पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/४२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३७८
[ सर्गः ८
कुमारसंभवे

संभोगचिह्न पश्यतीति परिभोगदर्शिनी सा पार्वती पृष्टतः पश्चाद्भागे निषेदुषः स्थितवतः । सदः क्वसुः । प्रणयिनः प्रियस्य हरस्य बिम्बं प्रतिबिम्बम् , दर्पणे संक्रान्तमित्यर्थः । आत्मनः स्वस्य बिम्बमनु, प्रतिबिम्बस्य पृष्ठत इत्यर्थः । 'अनुर्लक्षणे' (पा. १।४।८४ ) इति कर्मप्रवचनीयत्वाद्वितीया । प्रेक्ष्य लज्जया, स्वचापलप्राकट्यकृतयेत्यर्थः । कानि कानि यानि यानि भेदवाच्यानि, अङ्गसंवर- णादिचेष्टितानीत्यर्थः । उक्तं च-'लजानुभावेन साचीकृता वर्णवैवर्ण्याधोमुखा- दिकृत्' इति । न चकार ॥ ११ ॥

 नीलकण्ठपरिभुक्तयौवनां तां विलोक्य जननी समाश्वसीत् ।
 भर्तृवल्लभतया हि मानसीं मातुरस्यति शुचं वधूजनः ।। १२ ।।

 नीलकण्ठेति ॥ नीलकण्ठेन परिभुक्तं यौवनं यस्याः सा ता तथोक्ताम् , प्रियेण भुक्तयौवनामित्यर्थः । तां पार्वतीं विलोक्य जननी मेना समाश्वसीत् , संतुतोषेत्यर्थः । श्वसिधातोर्लङ् । 'अङ्गार्ग्यगालवयोः' (पा. ७।३।९९ ) इति विकल्पादडागमः । तथा हि-वधूजनो भर्तृवल्लभतया पतिवात्सल्येन मातुर्मानसीं मनोभवां शुचं शोकमस्यति निरस्यति हि । विपर्ययाद्विपर्ययश्चेत्यर्थादवसेयम् । सामान्यकविशेषणसमर्थनरूपोऽर्थान्तरन्यासः ॥ १२ ॥

 संप्रति देव्या मुग्धावस्थातो मध्यमावस्थाप्राप्तिमाह‌---

 वासराणि कतिचित्कथंचन स्थाणुना पदमकार्यत प्रिया ।
 ज्ञातमन्मथरसा शनैःशनैः सा मुमोच रतिदुःखशीलताम् ॥ १३ ॥

 वासराणीति ॥ स्थाणुना शंभुना कर्त्रा प्रिया पार्वती कर्मभूना कतिचि- द्वासराणि, कैश्चिदहाभिरित्यर्थः । अत्यन्तसंयोगे द्वितीया । कथंचन कृच्छ्रेण पदं पदप्रक्षेपमकार्यत कारिता, सुरतकर्मणीति शेषः । करोतेर्ण्थन्तात्कर्मणि लुङ् । 'हृक्रोरन्यतरस्याम्' (पा. १/४/५३ ) इत्यणि कर्तुः कर्मत्वे ‘ण्यन्ते कर्तुश्च कर्मणः' इति शब्दानुशासने । सा कृतपदा पार्वती ज्ञातमन्मथरसानुभूतसुरतसुखास्वादा सती । 'आस्वादेऽपि रसमाहुः' इति शब्दानुशासने । शनैः शनैः क्रमेण रतौ रते दुःखशीलतां प्रतिकूलस्वभावतां मुमोच । 'शीलं स्वभावे सद्दत्ते' इत्यमरः ।

मध्यमावस्थां प्राप्तेत्यर्थः ॥ १३ ॥