पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/४४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३९४
[ सर्गः ८
कुमारसंभवे

मण्डलः शुभ्रबिम्बो निष्कण्टको जातः । तथा हि-निर्मलप्रकृतिषु स्वच्छस्वभावेषु शुद्धसचिवसंपन्नेषु च कालदोषेण जाता कालदोषजा विक्रिया विकारः स्थिरोदया स्थायिनी न भवति खलु । चन्द्रोऽपि स्वभावनिर्मल इति यावत् । यथा कश्चिद्राजा कुतश्चिन्निमित्ताद्विरक्तमण्डलः पश्चात्प्रतिकृतशुद्ध्या स्वस्थमण्डलो भवति तद्वदिति भावः । तत्र प्रथमार्थे समासोक्तिरलंकारः, तस्यार्थान्तरन्यासे नाङ्गाङ्गिभावेन संकरः ॥ ६५ ॥

 उन्नतेषु शशिनः प्रभा स्थिता निम्नसंश्रयपरं निशातमः ।
 नूनमात्मसदृशी प्रकल्पिता वेधसैव गुणदोषायोर्गतिः॥६६॥

 उन्नतेष्विति ॥ शशिनः प्रभा चन्द्रिकोन्नतेष्वद्रिशृङ्गादिषु स्थिता । निशातमस्तु निम्नसंश्रयपरं गर्तादिनीचस्थानप्रवणम् । तथा हि-वेधसा गुणदोषयोरात्मसदृशी स्वभावानुरूपा गतिः प्रवृत्तिः प्रकल्पितैव ननु । तेजस्विन उन्नमन्ति, मलिनास्तु नीचन्तीति भावः ॥ ६६ ॥

 चन्द्रपादजनितप्रवृत्तिभिश्चद्रकान्तजलबिन्दुभिर्गिरिः ।
 मेखलातरुषु निद्रितानमून्बोधयत्यसमये शिखण्डिनः ॥ ६७ ॥

 चन्द्रपादेति ॥ गिरिर्हिमाद्रिश्चन्द्रपादैरिन्दुकिरणैर्जनितप्रवृत्तिभिर्जनित- प्रसरैश्चन्द्रकान्तमणीनां जलबिन्दुभिः करणैः मेखलातरुषु निद्रितान्संजातनिद्रान् । तारकादित्वादितच् । अमूञ्शिखण्डिनो मयूरानसमयेऽकाले बोधयति, इन्दुकिरणसंपर्कादुपरिचन्द्रमणिस्पन्देष्वधोवृक्षेशयाः शिखण्डिनो वृष्टिभयाजाग्रतीत्यर्थः । शिखण्डिग्रहणमितरशकुन्तानां कुलायनिलयत्वादिति भावः ॥ ६७ ॥

 कल्पवृक्षशिखरेषु संप्रति प्रस्फुरद्भिरविकल्पसुन्दरि! ।
 हारयष्टिगणनामिवांशुभिः कर्तुमुद्यतकुतूहलः शशी ॥ ६८ ॥

 कल्पवृक्षेति ॥ हे अविकल्पेनाविवादेन सुन्दरि अविकल्पसुन्दरि ! शशी संप्रति कल्पवृक्षाणां शिखरेप्वग्रेपु प्रस्फुरद्भिरंशुभिः, करस्थानीयैरिति भावः । हारयष्टिगणनां कल्पतरुलम्बिहारपरिगणनां कर्तुमुद्यतकुतूहल इवोत्पन्नकौतुका किम् । इत्युत्प्रेक्षा ॥ ६८॥

 उन्नतावनतभागवत्तया चन्द्रिका सतिमिरा गिरेरियम् ।
 भक्तिभिर्बहुविधाभिरर्पिता भाति भूतिरिव मत्तदन्तिनः ॥ ६९ ॥