पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/४१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३७२
[ सर्गः १७
कुमारसंभवे

जनितानन्दार्णवमग्ना व्योमस्थिता विष्ण्वादयो देवाः कुमारमस्तकोपरि कल्पद्रुम- पुष्पाणि विचकरुरित्यर्थः ॥ ५३ ॥

पुलकभरविभिन्नवारबाणा भुजविभवं बहु तारकस्य शत्रोः । सकलसुरगणा महेन्द्रमुख्याः प्रमदमुखच्छविसंपदोऽभ्य्नन्दन् ||५४||

 पुल केति ॥ प्रमदा उत्कृष्टा या मुखच्छविर्वदनकान्तिः सैव संपद्वैभवं येषां तारकवधजनितमानन्दमेव महतीं संपदं मन्यमानाः । अत एव पुलकभरेण रोमाञ्चभारेण विभिन्नानि स्फुटितानि वारबाणानि कवचानि येषाम् । 'कञ्जुको वार बाणोऽस्त्री' इत्यमरः । प्रथमविग्रहप्राणनिर्मितानां कवचानामिदानीमानन्दवशा- त्प्रफुल्लद्विग्रहेषु संकीर्णतया विदलनमुचितमेवेति भावः । एवंभूता महेन्द्रमुख्याः पुरंदरप्रभृतयः सकलसुरगणाः समस्तवृन्दारकसंघा बहु महत्तारकस्य शत्रोः कुमा- रस्य भुजविभवं बाहुपराक्रममभ्यनन्दन् ‘साधुस्ते विक्रमः' इति तुष्टुवुः । पुष्पिताग्र वृत्तम् ॥ ५४॥

  इति विपमशरारेः मनुना जिष्णुनाजा
   त्रिभुवनवरशल्ये प्रोद्धृते दानवेन्द्रे ।
  बलरिपुरथ नाकस्याधिपत्यं प्रपद्य
   व्यजयत सुरचूडारत्नघृष्टाग्रपादः ॥ ५५ ॥

 इतीति ॥ जिष्णुना जयशीलेन विपमशरारः पञ्चशरशत्रोर्हरस्य सूनुना कुमारेण त्रिभुवनस्य भुवनत्रयस्य वरे श्रेष्टे शल्ये शत्रौ । 'शल्यश्च कथितः शत्रौ मदनद्रुमयोरपि' इति विश्वः । दानवेन्द्रे तारक इत्येवंप्रकारेण प्रोद्धृत उत्खनिते, मारिते सतीत्यर्थः । अथ तारकवधानन्तरं बलरिपुः पुरंदरो नाकस्य स्वर्गस्याधि- पत्यं राज्यं प्रपद्य प्राप्य सुराणां चूडारत्नैर्मुकुटमणिभिर्घ्रष्टावग्रपादौ पादाग्रे यस्य । षष्ठीसमासे राजदन्तादित्वादग्रशब्दस्य पूर्वनिपातः । तथाभूतः सन् । व्यजयत, सर्वोत्कर्षेण ववृत इत्यर्थः । स स्वर्गराज्यं प्राप्य निष्कण्टकतयाभुनगिति भावः ।

पाठा०-१ चारुदेहा. २ ससुरवरगणा. ३ द्युति. ४ खलशल्ये, ५ प्रेरिते; पातिते. ६ अपि.