पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/४३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३९०
[ सर्गः ८
कुमारसंभवे

कृत्यं मन्त्रपूर्वमनुतस्थिवाननुष्ठितवान् । तिष्ठतेः कसुप्रत्ययः। असूयया संध्या वन्दनजनितासूययावचनामभाषमाणां पार्वतीं पुनः प्रत्युपेत्य सस्मितमाह ॥ ५० ॥

 मुञ्च कोपमनिमित्तकोपने ! संध्यया प्रणमितोऽस्मि नान्यथा ।
 किं न वेत्सि सहधर्मचारिणं चक्रवाकसमवृत्तिमात्मनः।।५१॥

 मुञ्चेति ॥ हे अनिमित्तकोपनेऽकारणकोपिनि ! नन्द्यादित्वात्कर्तरि ल्युः । कोपं मानं मुञ्च । संध्यया प्रणमितोऽस्मि प्रणामं कारितोऽस्मि । अन्यथा प्रकारान्तरं न, धर्माभिसंधायिनं मां कामाभिसंधायिनं मा मन्यस्वेत्यर्थः । आत्मनस्तव सह धर्म चरतीति सहधर्मचारिणं मां चक्रवाकन समवृत्तिं तुल्यव्यवहारं न वेत्सि किम् ? अनन्यसङ्गिनं वेत्स्येवेत्यर्थः ॥ ५ ॥

 प्रणामकारणमाह-

 निर्मितेषु पितृषु स्वयंभुवा या तनुः सुतनु ! पूर्वमुज्झिता ।
 सेयमस्तमुदयं च सेव्यते तेन मानिनि ! ममात्र गौरवम् ॥५२॥

 निर्मितेप्चिति ॥ हे सुतनु सुगात्रि ! पूर्व स्वयं भवतीति स्वयंभूश्चतुराननः । 'भुवः मंज्ञान्तरयोः' (पा. ३।२।१७९ ) इति किप् । मयूरव्यंसकादित्वात्समासः। तेन पितृप्वग्निप्वात्तादिषु निर्मितेषु सत्सु या तनुरुज्झिता सेयं तनुरस्तमस्तमयकाल उदयमुदयकाले । अव्ययमेतत् । सेव्यते पूज्यते च, संध्यारूपेणति शेषः । हे मानिनि ! अविमृश्यकारिणीति भावः । तेन ब्रह्मतनुत्वेन हेतुना ममाग्न संध्यायां गौरवमादरः । तदेतदुक्तं भविष्यपुराणे-'पितामहः पितॄन्सृष्ट्वा मूर्ति तामुत्ससर्ज ह । प्रातः सायं समागत्य संध्यारूपेण पूज्यते ॥ एतां संध्यां यतात्मानो ये तु दीर्घामुपासते । दीर्घायुषो भविष्यन्ति नीरुजः पाण्डुनन्दन ॥ इति ॥ ५२ ॥

 इत्थं देव्याः कोपमपनीय धातुसंध्यादिवर्णनं करोति-

 तामिमां तिमिरवृत्तिपीडितां भूमिलग्नमिव संप्रति स्थिताम् ।
एकतस्तटतमालमालिनीं पश्य धातुरसनिम्नगामिव ॥ ५३॥

 तामिति ॥ संप्रति तिमिरवृत्तिपीडितां तमोवृत्त्युपरुद्वामत एव भूमौ लग्नमिव स्थितां तामिमां संध्यामेकत एकत्र तटतमालमालिनीं तीरतमालतरुपङ्किमतीम् ।

ब्रीह्यादिरवादिनिः । धातुरसनिम्नगां धातुद्रवनदीमिव पश्य ॥ ५३ ॥