पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/४२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ५-११]
३७७
शिवपार्वत्यो रतिकेलिवर्णनम्

 चुम्बनेष्विति ॥ चुम्बनेष्वधरदानवर्जितमोष्टार्पणरहितमदयोपगृहने निर्दया- लिङ्गने सन्नौ स्तब्धौ हस्तौ करौ यस्मिंस्तत्तथोक्तम् । तथा दुर्लभप्रतिकृतम् । प्रगल्भत्वान्नखदन्तताडनाद्यकृतप्रयत्नमित्यर्थः । अत एव क्लिष्टमन्मथं लज्जयोपरुद्ध- मदनमपि वध्वा नवोढाया रतं वधूरतं प्रभोरीश्वरस्य प्रियम् , अभूदिति शेषः । 'वधूः स्रुषानवोढास्त्रीभार्यासृष्टाङ्गनासु च' इति विश्वः । अयं लज्जासाध्वसाभ्यां संकुचितोपचारत्वात् संक्लिष्टसंभोगः । तदुक्तं भूपालेन-'युवानौ यत्र संक्षिप्त- साध्वसव्रीडनादिभिः । उपचारान्निपेवन्ते स संक्लिष्ट इतीरितः ॥' इति ॥ ८ ॥

 यन्मुखग्रहणमक्षताधरं दत्तमव्रणपदं नखं च यत् ।
 यद्रतं च सदयं प्रियस्य तत्पार्वती विपहते स्म नेतरत् ॥९॥

 यदिति ॥ पार्वती प्रियस्य संबन्ध्यक्षतोऽखण्डितोऽधरो यस्मिंस्तत्तथोक्तं यन्मुखग्रहणं मुखचुम्बनम् । अव्रणपदं लक्ष्मरहितम् । 'पदं व्यवसितत्राणस्थान- लक्ष्माङ्घ्रिवस्तुषु' इत्यमरः । दत्तं यच्च नखं नखकर्म । यत्सदयं रतं तत्सर्वं विष- हते स्म सहते स्म । नेतरद्विपरीतम् , प्रचण्डमिति यावत् । तच्चुम्बने नखं सुरतं वा न सहते स्म; नवोढात्वादिति हृदयम् । तदुनं रतिरहस्ये-'नात्यन्तमानु- लोम्येन न चातिप्रतिलोमतः । सिद्धिं गच्छन्ति वा तस्मान्मध्येन साधयेदिति ।। नवोढाम्' इति ॥ ९॥

 रात्रिवृत्तमनुयोक्तुमुद्यतं सा विभातसमये सखीजनम् ।
 नाकरोदपकुतूहलं ह्रिया शंसितुं च हृदयेन तत्त्वरे ।। १० ॥

 रात्रीति ॥ सा पार्वती विभातसमये प्रभातकाले रात्रिवृत्तम् , सुरतवृत्तान्त- मित्यर्थः । अनुयोक्तुं प्रष्टुम् । 'प्रश्नोऽनुयोगः पृच्छा च' इत्यमरः । उद्यतं प्रवृत्तं सखीजनं ह्रिया लजयापकुतूहलं निराकाङ्क्षं नाकरोत् , किंचिदाचष्ट इत्यर्थः । हृदयेन हृदा च शंसितुं तत्वरे त्वरिताभूत् , औत्सुक्यादिति भावः । त्वरा संभ्र- मादीनामनुभावत्वादिति ॥ १० ॥

 दर्पणे च परिभोगदर्शिनी पृष्ठतः प्रणयिनो निषेदुषः ।
 प्रेक्ष्य बिम्बमनु विम्बमात्मनः कानि कानि न चकार लज्जया ॥११॥

 दर्पण इति ॥ किंचेति चार्थः । दर्पणे मुकुरे परिभोगो नखक्षतादि-