पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/४३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३८६
[ सर्गः ८
कुमारसंभवे

 एष वृक्षशिखरे कृतास्पदो जातरूपरसगौरमण्डलः ।
 हीयमानमहरत्ययातपं पीवरोरु ! पिबतीव बर्हिणः ॥ ३६ ॥

 एष इति ॥ हे पीवरोरु ! एष वृक्षशिखरे वृक्षाग्रे कृतास्पदः कृतस्थितिर्जातरूपरसगौरमण्डल आतपरूषणात्काञ्चनद्रवदरुणबर्हमण्डलः । 'चामीकरं जातरूपं महारजतकाञ्चने' इत्यमरः । बर्हमस्यास्तीति बर्हिणो मयूरः । ‘फलबर्हाभ्यामिनच्' (वा० ३२१५) इतीनच्प्रत्ययः । हीयमानं क्षीयमाणमहरत्ययातपं दिनान्तातपं पिवतीव, कथमन्यथा क्षीयमाणत्वमिति भावः ॥ ३६ ॥

 पूर्वभागतिमिरप्रवृत्तिभिर्व्यक्तपङ्कमिव जातमेकतः ।
 खं हृतातपजलं विवस्वता भाति किंचिदिव शेषवत्सरः॥३७॥

 पूर्वभागेति ॥ पूर्वभागे प्राचीमूले तिमिरप्रवृत्तिभिर्ध्वान्तप्रसरैरेकतो व्यक्तपङ्कं स्फुटपङ्कमिव जातं तथा विवस्वता हृतमातप एवं जलं यस्य तत्तथोक्तं खमाकाशं किंचिदीषच्छेषोऽस्याम्तीति शेषवच्छुष्कं सर इव भाति ॥ ३७॥

 आविशद्भिरुटजाङ्गणं मृगैर्मूलसेकसरसैश्च वृक्षकैः ।
 आश्रमाः प्रविशदग्निधेनवो बिभ्रति श्रियमुदीरिताग्नयः॥३८॥

 आविशद्भिरिति ॥ उटजाङ्गणं पर्णशालाङ्गणमाविशद्भिः, प्रविशद्भिरित्यर्थः । 'पर्णशालोटजोऽस्त्रियाम्' इत्यमरः । 'उपान्वध्याङ्गसः' (पा. १|४|४८ ) इति कर्मत्वम् । मृगैः । तथा मूलानां सेकन सेचनेन सरसैः सद्रवैर्वृक्षकैश्चोपलक्षिताः । अल्पार्थे कप्रत्ययः । प्रविशन्त्यो वनादागच्छन्त्योऽग्निधेनवोऽग्निहोत्रार्था धेनव उदीरताग्नयश्वाश्रमाः श्रियं बिभ्रति ॥ ३८ ॥

 बद्धकोशमपि तिष्ठति क्षणं सावशेषविवरं कुशेशयम् ।
 पट्पदाय वसतिं ग्रहीष्यते प्रीतिपूर्वमिव दातुमन्तरम् ॥ ३९ ।।

 बद्धकोशमिति ॥ बद्धकोशमपि, मुकुलितमपीत्यर्थः । कुशेशयं कर्तृ । 'शतपत्रं कुशेशयम्' इत्यमरः । वसतिं ग्रहीष्यते, स्थितिं करिष्यत इत्यर्थः । 'लृटः सद्वा' (पा. ३।३।१४) इति शतृप्रत्ययः । षट्पदाय प्रीतिपूर्वमन्तरमवकाशं दातुमिव क्षणं सावशेषविवरं तिष्ठति ॥ ३९ ॥