पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/४३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ३०-३५]
३८५
सायङ्कालो जात इति वर्णनम्

इत्येकशेषः । सरस्यल्पमन्तरं व्यवधानमनल्पतामाधिक्यं गतम्, सरसि वियुज्यमानयोर्महत्यवधानमभूदित्यर्थः ॥ ३२ ॥

 स्थानमाह्निकमपास्य दन्तिनः सल्लकीविटपभङ्गवासितम् ।
 आविभातचरणाय गृह्णते वारि वारिरुहबद्धपट्पदम् ॥ ३३ ॥

 स्थानमिति ॥ दन्तिनो गजाः । अह्नि भवमाह्निकम् । 'कालाट्टञ्' (पा. ४।३।११ ) । स्थानमपास्य विहाय सल्लकी गजप्रिया काचिल्लता। 'सल्लकी स्याद्गजप्रिया' इति हलायुधः । तस्या विटपभङ्गैः पल्लवखण्डैर्वासितं सुरभितं वारिरुहेपु बध्दाः संगताः षट्पदा यर्स्मिस्तद्वारि जलमाविभात प्रभातमारभ्य यच्चरणं तम्मै, तत्पर्याप्तमित्यर्थः । गृह्णत उपाददते । गजा हि भुक्तिपर्याप्तजलं सकृदेव सायं पिबन्तीति प्रसिद्धम् ॥ ३३ ॥

 पश्य पश्चिमदिगन्तलम्बिना निर्मितं मितकथे! विवस्वता ।
 दीर्घया प्रतिमया सरोम्भसां तापनीयमित्र सेतुबन्धनम् ॥३४॥

 पश्येति ॥ हे मितकथे हे मितभाषिणि ! एतेन स्वस्य तत्संलापने लौल्यं सूचयति । पश्चिमदिगन्तलम्बिना विवस्वता कर्त्रा दीर्घया दिगन्तलम्बित्वादायतया प्रतिमया निजप्रतिबिम्बेन । 'प्रतिमानं प्रतिबिम्बं प्रतिमा प्रतियातना प्रतिच्छाया । प्रतिकृतिरर्चा पुंसि प्रनिनिधिरुपमोपमानं स्यात् ॥' इत्यमरः । सरोम्भसां तपनीयविकारस्तापनीयं हिरण्मयम् । 'तपनीयं शातकुम्भम्' इत्यमरः । सेतुबन्धनं निर्मितम् । इवेत्युत्प्रेक्षा । अम्तमयसमये सरः पारावारिणामरुणमायतमर्कप्रतिबिम्बं हिरण्मयसेतुरिव दृश्यत इत्यर्थः । पश्येनि वाक्यार्थः कर्म ॥ ३४ ॥

 उत्तरन्ति विनिकीर्य पल्वलं गाढपङ्कमतिवाहितातपाः ।
 दंष्ट्रिणो वनवराहयूथपा दष्टभङ्गुरबिसाङ्कुरा इव ।। ३५ ।।

 उत्तरन्तीति ॥ दंष्ट्रिणो दंष्ट्रावन्तः । व्रीह्यादित्वादिनिः । अत एव दष्टा भङ्गुराः कुटिला बिसाङ्कुरा मृणालाङ्कुरा यैस्ते त इव स्थिता वनवराहाणां यूथपाः । 'यूथनाथस्तु यूथपः' इत्यमरः । गाढपङ्कमतिपङ्किलं पल्वलमल्पसरः । 'वैशन्तः पल्वलं चाल्पसरः' इत्यमरः । विनिकीर्य विक्षिप्यातिवाहितातपा उत्तरन्ति

पल्बलाङ्गिर्गच्छन्ति ॥ ३५॥


२५ कु० सं०