पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/४४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३९६
[ सर्गः ८
कुमारसंभवे

 एष इति ॥ हे चारुमुखि हे उज्ज्वलानने ! 'स्वाङ्गाञ्चोपसर्जनादसंयोगोपधात्' ( पा. ४।११५४ ) इति डीप् । एष शशी तरलबिम्बया स्फुरन्मण्डलया योगतारया । प्रत्यहं यया युज्यते सा योगतारा, नित्यनक्षत्रेणेत्यर्थः । साध्वसान्नवसंगमभयादुपगतप्रकम्पया वेपथुमत्या नवदीक्षया नवोद्वाहितया कन्यया वरो वोढेव युज्यते संगच्छते । युजेर्दैवादिकत्वात्कर्तरि लट् ॥ ७३ ॥

 पाकभिन्नशरकाण्डगौरयोरुल्लसत्प्रतिकृतिप्रदीप्तयोः ।
 रोहतीव तव गण्डलेखयोश्चन्द्रबिम्बनिहिताक्षि! चन्द्रिका ॥७४॥

 पाकेति ॥ हे चन्द्रबिम्बनिहिताक्षि चन्द्रविम्बनिहितेक्षणे ! पाकभिन्नः पाकविकसितो यः शरकाण्डस्तद्वद्वौरयोः सितयोः । 'अवदातः सितो गौरः' इत्यमरः । उल्लसन्त्या प्रतिकृत्या चन्द्रकाप्रतिबिम्बेन प्रदीत्पयोः प्रोज्ज्वलयोस्तव गण्डलेखयोश्चन्द्रिका रोहतीव । गण्डस्थलप्रतिबिम्बसंक्रमणमूर्च्छिता चन्द्रिका तयोरेव प्ररूढेति प्रतीयत इत्यर्थः ॥ ७४ ॥

 अत्रान्तरे कांचिदवलोक्याह-

 लोहितार्कमणिभाजनार्पितं कल्पवृक्षमधु बिभ्रती स्वयम् ।
 स्वामियं स्थितिमतीमुपस्थिता गन्धमादनवनाधिदेवता ॥७५॥

 लोहितेति ॥ लोहितेऽरु रोऽर्कमणिभाजने सूर्यकान्तपात्रेऽर्पितं कल्पवृक्षमधु कल्पतरुप्रसूतं मधं स्वयं बिभ्रती गन्धमादनवनाधिदेवता स्थितिमतीमवस्थानवतीम्, इह स्ववने तिष्ठन्नीमित्यर्थः । त्वामियं प्रत्यक्षोपस्थिता प्राप्ता, स्वगृहागतां त्वां संभावयितुमागतेत्यर्थः ॥ ७५ ॥

 आर्द्रकेसरसुगन्धि ते मुखं रक्तमेव नयनं स्वभावतः ।
 अत्र लब्धवसतिर्गुणान्तरं कं विलासिनि ! मधुः करिष्यति ॥७६॥

 आर्द्रेति ॥ हे पार्वति ! इदं त स्वभावत आर्द्र केसरसुगन्धि सरसकेसरसुगन्धि । 'गन्धस्येत्-' (पा. ५।४।१३५ ) इत्यादिनेकारः । मुखम् । रक्कमेव नयनम् । हे विलासिनि विलसनशीले ! अत्र त्वन्मुखे लब्धवसतिर्लब्धानुप्रवेशोमधुर्मध्यं के गुणान्तरं गुणविशेषं करिष्यति ? न कंचिदित्यर्थः । कसरसौगन्ध्यादिगुणानां त्वन्मुखे स्वभावसिद्धत्वान्मधुनः फलं न पश्यामीत्यर्थः । 'अर्धर्चाः पुंसि च' (पा. २।४।३१ ) इति पुंलिङ्गत्वम् । यदाहुः~~'मकरन्दस्य मद्यस्य माक्षिकस्य च वाचकः । अर्धर्चादिगणे पाठात्पुंनपुंसकयोर्मधुः ॥' इति ॥ ७६ ॥