पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/४२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० २३-२९]
३८३
सूर्यास्ते गन्धमादनाच्छिवस्य निवर्तनम्

 हेमतामरसताडितप्रिया तत्कराम्बुविनिमीलितेक्षणा ।
 खे व्यगाहत तरङ्गिणीमुमा मीनपङ्क्तिपुनरुक्तमेखला॥२६॥

 हेमेति ॥ उमा गौरी हेमतामरसेन कनककमलेन ताडितः प्रियो यया सा। तेनोत्थितस्य प्रियस्य कराम्बुना कराक्षिप्राम्भसा विनिमीलितेक्षणा मुकुलिताक्षी। मीनपङ्कया पुनरुक्ता द्विगुणिता मेखला यस्याः सा तथाभूता सती खे तरङ्गिणीं व्यगाहत, तत्र तत्र जलक्रीडामकरोदित्यर्थः ॥ २६ ॥

 तां पुलोमतनयालकोचितैः पारिजातकुसुमैः प्रसाधयन् ।
 नन्दने चिरमयुग्मलोचनः सस्पृहं सुरवधूभिरीक्षितः ॥२७॥

 तामिति ॥ अयुग्मानि लोचनानि यस्य सोऽयुग्मलोचनरुयम्बकः । युग्मशब्दो विशेप्यनिघ्नोऽप्यास्ते । 'तस्मिन्युग्मासु संविशेत्', ( याज्ञ. स्मृ. १/७९) 'युग्मान्दैवे यथाशक्ति पित्र्येऽयुग्मांस्तथैव च' ( याज्ञ. स्मृ. १/२२७ ) इत्यादिप्रयोगदर्शनात् । नन्दने नन्दनोद्याने पुलोमतनया शची । 'पुलोम्नस्तु शची सुता' इति हरिवंशे । तस्या अलकानामुचितैः पारिजातकुसुमैस्तां प्रसाधयन्नलंकुर्वश्चिरं सुरवधूभिः सस्पृहमीक्षितः, केन वा पुण्येनायं लभ्यत इति साभिलाषदृष्ट इत्यर्थः । अत्र देवस्यानुकूलनायकत्वं देव्याः स्वाधीनपतिकात्वं चावसेयम् ॥ २७ ॥

 इत्यभौममनुभूय शंकरः पार्थिवं च वनितासखः सुखम् ।
 लोहितायति कदाचिदातपे गन्धमादनगिरिं व्यगाहत ॥२८॥

 इतीति ॥ इतीत्थं शंकरो वनितासखः सन् भूमौ भवं भौमम् , न भौममभौमं दिव्यं पृथिव्यां भवं पार्थिवं च सुखमनुभूय कदाचिदातपे लोहितायति लोहितवर्णे भवति सति, अस्तंगते सवितरीत्यर्थः । 'लोहितादिडाज्भ्यः क्यष्' (पा. ३।१।१३) इति क्यप्प्रत्ययः । गन्धमादनगिरिं व्यगाहत । पर्वतमुद्दिश्य निवृत्त इत्यर्थः । उद्देशक्रियां प्रति गिरेः कर्मत्वम् । यथाह भाष्यकार:-... ॥२८॥

 तत्र काञ्चनशिलातलाश्रयो नेत्रगम्यमवलोक्य भास्करम् ।
 दक्षिणेतरभुजव्यपाश्रयां व्याजहार सहधर्मचारिणीम् ।।२९।।

 तत्रेति ॥ तत्र गन्धमादने काञ्चनस्य विकारः काञ्चनं सौवर्णं तञ्च तच्छिलातलं