पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/४३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ५८-६५]
३९३
चन्द्रोदयवर्णनम्

रात्रौ वियति सरोजले चेन्दोर्बिप्रतिबिम्बौ विरहाद्दूरवर्तिनौ चक्रवाकाविव दृश्येत इत्यर्थः ॥ ६१ ॥

 शक्यमोषधिपतेर्नवोदयाः कर्णपूररचनाकृते तव ।
 अप्रगल्भयवसूचिकोमलाश्छेत्तुमग्रनखसंपुटैः कराः ॥ ६२॥

 शक्यमिति ॥ नवोदयाः सद्य उत्पादिता अप्रगल्भयवसूचिकोमला अकठोरयवाङ्कुरसुकुमारा ओषधिपतेरिन्दोः करास्तव कर्णपूररचनाकृते कर्णावतंसनिर्माणक्रियायै । संपदादित्वाद्भावे क्विप् । अग्रनखसंपुटैर्नखाग्रसंभेदैश्छेत्तुं शक्यम् । शक्या इत्यर्थः । 'शकिसहोश्च' (पा. ३।१|९९ ) इति कर्मणि यत्प्रत्ययः । शक्यमिति विपरीतलिङ्गवचनस्यापि सामान्योपक्रमात्कर्माभिधायकत्वम् । पश्चात्कर्म विशेषाकाङ्क्षायां करा इति निर्देशो न विरुध्यते । यथाह वामनः-(काव्यालं. सू. ) 'शक्यमिति रूपं लिङ्गवचनस्यापि सामान्योपक्रमत्वात्' इति । अत्र प्रमाणम् – 'शक्यं श्वमांसेनापि क्षुत्प्रतिहन्तुमिति भाष्यकारप्रयोगः' इति ॥ ६२ ॥

 अङ्गुलीभिरिव केशसंचयं संनिगृह्य तिमिरं मरीचिभिः ।
 कुड्मलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी ।। ६३ ॥

 अङ्गुलीभिरिति ॥ शशी चन्द्रमाः । नायकस्तु प्रतीयते । अङ्गुलीभिः केशसंचयमिव मरीचिभिस्तिमिरं संनिगृह्य गृहीत्वा । सरोजे लोचने इवेत्युपमित- समासोऽङ्गुलीभिरिवेत्युपमायास्तत्साधकत्वात् । कुङ्मलीकृते सरोजलोचने यस्य तत्तथोक्तं रजन्या मुखं प्रारम्भः वदनं चेति गम्यते । चुम्बतीव । अत्रार्थापत्त्याति- शयोक्तिरलंकार उत्प्रेक्षासंकरश्चेति ॥ ६३ ॥

 पश्य पार्वति ! नवेन्दुरश्मिभिः सामिभिन्नतिमिरं नभस्तलम् ।
 लक्ष्यते द्विरदभोगदूपितं संप्रसीददिव मानसं सरः ॥ ६४ ॥

 पश्येति ॥ हे पार्वति ! नवेन्दुरश्मिभिः सामिभिन्नतिमिरमर्धनिरस्तध्वान्तं नभम्तलम् | द्विरदभोगदूषितं गजक्रीडाकलुषितं संप्रसीदत्प्रसादं गच्छन्मानसं मान- साख्यं सर इव लक्ष्यते पश्य ॥ ६४ ॥

 रक्तभावमपहाय चन्द्रमा जात एष परिशुद्धमण्डलः ।
 विक्रिया न खलु कालदोषजा निर्मलप्रकृतिषु स्थिरोदया ॥६५॥

 रक्तभावमिति ॥ एष चन्द्रमा रक्तभावं रक्तत्वमुदयरागमपहाय परिशुद्ध-