पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/४३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३८४
[ सर्गः ८
कुमारसंभवे

तदाश्रयो यस्य स भगवान्नेत्रगम्यं सायंतनम् । अर्थाद्दर्शनयोग्यम् । भास्करं सूर्यम् । 'दिवाविभा-' (पा. ३।२।२१ ) इत्यादिना टप्रत्ययः । अवलोक्य दक्षिणे- तरभुजः सच्यबाहुर्व्यपाश्रयो यस्यास्ताम् , निजवामभुजमवष्टभ्योपविष्टामित्यर्थः सह धर्म चरतीति सहधर्मचारिणीं पत्नीं व्याजहार जगाद ॥ २९ ॥

 पद्मकान्तिमरुणत्रिभागयोः संक्रमय्य तव नेत्रयोरिव ।
 संक्षये जगदिव प्रजेश्वरः संहरत्यहरसावहर्यतिः ॥ ३० ॥

 पद्मकान्तिमिति ॥ असावह्नां पतिरहर्षतिः सूर्यः । 'अहरादीनां पत्या- दिपूपसंख्यानम्' इति रेफादेशः । पद्मकान्तिं पद्मशोभाम् । तृतीयो भागस्त्रिभागः । वृत्तिविषये पूरणार्थत्वं संख्याया इत्युक्तम् । अरुणस्त्रिभागो ययोस्तयोः । अरुणो- पान्तयोरिति भाग्यलक्षगोक्तिः । तव नेत्रयोः संक्रमय्येव । तदानीं पद्मानामवि- कासान्नेत्रयोस्तु विकासाच्चेयमुत्प्रेक्षा । संक्षये प्रलयकाले प्रजेश्वरः प्रजापतिर्जग- दिवाहर्दिवसं संहरति, अस्तं गच्छतीत्यर्थः ॥ ३० ॥

 सीकरव्यतिकरं मरीचिभिर्दूरयत्यवनते ! विवस्वति ।
 इन्द्रचापपरिवेषशून्यतां निर्झरास्तव पितुर्व्रजन्त्यमी ॥३१॥

 सीकरेति ॥ विवस्तेजोऽस्याम्नीति विवस्वांस्तस्मिन्विवस्वति सूर्ये मरीचिभिः । सहार्थविवक्षायां तृतीया । अत एव विनापि सहशब्देन तृतीया। सीकरव्यतिकरं पयःकिरणसंपर्कं दूरयति दूरीकुर्वति सति । हे अवनते पार्वति! अमी तव पितुर्भवन्पितुर्हिमवतो निर्झराः प्रवाहाः । 'प्रवाहो निर्झरो झरः' इत्यमरः । इन्द्रचापं नानावर्णप्रभासमूहस्तस्य परिवेषेण परिवेष्टनेन शून्यतां व्रजन्ति, अर्ककिरणसंपर्क- कृतत्वादैन्द्रचापस्य तन्निवृत्त्या निवृत्तिरित्यर्थः ॥ ३१ ॥

 दष्टतामरसकेसरत्यजोः क्रन्दतोर्विपरिवृत्तकण्ठयोः ।
 निघ्नयोः सरसि चक्रवाकयोरल्पमन्तरमनल्पतां गतम्॥३२॥

 दष्टेति ॥ दष्टमर्धजग्धं तामरसकेसरं पद्मकिञ्जल्कम् , मुखद्वयेनैकमिति भावः । तत्त्यजत इति तथोक्तयोः क्रन्दतोः कूजतोर्विपरिवृत्तकण्ठयोः, परस्परा- लोकनार्थं वक्रीकृतग्रीवयोरित्यर्थः । निघ्नयोर्दैवाधीनयोः । 'अधीनो निघ्न आयत्तः'

इत्यमरः । चक्रवाकी च चक्रवाकश्च तयोः । 'पुमान्स्रिया' (पा. १।२।६७)