दूरलग्नपरिमेयरश्मिना वारुणी दिगरुणेन भानुना ।
भाति केसरवतेव मण्डिता बन्धुजीवतिलकेन कन्यका ।। ४०॥
दूरलग्नेति ॥ वारुणी दिक्प्रतीची दूरं लग्ना अत एव परिमेया अल्पावशिष्टा रश्मयो यस्य तेन तथोक्तेनारुणेन लोहितवर्णेन भानुना केसरवता किञ्जल्कवता बन्धुजीवं बन्धुजीवककुसुमम् । 'बन्धूको बन्धुजीवकः' इत्यमरः । तदेव तिलकं तेन मण्डितालंकृता कन्य केव भाति ॥ ४० ॥
सामभिः सहचराः सहस्रशः स्यन्दनाश्वहृदयंगमस्वनैः ।
भानुमग्निपरिकीर्णतेजसं संस्तुवन्ति किरणोष्मपायिनः ॥४१॥
सामभिरिति ॥ किरणोष्मपायिनः किरणोष्माणं पिबन्तीति तथोक्ताः, तथाहारा इत्यर्थः । चरन्तीति चराः । पचाद्यच् । सहभूताश्चराः सहचरा वालखिल्यप्रभृतयो महर्षयोऽग्नौ परिकीणं तेजो यस्य तत्तथोक्तम् । 'आग्निं वावादित्यः सायमनुप्रविशति' इति श्रुतेः । भानुम् । हृदयं गच्छन्तीति हृदयंगमा मनोरमाः। गमेः सुपीति वक्तव्यात्खच् । स्यन्दनाश्वानां हृदयंगमाः स्वना येषां तैः सामभिः सामवेदैः सहस्रशः संस्तुवन्ति । 'सामवेदेनास्तमये महीयते' (सूर्यताप० उ० १|५) इति श्रुतेः ॥ ४१ ॥
सोऽयमानतशिरोधरैर्हयैः कर्णचामरविघट्टितेक्षणैः ।
अस्तमेति युगभुग्नकेसरैः संनिधाय दिवसं महोदधौ ॥ ४२ ॥
स इति ॥ सोऽयं भानुर्दिवसं महोदधौ संनिधाय, निधायेत्यर्थः । दिवसस्यादर्शनादियमुत्प्रेक्षा । आनतशिरोधरैर्गगनावतरणान्नग्रकन्धरैरत एव कर्णचामरविघट्टितेक्षणैर्युगभुग्नकेसरैः कुटिलितस्कन्धरोमभिर्हयैरस्तमेति । 'अस्तस्तु चरमक्ष्माभृत्' इत्यमरः ॥ ४२ ॥
खं प्रसुप्तमित्र संस्थिते रवौ तेजसो महत ईदृशी गतिः ।
तत्प्रकाशयति यावदुत्थितं मीलनाय खलु तावता च्युतम्॥४३॥
खमिति ॥ रवौ संस्थितेऽस्तमिते सति खं व्योम प्रसुप्तमिव निःप्रकाशत्वाब्निद्रितमिव, स्थितमित्यर्थः । युज्यते चैतदित्याह–महतस्तेजस ईदृशी
वक्ष्यमाणप्रकारा गतिः । स्वभाव इत्यर्थः । तां गतिमेवाह-तदिति । तन्महत्तेज