अभ्यापतन्तमिति ॥ सुरसैनिकैर्देवसेनाजनैर्दुर्वारो दुःसह्यो बाहुविभवो भुजवीर्यं यस्य । सुरसैनिकैर्दुर्जेयमित्यर्थः । तमसुराधिपं दैत्यराजमभ्यापतन्तं संमुखमागच्छन्तं दृष्ट्वा विलोक्येशपुत्रो महेशतनयः कुमारः प्रमोदेन तदीयवशंग- तत्वजनितानन्देन विकसद्विदलद्वदनारविन्दं मुग्वकमलं यस्य, किंचिद्विहस्येत्यर्थः । युगान्तदहनस्य प्रलयकालीनानलस्य प्रतिमेव प्रतिमा प्रतियातना यस्याः, प्रज्वल- दृहनकीलाजालपरिवृतामित्यर्थः । शक्तिमायुधविशेषं मुमोच । 'शक्तिः प्रहरणान्तरे' इति विश्वः ॥ ४९॥
उद्दयोतिताम्बरदिगन्तरमंशुजालैः
शक्तिः पपात हृदि तस्य महासुरस्य ।
हर्षाश्रुभिः सह समस्तदिगीश्वराणां
शोकोष्णबाष्पसलिलैः सह दानवानाम् ॥५०॥
उद्दयोतितेति ॥ अत्र सेति शेषः । सा कुमारमुक्ताशक्तिः समस्ता ये दिगीश्वरा इन्द्रादयोऽष्टदिक्पालास्तेषां हर्षाश्रुभिरानन्दबाप्पैः सह । तेषामभिलषितत्वाद्युक्तमेव तदीयहृदयशक्तिपतनजनित आनन्दो यदासीत् । दानवानां तदीयपक्षपातिनां रक्षसां शोकन भर्तृमरणजनितेनोष्णानि यानि बाप्पसलिलानि तैः सह । अंशुजालैः किरणसमूहैः कृत्वोयोतितं प्रकाशितमम्बरस्य दिशां चान्तरं मध्यं यत्र यस्यां क्रियायां यथा भवति तथा । उज्वालितसकलदिगम्बरमध्यं तस्य महासुरस्य तारकस्य हृदि हृदये पपात पतितवती ॥ ५० ॥
शक्त्या हतासुमसुरेश्वरमापतन्तं
कल्पान्तवातहतभिन्नमिवाद्रिशृङ्गम् ।
दृष्ट्वा प्रेरूढपुलकाञ्चितचारुदेहा
देवाः प्रमोदमगमंस्त्रिदशेन्द्रदशेन्द्रमुख्याः ।। ५१ ।।
शक्तयेति ॥ शक्त्या कर्त्र्या हृता अपगमिता असवः प्राणा यस्य, शक्तिप्रहारेण गतप्राणमित्यर्थः । एवंभूतमसुरेश्वरं तारकं कल्पान्तवातेन प्रलयकालीन-
पाठा०-१ समग्र. २ शोकोन्थ. ३ हतासुम् ; अथ तारम्. ४ हति. ५ प्ररू-
ढपुलकाङ्कित; अवरूढपुलकाञ्चित. ६ निदिवेशमुख्याः.