पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/४३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३९२
[ सर्गः ८
कुमारसंभवे

 नूनमुन्नमति यज्वनां पतिः शार्वरस्य तमसो निषिद्धये ।
 पुण्डरीकमुखि ! पूर्वदिङ्मुखं कैतकैरिव रजोभिरावृतम् ॥५८॥

 नूनमिति ॥ यज्वानो विधिनेष्टवन्तः । 'यज्वा तु विधिनेष्टवान्' इत्यमरः । 'सुयजोर्ङ्वनिप्' (पा. ३१२।१०३ ) इति ङ्वनिप्प्रत्ययः । तेषां पतिः प्रियः । दर्श- पूर्णमासादियागप्रवृत्तिहेतुत्यादिति भावः । शार्वरस्य शर्वयाँ भवस्य तमसो निषिद्वये निरासाय नूनमुन्नमत्युद॓ति । कुतः ?। हे पुण्डरीकमुखि ! पूर्वस्या दिशो मुखं पुरोभागः पूर्वदिङ्मुख कंतक्या इमानि कैतकानि, तै रजोभिः परागैरावृतमिव, दृश्यत इति शेषः । अतो नूनमुद॓ति चन्द्र इति संबन्धः ॥ ५८ ॥

 मन्दरान्तरितमूर्तिना निशा लक्ष्यते शशभृता सतारका ।
 त्वं मया प्रियसखीसमागता श्रोष्यतेव वचनानि पृष्टतः ॥५९॥

 मन्दरेति ॥ सतारका निशा मन्दरान्तरितमूर्तिना मन्दराद्रिव्यवहितमण्डलेन शशभृता चन्द्रेण पृष्ठतः पश्चाद्भागे वचनानि श्रोष्यता, श्रोतुं स्थितेनेत्यर्थः । मया प्रियसखीसमागता प्रियसखीभिरावृता त्वमिव लक्ष्यते ॥ ५९ ॥

 रुद्धनिर्गमनमा दिनक्षयात्पूर्वदृष्टतनुचन्द्रिकास्मितम् ।
 एतदुगिरति रात्रिचोदिता दिग्रहस्यमिव चन्द्रमण्डलम् ॥६०॥

 रुद्धेति ॥ दिक् पूर्वदिक । नायिका ध्वन्यते । आ दिनक्षयादा सायं रुदूं निर्गमनं निःमरण यस्य तत्तथोक्तम् ; अन्यत्र बहिरप्रकाशितमित्यर्थः । तनुचन्द्रिकास्मितमिव तनुचन्द्रिकास्मितं पूर्वदृष्टं यस्मात्तत्तथोक्तम् । एतच्चन्द्रमण्डलं नर्म रहस्यं गोप्यार्थमिव रात्रिचोदिता रात्र्या सख्येव प्रेरिता सतीत्यर्थः । उद्गिरति प्रकाशयति । यथा काचिदा सायं मनस्विनी गृहितमभिलाषं प्रदोषे सख्या 'मह्यं वृहि' इति निर्बन्धात्पृष्टा सती प्रकटयति तद्वदित्यर्थः ।। ६० ॥

 पश्य पक्वफलिनीफलत्विषा बिम्बलाञ्छितवियत्सरोम्भसा ।
 विप्रकृष्टविवरं हिमांशुना चक्रवाकमिथुन विडम्ब्यते ॥ ६१॥

 पश्येति ॥ पक्कफलिनीफलत्विषोदयरागाद्विम्बाभ्यां प्रतिबिम्बाभ्यां लाञ्छिते चिह्नित वियत्सरोम्भश्च येन तथोक्तन हिमांशुना विप्रकृष्टं विवरमन्तरालं यस्य

तत्तथोक्तम् , अतिदूरस्थमित्यर्थः । चक्रवाकमिथुनं विडम्ब्यतेऽनुक्रियते पश्य ।