्तीम् ॥ ५२ ॥

 यत्रेति ॥ परासुर्गतप्राणः । मृत इति यावत् । अत एव संवर्तकालः प्रलय- कालस्तत्र निपतता शिखरीन्द्रेण पर्वतराजेन तुल्यः समानः स दनुजानां दैत्या- नामधिपतिस्तारको यत्र भूमिदेशेऽपतन्मूर्छितस्तत्र भूमिदेशे फणिपतिः शेषोऽधो- व्रजन्तीं नीचैर्गन्तुं प्रवर्तमानां धरणीं फणाभिस्तस्य तारकस्य भूरिभारेण विधु- राभिर्भुग्नीभवन्तीभिरदधादधः पतनान्निवर्तयांचक्रे । अनेन तारकविग्रहस्याति. भारवत्त्वं ध्वनितम् ॥ ५२ ॥

  स्वर्गापगासलीलसीकरिणी समन्ता-
   त्सौरभ्यलुब्धमधुपावलिसेव्यमाना ।
  कल्पद्रुमप्रसववृष्टिरभून्नभस्तः
   शंभोः सुतस्य शिरसि त्रिदशारिशत्रोः ॥ ५३ ॥

 स्वर्गापगेति ॥ त्रिदशानां देवानामरेस्तारकस्य शत्रोः शातयितुः । हन्तु- रिति यावत् । शंभोः सुतस्य कुमारस्य शिरसि शीर्षे । 'उत्तमाग्ङ्गं शिरः शीर्षम्' इत्यमरः । नभस्त आकाशसकाशात् । पञ्चम्यास्तसिल् । स्वर्गापगाया गङ्गायाः सलिलस्य सीकराः सृताम्बुकणाः । 'सीकरोऽम्बुकणाः सृताः' इत्यमरः । ते विद्यन्ते यस्याम् । तथा सौरभ्ये सौगन्ध्ये लुब्धया मधुपानां भ्रमराणामावल्या पङ्क्त्या कत्र्या सेव्यमानाश्रीयमाणा कल्पद्रुमस्य कल्पवृक्षस्य प्रसवानां पुष्पाणाम् । 'प्रसवस्तु फले पुष्पे वृक्षाणां गर्भमोचने' इति विश्वः । वृष्ठिरभूत् । तारकवध-

पाठा०-१ संवर्तवात. २ कल्पः.